________________
२६८ [ सेतुबन्धम्
[सप्तम के समय) पदाक्रान्त होने से विघटित शिलाओं वाला, शिखरनिर्झरों में उद्गत इन्द्रधनुष से गर्भित महेन्द्रगिरि का खण्ड समुद्र में गिर गया ॥४६॥ समुद्र गिरीणां स्फुटनमाहगमगा अलम्मि सेलसंघट्टवारियाणं
ओत्थरिअं रवेण जलभरि अवारिआणम् ।। बमाणं लाघराई सअन्दलाइ.
कि पडिअंण होइ सिहरं स दलाई ॥४७।। [ गगनतले शैलसंघट्टवारितानामवस्तृतं रवेण जलभृतवारिदानाम् । वहमानं लतागृहाणि सकन्दलानि किं पतितं न भवति शिखरं शतं दलानि ।।]
समुद्रे पतितं सच्छिखरं शतं दलानि कि न भवति, अपि तु भवत्येव । कीदृक् । गगनतले शैलसंघट्टन वारितानां बहिष्कृतानां जलेन भृतानां पूर्णानां वारिदानां रवेणावस्तृतं व्याप्तम् । गगनस्था एव मेघाः शिखरैभिन्ना रसन्तीत्यर्थः । अन्योऽपि सूच्यादिवेधे रोदिति । पुनः कीदृक् । कन्दलो नाम वृक्षविशेषस्तत्सहितानि लतागृहाणि वहमानम् । गगन एव मेघरवसंबन्ध इति यावत्, यद्विश्रामो न वृत्तस्तावदेव तद्विशिष्टस्य शतखण्डत्वे पवनवेगप्रकर्ष उक्तः । शतखण्डहेतुत्वेन च समुद्रावर्तस्योत्कर्षः ॥४॥
विमला-गगनतल में पर्वतों के टकराने से बहिष्कृत जलभृत मेघों की ध्वनि से व्याप्त, कन्दल ( वृक्ष-विशेष ) सहित लतागृहों को वहन करने वाला शिखर समुद्र में गिर कर क्या शतखण्ड नहीं हो जाता था ? अर्थात् हो ही जाता था ॥४७॥ चमरीणामवस्थामाह
लक्विजन्ति समद्द गिरि घाउब्धत्तम अरविसमुक्कित्ता । छेअपसरन्तरु हरा. फेणमिलन्ता वि चमरिबालद्धन्ता ॥४८।। [ लक्ष्यन्ते समुद्रे गिरिघातोवृत्तमकरविषमोत्कृत्ताः ।
छेदप्रसरद्रुधिराः फेनमिलन्तोऽपि चमरीवालार्धान्ताः ॥] समुद्रे गिरिघातेनोवृत्तैर्दशितोदरैर्मकरैः संमुखगतत्वेन विषमं उत्कृत्ताश्छिन्नाश्चमरीणां वालार्धान्ताः पुच्छैकदेशाः फेनेषु मिलन्तोऽपि लक्ष्यन्ते । तय॑न्त इत्यर्थः । कीदृशाः । छेदेन छेदनेन छेदे छिन्नभागे वा प्रसरन्ति रुधिराणि येभ्यस्ते । तथा च फेनश्वत्येन' विविच्य ग्रहणायोग्यत्वेऽपि रुधिरलौहित्येनानुमीयन्त इति काव्यलिङ्गम् ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org