________________
आश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ तन्मम मार्गलग्ना विरचयत यथानियोगमुक्तमहीधराः
अनुपायदृष्टदोषमचिराद्भवत्सुखबन्धनं
सेतुपथम् ॥ ]
तदिति वाक्योपसंहारे हेतौ वा । हे कपयः ! मम मार्गलग्नाः पश्चालग्नाः सन्तः सेतुपथं विरचयत । किंभूताः । यथानियोगं मुक्ताः क्षिप्ता महीधरा यैस्ते । तथा च यथा मयोच्यते तथा समुद्र पर्वताः क्षिप्यन्तामित्यर्थः । अत एव कीदृशम् । अचिराद्भवच्च तत्सुखबन्धनं चेति कर्मधारयः । तथा च मन्नियोगानुसारेण पर्वतक्षेपे सेतुपथः सुखबन्धन एव स्यादित्यर्थः । भवत्सुखं बन्धनं यस्येति वा । एवमनुपायेन दृष्टो दुःसाध्यत्वादिरूपो दोषो यत्र तम् । उपायापरिज्ञानं मयैव त्याजनीयमिति
[ २६७
भावः ।। २६ ।
विमला - वानरों ! मेरे पीछे लगे हुये तुम लोग सेतुपथ की रचना करो । जैसा मैं कहूँ, उसी के अनुसार समुद्र में पर्वत डालते जाओ । मेरे आदेशानुसार पर्वतों को डालने से सेतुपथ सुखपूर्वक निर्मित हो जायगा । सेतुपथ कुछ भी दुःसाध्य नहीं है, केवल उपाय न जानने से इसे दुःसाध्य समझ लिया गया है || ३६ || अथ कषीनामुत्साहमाह -
इन गलवग्रणहरिसिअं गलिप्रपरिस्समणिराअ मुक्ककल अलम् । चलिअं तुलिश्रधराहरक अणिन्भरदस दिसं पवंगमसेण्णम् ॥२७॥ [ इति नलवचनहर्षितं गलितपरिश्रमनिरायतमुक्तकलकलम् । तुलितधराधरकृतनिर्भरदशदिक्प्लवंगमसैन्यम् ॥ ]
चलितं
इत्यनेन प्रकारेण नलस्य वचनेन हर्षितं संजातहर्षं कपिसैन्यं चलितम् । पर्वतानयनायेत्यर्थात् । किंभूतम् । गलित परिश्रमं सत् निरायतो दीर्घो मुक्तः कलकलो येन । उपायाभावेन परिश्रमज्ञानमासीत्तदानीं तदपि न स्थितमित्यर्थः । एवं तुलितैरुत्तोलितैर्धराधरैः कृता निर्भराः पूर्णा दश दिशो येन । पूर्वानीत पर्वतान्करस्थानेव दिशि दिति त्यक्त्वा चलितमित्यर्थः । यद्वा तुलिता आकारेण सदृशीकृता धराधरा येन तच्च तत्कृता निर्भराः पूर्णा दश दिशो येनेति कर्मधारयः । तथा च पर्वताहरणानुरूपाकारतया दिग्व्यापकमासीदित्यर्थः ॥२॥
विमला - नल के वचन से सारी कपिसेना हर्षित हो गयी । उसकी सारी श्रान्ति दूर हो गयी । कलकल ध्वनि करती वह अपने भूधराकार शरीर से दसो दिशाओं को व्याप्त करती हुई पर्वतों को लाने के लिये चल पड़ी || २७॥
अथ सेतोरारम्भे नलस्य मङ्गलमाह---
अह णेण सुहफरिसे पिउणो सललम्मि मज्जिऊण सणिअमम् । रामचरणाण पढमं पच्छा काऊण रविसुअस्स पणामम् ||२८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org