Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
षड्द्रव्य-- पंचास्तिकायवर्णन
इसलिये, यद्यपि कालका, अस्तिकायपनेके अभावके कारण, यहाँ अस्तिकायकी सामान्य प्ररूपणामें साक्षात् कथन नहीं है तथापि जीव - पुद्गलके परिणामकी अन्यथा अनुपपत्ति द्वारा सिद्ध होनेवाला निश्चयरूप काल और उनके परिणामके आश्रित निश्चिय होनेवाला व्यवहाररूप काल पंचास्तिकायकी भांति लोकरूपमें परिणत है-ऐसा, अत्यन्त तीक्ष्ण दृष्टिसे से जाना जा सकता है || २६ ॥
इसप्रकार समयव्याख्यान नामकी टीकामें षड़द्रव्यपंचास्तिकायके सामान्य व्याख्यानरूप पीठिका समाप्त हुई।
संस्कृत तात्पर्यवृत्ति गाथा - २६
अथ पूर्वगाथायां यद्र्धवहारकालस्य कथंचित्परात्तत्वं कथितं तत्केन रूपेण संभवतीति पृष्ठे युक्तिं दर्शयति - णत्थि नास्ति न विद्यते। किं चिरं वा ख्रिष्पं-चिरं बहुतरकालस्वरूपं क्षिप्रं शीघ्रं च । कथंभूतं । मत्तारहियं - तु मात्रारहितं परिमाणरहितं मानविशेषरहितं च तन्मात्राशब्दवाच्यं परिमाणं चिरकालस्य घटिकाप्रहरादिरिति, क्षित्रस्य सूक्ष्मकालस्य च मात्राशब्दवाच्यं परिमाणं च । किं ? समयावलिकादीति । 'सावि खलु मत्ता पोग्गलदव्वेण विणा सूक्ष्कालस्य या समयादिमात्रा सा मंदगतिपरिणतपुद्रलपरमाणुनयनपुट विघटनादिपुद्गलद्रव्येण विना न ज्ञायते चिरकालघटिकादिरूपा मात्रा च घटिकानिमित्तभूतजलभाजनादिद्रव्येण विना न ज्ञायते । तम्हा कालो पहुच्च भवोतस्मात्कारणात्समयघटिका दिसूक्ष्मस्थूलरूपो व्यवहारकालो यद्यपि निश्चयेन द्रव्यकालस्य पर्यायस्तथापि व्यवहारेण परमाणुजलादिमुद्गलद्रव्यं प्रतीत्याश्रित्य निमित्तीकृत्य भव उत्पन्नो जात इत्यभिधीयते । केन दृष्टांतेन । यथा निश्चयेन पुद्गलपिंडोपादानकारणेन समुत्पनांपि घटः व्यवहारंण कुंभकारनिमित्तेनोत्पन्नत्वात्कुम्भकारेण कृत इति भण्यते तथा समयादिव्यवहार कालो यद्यपि निश्चयन परमार्थकालोपादानकारणेन समुत्पन्नः तथापि समयनिमित्तभूतपरमाणुना घटिकानिमित्त. भूतजलादिपुद्गलद्रव्येण च व्यज्यमानत्वात् प्रकटीक्रियमाणत्वात्पुद्गलोत्पन्न इति भण्यते । पुनरपि कश्चिदाह- ममयरूप एवं परमार्थकालो न चान्यः कालाणुद्रव्यरूप इति । परिहारमाह । समयस्तावत्सूक्ष्मकालरूप: प्रसिद्धः एवं पर्यायः न च द्रव्यं । कथं पर्यायत्वमिति चेत् ? उत्पन्नप्रध्वंसित्वात्पर्यायस्य "समओ उप्पण्णपद्धंसी" ति वचनात् । पर्यास्तु द्रव्यं बिना न भवति, द्रव्यं च निश्चयेनाविनश्वरं तत्र्व कालपर्यायस्योपादानकारणभूतं कालाणुरूपं कालद्रव्यमेव न च पुद्गलादि तदपि कस्मात् ? उपादानकारणसदृशत्वात्कार्यस्य मृत्पिंडोपादानकारणसमुत्पन्नघटकार्यवदिति । किंच विशेषः कालः एव परमार्थकालवाचकभूतः स्वकीयवाच्यं परमार्थकालस्वरूपं व्यवस्थापयति साधयति । किंवत् । सिंहशब्दः सिंहपदार्थवत् सर्वज्ञशब्दः सर्वज्ञपदार्थवत् इन्द्रशब्द इन्द्रपदार्थर्वादत्यादि । पुनरप्युपसंहाररूपेण निश्चयकालव्यवहारकालस्वरूपं कथ्यते । तद्यथा--र -- समयादिरूपसूक्ष्मव्यवहारकालस्य घटिकादिरूपस्थूलव्यवहारकालस्य च यद्युपादानकारणभूतकालस्तथापि समयघटिकारूपेण या विवक्षिता व्यवहाकालस्य भेदकल्पनतया रहितस्त्रिकालस्थायित्वेनानाद्यनिधना