________________
२०८ ]
सेतुबन्धम्
[ बिसोढवज्रप्रहारा उत्खायन्ते क्षयमारुतप्रतिस्तम्भाः । अगणितवराहनिघर्षाः प्रलयजलोत्तम्भप्रबला धरणीधराः ॥ ]
धरणीधरा उत्खायन्ते उत्पाटयन्ते । कीदृशाः । विसोढा वज्रप्रहारा भर्थादिन्द्रकृता यैस्ते । एवं प्रलयमारुतानां प्रतिस्तम्भाः प्रतिरोधागंलाः । अर्गलया प्रतिरोधः क्रियत इति वस्तुगतिः । एवमगणिता वराहस्य भगवतो निघर्षाः कायकण्डूयनादिव्यापारायैः । एवं प्रलयजलानामुत्तम्भ ऊर्ध्वप्रसरणं तत्र प्रबलाः समर्था । दृढतद्रव्यप्रतिहतं जलमूर्ध्वमुत्तिष्ठतीति विशेषणचतुष्टयेन पर्वतानां दृढमूलत्व विस्तृतस्वतुङ्गत्व चिरकालीनत्वानि व्यज्यन्ते ||३३||
विमला — वानरों ने ऐसे पर्वतों को उखाड़ लिया जो ( इतने दृढमूल थे कि ) इन्द्र के वज्रप्रहार को सह चुके थे, जो ( इतने विस्तृत थे कि ) प्रलयमारुत को प्रतिरुद्ध कर चुके थे, जो ( इतने ऊँचे थे कि ) भगवान् वराह के शरीर कण्डूयनादि निघर्ष को झेल चुके थे तथा जो ( इतने चिरकालीन थे कि ) प्रलयजल के ऊर्ध्वप्रसार में भी ज्यों के त्यों स्थित रहे ॥ ३३ ॥
अथ पर्वतानामुत्तोलने विशीर्णतामाह
जलओवट्ठविमुक्का
[ षष्ठ
प्रणन्तरो इण्णसरनवन्यावडिआ । एक्कक्खे बुग्गाहिप्रवरवसुआअविस विसन्ति गिरि ॥ ३४ ॥ [ जलदाववृष्टविमुक्ता अनन्तरावतीर्णशरत्पथावपतिताः ।
एकक्षे पोद्ग्राहितदरशुष्कविशदा विशीर्यन्ति गिरयः ॥ ]
गिरयो विशीर्यन्ति । शतखण्डा भवन्तीत्यर्थः । किंभूताः । एकक्षेपेणैकप्रयत्नेन । एकदैवेत्यर्थः । उद्ग्राहिता उत्तोलिताः । कपिभिरित्यर्थात् । एवं किंचिच्छुष्काः सन्तो विशदा निर्मलाः । आर्द्रत्वेन कोमला इति यावत् । कर्मधारयः । तथा च सर्वैः पारस्परजिगीषया स्वस्वप्राथम्यमपेक्ष्य हठादुत्थापिता गिरयः कोमलत्वेन विशीर्णा इत्यर्थः । एतेन प्लवगानां भुजबलाधिक्यम् । ईषदार्द्रत्वे हेतुमाह - किंभूताः । जलदे - नाववृष्टाः कृतवर्षणाः अथ विमुक्तास्त्यक्ताः अनन्तरमवतीर्णा या शरत्तत्पथे तद्गोचरे आपतिताः । तथा च वर्षाशरत्सम्बन्धेन जलातप संबन्धादीषदार्द्रत्वम् ||३४||
विमला - ( एक-दूसरे से आगे हो जाने के उद्देश्य से ) वानरों ने पर्वतों को एक साथ ही उठा लिया, उस समय पर्वतों के सौ-सौ खण्ड हो गये क्योंकि वर्षा ऋतु में जलवृष्टि से वे आर्द्र हो चुके थे और इधर शरत् ऋतु के आगमन से कुछकुछ ही शुष्क हो पाये थे अतएव कोमल ही बने हुये थे || ३४ ॥
अथ शैलोत्पाटने भूमिक्षोभमाह
विणन्ति विहुव्वन्ता वलेन्ति सेला पवंगमवलिज्जन्ता | णामेति णमिज्जन्ता उक्लिप्पन्ता अ उक्खिवेन्ति महिश्रलम् ||३५||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org