Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
षद्रव्य-पंचास्तिकायवर्णन उसी प्रकार 'वृक्षमें शाखाएँ, 'द्रव्यमें गुण' ऐसे अनन्यपनेमें भी ( विषय अर्थात् आधार ) होता हैं : इसलिये व्यपदेश आदि, द्रव्य गुणोंमें वस्तुरूपसे भेद सिद्ध नहीं करते ॥४६।।
संस्कृत तात्पर्यवृत्ति गाथा-४६ अथ व्यपदेशादयो द्रव्यगुणानामेकांतेन भिन्नत्वं साधयंतीति समर्थयति, -बबदेसा संठाणा संखा विसया य-व्यपदेशा: संस्थानानि संख्या विषयाश्च होंति-भवन्ति ते-ते पूर्वोक्तव्यपदेशादय: कति संख्योपेता: बहुगा प्रत्येकं बहवः ते तेसिमणपणत्ते विज्जंते ते व्यपदेशादयस्तेषां द्रव्यगुणानां कथंचिदनन्यत्वे विद्यते । अण्णत्ते चावि कथंचिदन्यत्वे चापि । नैयायिकाः किल वदन्ति द्रव्यगुणानां यद्येकांतेन भेदो नास्ति तर्हि व्यपदेशादयो न घटते, तत्रोत्तरमाहुः । द्रव्यगुणानां कथंचिद्रेदे तथैवाभेदेपि व्यपदेशादयः संतीति । तद्यथा-षट् ( षष्टी ) कारकभेदेन संज्ञा द्विविधा भवति देवदत्तस्य गौरित्यन्यत्वे व्यपदेशः, तथैव वृक्षस्य शाखा जीवस्यानंतज्ञानादिगुणा इत्यनन्यत्वेपि व्यपदेशः । कारकसंज्ञा कथ्यते। देवदत्त:-कर्ता फलं कर्मतामन्नमंकुशेन करणभूतेन धनदत्ताय निमित्त वृक्षात्सकाशाद्वाटिकायामधिकरणभूतायामवचिनोतीत्यन्यत्वे कारकसंज्ञा तथैवात्मा कर्तात्मानं कर्मतापत्रमात्मना करणभूतेनात्मने निमित्तमात्मनः सकाशादात्मन्यधिकरणभूते ध्यावतीत्यनन्यत्वेपि कारकसंज्ञा । दीर्घस्य देवदत्तस्य दीघों गौरित्यन्यत्वे संस्थानं दीर्घस्य वृक्षस्य दीर्घशाखाभार: मूर्तद्रव्यस्य मूर्ता गुणा इत्यभेदे च संस्थानं । संख्या कथ्यते । देवदत्तस्य दशगाव इत्यन्यत्वे संख्या तथैव वृक्षस्य दशशाखा द्रव्यस्यानंतगुणा इत्यभेदेपि । विषय: कथ्यते गोष्ठे गावः इति भेदे विषय: तथैव द्रव्यगुणा इत्यभेदेपि । एवं व्यपदेशादयो भेदाभेदाभ्यां घटते तेन कारणेन द्रव्यगुणानामेकांतेन भेदं न साधयंतीति । अत्र गाथायां नामकर्मोदयजनितनरनारकादिरूपव्यपदेशाभावेपि शुद्धजीवास्तिकायशब्देन व्यपदेश्यं वाच्यं निश्चयनयेन समचतुरस्रादिषट्सस्थानरहितमपि व्यवहारेण भूतपूर्वकन्यायेन किंचिदूनचरमशरीराकारेण संस्थानं । केवलज्ञानाद्यनंतगुणरूपेणानंतसंख्यानमपि लोकाकाशप्रमितासंख्येयशुद्धप्रदेशरूपेणासंख्यातसंख्यानं पंचेन्द्रियविषयसुखरसास्वादरतानामविषयमपि पंचेन्द्रियविषयातीतशुद्धात्मभावनोत्पन्नवीतरागसदानंदैकसुखरूपसर्वात्मपदेशपरमसमरसीभावपरिणतध्यानविषयं च यच्छुद्धजीवास्तिकायस्वरूपं तदेवोपादेयमिति तात्पर्य ।।४६।।
हिन्दी तात्पर्यवृत्ति गाथा-४६ उत्थानिका-आगे यह बताते हैं कि द्रव्य और गुणोंमें नाम आदिकी अपेक्षा भेद है तो भी वे एकांतसे द्रव्य और गुणोंका भिन्नपना नहीं साधते हैं।
अन्वयसहित सामान्यार्थ-( ववदेसा) कथन या संज्ञाके भेद ( संठाणा) आकारके भेद ( संखा ) संख्या या गणना ( य विसया ) और विषय या आधार ( ते बहुगा होति) ये बहुत प्रकारके होते हैं ( ते) ये चारों ( तेसिं) उन द्रव्य और गुणोंकी ( अणण्णत्ते ) एकतामें ( चावि ) तैसे ही ( अण्णत्ते ) उसकी भिन्नपनामें ( विज्जते ) होते हैं।