Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
1
पंचास्तिकाय प्राभृत
समय व्याख्या गाथा - २७
अथामीषामेव विशेषव्याख्यानम् । तत्र तावत् जीवद्रव्यास्तिकायव्याख्यानम् । जीवो ति हवदि चेदा उवओग-विसेसिदो पहू कत्ता । भोत्ता य देह - मत्तो ण हि मुत्तो कम्म संजुत्तो ।। २७ ।। जीव इति भवति चेतयितोपयोगविशेषितः प्रभुः कर्त्ता ।
-
भोत्ता च देहमात्रो न हि मूर्तः कर्मसंयुक्तः ।। २७ ।।
९३
I
अत्र संसारावस्थस्यात्मनः सोपाधि निरुपाधि च स्वरूपमुक्तम् । आत्मा हि निश्चयेन भावप्राणधारणाज्जीवः, व्यवहारेण द्रव्यप्राणधारणाज्जीवः । निश्चयेन चिदात्मकत्वात्, व्यवहारेण चिच्छक्तित्वाच्तभिता । निवृते व्यवहारेण पृथग्भूतेन चैतन्यपरिणामलक्षणेनोपयोगेनोपलक्षितत्वादुपयोगविशेषितः । निश्चयनयेन भावकर्मणां व्यवहारेण द्रव्यकर्मणामास्त्रवणबंधनसंवरणनिर्जरणमोक्षणेषु स्वयमीशत्वात् प्रभुः । निश्चयेन पौगलिककर्मनिमित्तात्मपरिणामानां व्यवहारेणात्मपरिणामनिमित्तपौङ्गलिककर्मणां कर्तृत्वात्कर्ता । निश्चयेन शुभाशुभकर्मनिमित्तसुखदुःखपरिणामानां व्यवहारेण शुभाशुभकर्मसंपादितेष्टानिष्टविषयाणां भोक्तृत्वाद्धोक्ता । निश्चयेन लोकमात्रोऽपि विशिष्टावगाहपरिणामशक्तियुक्तत्वान्नामकर्मनिर्वृत्तमणु महच्च शरीरमधितिष्ठन् व्यवहारेण देहमात्रः । व्यवहारेण कर्मभिः सहैकत्वपरिणामान्मूर्तोऽपि निश्चयेन नीरूपस्वभावत्वान्न हि मूर्तः । निश्चयेन पुलपरिणामानुरूपचैतन्यपरिणामात्मभिः, व्यवहारेण चैतन्यपरिणामानुरूपपुलपरिणामात्मभिः कर्मभिः संयुक्तत्वात्कर्मसंयुक्त इति ।। २७ ।।
हिन्दी समय व्याख्या - २७
अब उन्हींका ( षड्द्रव्य और पंचास्तिकायका ही ) विशेष व्याख्यान किया जाता है । उसमें प्रथम, जीवद्रव्यास्तिकायका व्याख्यान है।
अन्वयार्थ - ( जीवः इति भवति ) आत्मा जीव है, ( चेतयिता ) चेतयिता ( चेननेवाला ) है, ( उपयोगविशेषितः) उपयोगलक्षित है ( उपयोग लक्षण वाला है ) ( प्रभुः ) प्रभु हैं. (कर्ता) कर्ता है, (भोक्ता ) भोक्ता हैं, ( देहमात्र ) देहप्रमाण हैं, ( न हि मूर्त ) अमूर्त है (च ) और ( कर्मसंयुक्तः ) कर्मसंयुक्त है ।
टीका – यहाँ ( इस गाथामें ) संसारदशावाले आत्माका सोपाधि और निरुपाधिस्वरूप
कहा है।
आत्मा निश्चयसे भावप्राणको धारण करता है इसलिये 'जीव' व्यवहारसे द्रव्यप्राणको धारण करता है इसलिये 'जीव' हैं, निश्चयसे चित्स्वरूप होनेके कारण 'चेतयिता' (चेतनेवाला )