________________
२३८]
सेतुबन्धम्
[षष्ठ
महीधराणां भारेण क्रान्ताः प्लवगा: प्रथमोत्खातानां विकटमहीधराणां स्थानानि मूलखातान् चिरं व्यतिक्रामन्ति लवन्ते । कीदृशानि । सागरस्य प्रतिरूपाणि प्रतिबिम्बानि । समानाकारत्वात् । किं कृत्वा । निर्वर्ण्य । निर्वर्णनमहो ईदगस्य गौरवं मूल विस्तारश्चायं तथा चामुनव सेतु: स्यादिति निरूपणं कृत्वा । तथा चाकाशेनापि संचरमाणास्तथाविधवेगबलशालिनोऽपि भूमि निष्ठमपि तत्खातं चिरेण लवन्त इति खातविस्तारे गिरीणां महत्त्वमायाति । 'सागरपडिरूवा इव' इति पाठे सागरप्रतिरूपाणीवेत्युत्प्रेक्षा ॥८६॥
विमला-भूधरों के भार से आक्रान्त (आकाशमार्ग से संचरणशील) कपिसमुदाय, सागर के प्रतिरूप से, प्रथम उखाड़े गये विकट महीधरों के मूलस्थानीय गों को निरूपित कर बड़ी देर में लाँघ सके ।।८।। अथ नभसि नदीप्रवाहमाह --
खणसंघिममेह अडा वेउक्खिप्पन्तगिरिणिराअठविआ।
परिवड्ढन्तामामा वहन्ति व णहङ्गणे महाणइसोत्ता ।।८७॥ [क्षणसंहितमेघतटानि वेगोत्क्षिप्यमाणगिरिनिरायतस्थापितानि । परिवर्धमानायामानि वहन्तीव नभोङ्गणे महानदीस्रोतांसि ॥]
महानदीनां स्रोतांसि नभोङ्गणे प्रवहन्तीव । क्षणं व्याप्य संहिता मिलिता मेघा एव तटानि येषां तानि । मेघा एव तटभूमयो भवन्तीत्यर्थः । एवं वेगोत्क्षिप्यमाणेन गिरिणा निरायतं दीर्घ यथा स्यादेवं स्थापितानि अथ परिवर्धमान आयामो दैघ्यं येषां तानि । पवनवेगवशादित्यर्थः । तथा च पर्वतात्स्खलितानामपि नदीनां निरवलम्बे नभसि प्रवाहदेध्यं कपीनां वेगोत्कर्ष गमयति ।।८७॥
विमला-वानर इतने वेग से पर्वतों को लेकर आकाश-मार्ग से चले कि नदियों के स्रोत ( निरवलम्ब) आकाश में बहते हुए-से दिखाई दिये। क्षण भर मिलित मेघ ही उनके तट हो गये तथा वे वेग से उत्क्षिप्यमाण पर्वतों के द्वारा दीर्घरूप में स्थापित किए गए एवं (पवनवेग से) उनका विस्तार और अधिक बढ़ गया ।।८७॥ वनगजचेष्टामाहसेलेसु सेलतुङ्गा पहअलमिलिएसु मिलिप्रदन्तफलिहा । पवअविहुएसु विहुआ णिवडिएसु वि ण णिव्वलन्ति वणगा॥८८।। [ शैलेसु शैलतुङ्गा नभस्तलमिलितेषु मिलितदन्तपरिघाः ।
प्लवगविधुतेषु विधुता निर्वलितेष्वपि न निर्वलन्ति वनगजाः॥] वनगजा निर्बलितेष्वपि भूमितः पृथग्भूतेष्वपि । उत्पाटितेष्वपीति यावत् । एवंभूतेषु शैलेषु न निर्वलन्ति न पृथग्भवन्ति । शैलसमानाकारत्वादित्यर्थः । तदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org