Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 353
________________ पंचास्तिकाय प्राभृत ३४९ रागद्वेषपरिणामो दिममत्वरूपविकल्पजालविरहितनिमहशुद्धात्मसंवित्त्यादिगुणसहितपरमात्मविलक्षणो मोहपरिणामो वा । पुनरपि किं नास्ति यस्य योगिनः । जोगपरिणामो शुभाशुभकर्मकांडरहितनिः क्रियशुद्धचैतन्यपरिणतिरूपज्ञानकांडसहितपरमात्मपदार्थस्वभावद्विपरीतो मनोवचनकार्याक्रियारूपव्यापारः । · इयं ध्यानसामग्री कथिता । अथ ध्यानलक्षणं कथ्यते । तस्स सुहासुहदहणो झाणमओ जायदे अगणी - तस्य निर्विकारनिःक्रियचैतन्यचमत्कारपरिणतस्य शुभाशुभकर्मेन्धनदहनसामर्थ्यलक्षणो ध्यानमयोऽग्निर्जायते इति । तथाहिं । यथा स्तोकोप्यग्निः प्रचुरतृणकाष्ठराशि स्तोककालेनैव दहति तथा मिथ्यात्वकषायादिविभावपरित्यागलक्षणेन महावातेन प्रज्वलितस्तथापूर्वाद्भुतपरमाह्लादैकसुखलक्षणेन घृतेन सिंचितो निश्चलात्मसंवित्तिलक्षणो ध्यानाग्निः मूलोत्तरप्रकृतिभेदभिन्नं कर्मेधनराशि क्षणमात्रेण दहतीति । अत्राह शिष्यः । अद्य काले ध्यानं नास्ति । कस्मादिति चेत् ? दशचतुर्दशपूर्वश्रुताधारपुरुषाभावात्प्रथमसंहननाभावाच्च । परिहारमाह- अद्य काले शुक्लध्यानं नास्ति । तथा चोक्तं-श्रीकुंदकुंदाचार्यदेवैरेव मोक्षप्राभृते— " 'भरहे दुस्समकाले धम्मज्झाणं हवेइ णाणिस्स । तं अप्पसहावविदे ण हु मण्णइ सो दु अण्णाणी" "अज्जवि तियरण - सुद्धा अप्पा झाएवि लहहि इन्दत्तं । लोयंतिय देवत्तं तस्य चुदा णिव्वुदिं जंति । अत्र युक्तिमाह । यद्यकाले यथाख्यातसंज्ञं निश्चयचारित्रं नास्ति तर्हि सरागचारित्रसंज्ञमपहृतसंयममाचरंतु तपस्विनः । तथा चोक्तं तत्त्वानुशासनध्यानग्रंथे— "चरितारो न संत्यद्य यथाख्यातस्य संप्रति । तत्किमन्ये यथाशक्तिमाचरंतु तपोधनाः' 1+ I यत्त्वोक्तं सकलश्रुतधारिणां ध्यानं भवति तदुत्सर्गवचनं, अपवादव्याख्याने तु पंचसमितित्रिगुप्तिप्रतिपादकश्रुतिपरिज्ञानमात्रेणैव केवलज्ञानं जायते यद्येवं न भवति तर्हि "तुसमासं धोतो त्रिभूदी केवली जादो" इत्यादि वचनं कथं घटते। तथा चोक्तं चारित्रसारादिग्रंथे पुलाकादिपंचनिर्ग्रथव्याख्यानकाले । मुहूर्तादूर्ध्वं ये केवलज्ञानमुत्पादयंति ते निर्ग्रथा भण्यंते क्षीणकषायगुणस्थानवर्तिनस्तेषामुत्कृष्टेन श्रुतं चतुर्दशपूर्वाणि जघन्येन पुन: पंचसमितित्रिगुप्तिसंज्ञा अष्टौ प्रवचनमातरः । यदप्युक्तं वज्रवृषभनाराचसंज्ञप्रथमसंहनेन ध्यानं भवति तदप्युत्सर्गवचनं अपवादव्याख्यानं पुनरपूर्वादिगुणस्थानवर्तिनां उपशमक्षपक श्रेण्योर्यच्छुक्लध्यानं तदपेक्षया स नियम:, अपूर्वादधस्तनगुणस्थानेषु धर्मध्याने निषेधकं न भवति । तदप्युक्तं तत्त्वानुशासने अंतो णत्थि सुदीणं कालो थोओ वयं च दुम्मेहा | तपणवरि सिक्खियां जं जरमरणं खयं कुणइ ।। १४६ ।। " "यत्पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्योर्ध्यानं प्रतीत्योक्तं तन्नाथस्तान्निषेधकं ।। एवं स्तोकश्रुतेनापि ध्यानं भवतीति ज्ञात्वा किमपि शुद्धात्मप्रतिपादकं संवरनिर्जराकरणं जरमरणहरं सारोपदेशं गृहीत्वा ध्यानं कर्तव्यमिति भावार्थः । उक्तं च ।

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421