________________
१३.] सेतुबन्धम्
[चतुर्थ [मा रज्यत रभस एव चन्द्रस्यापि तावत्कुमुदवननिष्पन्नम् ।
दूरं निर्वलितगुणमेकरसस्य कमलेषु विद्राति यशः॥]
हे वानराः ! रभस एव सङ्ग्रामोत्कलिकायामेव मानुरक्ता भवत तदुत्थामौद्धत्यैकरसतामपहाय विचारपरा भवतेति भावः । एकरसतया को दोष इत्यत आहचन्द्रस्याप्येकरसस्य कुमुदमात्रप्रकाशतकस्वभावस्य तावत्कुमुदवनेषु निष्पन्नं तत्प्रकाशकत्वेनाखण्डितम्, एवं दूरं व्याप्य निर्वलितः पृथग्भूय प्रकाशितः शैत्यश्वैत्यसुधामयत्वादिगुणो यत्र तथाभूतं यशो जगदालादत्वादिख्यातिः कमलेषु विद्राति कुत्सितं भवति । तदप्रकाशकत्वेन लोकनिन्दाविषयो भवतीत्यर्थः । तथा च भवतामप्योद्ध त्यैकरसताया अपरित्यागेऽविमृश्यकारितया रावणरणे यशो विद्रास्यतीति भावः ॥३२॥
विमला-आवेश में ही तुम सब ( औद्धत्य के प्रति ) अनुरक्त न हो जाओ-औद्धत्य में एकरस न हो जाओ। (कुमुदवन को विकसित करने में ) एकरस चन्द्रमा का भी, कुमुदवनों को विकसित करने से निष्पन्न एवम् दूर-दूर तक प्रकाशित गुण वाला यश कमल वन के विषय में ( उसे विकसित न करने के कारण ) कुत्सित-लोकनिन्दा का विषय होता है ।।३२।।
रावणस्य परिजना बलीयांस इति स्वयमेव योद्धमयमुपक्रमः क्रियत इति सुग्रीववचनमाशङ्कयाह
कि अप्पणा परिणो परस्स ओ परिप्रण दे पडिवक्खो । सोहइ पस्थिज्जन्तो जिआहिमाणस्स कि जअम्मि वि गहणम् ।।३३।। [किमात्मना परिजनः परस्य उत परिजनेन ते प्रतिपक्षः।
शोभते प्रार्थ्यमानो जिताभिमानस्य किं जयेऽपि ग्रहणम् ॥]
आत्मना स्वेन परस्य शत्रोः परिजनः प्रार्थ्यमानोऽवरुध्यमानः किं शोभते । उत पक्षान्तरे। तव परिजनेनानुचरेण प्राय॑मानोऽवरुध्यमानः प्रतिपक्षः शोभते । यदि शत्रुपरिजनो मयावरुद्धस्तदा को दोष इत्यत आह-जिताभिमानस्य असमेन समं साम्येनाधःकृताहंकारस्य पुरुषस्य जयेऽपि जाते किं ग्रहणं परेषां क आदरः । न्यूनकक्षजयेन प्रकर्षाभावात् । यद्वा जयेऽपि वस्तुनि क आदरः श्लाघा। स्वस्य यथाहंकारे उपेक्षा तथा जयेऽपीति जयोत्पत्तिर्न स्यादेवेति भावः । तथा च स्वेन शत्रुपरिजनावरोधे तेन जिते स्वस्य क्षतिरपकर्षश्च । स्वेन तु जिते उत्कर्षाभावस्तत्प्रभुसत्त्वे लाभाभावश्च । स्वपरिजने तु शत्रुसंरोधे शत्रुणा जिते परिजनभङ्गे. नापकर्षाभावः स्वसत्तया क्षत्यभावश्च । परिजनैस्तु जिते तैरेव प्रतिपक्षो जित इति महानुत्कर्षो लाभश्चेति स्वयमहंकारमवलम्ब्य स्थीयताम, परिजना एव सर्वं करिष्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org