________________
पंचास्तिकाय प्राभृत
२१७
२१७ परमाणुव्याख्येयम् ।
सव्वेसिं खंधाणं जो अंतो तं वियाण परमाणू । सो सस्सदो असद्दो एक्को अविभागी मुत्तिभयो ।।७७।।
सर्वेषां स्कंधानां योऽन्त्यस्तं विजानीहि परमाणुम् !
स शाश्वतोऽशब्दः एकोऽविभागी मूर्तिभवः ।।७७।। उक्तानां स्कंधरूपपर्यायाणां योऽन्त्यो भेदः स परमाणुः । स तु पुनर्विभागाभावादविभागी, निर्विभागैकदेशत्वादेकः, मूर्तद्रव्यत्वेन सदाप्यविनश्वरत्वान्नित्यः, अनादिनिधनरूपादिपरिणामोत्पन्नत्वान्मूर्तिभवः, रूपादिपरिणामोत्पन्नत्वेऽपि शब्दस्य परमाणुगुणत्वाभावात्पुद्गलस्कन्धपर्यायत्वेन वक्ष्यमाणत्वाच्चाशब्दो निश्चीयत इति ।।७७।।
अन्वयार्थ-( सर्वेषां स्कन्धानां ) सर्व स्कन्धोंका ( य: अन्त्यः ) जो अंतिम भाग ( तं ) उसे ( परमाणुम् विजानीहि ) परमाणु जानो ( सः ) वह ( अविभागी) अविभागी ( एकः ) एक, ( एक प्रदेशी ) ( शाश्वत: ) शाश्वत, ( मूर्तिभवः ) मूर्तिप्रभव ( मूर्तरूपसे उत्पन्न होनेवाला) और ( अशब्दः ) अशब्द है । टीका—यह, परमाणुकी व्याख्या है।
पूर्वोक्त स्कन्धरूप पर्यायोंका जो अन्तिम भेद ( छोटे से छोटा अंश ) वह परमाणु है। और वह तो, विभागके अभावके कारण अविभागी है, निर्विभाग-एकप्रदेशी होनेसे एक है, मूर्तद्रव्यरूपसे सदैव अविनाशी होनेसे नित्य है, अनादि अनंत रूपादिके परिणामसे उत्पन्न होनके कारण मूर्तिप्रभव है, और रूपादिके परिणामसे उत्पत्र होने पर भी अशब्द है ऐसा निश्चित है, क्योंकि शब्द परमाणुका गुण नहीं है तथा उसका [शब्दका] आगे ( ७९ वीं गाथामें ) पुद्गलस्कन्धपर्यायरूपसे कथन है ।।७७।।
सं० ता०-अथ तानेव षड्भेदान् विवृणोतिपुढवी जलं च छाया चरिदिय-विसय कम्म-पाओग्गा । कम्मातीदा येवं छल्भेया पोग्गला होति ।
पृथिवी जलं च छाया चक्षुर्विषयं विहाय चतुरिन्द्रियविषयाः कर्मप्रायोग्याः कर्मातीता इति षड्भेदाः पुद्गला भवन्ति । ते च कथंभूताः ? स्थूलस्थूला: स्थूला; स्थूलसूक्ष्माः सूक्ष्मस्थूला: सूक्ष्माः सूक्ष्मसूक्ष्माः इति । तद्यथा । ये-छिन्ना: संतः स्वयमेव संधातुमसमर्थास्ते स्थूलस्थूला: भूपर्वतादयः, ये तु छिन्त्रा: संत: तत्क्षणादेव संधानेन स्वयमेव समर्थास्ते स्थूला: सर्पिस्तैलजलादयः, ये तु हस्तेनादातुं देशांतरं नेतुं अशक्यास्ते स्थूलसूक्ष्मा: छायातपादयः, ये पुनलोचनविषया न भवन्ति ते सूक्ष्मस्थूलाश्चतुरिन्द्रियविषया, ये तु ज्ञानावरणादिकर्मवर्गणायोग्यास्ते सूक्ष्मा