________________
आश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
एस अमअरससंभवो त्ति संभाविअं
हणिहतमेण व चउद्दिसं भाविअम् ।
गुणमहग्घसारं वसुहारक्लाणिअं
अमजसणिहाणं विअ सअरक्खाणिनम् ॥३३॥ [ एषोऽमृतरससंभव इति संभावितं नभोनिभतमसेव चतुर्दिशं भावितम् । गुणमहार्घसारं वसुधारक्षानीतं निजकयशोनिधानमिव सगरखानितम् ॥ ]
एवमेष सुधारसोत्पत्तिस्थानमिति संभावनायुक्तम् । महत्त्वान्नीलत्वाच्च नभस - स्तुल्यम् । नीलिमानमस्योत्प्रेक्षते - किंभूतम् । चतुर्दिशं तमसा तिमिरेण भावितमु - त्पादितमिव । अत एव श्याममित्यर्थः । एव स्वस्य गुणैर्महार्घो बहुमूल्य: सारो रत्नादित्र तम् । एवं वसुधायाः पृथिव्या रक्षायै आनीतमुत्पादितम् । समुद्रावष्टब्धा पृथिवी तिष्ठतीति पुराणवार्ता । तथा च स्वाधिकात्स्वरक्षा भवतीति पृथिव्यधिकपरिमाणवत्त्वं समुद्रस्योक्तम् । एवं सत्युत्प्रेक्षते - कीदृशमिव । सगरेण राज्ञा खानितं निजक शोनिधानमिव । निधानं निधिधारणस्थानम् । तथा च यशोरूपद्रव्यं निधिस्तद्धारणगर्त: समुद्र एव । सगरस्य प्रतिष्ठा हेतुत्वादिति भावः । निधिस्थानमप्यमृतरसोत्पत्तिस्थानमिवादृतं विस्तीर्णत्वान्नभोनिभमावरणीयत्वाच्चतुर्दिशमन्धकारेण भावितमिव गुणमहार्घहिरण्यादिसारयुक्तं वसुधायां निधिरक्षायै आनीतमुत्पादितं भवति । निधिगर्तस्य क्षितावेवोत्पत्तेरिति साम्यम् ||३३||
विमला - यह (समुद्र) 'सुधारस का उत्पत्तिस्थान है'- - इस प्रकार से सम्मानित है । इसे मानों चतुर्दिक् गगनसदृश अन्धकार ने उत्पन्न किया है (अतएव श्याम है) । इसमें वे रत्न आदि हैं जो अपने गुणों के कारण अत्यधिक मूल्यवान् हैं । यह 'पृथ्वी की रक्षा के लिये उत्पन्न किया गया है । इसे राजा सगर ने खुदवाकर मानों अपने यशरूप निधि को धरने का स्थान बनाया है ।
Jain Education International
[ ६६
विमर्श - पृथिवी की स्थिति चारों ओर से समुद्र द्वारा बँधी होने के कारण ही है - ऐसा पुराणों से विदित होता है ||३३॥
पग्गा हि अजललवणिवहपहम्मन्तम् हलती रसलवणम् । ससिसेलमऊहोज्झर परिवड्ढि असलिलमलि अपवणुच्छङ्गम् ॥३४॥ [पवनोद्ग्राहितजललवनिवह प्रहन्यमान मुखरतीरतलवनम् । शिशैलमयूख निर्झरपरिवर्धितसलिलमृदितपुलिनोत्सङ्गम् ॥] पवनोत्थापितेन जललवनिवहेन प्रहन्यमानान्यत एव मुखराणि शब्दायमानानि तीतले वनानि यस्य तम् । तीरे तालवनानि यस्येति केचित् । एवं शशिशैलश्चन्द्रकान्तमणिपर्वतस्तस्य मयूखप्रवाहेण परिवर्धितैः सलिलैर्मुदिताः पुलिनोत्सङ्गा यस्य
For Private & Personal Use Only
www.jainelibrary.org