________________
नाश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[१५५
अथ धनुर्ग्रहणमाह
तो साहसणिम्माणं अमित्तदीसन्तलच्छिसंकेप्रहरम् । संठिअरोसालाणं गेण्हइ भुप्रदप्पबीअलक्खं चापम् ॥१७॥ [ततः साहसनिर्माणममित्रदृश्यमानलक्ष्मीसंकेतगृहम् ।
संस्थितरोषालानं गृह्णाति भुजदर्पद्वितीयलक्ष्यं चापम् ॥] ततः । राम इत्यर्थात् । चापं गृह्णाति । कीदृशम् । साहसस्य प्राणानपेक्षकर्मणो निर्माणं यस्मात् । निर्मीयते अनेनेति साहसस्य निर्माणं करणमिति वा। तद्धनुरध्यवसायेन साहसमपि क्रियत इत्यर्थः । एवममित्रेण शत्रुणा दृश्यमाना या स्वलक्ष्मीस्तस्याः संकेतगृहम् । रिपोरध्यक्ष एव तल्लक्ष्म्या नायिकाया रामस्य च नायकस्य समागमस्थानकत्वात् । एवं संस्थितस्य रोषस्यालानमवष्टम्भस्तम्भः । एवं भुजदर्षस्य द्वितीयं लक्ष्यम् । लक्ष्यतेऽनेनेति लक्ष्यं लक्षणं प्रकाशकम् । एको भुज एव द्वितीयं धनुरित्यर्थः ।।१७।।
विमला-तदनन्तर श्रीराम ने अपने साहस के साधनरूप उस धनुष को ग्रहण किया जो शत्रु की आँखों के सामने ही उसकी लक्ष्मी (नायिका) और उन ( राम ) के समागम का संकेतस्थल है, संत्थित रोष का स्तम्भ है तथा भुजदर्प का दूसरा लक्षण (प्रकाशक ) है ( क्योंकि पहिला लक्षण तो भुज स्वयं है)।॥१७॥ अथ धनुषि ज्यारोपणमाह
अक्कन्डधणुभरोणप्रधरणि प्रलस्थलपलोट्टजलपम्भारो। थोपि अणारुढे उअही चावम्मि संसों आरूढो ॥१८॥ [आक्रान्तधनुर्भरावनतधरणितलस्थलप्रवृत्तजलप्रारभारः ।
स्तोकमप्यनारूढे उदधिश्चापे संशयमारूढः ॥] स्तोकमपि किंचिदप्यनारूढेऽसज्जीकृते चापे । सज्जीकर्तुमारब्ध एव सतीत्यर्थः । उदधिः संशयमारूढः रामः किं करिष्यतीति दोलायितचित्तोऽभूत् । अथवा स्थास्यति नवेति लोकानां संशय विषयोऽभूदित्यर्थः । कीदृक् । आक्रान्तं सज्जीकर्तुमवष्टब्धमर्थाद्भूमौ यद्धनुस्तस्य भरेणावनतं यद्धरणितलं तस्य यत्स्थलं फलभूमिस्तत्र प्रवृत्तः संगतः प्रलुठितो वा जलप्राग्भारो जलाधं यस्य धनुरवष्टम्भेन भूमेरवनतो तिर्यगुन्नतखातस्य कियज्जलानां स्थलभूमिप्रसृतत्वात् । अत एवारम्भ एवेयमवस्था पर्याप्तौ कि स्यादिति संशय इत्यर्थः ॥१८॥
विमला-श्रीराम ने धनुष पर डोरी चढाने के लिये उसे ज्यों ही पृथिवीपर रक्खा, उसके भार से भूतल अवनत हो गया और समुद्र का आधा जल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org