________________
२०६ ] सेतुबन्धम्
[षष्ठ पतनदलितगण्डशैलखण्डानां शतखण्डीकरणेन वक्षसो विस्तीर्णत्वं बलवत्त्वं दृढत्वं च सूचितम् । एवं कुपिमृगेन्द्ररवगृहीता अवस्कन्दिताः सन्तः संक्षोभेण वानरागमनजन्यसंभ्रमेण स्फेटिताः स्वरक्षाकुलचित्ततया त्यक्तत्वेन बहिष्कृता वनगजा येषु तान् । सिंहानामवगृहीतवनगजबहिर्गमने संक्षोभस्याधिक्यमुक्तम् ॥३०॥
विमला-वानरों ने पर्वतों को उखाड़ना और उठाना आरम्भ किया। उस समय ( उखाड़ने के लिये टेढ़े किये गये ) पर्वतों के शिखरखण्ड वानरों के वक्षःस्थल पर ऊपर से गिर-गिर कर खण्ड-खण्ड हो गये तथा वानरों के भय से ( अपनी रक्षा के लिये आकुल ) कुपित मृगेन्द्रों ने अवगृहीत वनगजों को बहिष्कृत कर दिया ॥३०॥ अथ शैलेवूत्पाटनाय कपीनां हृदयावष्टम्भनमाह
वच्छुत्थञ्जिअकडआ तो ते कडअपडिअट्टलिप्रवच्छअडा। सेलेसु सेलगरुमा पवआ पवएसु महिहरा अ पत्ता ॥३१॥ [ वक्षउत्तम्भितकटकास्ततस्ते कटकप्रतिघृष्टवक्षस्तटाः।
शैलेषु शैलगुरवः प्लवगाः प्लवगेषु महीधराश्च प्रभूताः ॥] ततः शैलानां तिर्यक्करणानन्तरं प्लवगा: शैलेषु प्रभूताः संमिता जाताः । परिमाणतौल्याच्च पुनः प्लवगेषु महीधराः प्रभूताः सदृशा जाताः । अत्र हेतुमाहकीदृशाः प्लवगा महीधरा वा । शैलवद्गुरवो बृहदाकाराः । पक्षे शैलं शिलासमूहस्तेन गुरवो महान्तः । तथा च द्वयोरपि तुल्याकारत्वेन संपुट वत्संमितिर्जातेत्यर्थः । तदेव तुल्यतयोपपादयति-वक्षसा उत्तम्भितमुत्थापित कटकं नितम्बः पर्वतानां यैस्ते प्लवगाः । कटकेन प्रतिघृष्ट मुत्तम्भनानन्तरं घृष्टं वक्षस्तट कपीनां यैस्ते महीधराः । तथा च वक्षःकटकयोरपि तुल्याकारत्वं तुल्यव्यापारत्वं चेत्येका मामकी व्याख्यासरणिः । शैलेषु प्लवगा: प्लवगेषु शैलाः प्रभूताः सदृशा वृत्ताः। तेन यावन्तः पर्वतास्तावन्तः कपयो यवन्तश्च कपयस्तावन्तश्च पर्वता इत्युक्तिवैचित्र्येण प्रत्येकमेकैकेन संबद्धा इत्यन्यूनातिरिक्तता जातेत्यर्थः । इत्युत्तरार्धन द्वयेषामपि संख्यासाम्यम् । पूर्वार्धेन तु वक्षःकटकयोस्तुल्यताप्रतिपादनमुखेन परिमाणसाम्यमिति श्लिष्टं प्रभूतपदमित्यपरा । सांप्रदायिकास्तु प्लवगा इत्यस्यैव विशेषणत्रयमित्यर्थादाकारसाम्य मिति व्याचक्षते ।।३१।।
विमला उस समय सभी वानर और पर्वत ( परिमाण और व्यापार की दृष्टि से ) समान ही दिखायी पड़ते थे। वानर पर्वताकार थे तो पर्वत शिलासमूहों से गम्भीर थे ही। वानर पर्वतों के उपत्यका-भाग को अपनी छाती से उठाये हुये थे तो पर्वत अपने उपत्यका भाग से उनके वक्षःस्थल को घर्षित कर रहे थे ॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org