________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[६३
समुद्र (घनवारिद) जलदों का भी जलद है। यह वेला के आलिङ्गन (अतिक्रमण) से चञ्चल (मही तक पहुँचने का इच्छुक) हुआ किन्तु (वेला से) महीलङ्घन के प्रति रोक दिया गया।
विमर्श-उत्तरार्ध में समासोक्ति' अलंकार है ॥२३॥ अथ चन्द्रोदये जलवृद्धि माह
ससिमऊहपडिपेल्लणपक्खन्भन्त
संचरन्तधरणीहरपक्खुब्भन्तमम् । धीर सइमुहलवणपअविज्जन्त
अठिन च वलवाणलपविज्जन्तमम् ॥२४॥ [शशिमयूखपरिप्रेरणप्रक्षुभ्यत्कं संचरद्धरणीधरप्रक्षोभ्यमाणम् । धैर्यकं सदामुखरघनपीयमानमस्थितं च वडवानलप्रताप्यमानम् ॥]
चन्द्रकिरणपरिप्रेरणेन' प्रक्षुभ्यद्वर्धमानं कं जलं यस्य तम् । एवं संचरद्भिर्धरणीधरैः प्रक्षोभ्यमाणमितस्ततश्चाल्यमानम् । पर्वते चलति जलक्षोभादिति पर्वतानां महत्त्वमुक्तम् । 'संचरद्धरणीधरपक्षोभ्रान्तम्' इति वा । तत्र संचरता धरणीधरपक्षेणोद्भ्रान्तम् । तथा चैकपक्षचलनेन समुद्रः क्षुभ्यतीति शैलानामतिमहत्त्वमुक्तम् । एवं धैर्यकं धैर्यस्वरूपम् । वेलानतिक्रमशीलत्वात् । तथा च धैर्यरूपधर्माभेदेनातिधीरत्वमुक्तम् । प्राशस्त्ये कन् । 'धीरकम्' इति वा । एवं सदा मुखरैः सशब्दैर्घनैः पीयमानम् । विहगादयोऽपि भक्ष्यादिलाभे शब्दायन्त इति ध्वनिः । अस्थितं च कल्लोलशालितया चञ्चलमित्यर्थः । एवं वडवानलेन प्रताप्यमानं न तु शोष्यमाणमिति जलबाहुल्यमुक्तम् । अत्र प्रथमेन द्वितीयेन च पादेन शशिरूपसुतस्नेहः शरणागतपर्वतादिवात्सल्यं च, तृतीयेन धैर्य जलदादिभिक्षुकोपकारित्वं च, तुर्येण भीषणत्वमङ्गीकृतवडवानलधारणजन्यदुःखसहिष्णुत्वं चोक्तम् । 'को ब्रह्मपवनार्केषु समरे सर्वनाम्नि च । पानीये च मयूरे च मुखशीर्षसुखेषु कम्' ॥२४॥
विमला--समुद्र का जल चन्द्रकिरण के (परिप्रेरण) संस्पर्श से बढ़ता है। वह पर्वतों के चलने पर संक्षुब्ध होता है तथा (वेला का अतिक्रमण न करने से) धैर्यस्वरूप है। (प्रसन्नता से) ध्वनि करते मेघ इसके जल को पीते हैं। यह तरङ्गों से युक्त होने के कारण अस्थिर है एवं वडवानल से प्रतप्त किया जाता है ॥२४॥ अथ सर्पसंचारमाहभिप्रअविसाणलपप्रविप्रमुत्ताणिप्ररपरिघोलमाणविसहरम् । मीणगइमगपापडसेआलोमइलमणिसिलासंघाप्रम् ॥२५॥ [निजकविषानलप्रतापितमुक्तानिकरपरिघूर्णमानविषधरम् । मीनगतिमार्गप्रकटशेवालावमलिनमणिशिलासंघातम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org