________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[२२७
चन्दनस्य पत्रसत्त्वेन अशितं भुक्तं वनचन्दनं यस्तेषामशितवनचन्दनानामिति वा । निगर्वस्तु-महिषकुलानामवशेषोऽपि नास्ति । कीदृशानामिव । फडिहमणिसिलावेल्लिआणव्व स्फटिकमणि शिलाप्रेरितानामिव । स्फटिकमणि शिलाभिः प्रेरितानामिवेत्यर्थः। पुनः कीदृशानाम् । निषेधद्वयेन न वनचन्दनमश्रितानामपि तु वनचन्दनं श्रितानाम् । तथा च वनचन्दनस्थितानां नाशप्रयोजकवास्तविकस्फटिकभूमिकर्तृकप्रेरणहेतुकत्वमुत्प्रेक्षितम् । अन्योऽपि कुतश्चित्कंचित्प्रेरयति ततः स पतित्वा नश्यतीति ध्वनिरिति विस्तरभिया संक्षेपः ॥६५॥
विमला-पर्वतों के घूमने पर नयन के समान दीर्घ मछलियों ने जीवन भी त्याग दिया किन्तु नदीरूप गृह को नहीं त्यागा । (पर्वतों के वक्र होने पर स्वभावतः पिच्छिल) स्फटिक मणि शिला से स्खलित भैसों का अवशेष भी नहीं रह गया, जैसे चन्द्र से नाशित तिमिर का अवशेष नहीं रह जाता है ॥६॥ अथोत्तोलितपर्वतानां भ्रंशमाहअद्धेअद्धप्फुडिआ अद्धे अद्धकडउक्खअसिलावेढा । पवअभुआहअविसढा अद्ध अद्धसिहरा पडन्ति महिहरा ।। ६६ ।। अर्धार्धस्फटिता अर्धार्धकटकोत्खातशिलावेष्टाः । प्लवगभुजाहतवीशीर्णा अर्धिशिखराः पतन्ति महीधराः ।।] प्लवगभुजेनाहतास्ताडिता अत एव विशीर्णाः खण्डखण्डीभूता महीधरा पतन्ति । विशीर्णताप्रकारमाह-कीदृशाः । अधं चाधं चार्धाधं तद्यथा भवति तथा स्फुटिताः। मध्ये द्विधाभूता इत्यर्थः। एवमर्धाधु द्विखण्डीभूतं यत्कटकं तस्मादुत्खातं तुलित्वा पतितं शिलावेष्टं येषां ते । एवमर्धाधमर्धद्वयीभूतं शिखरं येषां ते। तथा च गुरुद्रव्यमुत्तोलने सति बलादुपर्युपरि क्रियमाणं करतलाहति विषयो भवतीति । तथा क्रियमाणे मध्ये नितम्बे शृङ्गे च द्विधाभूय पतिता इत्याशयः । यद्वा अर्धे मध्येऽर्धस्फुटिता अधं समांशं यथा भवति तथा स्फुटिताः। अथार्धद्वयं वृत्तं तत्रकस्मिन्नर्धे कटकभागीयेऽर्धकटकात्कटकार्धादुत्खातशिलावेष्टाः । एवमपरत्रार्धे शिखरभागीये अर्धशिखरा अर्धं शिखरं येषां ते । तथा च स्थानत्रयेऽपि त्रुटिता इति वयमुन्नीतवन्तः ।।६६।।
विमला-वानरों की भुजाओं से प्रताड़ित पर्वत खण्ड-खण्ड हो गिर गये। वे बीच से दो खण्डों में आधे-आधे हो गये, इसी प्रकार उनके नितम्ब भाग भी दो खण्डों में विभक्त हो गये और उनकी शिलायें उखड़ कर गिर गयीं एवम् उनके शिखर भी आधे-आधे हो गये ।।६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org