________________
सप्तम आश्वासः
अथ सेतूपक्रममाह-- अह ते विक्कमणिहसं दहवअण पावलवणगवन्धम् । आढत्ता विरएउं सासअरामजसलञ्छणं सेउवहम् ।।१।। [अथ ते विक्रमनिकषं दशवदनप्रतापलङ्घनाग्रस्कन्धम् ।
आरब्धा विरचयितुं शाश्वतरामयशोलाञ्छनं सेतुपथम् ।। ]
अथ पर्वतानयनानन्तरं ते वानराः सेतुपथं विरचयितुमारब्धवन्तः। कीदृशम् । विक्रमस्य तेजोरूपत्वेन सुवर्णरूपस्य निकषं कषपाषाणम् । पाषाणमयत्वात् । यथा कषपरीक्षितं सुवर्णादि कुण्डला दिकर्मण्युपयुज्यते तथा सेतुपरीक्षितो वानरविक्रमो रावणवधादावुपयोक्ष्यत इत्याशयः । पुनः कीदृशम् । दशवदनप्रतापस्य यल्लङ्घनमतिक्रमस्तनाग्रस्कन्धमग्रेसरसैन्यरूपम् । सेतुसिद्धच व तल्लङ्घनं तस्मिन्नसति सेतुरेव न भवेदिति भावः । एवं शाश्वतं स्थिर रामयशसो लाञ्छनं चिह्नम् । तज्ज्ञापकत्वात् । अथ च श्वत्येन चन्द्ररूपस्य तस्य लाञ्छनं श्यामत्वादिति शुभ्रश्यामयोः संगत्या शोभाविशेष एवेति न हीनोपमा। एतावता रामयशसोऽतिव्यापकत्वमुक्तम् । सर्वत्र रूपकम् ॥१॥
विमला-पर्वतों के ले आने के अनन्तर व पियों ने सेतुपथ का निर्माण आरम्भ कर दिया । वह सेतुपथ कपियों के विक्रम की कसौटी था ( सेतुपथ का निर्माण कर लेने पर ही यह समझा जा सकता था कि वानरों का विक्रम रावण वध जैसे दुष्कर कार्य के लिए पर्याप्त है )। वह सेतुपथ रावण के प्रताप का अतिक्रमण करने में अग्रसैन्यरूप था एवं शाश्वत स्थिर रामयश का चिह्न (ज्ञापक) था ॥१॥ अथ सिन्धौ शैलक्षेपणमाहगरि अ महिअलधरिआ मुक्का उअहिम्मि वाण रेहि महिहरा । आइवराह एहिं व पलउव्वहण दलिआ महिअलद्धन्ता ॥२॥ [अनन्तरं च महीतलधृता मुक्ता उदधौ वानरैर्महीधराः ।
आदिवराहभुजैरिव प्रलयोद्वहनदलिता महीतलार्धान्ताः॥] आरम्भानन्तरं वानरैर्महीधरा उदधौ मुक्ताः क्षिप्ताश्च । कीदृशाः । महीतलेऽर्थात्तीरे धृताः कथं वा कुत्र क्षेप्तव्या इति विचारेण क्षणं स्थापिता विश्रामाय वा । दृष्टान्तमाह-चतुभजस्यादिवराहस्य भुजैः प्रलये यदुद्वहनमुद्धरणमर्थान्महीतलस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org