________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[२५३
अथोच्छलितजलान्धकारमाह
अट्टि अपडन्तम हिहरदूरठियजल रअन्धारथमिए । साहइ णवर पडन्ते पक्खुहिअसमुद्दपडिरओ धरणिहरे ।।१६॥ [ अस्थितपतन्महीधरदूरोत्थितजलरयान्धकारास्तमितान् ।
शास्ति केवलं पततः प्रक्षुभितसमुद्रप्रतिरवो धरणिधरान ।।] प्रक्षुभितस्य समुद्रस्य प्रतिरवः केवलं धरणिधरान्पततः शास्ति कथयति । किंभूतान् । अस्थितमव्यवस्थितं पतन्तो ये महीधरास्तैर्हेतुभूतैर्दूरं व्याप्योथितानां जलानां रयेण वेगेन सूर्यस्य च्छन्नतया योऽन्धकारस्तेनास्तमितान् तिरोहितान् । पर्वतानामव्यवस्थितपतने जलोपरि जलोत्थितावन्धकारापर्यवसानेन चाक्षुषज्ञानाभावे समुद्रक्षोभशब्दप्रतिरबैः पर्बता: पतन्तीति परमनुमीयत इति पर्वतपतन'शब्दापेक्षया समुद्रक्षोभशब्दो महानिति समुद्रस्य महाशयत्वमुक्तम् । पर्वतपतनेन समुद्रक्षोभस्तेन तटाभिघातादिस्तेन शब्दस्तेन प्रतिशब्दस्तेन शैलानां पतनमहत्त्वयोरनुमितिस्तया च कपीनां बलवत्त्वानुमितिरिति हेतुपरम्परालंकारो वस्तुना व्यज्यते ॥१६॥
विमला-अव्यवस्थित ढंग से गिरते हुये पर्वतों से, ऊपर दूर तक उठे जल के वेग द्वारा ( सूर्य के ढक जाने से ) उत्पन्न अन्धकार में पर्बत तिरोहित थे । उनके गिरने का अनुमान केवल अत्यन्त क्षुब्ध समुद्र की प्रतिध्वनि से ही हो पाता था ॥१६॥ कपीनामवधानमाहदरधो केसरसडा पाआलुम्हगिरिधाउकद्दमि अमुहा । पडिसक्कन्ति पवंगा पल्हत्थिनमाहिहरूससन्तवखन्धा ।।२०।। [ दरधौतकेसरसटाः पातालोष्मगिरिधातुकर्दमितमुखाः ।
परिवर्तन्ते प्लवंगाः पर्यस्तमहीधरोच्छ्वसत्स्कन्धाः ।। ] प्लवगा: परिवर्तन्ते । समुद्रे पर्वतान्निक्षिप्य तदुच्छलितजलपातशङ्कया पश्चादा. यान्तीत्यर्थः। कीदशा: । दरधौता उच्छलितजलस्पृष्टाः केसरसटा येषां ते । एवं पातालोष्मणा गिरिधातुभिः कर्दमितानि मुखानि येषाम् । समुद्रजलद्विधाभावेनोत्थितपातालोष्मसंबन्धात्स्वेदोद्गमेन पूर्बलग्न गिरिधातूनां कर्दमीभावादिति भावः । तथा च पश्चादपसरणेऽप्युच्छलितजलसंपर्कणोष्मसंबन्धेन च पर्वताभिघातप्रकर्ष उक्तः । कर्दमोद्गमेन च स्वेदप्रकर्षस्तेनोठमोद्गमप्रकर्षस्तेन जलभेदप्रकर्षस्तेनाभिघातोत्कर्षस्तेन पतनवेगोत्कर्षस्तेन पर्बतोत्कर्षस्तेन कपीनां बलोत्कर्षोऽनुमीयत इत्यनुमानपरम्परा। पुनः कीदृशाः । पर्यस्तैरवतारितर्महीधरै हेतु भिरुच्छ्वसन्तः स्कन्धा येषां ते ॥२०॥
विमला-वानर ( समुद्र में पर्वतों को फेंककर ) तुरन्त पीछे चले आते थे ( जिससे समुद्र के उछले जल से भीग न सके) तथापि उनके गर्दन के बाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org