________________
सेतुबन्धम्
[ तृतीय
किं
[बान्धवस्नेहाभ्यधिको भबति परोऽपि विनयेन सेव्यमानः । पुनः कृतोपकारो निष्कारण स्निग्धबान्धवो दाशरथिः ॥ ] परोऽपि शत्रुरपि विनयेन सेव्यमानः सन्बान्धवादपि स्नेहेनाभ्यधिको भवति । बान्धवादप्यधिकं स्नेहमाचरतीत्यर्थः । कृतवालिबधरूपोपकारोऽत एव निरुपधिस्नेहविशिष्टो बान्धवो मित्रं दाशरथिः किं पुनः । तथा च स्वभावतो मित्रमेवायं सेव्यमानः सेव्यमानशत्रुकृतस्नेहादप्यधिकं स्नेहमाचरिष्यतीत्यभीष्टम् । अनभीष्टपक्षे तु बान्धवः सस्नेहाभ्यधिकोऽपि पुरुषो विगतनयेन दुर्नीत्या सेव्यमानः पर उदासीनो रिपुर्वा भवति । किं पुनरुक्तविशेषणविशिष्टो दाशरथिः । तथा च यत्र भ्रात्रादयोऽप्यन्यथा भवन्ति तत्र मित्रमयमन्यथा स्यादिति किमाश्चर्यम् । अतो महती क्षतिः स्यादित्यत्र वालिविरुद्धोऽहमेव निदर्शनमिति भावः । ' बान्धवो भ्रातृमित्रयो:' इति कोषः ||२८||
६२ ]
विमला - विनय के व्यवहार से शत्रु भी बन्धु से कहीं अधिक स्नेह करता है तो फिर ( वालिवधरूप) उपकार करने वाले अकारण स्नेहविशिष्ट मित्र रामचन्द्र की क्या बात ? ( ये तो उसमे भी अधिक स्नेह करेंगे ) और [ विनयेन विमलेन नयेन ] दुर्नीति का व्यवहार करने पर अत्यन्त अधिक स्नेह रखने वाला भी बान्धव यात्रु हो जाता है तो फिर उक्त विशेषणविशिष्ट राम की क्या बात ? ( ये हमारे विपरीत हो जायें तो इसमें क्या आश्चर्य ? ) ||२८||
रामानुरागवैराग्ययोरस्माकं को लाभः का च क्षतिरित्यत आहश्रइरपरूढ व्व लग्ना समरुच्छाहे उदुम्मि व विलम्बन्ते । प्रज्ज वि दाव मह इमा मउलेइ च्चि फलं ण वावेइ सिरो ॥२६॥ [ अचिरप्ररूदेव लता ममरोत्साहे ऋताविव विलम्बमाने । अद्यापि तावन्ममेयं मुकुलायत एव फलं न दर्शयति श्रीः ॥ ]
अचिरप्ररूढा लतेव ममेयं राज्यश्रीः ऋताविव भवतां समरोत्साहे विलम्बमाने सत्यद्यापि तावन्मुकुलायत एव संकुचत्येव । न तु विकाससाध्यं राज्यभोगरूपं फलं दर्शयति । जनयतीत्यर्थः । यथा वसन्तादावनागच्छति लता मुकुलायत एव मुद्रणमेव धत्ते तत्तत्समयजपुष्पसाध्यं फलं न दर्शयति तथा भवदुत्साहे शिथिलीभवि 'राज्यलक्ष्मीरपीत्यर्थः : । अचिरप्ररूढेति लताविशेषणमुपमेयश्रियो नूतनत्वेनानुषभुक्तत्वं द्योतयति । तथा च मुकुलायत इति संकोचविकासोभयात्मक मुकुलनरूषमध्यावस्थाकथनेन भवद्वय वसायाधीनरामानुरागसंशयाद्राज्यश्रीरपि संशयदोलामारोहतीति फलतो ममैवोपकारापकाराविति भावः । लता नाम नायिकाविशेषस्लेनाचिरोढापि ऋतुविलम्बेन स्त्रीत्वव्यञ्जकशरीरविशेषे मुकुलायमाना सती गर्भात्मकं फलं न दर्शयतीति ध्वनिः ||२६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org