________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[ १२३
[स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः । स्मरामि मथनपुरतोऽमुग्धचन्द्र च हरजटाप्राग्भारम् ॥]
अहं समुद्रमथनपूर्व पारिजातशून्यं स्वर्गम् । कौस्तुभेन लक्ष्म्या च कौस्तुभस्य सक्षम्या वा रहितं मधुमथनस्योरः । मुग्धोः बाल । तथा च चन्द्रखण्डशून्यं च” हरजटायाः प्राग्भारमुपरिभागं समूह वा स्मरामि । तथा च पारिजाताद्युत्पादकसमुद्रमथनसंभ्रमेऽप्यहं स्थित इति भावः ॥२०॥
विमला-मैं समुद्रमथन से पूर्व पारिजातशून्य स्वर्ग, कौस्तुभ और लक्ष्मी से रहित विष्णु का हृदय तथा सुन्दर चन्द्र से शून्य हरजटा का अग्र भाग याद रखता हूँ ( समुद्रमथन मेरे जीवनकाल में ही हुआ है )॥२०॥ मथ नरसिंहावतारमपि दृष्टवानस्मीत्याह
महुमहहत्थम्मि मए णवखुक्खुडिअसरसं महासुरहिननम् । दिट्ठा अन्धावन्ती अक्खित्तं णि प्रअहत्थकमलं व सिरी ॥२१॥ [ मधुमथनहस्ते मया नखोत्खण्डितसरसं महासुरहृदयम् ।
दृष्टा अनुधावती आक्षिप्तं निजकहस्तकमलमिव श्रीः ।।] मधुमथनस्य हस्ते मया श्रीदृष्टा । हिरण्यकशिपोरित्यर्थात् । किंभूता। नखैरुखण्डितमतः सरसं लोहितं महासुरस्य तस्यैव हृदयं बुक्करूपं मांसखण्डमनुधावती । हृदयमुत्प्रेक्षते-आक्षिप्तं परमेश्वरेणाक्रम्य गृहीतं निजकहस्तकमलमिव । तथा च यथा कोऽपि करात्केनापि गृहीतं किमप्याहतु पृष्ठलग्न एवानुगच्छति तथा हिरण्यकशिपोहृत्पुण्डरीकरूपं क्रव्यखण्डं हृदयस्थायास्तल्लक्ष्म्या लोहितं हस्तकमलमेव तन्न. रसिंहो नखेनोत्खायाकृष्टवानिति तत्प्रत्याहर्तुमनुगम्य संबद्धा दैत्यलक्ष्मीरेव तात्कालिकनृसिंहकरलक्ष्मीरित्युत्प्रेक्षालभ्यम् । तत्सर्वमपि मया दृष्टमिति स्वस्य तत्पूर्वका. लीनत्वमुक्तम् । 'हृदयं मानसे बुक्के' इति विश्वः ॥२१॥
विमला-नरसिंहरूप विष्णु के हाथ में गृहीत, नखों से उत्खण्डित (अतएव) नाल हिरण्यकशिपु के हृदय ( हृदयस्थ मांसपिण्ड ) से सम्बद्ध दैत्यलक्ष्मी मानों विष्णु द्वारा गृहीत अपने हस्तकमल का ( आहरण करने के लिये ) अनुगमन कर, रही थी-मैंने यह भी देखा है ॥२१॥ अथ सृष्ट्युपक्रममपि जानामीत्याहतं च हिरण्णक्खस्स वि सुमिरामि महावराहदाढ़ाभिण्णम् । महिमण्डलं व तुलिअं उक्खअहिअगिरिबन्धणं वच्छपडम् ॥२२॥ [तच्च हिरण्याक्षस्यापि स्मरामि महावराहदंष्ट्राभिन्नम् । महीमण्डलमिव तुलितमुत्खातहृदयगिरिबन्धनं वक्षस्तटम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org