________________
२८८]
सेतुबन्धम्
[अष्टम
[ वनगजगन्धोत्तीर्णाः पुननिवर्तन्त आतपाहतविह्वलाः । निजककरशीकराद्रितनिर्वाप्यमाणमुखमण्डलाः करिमकराः ॥] वनगजानां मदस्य गन्धेनोत्तीर्णा युद्धाय तटमागताः करिमकराः पुननिवर्तन्ते समुद्रमेव प्रविशन्ति । अत्र हेतुमाह-आतपेन रवितेजसा आहताः स्पृष्टाः सन्तो विह्वलाः । सदा जलावस्थित्या आतपतक्ष्ण्यास हत्वात् । एवं निजकः स्वीयः करः शुण्डा तदीयशीकरैराद्रितं सजलीकृतं सन्निर्वाप्यमाणं तापशून्यी क्रियमाणं मुखमण्डलं यस्ते । तापे सति शुण्डानीतोदरजलेन वपुः सिञ्चन्तीति करिस्वभावः । तथाविधपर्वताभावेन प्रतिपक्षालाभादातपसंबन्धाद्वा निवृत्तिरिति भावः ॥ ८ ॥
विमला-वनगजों के मद की गन्ध पाकर जलहस्ती युद्धार्थ तट पर आये, किन्तु आतप से आहत, अतएव विह्वल होकर अपनी सूड के शीकरों से मुखमण्डल को आर्द्र एवं तापरहित करते हुए पुनः समुद्र में प्रविष्ट हो गये ।। ८ ।। अथ नदीनां समुद्रप्रवेशे मुखमालिन्यमाहदुमभङ्गकलुसिआई कसारसभिण्णपण्डुरप्फेणाई। जापाई णिण्णआणं उत्थलवलणरअधूसराई मुहाई ॥६॥ [ द्रुमभङ्गकलुषितानि कषायरसभिन्नपाण्डुरफेनानि ।
जातानि निम्नगानामुत्स्थलवलनरजोधूसराणि मुखानि ।।] निम्नगानां समुद्रगामिनीनामित्यर्थात् मुखानि प्रवेशस्थानानि उत्स्थलेन तीरभूमावुन्मार्गेण यद्वलनमितस्ततो गमनं तेन रजोभिवूसराणि जातानि । कीदृशानि । पार्वतीयानां द्रुमाणां भङ्गः संघट्टजः खण्डः कलुषितानि पूर्णानि । एवं द्रुमभङ्गस्यैव कषायेण रसेन भिन्नाः संबद्धाः पाण्डुराः फेना येषु तानि । पूर्व पर्वतक्षोभजन्यतरङ्गाभिघातेन निम्न गाजलानि तीरभूमौ लुठितानि पश्चात्तन्निवृत्तौ परावृत्त्या धूलीसंबद्धाद्धूसराणि । तरङ्गसहागतद्रुमभङ्गसङ्गात्कलुषितानीत्यर्थः । तीरभूमिष्ठा वृक्षभङ्गास्तेन सहागतास्तैः कलुषितानीति वा । अथ च पत्युरापदि पत्नीनां मुखं रजोधूसरं कलुषं च भवतीति नदीनामप्रसन्नता सूचिता ॥६॥
विमला-तीरभूमि पर कुमार्ग से इधर-उधर गमन करने से ( समुद्रगामिनी) नदियों के मुख (प्रवेश स्थान ) धूलिधूसर, द्रुमखण्डों से कलुषित (पूर्ण) एवं (द्रुमखण्डों के ही ) कसैले रस से युक्त पाण्डुर (पीलापन लिये श्वेत रंग के ) फेन वाले हो गये ॥ ६ ॥ अथ पर्वतखण्डानामितस्ततो गमनमाह
खुहिमोहिविच्छूडा महिन्दकडएसु मलमभित्तिच्छेआ। घडिमा मलिअगअउला मलप्रपडेसु अ महिन्दसेलद्धन्ता ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org