________________
माश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ २१५
विमला - वानरों की भुजाओं से प्रेरित भूधर जिधर को वक्र हो जाते थे नदियों के स्रोत ( निर्झर ) भी उधर ही गिरते थे । वे निर्झर ( उत्पथगमन के कारण ) प्रक्षालित गेरू के मिश्रण से कुछ लाल वर्ण के हो रहे थे ।। ४५ । अथ गिरिभ्रामणमाह
बीसन्ति पवअवलिया आवत्तेसु व महोअहिस्स वलन्ता । सरिआण घडिअपत्थि अवलन्तस लिलवल अन्तरेसु महिहरा ॥४६॥ [ दृश्यन्ते प्लगवलिता आवर्तेष्विव महोदधेर्वलन्तः ।
सरितां घटित प्रस्थितवलमानसलिलबलयान्तरेषु महीधराः ॥ ]
प्लवगैर्वलिता उत्पाटनसौकर्याय चक्रवद् भ्रामिता महीधराः सरितामर्थात्स्वाश्रितानां घटितानि भ्रमणवेगवशान्मिथः संबद्धानि सन्ति प्रस्थितान्येक प्रवाहरूपतया संचरदूपाणि । अथ च भ्रमणवशाद्वलमानानि चक्राकाराणि यानि सलिलानि तान्येव वलयाकारत्वाद्वलयानि तदभ्यन्तरेषु दृश्यन्ते । उत्प्रेक्षते - केषु किंभूता इव । महोदधेरावर्तेषु पतन्त इव । भ्रमन्नदीजलवलयस्थिता नैते कि तु समुद्रावर्तेषु पतन्त इत्यर्थः । तथा च भ्रामितानां गिरीणां चतुर्दिगन्तरिक्षे कटकसंलग्नपार्श्वचतुष्टये वा चक्रवद्भ्रमन्ति संस्कारवशात्प्रसह्य भूमावापतन्ति सरिज्जलानि समुद्रावर्तवद्भासन्त इति तज्जलप्रकर्षेण गिरीणां महत्त्वेन च प्लवगानां बलवत्त्वं सूचितम् । घटित - प्रस्थितानीति स्वारसिक क्रमेण सुघटितानि सन्ति प्रस्थितानि प्रवहद्रूपाणि अथ च गिरिभ्रमणवशाद्वलमानानि चक्रवद्भ्रमन्ति यानि सलिलानि तान्येव वलयानि तदभ्यन्तरेषु दृश्यन्त इति अन्यत्सर्वं पूर्ववदिति केचित् । तेन नानानदीनां स्रोतांसि नानावलय क्रमेणावर्तवद्भवन्तीति भावः ॥४६॥
विमला - वानरों ने पर्वतों को ऐसा घुमाया कि उनकी नदियों का जल भी ( भ्रमणवश ) परस्पर संबद्ध तथा एक प्रवाहरूप हो संचरणशील वलयाकार हो गया और उनके भीतर पर्वत ऐसे प्रतीत हो रहे थे कि मानों वे महोदधि के आवर्तो में पतित हो रहे हों ॥ ४६ ॥
अथ मधुकर मिथुनावस्थामाह
अरन्द गरुवख्खं
पासोश्रल्लन्तवणलना बिच्छूढम् ।
ण मुग्रइ कुसुमग्गोच्छं आसाइअमहुरसं पि महुअर मिहुणम् ||४७॥ [ मकरन्दगुरुकपक्षं पार्श्वोयमानवनलताविक्षिप्तम् ।
न मुञ्चति कुसुमगुच्छ मास्वादितमधुरसमपि मधुकर मिथुनम् ॥ ] मधुकर मिथुनं कर्तृ पार्श्वयमाना पर्वतानामितस्ततश्चलनेन वक्रीभवन्ती या वनलता तथा विक्षिप्तमपि त्यक्तमपि कुसुमगुच्छं न मुञ्चति । अत्र हेतुमाह-मधुकरमिथुनं कीदृक् । मकरन्देन पुष्पस्यैव गुरुको क्षेपणायोग्यो पक्षौ यस्य तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org