________________
आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम्
अथ पञ्चभिरुच्छलितवचनस्वरूपमाह—
जत्थ परमत्थगरुआ ण होन्ति तुम्हारिसा थिरववट्ठम्भा । महिहरमुक्क व्व मही अत्याअइ तत्थ वित्थरा कज्जधुरा ॥४६॥ यत्र परमार्थगुरवो न भवन्ति युष्मादृशाः स्थिरव्यवष्टम्भाः । महीधरमुक्तेव मही अस्तायते तत्र विस्तृता कार्यधुरा ॥]
I
परमार्थतः स्वरूपतो गुरवो महान्तो युष्मादृशा यत्र स्थले स्थिरव्यवष्टम्भाः स्थिराया न भवन्ति तत्र विस्तीर्णा कार्यधुरा अस्तायते । कार्यभारो नश्यतीत्युचितमित्यर्थः । महीव महीधरमुक्ता यथा महीधरेण मुक्ता त्यक्ता विसृता मही अस्तायते । वासुकिप्रभृतिनिःश्वासनिर्धूता दिग्गजचरणसंक्रमणतिर्यग्नता च क्वचि - द्गच्छतीत्यर्थः । तथा च तथा यतनीयं यथा कार्यं न नश्यति । प्रकृते भवन्तः स्थिरव्यवष्टम्भा एवेति भावः ॥ ४६ ॥
विमला - जहाँ आप लोगों जैसे स्वरूपतः महान् पुरुष स्थिर आश्रय नहीं होते हैं वही भूधरों से मुक्त पृथिवी की भांति कार्यधुरा नष्ट होती है (यहाँ तो आप जैसे स्थिर आश्रय के होते हुये कार्य बिगड़ जाने की बात सोची भी नहीं जा सकती है ) ||४६॥
कार्यस्य सुखसाध्यतामाहपडिवत्तिमेत्तसारं
[ १३७
कज्जं थोआवसेसिअं मारुणा ।
संपइ जो च्चेअ उरं देइ पवङ्गाण पिअइ सो च्चेअ जतम् ॥४७॥ [प्रतिपत्तिमात्रसारं कार्यं स्तोकावशेषितं मारुतिना ।
संप्रति य एव उरो ददाति प्लवगानां पिबति स एव यशः ॥ |]
मारुतिना कार्यं स्तोकेनाल्पेनावशेषितमीषत्समाप्तव्यं कृतम् । कीदृशम् । प्रतिपत्तिः सीतावार्ताज्ञानं तन्मात्रं सारं मुख्यं प्रयोजनं यत्र । संप्रति वार्ताज्ञाने सति प्लवगानां मध्ये य एव उरो हृदयं ददाति कर्तव्यमिदमिति प्रतिसंधत्ते स एव यशः पिबत्यास्वादयति । यशोभाजनं भवतीत्यर्थः । तथा च वार्ताज्ञानमेव दुःशकमा - सीत् तत्प्रकृते हनूमता निष्पादितमेव । अतः परं वानराणां चिकीर्षामात्रमपेक्षितमिति भावः । य इत्यनिर्धारितविशेषनिर्देशेन सर्वेषामेव सामर्थ्यमुक्तम् । हृदयं भूमौ दत्त्वा जलं पीयत इति कपिस्वाभाव्यमुक्तम् । 'प्रतिपत्तिः पदप्राप्तो स्वीकारे गौरवेऽपि च । प्रारम्भे च प्रबोधे च प्रतिपत्तिः प्रयुज्यते ॥' इति विश्वः ॥ ४७ ॥ | विमला - हनुमान् ने काम को थोड़ा ही सा शेष रख छोड़ा है, क्योंकि सीता का पता लगाना ही काम का दुष्कर भाग था, उसे उसने कर ही लिया है । अब तो वानरों में जो ही हृदय देगा - इस काम में मन कर देगा वही यश का पान करेगा - यश का भाजन बनेगा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org