________________
८२]
सेतुबन्धम्
[ तृतीय
विमला-ऐसे सत्पुरुप विरले ही होते हैं जो बिना कहे गये ही कार्य कर डालते हैं। ऐसे द्रुम स्वल्प ही होते हैं जो विना पुष्प निकले ही फल देते हैं ॥६॥ व्यवसायं विना का क्षतिरस्माकमित्यत आहखिण्णं चावम्मि कर चिरकालुक्कण्ठि अमरिसम्मि मणम् । मा दा देउ रहुवई बाणाहिमुहि च बाहगाई विट्ठिम् ।।१०॥ [खिन्नं चापे करं चिरकालोत्कण्ठितममर्षे मनः ।
मा ताबद्ददातु रघुपतिर्बाणाभिमुखीं च बाष्पगुर्वी दृष्टिम् ॥] रघुपतिः खिन्नं सीताविश्लेषदुर्बलं करं चापे, सीतादर्शनाय चिरकालमुत्कण्ठितं मनोऽमर्षे विरहजन्यबाष्पच्छन्नां बाणाभिमुखीं दृष्टि च तावन्मा ददातु मा विधत्ताम् । यावद्भवद्भिर्व्यवसायो न क्रियत इत्यर्थः । तथा च प्रियानुरागप्रागल्भ्येन. तत्प्राप्तिप्रतिबन्धकसमुद्रजिघांसया रोषोत्कर्षेण धनुर्ग हीत्वा शरं संदधानो बाष्पच्छन्नदृष्टित्वेन रक्षणीयमपि न लक्षयेत् । अतस्त्रैलोक्यमपि निर्दहेत । तद्विशेषतः क्रोधबीजत्वेन भवन्तो न तिष्ठेयुरिति भावः । एवं च रामस्यातिखिन्नकरस्य चापापणे उत्कण्ठितमनसोऽमर्षसंबन्धे बाष्पगुा दृशो बाणाभिमुखीकरणे महद्वैक्लव्यं स्यादित्यधिकमनिष्ट मिति तात्पर्यम् ॥१०॥
विमला-ऐसा करो कि राम का ( सीतावियोग से ) दुर्बल कर धनुष की ओर, ( सीता के लिये ) चिर काल से उत्कण्ठित मन अमर्ष की ओर तथा ( विरहजात) अश्रु से पूर्ण दृष्टि बाण की ओर न जाय ।।१०।। अत्र व्यवसाये सति न केवलं भवतामनिष्टनिवृत्तिरपि त्वभीष्टोत्पत्तिरपीत्याह
ओवग्गउ तुम्ह जसो वहवअणपावपत्थिवपरिम्महिमम् । विलुलिअसमुदरसणं गहभवणन्तेउरं दिसावहुणिवहम् ॥११॥ [अवक्रामत यूष्माकं यशो दशवदनप्रतापपार्थिवपरिगहीतम् । विलुलितसमुद्ररसनं नभोभवनान्तःपुरं दिग्वधूनिवहम् ॥]
दिश एव वधूनिवहस्तं युष्माकं यशोऽवक्रामतु । किंभूतम् । रावणप्रताप एव । पाथिवो राजा तेन परिगृहीतमाक्रान्तम् । अथ च परिग्रहः करग्रहणं तद्विषयीकृतम् । एवं विलुलिता समुद्र एव मेखला यस्य तम् । नभ एव गृहं तदेवान्तःपुरमवस्थितिस्थानं यस्य तमिति रूपकरूपकम् । 'मुखपङ्कजरङ्गेऽस्मिन्धूलतानर्तकी तव' इतिवत् । प्रकृते रावणप्रतापो राजा तस्य वध्वो दिशस्तासामन्तःपुरं नभोगृहम् । समुद्रो रसना । तथा च भवद्भिर्व्यवसाये कृते समुद्रलमनादिसमुत्थं यशो रावणप्रतापमपहस्तयित्वा तदाक्रान्तानि दिङ्नभःसमुद्रादीनि व्याप्नुयादित्यर्थः । अन्योऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org