________________
३३० ]
सेतुबन्धम्
[ अष्टम
कतौल्यमिति वाच्यम् । व्यवच्छिन्नस्य तस्यापि श्वैत्यादित्याशयः । तदुक्तम्'वियति विक्षिप्तानां कालिन्दीजलानाम् -' इत्यादि । पुनः किंभूताः । महीधराणामन्तरे मध्ये पतिताः । तथा च श्यामानां महीधराणामन्तः स्थितकतिपयस्फटिकभूभागस्य स्फुटितभ्रमजनकत्वमिति तात्पर्यम् । वस्तुतस्तु पूर्वनिपातानियमात्; अन्तरपतिता महीधरा यतोऽत एव श्यामतया स्तिमितोदधिसच्छायाः सामान्यत एव सेतुबन्धप्रदेशाः कुत्राप्येकदेशे स्फटिक शिलातलघटिताः सन्तो मध्यस्फुटिता इव दृश्यन्ते इत्यन्वयः । स्वभावतः श्यामले सेतो स्फटिकभुवि जलनिर्गमभ्रमात्स्फुटितत्वमुत्प्रेक्षितमिति मदुन्नीतः पन्थाः ॥ ६१॥
विमला - सेतुबन्ध के प्रदेश, अन्तरपतित महीधरों से ( श्यामता के कारण ), निश्चल समुद्र की ( श्यामल ) शोभा को धारण कर रहे थे । जहाँ कहीं स्फटिकशिलाओं से निर्माण किया गया था वहाँ ( श्यामल सेतु के ) स्फटिक निर्मित प्रदेश में ( जलप्रवाह का भ्रम होने से ) मध्य में सेतु टूटा-सा दिखायी देता था ॥१॥
सेतुगिरीणां चिह्नमाह
हिमपडनौत्थइआइ घडिआई वि णलवहम्मि णज्जन्ति फुडम् । सिहराइँ सिहरिवइणो मलग्रस्त प्र मलिअचन्दणसुअन्धाई ॥ ६२ ॥ [ हिमपतनाव स्थगितानि घटितान्यपि नलपथे ज्ञायन्ते स्फुटम् I
शिखराणि शिखरिपतेर्मलयस्य च मृदितचन्दनसुगन्धानि ॥ ] शिखरिपतेहिमालयस्य च शिखराणि नलपथे घटितान्यपि सन्ति स्फुटं ज्ञायन्ते । अत्र हेतुमाह- कीदृशानि । हिमपतनेनावस्थगितानि छन्नानि । एवं मृदितेन चन्दनेन सुगन्धानि । तथा च पूर्वेण हिमालयीयत्वस्य, अपरेण मलयीयत्वस्य चानुमितिरिति नानापर्यंत संकीर्णत्वमुक्तम् || २ ||
विमला - सेतुपथ में घटित किये जाने पर भी हिमालय के शिखर हिमाच्छादित होने से तथा मलय पर्वत के शिखर मृदित चन्दन से सुगन्धित होने से स्पष्ट ज्ञात होते थे ॥ ६२॥
सेतोरुपरि लहरी संभारमाह
जामा फुडवित्थारा गओणिअत्तन्तजल रअ विहुव्वन्ता । पक्कग्गाहसमग्गा से उम्मि वि सामरस्स वेलामग्गा ।। ६३ । [ जाताः स्फुटविस्तारा गतापनिवर्तमानजलरयत्रिधूयमानाः । सेतावपि सागरस्य वेलामार्गाः ॥ ]
प्रग्राहसमग्राः
सागरस्य वेला कल्लोलरूपं जलं तन्मार्गाः सेतावपि स्फुटो विस्तारो येषां तथा जाताः । सेतुप्लावका इत्यर्थः । कीदृशाः । गतस्यापनिवर्तमानस्य परावर्तमानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org