________________
१६२] सेतुबन्धम्
[पञ्चम की एवम् अपने मुख से वह अग्निशिखा निकाली कि जिससे सूर्य की किरणें भी निस्तेज (फीकी ) हो गयीं ॥३०॥ अथ शरपतनमाह
सो जलिऊण णहमले सलिलद्धथमिअहुप्रवहा अम्बमुहो। पढमोइण्णविणअरो दोहो दिहनो व्य साअरम्मि णिवडिओ ॥३१॥ [ स ज्वलित्वा नभस्तले सलिलार्धास्तमितहुतवहाताम्रमुखः ।
प्रथमावतीर्णदिनकरो दीर्घो दिवस इव सागरे निपतितः ॥] स रामशरो नभसस्तले ज्वलित्वा सागरे निपतितः। ऊर्ध्वं गत्वाधोमुखीभूय पततीति शरस्वभावः । तदेव स्फुटयतिकीदृक् । सलिलार्धेऽस्तमितं हुतवहेनाताम्र मुखं यस्य तथाभूतः। तेनातिगभीरसमुद्रसलिलार्धनिष्पाद्यास्तमनतया उल्कामयस्य शरमुखस्य महत्त्वं लभ्यते । यद्वा सलिलेऽर्धास्तमितोऽर्धमग्न इति महत्त्वमुक्तम् । हुतवहेनाताम्रमुखश्चेत्यर्थः । दी? दिवस इव । यथा ऋज्वाकारो दिवसो नभसि ज्वलित्वा सागरे पतति । शरसाम्यलाभाय दिवसे दीर्घत्वमुक्तम् । दिवसः कीदृक् । प्रथममवतीर्णः पातितो दिनकरो येन । तथा आकाशात्प्रथमं सूर्यः पतति पश्चादिवसो यथा तथा । प्रथमं शरमुखं पतितं पश्चाच्छर इत्यरुणमण्डलाकारत्वेन शरमुखसूर्ययोः, तेजोमयत्वेन शरदिवयोश्च तौल्यम् ॥३१।।
विमला-जिस प्रकार दीर्घ दिवस आकाश में ज्वलित होकर आकाश से पहिले सूर्य को गिरा कर तत्पश्चात् स्वयं सागर में गिरता है उसी प्रकार राम का दीर्घ शर आकाश में प्रज्ज्वलित होकर आकाश से पहिले अपने अग्नि से रक्तिम मुख भाग को समुद्र के जल में भर्धमग्न कर स्वयं सागर में गिरा । ३१।। अथ शरस्य त्रैलोक्यव्यापकत्वमाहगणे विज्जुगिहाओ सअन्तकालाणलो समुद्दुच्छङ्ग । महिअम्पो पाबाले होइ पडन्तपडिअ ट्ठिओ रामसरो॥३२॥ [ गगने विद्युन्निधातः क्षयान्तकालानलः समुद्रोत्सङ्गे।
महीकम्पः पाताले भवति पतन्पतितः स्थितो रामशरः ।।] स रामशरो गगने पतन्नवतरन्विद्युन्निधातो विद्युत्समूहो वा भवति । व्यापकते. जोमयत्वात् । समुद्रोत्सङ्गे पतितः सन् क्षयः प्रलयस्तद्रूपोऽन्तकालो नाशकालस्तदीयोऽनलः कालानलः। शोषकत्वात् । यद्वा क्षयो नाशोऽन्तः पर्यन्तोऽवसानं यस्य तादृशः कालः । प्रलय इत्यर्थः । क्षयान्तः क्षयावधिः कालः प्रलयकाल इत्यर्थो वा । एवं पाताले स्थितः सन् महीकम्पो भवति । तस्य तत्रैवोत्पत्तेः। इत्युत्पातरूपत्वेन तत्तल्लोकवर्तितत्तल्लोकानां क्षोभजनकतया स्थानत्रयेऽपि प्रतिभानत्रयमुक्तम् ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org