________________
२१४] सेतुबन्धम्
[पष्ठ मोटय भह क्त्वा मुक्त्वा अपि चन्दनशाखाश्चन्दनवक्षस्थकालसरवलम्ब्य धृता इति सर्पाणां तेजस्वित्वमुक्तम् । तेजस्विभिः स्वविपत्तावपि स्वाश्रयरक्षा क्रियत एवेति ध्वनिः ॥४३॥
विमला-वानरों ने चन्दनविटपों को भग्न कर ऊपर फेंक दिया, किन्तु चन्दन वृक्षस्थ सर्पो ने अपने पुच्छभाग से वेष्टित कर उन्हें अन्तरिक्ष में ही स्थिर रक्खा, भूतल पर नहीं गिरने दिया ॥४३॥ गिरिशिखरभङ्गमाह
पडिसमइ णहणिबद्धो चिरेण भरिअब्भणानगम्भीरअरो। हरिभुअविष्कमपिसुणो अअण्डभज्जन्तधरणिहरणिग्धोसो ॥४४॥ [प्रतिशाम्यति नभोनिबद्धाश्चिरेण भृताभ्रनादगम्भीरतरः ।
हरिभुजविक्रमपिशुनोऽकाण्डभज्यमानधरणिधरनिर्घोषः ॥] अकाण्डे हठाद्भज्यमानस्य अनपेक्षितभागदूरीकरणाय क्वचित्खण्डयमानस्य धरणीधरस्य निर्घोषो विदलनजन्मा टात्कारश्चिरेण प्रतिशाम्यति विरमति । कीदृक् । नभसि निबद्धः संवद्धः । एवंभूतस्य जलपूर्णस्याभ्रस्य नादवद्गम्भीरतरः । एवं कपीनां भुजपराक्रमस्य पिशुनः कथकः । स एव शब्द: पराक्रमकथकत्वेनोत्प्रेक्षित इति भावः । भृतेन धृतेन । मिश्रितेनेति यावत् । अभ्रस्य नादेन गम्भीरः । तथा च शिखरभङ्गाभिभूतत्वात्तत्रत्यमेघेन ध्वनिः कृतः तत्संवलनाद गम्भीरतरो जात इत्यर्थ इति मदुन्नीतः पन्थाः ।।४४॥
विमला-वानरों ने पर्वतों के अनपेक्षित भाग को हठात् भग्न कर दिया । उस समय जो निर्घोष हुआ वह आकाश में बादलों के गम्भीर नाद के मिश्रित हो जाने से बहुत काल में शान्त हुआ और मानों वह निर्घोष वानरों के भुजपराक्रम को स्पष्ट कह रहा था ॥४४।। गिरिनदीनामवस्थामाह
पासल्लन्ति माहिहरा जत्तोहुत्ता पवंगमभुमक्खित्ता। धुवन्तधाउनम्बा तत्तोहुत्ता वलन्ति सरिआसोत्ता ॥४५॥ [ पायिन्ते महीधरा यतोऽभिमुखाः प्लवंगमभुजक्षिप्ताः ।
धाव्यमानधात्वाताम्राणि ततोऽभिमुखानि वलन्ति सरित्स्रोतांसि ॥ ] प्लवंगमभुजाभ्यां क्षिप्ताः प्रेरिता महीधरा यदभिमुखा: पायिन्ते वक्रीभवन्ति सरित्स्रोतांस्यपि तदभिमुखानि वलन्ति । यद्दिशा पर्वता नमन्ति तदिशैव निझरा अपि पतन्तीत्यर्थः । कीदृशानि । धान्यमानेन प्रक्षाल्यमानेन धातुना गैरिकेणेषत्ताप्राणि । प्रवाहाणामुत्पथगमनेन गैरिकमिश्रणादित्यर्थः ।।४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org