________________
भाश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ ११५
धातोर्गैरिकस्य रजांसि यस्मात् । लघुत्वाद्धूलिरुत्थिता गुरुत्वाच्छिला निपतिता इति भावः । एवं धुतेनोच्छलितेन निर्झरेणाहतं क्षालितं कपोलतलं येन । प्रहारसमये ग्रीवावनेन वामकपोलस्य वामांसोपरिगतत्वादिति भावः । एवमुन्मूलिता स्थानादुत्थापिता अत एव वलिता वक्रीभूय स्थिताः पन्नगा यत्र तदिति प्रहारप्रकर्ष उक्तः । 'भूवादिरस रक्तादिश्लेष्मादिवसुधादिषु । वर्तते धातुशब्दोऽयं विशेषादरमगैरिके' ॥ ४ ॥
विमला - ( सुग्रीव के अहङ्कारपूर्ण वचन से क्रुद्ध होकर ) ऋषभ नामक ( दाहिने हाथ से उठाकर ) बायें भुज के मूल मारा कि वह शिखर चूर-चूर हो गया । उस गेरू की धूल उड़ी, तद्गत निर्झर के उछलने से गया तथा तद्गत सर्प उद्वासित होने से
वानर ने पर्वत का एक शिखर भाग पर इतने जोर से पटक समय उस शिखर से अत्यधिक उसका बायाँ कपोल प्रदेश धुल कलमला उठे ॥४॥ नीलचेष्टामाह-पुल उभे आश्रम्बं नीलो परिपुसद्द विसमक सणच्छाअम् । हिअअणिहत्तपहरिसं ससिपडिभिण्ण घण संणिहं वच्छग्रडम् ॥ ५ ॥ [पुलकोद्भेदाताम्रं नीलः परिप्रोञ्छति विषमकृष्णच्छायम् । हृदयनिहितप्रहर्ष शशिप्रतिभिन्नघन संनिभं बक्षस्तम् ॥ ]
नीलो वक्षस्तटं परिप्रोञ्छति वारंवारं पाणिनामृशति । पूर्ववदेव सुग्रीवोक्त्या क्रोधादुत्साहाच्चेति भावः । वक्षः कीदृशम् । पुलकोद्भेदेन रणोत्साहसमुत्थरोमाञ्चेन किंचित्ताम्रम् । वालानां नीलत्वेऽप्यये किं चिल्लोहित्यमेव तच्च पुलकोद्गमेन लक्ष्यते । तदुक्तम् - विषमं यथा स्यात्तथा कृष्णच्छायं श्यामम् । किचिल्लोहित्य सत्त्वेन कृष्णतायां वैषम्यमिति केचित् । वस्तुतस्तु लोम्नां श्यामत्वेऽप्यन्तस्त्वगवच्छिन्नदेशस्य लोहित्यमेव तदुत्फुल्लतया पुलकेन लक्ष्यते । विषमं निम्नोन्नतं कृष्णच्छायं चेत्यर्थः । एवं हृदये मनसि निहितः प्रहर्षो यत्र तत् । तदधिष्ठानत्वात्तस्य । तत एव वक्षोमर्शनम् । यथा मनसि वर्तते तथा करिष्याम्येवेति भावः । दृष्टान्तमाह -- पुनः कीदृक् । शशिना प्रतिभिन्नः संबद्धो यो घनस्तत्तुल्यम् । हृदयस्थप्रहर्षस्य सत्त्वसमुत्थत्वेन श्वेतत्वाच्चन्द्रतोत्यम् । वक्षसः कृष्णत्वान्मेघतौल्यम् । अन्योऽपि क्रुद्धो हृदयं मृशतीति ध्वनिः ॥ ५ ॥
बिमला - ( सुग्रीव के वचन से क्रुद्ध एवम् उत्साहसम्पन्न होकर ) नील नामक वानर ने पुलक से किंचित् ताम्रवर्ण, विषम श्यामवर्ण, हृदय में निहित ( श्वेतवर्ण ) प्रहषं के कारण शशि से सम्बद्ध मेघसदृश वक्षःस्थल को बार-बार
हाथ से सहलाया ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org