________________
आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ ३८७ स्याधिकसमयव्यापित्वादिति भावः । कीदृशानाम्-विश्रामं नीतो रोमन्थोऽलीकचर्वणं यः । भावनास्वाभाव्या द्विस्मृतरोमन्थानामिति वा । विषमितरोमन्थानामिति वा । विषमितोऽन्तरान्तरा विच्छेदित इत्यर्थः ।।७।।
विमला-इस ( सुवेल ) पर्वत पर किन्नरों के मनोहर गीत से सुखी मृग सुख के कारण आधी आँख मूंदे हुये जुगाली करना बन्द कर देते हैं एवं ( सुख के कारण ) उत्फुल्ल हुये उनके रोम अपनी पूर्व अवस्था को चिरकाल में प्राप्त होते हैं ॥८७॥ सदा कुमुद विकासमाह-- तीरपवित्तमुहलकलहंसरोग्रएसुं
कुविअगइन्दबद्धकलह सरोग्रएस। कुमु अवणाण जत्थ णहप्रन्दलग्गआणं
रविअरदसणे विण हों दलग्गग्राणम् ॥८॥ [ तीरप्रवृत्तमुखरकलहंसरोचकेषु
कुपितगजेन्द्रबद्धकलहं सरोवरेषु (सर उदकेषु,उदरेषु, वा)। कुमुदवनानां यत्र नभश्चन्द्रलग्नानां
रविकरदर्शनेऽपि न हतं दलाग्रतानम् ] यत्र गिरी सरः कर्तृ उदकेषु, उदरेषु वा जलपानार्थमागाताभ्यां कुपिताभ्यां गजेन्द्राभ्यां बद्धः कलहो यत्र तज्जातयुद्ध मित्यर्थः । तथाभूतं तिष्ठतीत्यर्थात् । कथंभूतेषु । तीरप्रवृत्तस्तीरसंचारिभिः मुखरकलहंसै रोचकेषु रुचिकारकेषु । तेषां रोचकेष्विति वा । एवं यत्र कुमुदवनानां दलानेषु तानं विकासो रविकराणां दर्शनेऽपि सूर्योदयेऽपि न हतं नापगतमित्यर्थः । अत्र हेतुमाह--किंभूतानाम् । नभसि चन्द्रे लग्नानां मिलितानाम् । तथा च मुद्रणसामग्रीसत्त्वेऽपि नित्यं विकाससामग्रीसत्त्वं सूर्यादप्युपरिवर्तित्वं च कुमुदानां चन्द्रमिलनेनोक्तम् ।।
[ तदुक्तम् ] रविकरस्य दर्शनमात्रम्, अत एव दर्शन मिलनयोमिलनस्य बलवत्त्वात्कार्यो विकासो भवति, न तु दर्शनकार्य मुद्रण मिति भावः । यद्वा सरोवरेषु कुमुदवनानां दलाग्रतानं न हतम् । किंभूतम् । गजेन्द्राभ्यां बद्धः कलहो यस्मै तथाभूतम् । एकमेव कुमुदं ग्रहीतुमुद्यतयोर्युद्ध मित्यर्थ इति मद्वयाख्या। संप्रदायस्तुसरोवरेषु कुपितगजेन्द्रबद्ध कलहमिति वा सुवेलविशेषणं 'यत्र गिरौ' इत्यग्रेतनेन संबन्धि–इति ब्याचष्टे ॥८॥
विमला-इस ( सुवेल ) पर्वत पर तीरसञ्चारो मुखर कलहंसों से रोचक परवरों में कुमुद वनों का विकास आकाश में चन्द्रमा से लगे होने के कारण,
रवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org