SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ पंचास्तिकाय प्राभृत ३४९ रागद्वेषपरिणामो दिममत्वरूपविकल्पजालविरहितनिमहशुद्धात्मसंवित्त्यादिगुणसहितपरमात्मविलक्षणो मोहपरिणामो वा । पुनरपि किं नास्ति यस्य योगिनः । जोगपरिणामो शुभाशुभकर्मकांडरहितनिः क्रियशुद्धचैतन्यपरिणतिरूपज्ञानकांडसहितपरमात्मपदार्थस्वभावद्विपरीतो मनोवचनकार्याक्रियारूपव्यापारः । · इयं ध्यानसामग्री कथिता । अथ ध्यानलक्षणं कथ्यते । तस्स सुहासुहदहणो झाणमओ जायदे अगणी - तस्य निर्विकारनिःक्रियचैतन्यचमत्कारपरिणतस्य शुभाशुभकर्मेन्धनदहनसामर्थ्यलक्षणो ध्यानमयोऽग्निर्जायते इति । तथाहिं । यथा स्तोकोप्यग्निः प्रचुरतृणकाष्ठराशि स्तोककालेनैव दहति तथा मिथ्यात्वकषायादिविभावपरित्यागलक्षणेन महावातेन प्रज्वलितस्तथापूर्वाद्भुतपरमाह्लादैकसुखलक्षणेन घृतेन सिंचितो निश्चलात्मसंवित्तिलक्षणो ध्यानाग्निः मूलोत्तरप्रकृतिभेदभिन्नं कर्मेधनराशि क्षणमात्रेण दहतीति । अत्राह शिष्यः । अद्य काले ध्यानं नास्ति । कस्मादिति चेत् ? दशचतुर्दशपूर्वश्रुताधारपुरुषाभावात्प्रथमसंहननाभावाच्च । परिहारमाह- अद्य काले शुक्लध्यानं नास्ति । तथा चोक्तं-श्रीकुंदकुंदाचार्यदेवैरेव मोक्षप्राभृते— " 'भरहे दुस्समकाले धम्मज्झाणं हवेइ णाणिस्स । तं अप्पसहावविदे ण हु मण्णइ सो दु अण्णाणी" "अज्जवि तियरण - सुद्धा अप्पा झाएवि लहहि इन्दत्तं । लोयंतिय देवत्तं तस्य चुदा णिव्वुदिं जंति । अत्र युक्तिमाह । यद्यकाले यथाख्यातसंज्ञं निश्चयचारित्रं नास्ति तर्हि सरागचारित्रसंज्ञमपहृतसंयममाचरंतु तपस्विनः । तथा चोक्तं तत्त्वानुशासनध्यानग्रंथे— "चरितारो न संत्यद्य यथाख्यातस्य संप्रति । तत्किमन्ये यथाशक्तिमाचरंतु तपोधनाः' 1+ I यत्त्वोक्तं सकलश्रुतधारिणां ध्यानं भवति तदुत्सर्गवचनं, अपवादव्याख्याने तु पंचसमितित्रिगुप्तिप्रतिपादकश्रुतिपरिज्ञानमात्रेणैव केवलज्ञानं जायते यद्येवं न भवति तर्हि "तुसमासं धोतो त्रिभूदी केवली जादो" इत्यादि वचनं कथं घटते। तथा चोक्तं चारित्रसारादिग्रंथे पुलाकादिपंचनिर्ग्रथव्याख्यानकाले । मुहूर्तादूर्ध्वं ये केवलज्ञानमुत्पादयंति ते निर्ग्रथा भण्यंते क्षीणकषायगुणस्थानवर्तिनस्तेषामुत्कृष्टेन श्रुतं चतुर्दशपूर्वाणि जघन्येन पुन: पंचसमितित्रिगुप्तिसंज्ञा अष्टौ प्रवचनमातरः । यदप्युक्तं वज्रवृषभनाराचसंज्ञप्रथमसंहनेन ध्यानं भवति तदप्युत्सर्गवचनं अपवादव्याख्यानं पुनरपूर्वादिगुणस्थानवर्तिनां उपशमक्षपक श्रेण्योर्यच्छुक्लध्यानं तदपेक्षया स नियम:, अपूर्वादधस्तनगुणस्थानेषु धर्मध्याने निषेधकं न भवति । तदप्युक्तं तत्त्वानुशासने अंतो णत्थि सुदीणं कालो थोओ वयं च दुम्मेहा | तपणवरि सिक्खियां जं जरमरणं खयं कुणइ ।। १४६ ।। " "यत्पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्योर्ध्यानं प्रतीत्योक्तं तन्नाथस्तान्निषेधकं ।। एवं स्तोकश्रुतेनापि ध्यानं भवतीति ज्ञात्वा किमपि शुद्धात्मप्रतिपादकं संवरनिर्जराकरणं जरमरणहरं सारोपदेशं गृहीत्वा ध्यानं कर्तव्यमिति भावार्थः । उक्तं च ।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy