________________
आश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ ३३७
रामे उत्तीर्णे सति । समुद्रमित्यर्थात् रामस्य रावणस्य च प्रतापे इत्थंभूते च सति मथितस्य पर्वतक्षेपादिना क्षोभितस्य सागरस्य लक्ष्म्या संपत्त्या समं प्रसन्नोज्ज्वला शोभा कान्तिर्जातेति द्वितीयस्कन्धकेन सह संदानितकम् । वानराणामुत्तीर्ण - त्वादवस्कन्दाभावाद्रत्नादिसौष्ठवमपि जातम् । प्रसन्नतापि जातेत्यर्थः । सहोक्तिरलंकारः । प्रतापे कथंभूते । लोकालोकस्य गिरेरन्तराले मध्ये निस्सामान्येऽसाधारणे । अतुल्ये इति यावत् । एवं सत्यपि प्राकारो लङ्कावरणरूपस्तद्रूपेणान्तरेण व्यवधानेन द्विधाकृते प्रतापयोर्जगति तुल्यरूपत्वेऽपि तदानीं रामस्य प्रतापः प्राकाराद्बहिः सर्वव्यापी बभूव रावणस्य तु प्राकाराभ्यन्तर एव स्थित इत्यर्थः । न केवलमेतादेव, अपि तु वर्धमाननिवर्तमाने रामस्य वर्धमाने, रावणस्य तु निवर्तमाने, इति यथासंख्यमन्वय: । लोक्यतेऽनेनेति लोकस्तेजः, अलोकस्तिमिरं तयोरन्तरालं मध्यं तन्निविशेषे । तेजोन्तरालतुल्यो रामस्य प्रतापः, प्रकाशकत्वात्, तिमिरान्तरालतुल्यस्तु रावणस्य म्लानत्वादित्यर्थः । आत्यन्तिकताद्रूप्यलाभार्थमन्तरालपर्यन्तधावनम् । अत एवोत्तरविशेषणद्वयमपि सम्यक् । तेजसि वर्धमाने तिमिरं क्षीयते इति प्राकारा बहिर्विषये भूयसि विद्यमानो रामप्रतापो यथा यथा वर्धते तथा तथाल्पीयसि प्राकाराभ्यन्तरे वर्तमानो रावणप्रतापः क्षीयते इति वयम् ।
रामेकस्मिन्निव मृगलाञ्छने चन्द्र इव आह्लादकत्वात् । एवं त्रिदशानां जनितोऽनुरागः प्रेम येन तथाभूत इति राममृगाङ्कयोर्विशेषणम् । अथ च मन्दरेण मथितस्य सागरस्य चन्द्रे उत्तीर्ण उत्क्षिप्ते सति लक्ष्म्या विष्णुपत्न्या समं शोभयतीति शोभारूपा प्रसन्ना मदिरा । अथवा शोभानाम्नी काचिदप्सरःश्रेष्ठा । वारुणीव जातेति ध्वनिः ॥। १०६-१०७।।
सेतु निष्पत्तिदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य पूर्णां भूदष्टमी शिखा ||
विमला - राम का प्रताप ( प्रकाशक होने से ) तेजतुल्य तथा रावण का प्रताप ( म्लान होने से ) तिमिरतुल्य हो रहा था । राम का प्रताप (लकारूप ) प्राकार के बाहर विद्यमान ज्यों-ज्यों बढ़ रहा था, त्यों-त्यों प्राकार के भीतर विद्यमान रावण का प्रताप विनष्ट हो रहा था । समान देवों के प्रेमोत्पादक श्रीराम के उत्तीर्ण ( १ - पारंगत, ( १ - पर्वतों से, २- मन्दराचल से ) मथित सागर की लक्ष्मी ( १ - सम्पत्ति, २ - विष्णु - पत्नी ) के साथ प्रसन्ना ( १ - उज्ज्वल, २ - मदिरा ) शोभा ( १ - कान्ति, २ - शोभारूप ) हुई ।।१०६-१०७॥ ॥
इस प्रकार श्रीप्रवरसेनविरचित कालिदासकृत दशमुखबध महाकाव्य में अष्टम आश्वास की 'विमला' हिन्दी व्याख्या समाप्त हुई ।
२२ से० ब०
Jain Education International
-*****
For Private & Personal Use Only
उस समय चन्द्रमा के २ - उक्षिप्त ) होने पर
www.jainelibrary.org