________________
पंचास्तिकाय प्राभृत विभक्तप्रदेशत्वस्वरूप अन्यपना तथा [ विभक्तप्रदेशत्वस्वरूप ] अनन्यपना स्वीकार नहीं किया जाता। वह स्पष्ट समझाया जाता है जिस प्रकार एक परमाणुको एक स्वप्रदेशके साथ अविभक्तपना होनेसे अनन्यपना है, उसी प्रकार एक परमाणुको तथा उसमें रहनेवाले स्पर्शरस-गंध-वर्ण आदि गुणोंको अविभक्त प्रदेश होनेसे ( अविभक्तप्रदेशत्वस्वरूप ) अनन्यपना है, परन्तु जिस प्रकार अत्यन्त दूर ऐसे सह्य और विंध्यपर्वतको विभक्तप्रदेशत्वस्वरूप अन्यपना है तथा अत्यन्त निकट ऐसे मिश्रित क्षीर-नीरको विभक्तप्रदेशत्वस्वरूप अनन्यपना है, उसी प्रकार द्रव्य और गुणोंको विभक्त प्रदेश न होनेसे [ विभक्तप्रदेशत्वस्वरूप] अन्यपना तथा विभक्त प्रदेश स्वरूप अनन्यपना नहीं है ।।४५।।
संस्कृत तात्पर्यवृत्ति गाथा-४५ द्रव्यगुणानां यथोचितमभित्रप्रदेशमनन्यत्वं प्रदर्शयति,---अविभत्तमणण्णत्तं-अविभक्तमनन्यत्वं मन्यत इति क्रियाध्याहार: । केषां । दव्यगुणाणं-द्रव्यागुणानामिति । तथाहि-यथा परमाणोर्वर्णादिगुणैः सहानन्यत्वमभिन्नत्वं । कथंभूतं तत् ? अविभक्तमभिन्नप्रदेशत्वं तथा शुद्धजीवद्रव्ये केवलज्ञानापियरिकरूप: स्वावगुणानां धैकशुद्धजीवे मतिज्ञानादिव्यक्तिरूपविभावगुणानां शेषद्रव्याणां गुणानां च यथा संभवमभिन्नप्रदेशलक्षणमनन्यत्वं ज्ञातव्यं । विभक्तमण्णतं णेच्छंति—विभक्तमन्यत्वं नेच्छन्ति । तद्यथा । अन्यत्वं भिन्नत्वं न मन्यते । कथंभूतं तत् । विभक्तं भिन्नप्रदेश सह्यविंध्ययोरिव । के नेच्छन्ति । णिच्चयबहू-निश्चयज्ञा जैना: न केवलं भिन्त्रप्रदेशमन्यत्वं नेच्छन्ति, तबिवरीदं हि वा- तद्विपरीतं वा, तेसिं—तेषां द्रव्यगुणानां तस्मादन्यत्वाद्विपरीतं तद्विपरीतमनन्यत्वमित्यर्थः । तदपि कि विशिष्टं नेच्छन्ति । एकक्षेत्रावगाहेपि भिन्नप्रदेश भित्रप्रदेशतोयपयसोरिव । कस्मान्नेच्छंतीति चेत्सह्यविंध्ययोरिव तोयपयसोरिव तेषां द्रव्यगुणानां भिन्नप्रदेशाभावादिति । अथवा अनन्यत्वमभित्रत्वं नेच्छन्ति द्रव्यगुणानां । कथंभूतं तत् । अविभक्तं एकांतेन यथा प्रदेशरूपेणाभित्रं तथा संज्ञादिरूपेणाप्यभिन्नं नेच्छन्ति । न केवलमित्थंभूतं अनन्यत्वं नेच्छन्ति अन्यत्वं भिन्नत्वमपि नेच्छति । कथंभूतं । विभक्तं एकांतेन यथा संज्ञादिरूपेण भिन्नं तथा प्रदेशरूपेणापि भिन्नं । न केवलमेकांतेनानन्यत्वमन्यत्वं च नेच्छन्ति "तव्यिधरीदे हि वा तेसि" मिति पाठांतरं तद्विपरीताभ्यां वा ताभ्या परस्परसापेक्षानन्यत्वान्यत्वाभ्यां विपरीते निरपेक्षे तद्विपरीते ताभ्यां तद्विपरीताभ्यां वा कृत्वा तेषां द्रव्यगुणानामनन्यत्वान्यत्वे नच्छन्ति किंतु परस्परसापेक्षत्वेनेच्छतीत्यर्थः । गाथासूत्रे विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वादन्यत्वरूपा ये विषयकषायास्तै रहितानां तस्मादेव परमचैतन्यरूपात् परमात्मतत्त्वात् यदनन्यत्वस्वरूपं निर्विकल्पपरमालादैकरूपसुखामृतरसास्वादानुभवनं तत्सहितानां च पुरुषाणां यदेवं लोकाकाशप्रमितासंख्येयशुद्धप्रदेशैः सह केवलज्ञानादिगुणानामनन्यत्वं तदेवोपादेयमिति भावार्थ: ।।४५।। इति गुणगुणिनो संक्षेपेण भेदाभेदव्याख्यानमुख्यत्वेन गाथात्रयं गतं ।