________________
२२२ ] सेतुबन्धम्
[ षष्ठ [ कृष्टमूलनिरन्तररसातलोरिक्षप्तसलिलकर्दमघटिताः
वर्धन्त इति ज्ञायते ज्ञायते न मुञ्चन्ति महीतलमिति महीधराः ॥]
कृष्टं यन्मूलमर्थात्पर्वतस्य तेन सह निरन्तरोऽनुस्यूतो रसातलादुत्क्षिप्तमुत्थितं 'यत्सलिलं तेन यः कर्दमः पातालमृत्तिकासंबन्धात्तेन घटिताः संघटिता महीधरा वर्धन्त इति ज्ञायते । ज्ञायते च महीतलं न मुञ्चन्तीति । यथा यथा पर्वत आकृष्यते तथा तथा पातालकर्दमसंबन्धादृद्धि रेव प्रतिभासते न तु मूले विच्छेद इति गिरी. णामापातालमूलत्वमुक्तम् ॥५६॥
विमला-पर्वतों का मूल भाग पाताल तक था, अतएव जब वानरों ने उनके मूल भाग को उभाड़ा उस समय अनुस्यूत रसातलजन्य कर्दम से सम्बद्ध होने के कारण ऐसा प्रतीत हुआ कि वे पर्वत ज्यों-ज्यों ऊपर की ओर खींचे जा रहे हैं त्यों-त्यों बढ़ते जा रहे हैं और महीतल को छोड़ नहीं रहे हैं ।।५८।। पर्वताहरणे कपोनामसन्तुष्टत्वमाहसिहराइ णिमाइ णहं महिन्दलद्धाइ
मल मस्स अ अइणि माह महिं दलद्धाई। विज्झणिअम्बाण कई दप्पुण्णामाणं
सज्ज्ञ अडाण अ भरिआ धु अपुष्णामाणम् ॥ ५६ । [ शिखराणि नीतानि नभो महेन्द्रलब्धानि
___मलयस्य चातिनीतानि महीं दलार्धानि । विन्ध्यनितम्बानां कपयो दर्पोन्नामानां
सह्यतटानां च भृता धुत'नागानाम् ।।] कपयो विन्ध्य नितम्बैः सह्यतटै ता भारवन्तो जाताः । अत एभिर्महेन्द्रपर्वताल्लब्धान्यानीतानि शिखराणि नभो नीतानि नभसि क्षिप्तानि । पुनर्विश्रम्याकाश एव पतन्ति धर्तव्यानीत्याशयात् । मलयस्य च दलार्धानि महीमतिनीतानि । मह्यां क्षिप्तानीत्यर्थः । विन्ध्यनितम्बानामित्यादि शेषविवक्षायां करणे षष्ठी । 'नाग्निस्तृप्यति काष्ठानां न पुंसां वामलोचना' इत्यादिवत् । यद्वा भरिआ भरिताः । स्मृतवन्त इत्यर्थः । 'अधीगर्थदयेशां कर्मणि' इति षष्ठी। विन्ध्य नितम्बान् सह्यत टान् स्मृतवन्त इति समन्वयः । तेन एभिस्तानि तानि पूर्वार्धोक्तानि तत्र तत्र क्षिप्तानीति पूर्ववत् । एतान्स्मृत्वा अत्युपादेयबुद्धया हतु चलिता इति भावः । विन्ध्यनितम्बानां सह्यतटानां वा किंभूतानाम् । दर्पस्योन्नाम उन्नतिर्यस्मात्तेषामिति प्रथ मे । द्वितीये - तु धुतः पुंनागो वृक्षविशेषो यत्र तेषामित्युपादेयताप्रयोजक रूपमुभयमुभयत्र वा। • कई इत्यत्र महाराष्ट्रभाषायां बहुवचनेऽप्येकवचनम् ।।५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org