________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[३२१
विघटितं मूलं येषां तथाविधा महीधरा यत्र तम् । निक्षिप्तपर्वताभिहतजलाघातखण्डितत्वेन' मूल विघटन मित्यर्थः । सलिलपरिक्षताः सन्तो विशीर्णा मूलमहीधरा यत्रेति वा । अत एव स्तोकस्तोकमपसृतं क्वचित्क्वचिद्विपर्यस्तम् । यथा च यत्र तत्र विघटते सेतुः, तत्र तत्र पर्वतान्तरं प्रक्षिप्य सुघट यन्तीति सेतोनिर्भरत्वं कपीनामुद्योगशीलत्वं च दर्शितम् ।।७३।।
विमला-डाले गये पर्वतों से क्षुब्ध जल के अभिधात से ( पूर्वस्थापित) पर्वतों का मूलभाग विघटित हो जाता था, अतएव सेतु कहीं-कहीं विपर्यस्त हो जाता, वहाँ-वहाँ वानर अन्य पर्वतों को रखकर सेतु को पुनः सुघटित कर देते थे ॥७३॥ अथ सेतोः समाप्तकल्पतामाहजह जह अच्चासण्णो उअहिं जेऊण होइ सेउवहवरो। उच्छलह धराहिह दूरथोअत्तणेण तह तह सलिलम् ॥७४।। [ यथा यथात्यासन्न उदधि जित्वा भवति सेतुपथवरः ।
उच्छलति धराभिहतं दूरस्तोकत्वेन तथा तथा सलिलम् ॥] उदधि जित्वातिक्रम्य सेतुपथश्रेष्ठो यथा यथा अत्यासन्नोऽपरतटसंनिहितो भवति, तथा तथा पूरयितव्यभागवतिसलिलं धरैः प्रक्षिप्यमाणैरभिहतं सत्स्तोकत्वेन दूरमुच्छलति । अत्यर्थेन तिर्यगूर्ध्वमुत्तिष्ठतीत्यर्थः । यथा यथाल्पत्वं भवति तथानिदूरमुत्थान मित्याशयः ॥७४॥
विमला-ज्यों-ज्यों समुद्र का अतिक्रमण कर सेतु समुद्र के अपर तट के समीप पहँच रहा था त्यों-त्यों समुद्र का सलिल अत्यन्त अल्प होने के कारण पर्वतों के अभिघात से दूर तक उछलता था ॥७४॥ अथ सेतो समुद्र जलेन नदीप्रवृत्तिमाह
महिहरपहरुच्छित्ता उम्ररि सेउस्स जे पडन्ति खलन्ता । ते चिअ सलिलप्पीडा होन्ति वलन्तविसमा महाणइसोत्ता ॥७॥ [ महीधरप्रहारोक्षिप्ता उपरि सेतोर्ये पतन्ति स्खलन्तः।
त एव सलिलोत्पीडा भवन्ति वलद्विषमा महानदीस्रोतांसि ।।].. महीधरप्रहारेणोत्क्षिप्ता ऊवं गमिता य एव सलिलोत्पीडाः सेतोरुपरि पतन्ति त एव स्खलन्तो वृक्षादिना प्रतिहन्यमानाः सन्तो वलन्तो वक्रगतयो विषमा नतोबता अत एव महानदीनां स्रोतांसि भवन्ति । तेषामपि तदाकारत्वात् । एतेन सेतोर्जलस्य च महत्त्वमुक्तम् ॥७॥
२१ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org