Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 416
________________ ४१२ मोक्षमार्ग प्रपंच सूचिका चूलिका यदा यथा । इत्यष्टांगानि योगानां साधनानि भवंति च'। अस्य संक्षेपव्याख्यानं "गुप्तेन्द्रियमना ध्याता ध्योयं वस्तु यदा स्थितं । एकाग्मचिंतनं ध्यानं फलं संवरनिर्जरे" || इत्यादि तत्त्वानुशासनध्यानग्रन्थादौ कथितमार्गेण जघन्यमध्यमोत्कृष्टभेदेन त्रिधा ध्यातारो ध्यानानि च भवंति। तदपि नाम्यात् ? तीयोत मारने कलायम ध्यानसामग्री जघन्यादिभेदेन विधेति वचनात् । अथवातिसंक्षेपेण द्विधा ध्वातारो भवन्ति शुद्धात्मभावनाप्रारंभकाः पुरुषाः सूक्ष्मसविकल्पावस्थायां प्रारब्धयोगिनो भण्यन्ते निर्विकल्पशुद्धात्मावस्थाया पुनर्निष्पन्नयोगिन इति संक्षेपेणाध्यात्मभाषया ध्यातृध्यानध्योयानि संवरनिर्जरासाधाकरागादिविकल्परहितपरमानंदैकलक्षणसुखवृद्धिनिर्विकारस्वसंवेदनज्ञानवृद्धिबुद्ध्यादिसप्तद्धिरूपध्यानफलभेदा ज्ञातव्याः । किंच । शिक्षकप्रारंभककृताभ्यासनिष्पन्नरूपेण कैश्चिदन्यत्रापि यदुक्तं ध्यातृपुरुषलक्षणं तदत्रैवांतर्भूतं यथासंभवं द्रष्टव्यमिति । इदानी पुनरागमभाषया घटकालाः कथ्यते । यदा कोपि चतुर्विधाराधनाभिमुखः सन् पंचाचारोपेतमाचार्य प्राप्योभयपरिग्रहरहितो भूत्वा जिनदीक्षां गृह्णाति तदा दीक्षानंतरं चतुर्विधराधनापरिज्ञानार्थमाचाराराधनादिचरणकरणग्रंथशिक्षां गृह्णाति तदा शिक्षानंतरं चरणकरणकथितार्थानुष्ठानेन व्याख्यानेन च पंचभावनासहित: सन् शिष्यगणपोषणं करोति तदा गणपोषणकालः। भावना; कथ्यते तप:श्रुतसत्त्वैकत्वसंतोषभेदेन 'भावना: पंचविधा भवंति । तद्यथा । अनशनादिद्वादशविनिर्मलतपश्चरणं तपोभावना, तस्याः फलं विषयकषायजयो भवति प्रथमानियोगचरणानियोगकरणानियोगद्रव्यानियोगभेदेन चतुर्विध आगमाभ्यास: श्रुतभावना । तथाहिं— त्रिषष्ठिशलाकापुरुषपुराणव्याख्यानं प्रथमानियोगो भण्यते, उपासकाध्ययनचाराराधनादिग्रंथैर्देशचारित्रसकलचारित्रव्याख्यानं चरणानियोगो भण्यते, जिनांतरत्रिलोकसारलोकविभागलोकानियोगादिव्याख्यानं करणानियोगो भण्यते, प्राभृततत्त्वार्थसिद्धान्तग्रंथैर्जीवादिषद्रव्यादीनां व्याख्यानं द्रव्यानियोग इति, तस्याः श्रुतभावनाया: फलं जीवादितत्त्वविषये संक्षेपेण हेयोपादेय तत्त्वविषये वा संशयविमोहविभ्रमरहितो निश्चलपरिणामो भवति । उक्तं च---"आत्महितास्था भावस्य संवरो नवनवश्च संवेग: नि:कंपता तपोभावना परस्योपदेशनं ज्ञातुः" मूलोत्तरगुणाद्यनुष्ठानविषये निर्गहनवृत्तिः सत्त्वभावना, नस्या फलं घोरोपसर्गपारीषहप्रस्तावेपि निगहनेन मोक्षं साध्यति पांडवादिवत् । “एगो मे सासदो अप्पा णाणदंसणलक्खणो। सेसा मे बाहिरा भावा सचे संजोगलक्खणा ।।'' इत्येकत्वभावना तस्याः फलं स्वजनपरजनादौ निमोहत्वं भवति। तथा चोक्तं । "भगिनी विडंब्यमानां यथा विलोक्यैकभावनाचतुरः। जिनकल्पितो न मूढः क्षपकोपि तथा न मुहो त'' || मानापमानसमताबलेनाशनपानादौ यथालाभेन संतोषभावना तस्याः फलं रागाधुपाधिरहितपरमानंदैकलक्षणात्मोत्थसुखतृप्त्या निदानबंधादिविषयसुखनिवृत्तिरिति, गणपोषणानंतर स्वकीयगणं त्यक्वात्मभावनासंस्कारार्थी भूत्वा परगणं गच्छति तदात्मसंस्कारकालः, आत्मसंस्कारानंतरमाचाराराधनाकथितक्रमेण द्रव्यभावसल्लेखनां करोति तदा सल्लेखनाकालः, सल्लेखनानंतरं चतुर्विधराधनाभावनया समाधिविधिना कालं करोति तदा स उत्तमार्थकालश्चेति । अत्रापि केचन प्रथमकालादावपि चतुर्विधाराधनां

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421