________________
३२.] सेतुबन्धम्
[अष्टम [विस्तीर्यते सेतुबन्धो विधूयते धराधराहतः सलिलनिधिः ।
दृष्टसुवेलोत्सङ्गं रसति दिक्कीर्णप्रतिरबं कपिसैन्यम् ।।] सेतुबन्धः स्वयमेव विस्तीर्यते विस्तारं गच्छति । धराधर राहतस्ताडितः सलिलनिधिः स्वयमेव विधूयते । द्वयमपि क्रियाशघ्रयसूचनाय कर्मकर्तरी। एवं कपिसैन्यं दिक्षु कीर्णो व्याप्तः प्रतिरवो यस्य यथा तथा स्यादेवं रसति शब्दायते । अत्र हेतुमाह-कीदृक् । दृष्ट: सुवेलस्य दक्षिणतीरस्थपर्वतस्योत्सङ्गः क्रोडो येन, संनिहितत्वात् । तथा च सेतोः सिद्धकल्पत्वात्सानन्दमिति भावः ॥७१।।
विमला-सेतुबन्ध स्वयं विस्तृत होता जा रहा था तथा पर्वतों से आहत समुद्र स्वयं क्षुब्ध हो रहा था। ( समुद्र के दक्षिण तट पर स्थित ) सुवेल पर्वत का उत्सङ्ग ( क्रोड ) देखकर ( सेतु को सिद्ध प्राय समझ कर ) वानर दिशाओं में प्रतिध्वनि का प्रसार करते हुये (हर्ष से) शब्द कर रहे थे ॥७१॥ अथाष्टभिः स्कन्धकः समुद्रावस्थामाहदीसन्ति भिण्णसलिले समुदमज्झम्मि सेउबन्धक्कन्ता। संभमकड्ढणलुग्गा भअचुण्णपलाप्रसेलपक्खद्धन्ता ॥७२॥ [ दृश्यन्ते भिन्नसलिले समुद्रमध्ये सेतुबन्धताक्रान्ताः ।
संभ्रमकर्षणावरुग्णा भयचूर्णपलायितशैलपक्षार्धान्ताः ।।] भिन्नसलिले कपिनिक्षिप्तशैल द्विधाभूतजले समुद्रस्य मध्ये भयचूर्णस्य भयोद्विग्नस्य, अत एव पलायि तस्य पलायितुमारब्धस्य शैलस्य । आदिकर्मणि क्तः । पक्षकदेशा दृश्यन्ते । कीदृशाः । सेतुबन्धेनाकान्ताः । अतः संभ्रमेण चूर्णीभावत्रासेन यदाकर्षणं तेनावरुग्णाः खण्डिताः। तथा च सेतुयन्त्रणपरिहारायाकृष्यमाण: पक्षः खण्डित इति सेतोढत्वं व्यनक्ति। भअपुण्ण' इति पाठे भयपूर्णेत्यर्थः ॥७२॥
विमला-सेतुबन्ध से आक्रान्त, अतएव ( चूर-चूर होने के ) भय से उद्विग्न' समुद्रीय पर्वतों ने भागना आरम्भ किया, किन्तु ज्यों ही उड़ने के लिये अपने पंखों को आकृष्ट किया त्यों ही वे खण्डित हो गये और उनके अर्धभाग ( पर्वतनिक्षेप से) दो भागों में विभक्त समुद्र-जल के बीच दिखायी दिये ॥७२॥ अथ सेतौ विघटितस्थानसंघटनमाह
महिहरपहरक्खोहिमसलिलपरिक्ख अविराअमूलमहिहरम् । थोअत्थोओसरिअं बन्धेन्ति पवंगमा पुणो वि णलवहम् ॥७३॥ [ महीधरप्रहारक्षोभितसलिलपरिक्षतविशीर्णमूलमहीधरम् ।
स्तोकस्तोकमपसृतं बध्नन्ति प्लवंगमाः पुनरपि नलपथम् ।।] प्लवंगमाः पुनरपि नलपथं बध्नन्ति । कीदृशम् । क्षेपणहेतुकेन महीधराणां प्रहारेण क्षोभितमान्दोलितं यत्सलितं तेन परिक्षतं खण्डितम्, अत एव विशीणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org