________________
आश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ ततो ग्रहीतुं प्रवृत्ताः स्तोकस्तोकं परिश्रमेण प्लवंगाः । अनुराग इव विशिर्णे लङ्कानर्थघटनक्षमे सेतुपथे ॥ ] इति प्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये सप्तम आश्वासः ।।
ततः पर्वतक्षयान्तरं प्लवंगाः स्तोकस्तोकमल्पमल्पं परिश्रमेण ग्रहीतुमाक्रमितुं प्रवृत्ताः प्रारब्धा: । कस्मिन्सति । लङ्काया अनर्थस्य दुरन्तस्य घटनक्षमे सेतुपथे अनुराग इव विशीर्णे नष्टे सति । तदानीं वानराणां यथा यथा सेतुविशीर्णस्तथा तथा मनःप्रसादो विशीर्ण इति सहोपमा । लङ्कानथंघटनक्षम इत्यनुरागेऽपि योज्यम् । मनः प्रसादस्यापि तद्धटकत्वात् । तथा च प्रथमं सेतुनिश्चयात्परि-श्रमाभावः पश्चाद्यथा यथा सेतुव्यतिरेकसंशयोदयस्तथा तथा परिश्रमोत्पत्तिरिति कपीनां वीरत्वमुक्तम् । आरब्धा निष्पत्ति: सर्वथा दुःखहेतुत्वात्परिहर्तव्येति
ध्वनिः ॥७१॥
सेतोद्योगदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य पूर्णाभूत्सप्तमी शिखा ॥
विमला - लङ्काका अनर्थ करने में समर्थं उस सेतुपथ के विशीर्ण होने पर जैसे बानरों का अनुराग ( मन की प्रसन्नता ) विशीर्ण हो गया, किन्तु तदनन्तर ही उनमें धीरे-धीरे पुनः परिश्रम की प्रवृत्ति का अभ्युदय होने लगा ।। ७१ ।।
Jain Education International
[ २८३
इस प्रकार श्रीप्रवरसेनविरचित कालिदासकृत दशमुखवध महाकाव्य में सप्तमः आश्वास की 'विमला' हिन्दी व्याख्या समाप्त हुई ।
1300000
For Private & Personal Use Only
www.jainelibrary.org