________________
भाश्वासः]
रामसेतूप्रदीप-विमलासमन्वितम्
[१३५
कथं करिष्यति येनागाधतया लऋितुं न शक्यते । तथा च यथा तुष्टे न त्कया धैर्य दत्तमिति सागरस्यैते गुणा वृत्तास्तथा धैर्यधारणतुष्टेन तदपहारोऽपि कर्तुं शक्ष्यत इति विपरीता दोषाः स्युरिति सर्वथा धैर्यमपहास्यतीति भावः ॥४१॥
विमला-जिस धैर्य से समुद्र प्रलयभार का निर्वहण करता है और वडवानल को सहन कर पाता है वह धैर्य तुम्हारा ही दिया हुआ है, तो तुम्हारे ही प्रति वह समुद्र कैसे धैर्य करेगा जो तुम उसे लांघ न सको ॥४१॥ अथ रामस्य कार्यानुकूलं विनयवचनमाह
तो पा अडदोव्वल्लं पम्हपिनापहोहरप्फरिससुहम् । वच्छं तमालणीलं पुणो पुणो वामकर अलेन मलेन्तो ॥४२॥ उअहिस्स जसेण जसं धोरं धोरेण गरुप्राइ गरुअअम् । रामो वि थिईअ ठिई भणइ रवेण अ रवं समुप्फुन्दन्तो ॥४३॥
(जुग्गअम्) [ततः प्रकटदौर्बल्यं प्रस्मृतप्रियापयोधरस्पर्शसुखम् । वक्षस्तमालनीलं पुनः पुनर्वामकरतलेन मृदुनन् ।। उदधेयशसा यशो धयं धैर्येण गुरुतया गुरुताम् । रामोऽपि स्थित्या स्थिति भणति रवेण च रवं समाक्रामन् ॥]
(युग्मकम्) ततो रामोऽपि भणतीत्युत्तरस्कन्धकेन समन्वयः । किं कुर्वन् । वारंवारं वामकरतलेन वक्षो मृनन्मृषन् । वक्षः कीदृशम् । प्रकटं दौर्बल्यं यत्र तत् । चिरविरहात् । एवं प्रस्मृतं विस्मृतं प्रभ्रष्टं वा प्रियापयोधरयोः स्पर्शसुखं यत्र तादृक । एवं तमालवन्नीलम् परिकाराभावात् । तथा च हे हृदय ! समाश्त्र सिहि जातप्रायस्तवापि दुःखोच्छेद इत्यामर्शने तात्पर्यम् । पुनः किं कुर्वन् । स्वीयेन धीरोदात्तत्वादिगुणप्रसूतेन यशसा उदधेस्तथाविधमेव यशः, स्वीयेन च मर्यादानतिक्रमलक्षणेन धैर्येण तथाविधमेव तस्य धैर्यम्, परानतिक्रमणीयतालक्षणया च निजया गुरुतया तादृशीमेव तस्य गुरुताम्, उच्चावचत्वशून्यतारूपयावस्थित्या तद्रूपामेव तस्य स्थिति समाक्रामल्लघूकुर्वन्नित्यर्थः । तथा चातीव धैर्यादिगुणसंवलितमुक्तवानिति भावः ।। युग्मकम् ॥४२-४३।।
विमला-जाम्बवान् का वचन समाप्त होने पर अपने तमालसदृश (श्याम) वक्षःस्थल का, जिसमें (चिरविरह के कारण ) दौर्बल्य प्रकट है तथा जिसे प्रिया के पयोधरों का स्पर्शसुख विस्मृत हो चुका है-वाम करतल से बार-बार स्पर्श करते हुये एवम् अपने यश, धैर्य, गुरुता, स्थिति और रव से क्रमशः समुद्र के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org