Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
पंचास्तिकाय प्राभृत
२२३ सं० ता०-अथ शब्दस्य पुद्गलस्कंधपर्यायत्वं दर्शयति—यदो-श्रवणेन्द्रियावलम्बनो भावेन्द्रियपरिच्छेद्यो ध्वनिविशेष: शब्द: । स च किंविशिष्टः । खंदप्पभवो-स्कंधेभ्यः सकाशादुत्पन्न: प्रभवः इति स्कंधप्रभवः । स्कंधलक्षणं कथ्यते । खंदो परमाणुसंगसंघादो-स्कंधो भवति । कथंभूतः । परमाणुसंगसंघात; अनंतरपरमाणुसंगानां समूहानामपि संघात: समुदाय: । इदानी स्कंधेभ्यः सकाशाच्छब्दस्य प्रभवत्वमुत्पत्ति कथयति । पुढेसु तेसु-स्पृष्टेषु तेषु पूर्वोक्तेषु स्कंधेषु स्पृष्टेषु लग्नेषु परस्परं संघट्टितेषु सत्सु, जायदि-जायते प्रभवति । स क: कर्ता । सद्दो-पूर्वोक्तशब्दः । अवमत्राभिप्राय: । द्विविधा स्कंधा भवन्ति भाषावर्गणायोगया ये तेऽभ्यंतरे कारणभूताः सूक्ष्मास्ते च निरंतरं लोके तिष्ठन्ति, ये तु बहिरंगकारणभूतास्ताल्वोष्ठपटव्यापारघंटाभिवातमेघादयस्ते स्थूला: क्वापि क्वापि तिष्ठन्ति न सर्वत्र यत्रेयमभयसामग्री समदिता तत्र भाषावर्गणा: शब्दरूपेण परिणमन्ति न सर्वत्र । स च शब्दः किं विशिष्टः । उप्पादिगो णियदो-भाषावर्गणा स्कंधेभ्य उत्पद्यते इत्युत्पादक: नियतो निश्चित: न चाकाशद्रव्यरूपस्तद्गुणो वा यद्याकाशगुणो भवति लर्हि श्रवणेन्द्रियविषयो न भवति । कस्मात् ? आकाशगुणस्यामूर्तत्वादिति । अथवा "उप्पादिगो' प्रायोगिक: पुरुषादिप्रयोग-प्रभवः “णियदो' नियतो वैश्रसिको मेघादिप्रभवः । अथवा भाषात्मको भाषारहितश्चेति, भाषात्मको द्विविधोऽक्षरात्मकोऽनक्षरात्मकश्शेति । अक्षरात्मक: संस्कृतप्राकृतादिरूपेणार्यम्लेच्छभाषाहेतुः, अनक्षगत्मको द्वीन्द्रियादिशब्दरूपो दिव्यध्वनिरूपश्च । इदानीमभाषात्मकः कथ्यते । सोपि द्विविधो प्रायोगिको वैश्रसिकश्चेति । प्रायोगिकस्तु ततविततघनसुषिरादिः । तथा चोक्तं । "ततं वीणादिकं ज्ञेयं विततं पटहादिकं । घनं तु कंसतालादि सुधिरं वंशादिकं विदुः ।।" वैश्रसिकस्तु-मेघादिप्रभव: पूर्वोक्त एव । इदं सर्वं हेयतत्त्वमेतस्माद्भित्रं शुद्धात्मतत्तवमुपादेयमिति भावार्थः ।।७९।। एवं शब्दस्य पुद्गलद्रव्यपर्यायवस्थापनामुख्यत्वेन तृतीयगाथा गता। • हिं० ता०-उत्थानिका-आगे कहते हैं कि शब्द पुद्गलद्रव्यका पर्याय है
अन्वयसहित सामान्यार्थः-(सहो) शब्द ( खंघप्पभयो) स्कन्थसे उत्पन्न होता है । (खंधो ) वह स्कन्ध ( परमाणुसंगसंघादो) अनंत परमाणुओंके समूहके मेलसे बनता है । ( तेसु पुढेसु) उन स्कंधोंके परस्पर स्पर्श होनेपर (णियदो) निश्चयसे ( उप्पादगो) भाषावर्गणाओंसे होनेवाला ( सद्दो) शब्द ( जायदि ) उत्पन्न होता है।
विशेषार्थ-स्कन्ध दो प्रकारके यहाँ लेने योग्य हैं । एक तो भाषावर्गणा योग्य स्कन्य जो शब्दके भीतरी या मूल कारण हैं और सूक्ष्म हैं तथा निरन्तर लोकमें रह रहे हैं। दूसरी बाहरी कारणरूप स्कन्ध जो ओंठ आदिका व्यापार, घंटा आदिका हिलाना व मेधादिकका