________________ नैषधीयचरिते बाद को पैरों के भागने की आहट से उन्हें जो अत्यधिक कम्प हुआ, वह भयानक रस का अनुभाव था। कम्प नाम का अनुभाव क्या शृंगार और क्या भयानक-दोनों रसों में समान रूप से पाया जाता है। कवि का. यहां शृंगार का विरोधी भयानक रस असंवैधानिक है। 'दृशाम्' 'दृशाम्' तथा 'ते' 'द्र तं' में छेक और अन्यत्र वृत्त्यनुप्रास है। उल्लास्यतां स्पृष्टनलाङ्गमङ्ग तासां नलच्छायपिबाऽपि दृष्टिः / अश्मैव रत्यास्तदनति पत्या छेदेऽप्यबोधं यदहर्षि लोम // 34 // अन्वयः-रत्याः पत्या तासाम् स्पृष्टनलाङ्गम् अङ्गम् उल्लास्यताम् (नाम) नलच्छायापिबा दृष्टिः अपि उल्लास्यताम् ( नाम ), छेदे अपि अबोधम् रोम यद् अहर्षि तत् अश्मा एव अनति / टीका-रत्याः पत्या स्वामिना कामेन तासाम् अन्तःपुरवर्तिनीनां सुन्दरीणाम् स्पृष्टम् स्पर्शविषयीकृतम् नलस्य अङ्गम् अवयवः (10 तत्पु० ) येन तथाभूतम् (ब० वी० ) अङ्गम् उल्लास्यताम् उल्लासं प्राप्यताम् नाम नलस्य छायायाः प्रतिबिम्बस्य पिबा पश्या तत्प्रतिबिम्बावलोकिनीति यावत् दृष्टिः दृग् अपि उल्लास्यताम् नास्ति तत्राश्चर्यम् किन्तु छेदे कर्तने अपि अबोधम् चेतनारहितम् तासां रोम लोम यत् महर्षि हर्षितम् हर्ष प्रापितमिति यावत् तत् ( रतिपतिना ) अश्मा पाषाण एव अनति नर्तितः / कामः कामिनीनां नलस्पृष्टमङ्ग नलप्रतिबिम्बविलोकि नयनं च उल्लासयति चेत् उल्लासयतु नाम अङ्गानां नयनस्य च चेतनत्वात्, किन्तु स तासां जडरोमाण्यपि उल्लासयति चेत्, तर्हि आश्चयमेव यतः जडानां कुतो हर्षः / तेषां हर्षणं जडप्रस्तरादीनां नर्तनमिवास्तीति भावः // 34 // व्याकरण-उल्लास्यताम् उत् + लस् + णिच् + लोट ( कर्मवाच्य ) / पिबः पिबतीति /पा+शः ("पा-घ्रा-मा-धेट-दृशः' (3 / 1 / 136) पिबादेश / अनति / नृत् + णिच् + लुड् ( कर्मवाच्य ) / छेदः /छिद् + घन ( भावे ) / महर्षि / हृष् + णिच् + लुङ, ( कर्मवाच्य ) / ___अनुवाद-कामदेव उन ( सुन्दरियों ) के नल के अंग से छुए अंग को हर्षोल्लसित करता है, तो करे; ( इसी तरह ) नल के प्रतिबिम्ब को देखने वाले नयनों को भी हर्षोल्लसित करता है, तो करे, (किन्तु ) काटने पर भी चेतना