________________
३३४ ]
सेतुबन्धम्
[अष्टम
एवं सति विशीर्यमाणा कपिचरणसंक्रमेण क्वचित्रुटयन्तो महीधरा यत्र तादक सेतुपथो नमति, उपरिभारबाहुल्यात् । अथावगाहितमाक्रान्तं पातालं येन, आमूलत्वात्कपियन्त्रणाद्वा तथाविधम् । अर्थात् सेतुपथं समुद्रो धारयति रक्षति । सर्वस्थाम्ना सर्वबलेन गुरुकमतिशयितमिति क्रियाया विशेषणम् । गौरवयुक्तमिति सेतुपथस्य वा ।।६६-१००।।
विमला-उत्तर तट से लेकर दक्षिण तट तक नल द्वारा रचित सेतु पर वानरों की सेना चल रही थी जो (सेतु) शङ्खकुल के समान धवल कमलों, चमकीले मरकत के समान वृक्षसम्बन्धी हरित पत्रों तथा विद्रुम के समान किसलयों से समुद्र के साथ एकात्म भाव को प्राप्त हो रहा था ॥९६-१००। सेतुसमुद्रयोरवस्थामाह
संचालेइ णिअम्बं धारेइ उअरि तरङ्गकरपब्भारम् । खम्मम्मि वणगो विअ आबद्धो सेतुसंकमम्मि समुद्दो ।।१०१॥ [ संचालयति नितम्बं धारयत्युपरि तरङ्गकरप्राग्भारम् ।
स्तम्भे वनगज इवाबद्धः सेतुसंक्रमे समुद्रः ॥]
सेतुसंक्रमे आबद्धः संबद्धः समुद्रो नितम्बं सेतोरेव मूलभाग संचालयति । कल्लोलाद्यभिघातेनान्दोलयतीत्यर्थः । एवम् उपरि सेतोरेव तरङ्गरूपस्य करस्य शुण्डायाः प्राग्भारमेकदेशं धारयति । तत्रापि कल्लोलसंचारात् । क इव । वनगज इव । यथा स्तम्भे आबद्धो वनगजो नितम्बं स्तम्भस्यैव चालयति उत्पाटनायेत्यर्थात् । एवं तदुपरि भञ्जनाय करं धारयति । यद्वा-समुद्रः स्वस्यैव नितम्ब मूलं चालयति तरङ्गं करमुपरि धारयति सेतुना जलावरोधेन मूलक्षोभात्तरङ्गोत्थानाच्च । बद्धो वनगजोऽपि निर्गन्तुमस्थिरतया नितम्बं चालयति शुण्डामुत्थापयतीति गजसमुद्रयोः करतरङ्गयोः स्तम्भसंक्रामयोस्तौल्यमिति सेतोरतिदाढय मुक्तम् ।। १०१ ॥
विमला-यथा स्तम्भ में आबद्ध गज (छुटकारा पाने के लिये) अपने नितम्ब भाग को संचालित करता है तथा सूड के अग्रभाग को ऊपर उठाता है तथैव सेतुसम्बद्ध समुद्र [ नितम्ब ] मूलभाग को संचालित करते हुये तरङ्गरूप कर ( सूड ) को ऊपर कर रहा था ॥१०१॥ अथ पारगमनमाहउत्तिष्णा अ पवङ्गा सेलभरुग्वहणजणि असे अतुसारा । धाउमइले करअले पासट ठिअमहिहरोज्झरेसु धुवन्ता ॥१०२॥ [ उत्तीर्णाश्च प्लवङ्गाः शैलभरोद्वहनजनितस्वेदतुषाराः ।
धातुमलिनानि करतलानि पार्श्वस्थितमहीधरझरेषु धावयन्तः ॥] प्लवङ्गा उत्तीर्णाश्च सागरमित्यर्थात् । किंभूताः । शैलानां भरः समूहस्तदुद्वहनेन जनिताः स्वेदानां तुषाराः शीकरा येषां ते। एतेन यावत्स्वेदो न शान्तस्तावदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org