________________
आश्वासः ]
रामसेतुप्रदीप-विमलासमन्वितम्
[ २६६
पितुर्वरलाभादिति भावः । यद्वा सेतुबन्ध स्य मुखं द्रष्टुं प्रवृत्तं कपिसैन्य मित्यर्थात् । तथा च नलस्य कीदृक्कौशलं पर्वतः स्थितो न वेति च निरूपणाय सोत्कण्ठीभूय सर्व एव सेतुमुखं दृष्टवन्त इत्यर्थः ॥३०॥
विमला-नल ने पहले ही, वेला तट पर संस्थित एक पर्वत को समुद्र में ऐसा डाला कि सभी वानर सेतुबन्ध का मुख ( उपक्रम ) देखने लग गये, क्योंकि लङ्का का अनर्थ सेतुबन्ध पर ही निर्भर था ।।३।। अथ पुनः समुद्रक्षोभमाह
भमित्रो अ तह धराहरपहरुच्छित्तसलिलो णहम्मि समुद्दो। महिहर र अमइलाइं जह धोआइ समअं दिसाण मुहाई ॥३१॥ [भ्रमितश्च तथा धराधरप्रहारोत्क्षिप्तसलिलो नभसि समुद्रः ।
महीधररजोमलिनानि यथा धौतानि समं दिशां मुखानि ॥] च पुनर्नलकृतेन धराधरस्य प्रहारेणोत्क्षिप्तमुच्छलितं सलिलं यस्य तथाभूतः समुद्रो नभसि तथा भ्रमित आवर्तरूपतया दिशि दिशि प्रसृतो यथा महीधराणामानीतानामेव रजोभिर्मलिनानि धूसरीकृतानि दिशां मुखानि सम मेकदैव धौतानि । जलसंपर्केण धूलीनां शान्त्या प्रक्षालितानीत्यर्थः । तथा चैकदैव जलस्थ चतुर्दिग्गामितया प्रहारस्योत्कर्षः समुद्रस्य क्रियानुकूलत्वेन दिङ्मुखप्रसादेन च मङ्गलमपि ध्वनितम् ।।३१॥
विमला-नलकृत पर्वतप्रहार से उछले हुये जल वाला वह समुद्र आकाश में आवर्तरूपेण दसो दिशाओं में ऐसा फैल गया कि लाये गये पर्वतों की धूल से दिशाओं के मलिनमुख एकबारगी धुल कर स्वच्छ हो गये ॥३१॥ अथ नलस्य घटनकौशलमाहजलतणाअघडन्ता अविभाविज्जन्तघडणमग्गोआसा । ण मुन्ति एक्कमेक्कं खुहिअसमुद्दविसमाहआ वि महिहरा ॥३२॥ [ जलार्द्रघटमाना अविभाव्यमानघटनमार्गावकाशाः।
न मुह्यन्त एकैकं क्षुभितसमुद्रविषमाहता अपि महीधराः ॥] क्षुभितेन समुद्रेण विषममाहतास्ताडिता अपि महीधराः सेतो नलेन योजिता इत्यर्थात् । एकैकं परस्परं न मुञ्चन्ति । क्षिप्तपर्वतान्तरोत्थापिततरङ्गाहत्यापि विशकलिता न भवन्तीत्यर्थः । किंभूताः । जलेनााः सन्तो घटमानाः परस्पर मिलिताः । अन्यदपि जलादि संपर्केण मिलतीति ध्वनिः । अत (व विभाव्यमाना विविच्य गृह्यमाणा घटनमार्गस्य घटनस्थानस्यावकाशा अन्तरालप्रदेशा येषां ते समीभूताः । एतेन घटनादाढ यमुक्तम् ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org