Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
Catalog link: https://jainqq.org/explore/023466/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ । काव्यमाला २५. श्रीमदानन्दवर्धनाचार्यप्रणीतो ध्वन्यालोकः। श्रीमदाचार्याभिनवगुप्तविरचितया व्याख्ययानुगतः । >-02 मूल्यं रूप्यकद्वयम् । AAON Page #2 -------------------------------------------------------------------------- ________________ KAVYAMALA THE DHVANYÂLOKA OF ANANDAVARDHANACHARYA With the Commentary of Abhinavaguptâchârya. EDITED BY MAHAMAHOPADHYAYA PANDIT DURGAPRASADA OF JAIPUR AND WASUDEV LAXMAN S'ASTRÎ PANS'ÎKAR. Third Revised Edition. PUBLISHED BY PÂNDURANG JAWAJÎ, PROPRIETOR OF THE 'NIRNAYA SAGAR' PRESS, BOMBAY. 1928. Price 2 Rupeas Page #3 -------------------------------------------------------------------------- ________________ [ All rights reserved by the Publisher ] PUBLISHER:Pandurang Jawaji, PRINTER :-Ramchandra Yesu Shedge, at the “Nirnaya Sagar” Press, 26-28, Kolbhat Lane, Bombay. Page #4 -------------------------------------------------------------------------- ________________ काव्यमाला २५. श्रीमदानन्दवर्धनाचार्यप्रणीतो ध्वन्यालोकः। श्रीमदाचार्यामिनवगुप्तविरचितया व्याख्ययानुगतः । - - - जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना महामहोपाध्यायपण्डितदुर्गाप्रसादेन, मुम्बापुरवासिपणशीकरोपाहलक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितः । (तृतीयावृत्तिः।) स च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितः । शाकः १८५०, खिस्तान्दः १९२८. मूल्यं रुप्यकद्वयम्। Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ ध्वन्यालोकः सलोचनः । अयं ध्वन्यालोको भागद्वयात्मकः तत्रैको भागः कारिकारूपो ध्वनिसंज्ञकः, अपरस्तद्वृत्तिरूप आलोकसंज्ञकः तत्र कारिकाणां वृत्तेश्च प्रणेता श्रीमदानन्दवर्धनाचार्य एवेति केषांचन मतम्. तथा च जहणसंकलितसूक्तिमुक्तावलौ राजशेखरनाम्ना समुद्धृतम् 'ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥' एतत्पद्यमप्यानन्दवर्धनस्यैव ध्वनिकर्तृतां सूचयति. किंतु लोचनस्थितैः “ अत एव मूलकारिका, तन्निराकरणार्था न श्रूयते वृत्तिकृत्तु निराकृतमपि प्रमेयसंख्यापूरणाय कण्ठेन तत्पक्षमनूद्य निराकरोति ।' (५९ पृष्ठे ), ' तेनात्र प्रथमोद्द्योते ध्वनेः सामान्यलक्षणमेव कारिकाकारेण कृतम् द्वितीयोध्योते कारिकाकारोऽवान्तरविभागं विशेषलक्षणं च विदधदनुवादमुखेन मूलविभागं द्विविधं सूचितवान् । तदाशयानुसारेण तु वृत्तिकृदत्रैवोयोते मूलविभागमवोचत् ।' (५९ पृष्ठे ), 'न चैतन्मयोक्तमपि तु कारिकाकाराभिप्रायेणेत्याह ।' (६० पृष्ठे), 'भवति मूलतो द्विभेदत्वं कारिकाकारस्यापि संमतमेवेति भावः । (६० पृष्ठे ), एतत्तावत्रिमेदत्वं न कारिकाकारेण कृतम् । वृत्तिकारेण तु दर्शितम् ।' (१२३ पृष्ठे),” इत्यादिभिर्वाक्यैः कारिकाकर्तुर्वृत्तिकारो भिन्न इति स्फुटमेव दृश्यते तत्र कोऽयं ध्वनिकारिकाकार इत्यनिश्चितमेव वृत्तिकारस्तु राजानकश्रीमदानन्दवर्धनाचार्यः कश्मीरेषु ख्रिस्ताब्दीयनवमशतकोत्तरभागेऽवन्तिवर्ममहीपते राज्यसमये प्रसिद्ध आसीदिति राजतरङ्गिणीतो ज्ञायते एतत्पितुश्व 'नोण' इति नामासीदित्येतत्प्रणीत देवीशतकतो बुध्यते. ध्वन्यालोकः, देवीशतकम्, विषमबाणलीला ( प्राकृतम् ), अर्जुनचरितम्, विनिश्चयटीकाया धर्मोत्तमाया विवृतिः (बौद्धग्रन्थः ), एतग्रन्थपञ्चकमेतत्प्रणीतं ज्ञायते तत्र ध्वन्यालोकः, देवीशतकं चेति ग्रन्थद्वयमेवाद्यावध्यधिगतम्. काव्यालोकः सहृदयहृदयालोक इति च ध्वन्यालोकस्यैव नामनी. अस्मिन्ध्वन्यालोके च ( १ ) अमरुकः, (२) अर्जुनचरितम्, (३) आदिकविः (वाल्मीकिः), (४) उद्भट:, (५) कादम्बरी, (६) कालिदासः, (७) कुमारसंभवम्, (८) तापसव - त्सराजः, (९) धर्मकीर्तिः, (१०) मागानन्दम् (११) बाणः, (१२) भरतः, (१३) भामहः, (१४) भारतम्, (१५) मधुमथनविजयम्, (१६) रत्नावली, (१७) रामाभ्युदयम्, (१८) रामायणम्, (१९) विषमबाणलीला, (२०) वेणीसंहारम्, (२१) व्यासः, (२२) सर्वसेनः (हरिविजयस्य प्राकृतकाव्यस्य प्रणेता), (२३) सेतु:, (२४) हरिविजयम् (प्राकृतम्), (२५) हर्षचरितम्, एतानि प्रत्नानां ग्रन्थानां ग्रन्थकर्तॄणां च नामानि समुपलभ्यन्ते. Page #7 -------------------------------------------------------------------------- ________________ लोचनाख्याया ध्वन्यालोकटीकायाः प्रणेतारो महामाहेश्वराचार्यश्रीमदभिनवगुप्तपादाचार्या अपि ख्रिस्ताब्दीयदशमशतकोत्तरभाग एकादशशतकारम्भे च कश्मीरेष्वेवासमिति तत्कृतबृहत्प्रत्यभिज्ञाविमर्षिणी समाप्तौ ' इति नवतितमेऽस्मिन्वत्सरेऽन्त्ये युगांशे तिथिशशिजलधिस्थे (४११५) मार्गशीर्षावसाने' इत्यादि पद्यात्प्रतीयते. श्रीलक्ष्मणगुप्तः भट्टेन्दुराजः, भट्टतौतः, इति त्रयोऽप्युपाध्यायाः, वराहगुप्तः पितामहः; चुखलो नाम जनकः; मनोरथगुप्तोऽनुजः; कर्णक्षेमराजाद्याश्च शिष्याः श्रीमदाचार्याभिनवगुप्तानामासन्नित्यपि तत्प्रणीतग्रन्थेभ्यो ज्ञायते. ग्रन्थाश्चाचार्यप्रणीतग्रन्थेभ्योऽस्मदवगता एते - (१) अनुत्तरा - ष्टिका, (२) काव्यकौतुकस्य ( भट्टतौतकृतस्य) विवरणम्, (३) *मस्तोत्रम्, (४) घटकर्परकुलकविरृतिः, (५) तन्त्रवटधानिका, (६) तन्त्रसारः, (७) तन्त्रालोकः, (८) देहस्थदे`वताचक्रस्तोत्रम्, (९) ध्वन्यालोकलोचनम्, (१०) नाट्यलोचनम्, (११) परमार्थचर्चा, (१२) परमार्थद्वादशिका, (१३) परमार्थसार:, (१४) परात्रिंशिका विवरणम्, (१५) प्रकरणस्तोत्रम्, (१६) प्रत्यभिज्ञाविमर्षिणी बृहती वृत्तिः, (१७) प्रत्यभिज्ञाविमर्षिणी लघुवृत्तिः, (१८) बोधपञ्चदशिका, (१९) भगवद्गीताटीका, (२०) भारतीयनाट्यशास्त्रटीका, (२१) भैरवस्तोत्रम्, (२२) महोपदेशविंशतिः, (२३) मालिनीविजयवार्तिकम्, एतेषु काव्यकौतुकविवरणं क्रमस्तोत्रं नाट्यलोचनं प्रकरणस्तोत्रं भारतीयनाट्यशास्त्रटीका ति प्रन्थपञ्चकमपहाय सर्वेऽपि ग्रन्था अस्मदवलोकिताः सन्ति. ध्वन्यालोकलोचने च (१) अमरुकः, (२) अर्जुनचरितम्, (३) अस्मद्गुरवः, (४) भट्ट-इन्दुराजः, (५) उत्पलाचार्याः, (६) उद्भटः, (७) ऐतिहासिकाः, (८) कादम्बरीकथासार : ( भट्टजयन्तप्रणीतः), (९) काव्यकौतुकविवरणम्, (१०) कालिदासः, (११) चन्द्रिकाकारः, (१२) जयन्तभट्टः, (१३) तापसवत्सराजः, (१४) भट्ट तौतः, (१५) दण्डी, (१६) भट्ट नायकः, (१७) भट्टः ( मीमांसकः), (१८) भरतः, भरतशास्त्रम्, (१९) भर्तृइरिः, (२०) भामहः, (२१) भामहविवरणम्, (२२) मनोरथकविः (आनन्दवर्धनाचार्यसमकालभवः), (२३) मुनिः (भरतः), (२४) यशोवर्मा, (२५) रघुवंशम्, (२६) रत्नावली, (२७) रामाभ्युदयम् ( यशोवर्मप्रणीतम्, ) (२८) वामनः, (२९) विक्रमोर्वशी, (३०) विनिश्चयटीकाधर्मोत्तमाविवृतिः, (३१) विवरणकृत्, (३२) विषमबाणलीला, (३३) स्वप्नवासवदत्ताख्यनाटकम्, (३४) हरिविजयम्, एतानि नामानि समुपलभ्यन्ते तत्र चन्द्रिकाभिधा काचन ध्वन्यालोकस्य व्याख्या लोचननिर्माणात्प्रागप्यासीदिति 'किं लोचनं विनालोको भाति चन्द्रिकयापि हि ' इत्यादिलोच- नान्तस्थितपद्यतः, मध्ये मध्ये च तन्मतखण्डनतः प्रतीयते स च चन्द्रिकाकारः श्री १. तद्देशप्रसिद्धे लौकिकाब्दे. कलिगताब्देषु पञ्चविंशतिरहितेषु शतेन तष्टेषु यदमशिष्यते स एव लौकिकाब्दः २. कलियुगे. ३. एतत्क्रमस्तोत्रं षट्षष्टिमिते लौकिकाब्दे -(९९१ ख्रिस्ताब्दे) कृतमाचार्यैरिति तत्समाप्तिश्लोकाज्ज्ञायते . ४. एतद्भैरवस्तोत्रमष्टषष्टिमिते लौकिकान्दे विहितमिति तत्समाप्तौ स्फुटम् . Page #8 -------------------------------------------------------------------------- ________________ मदाचार्यामिनवगुप्तपादानां कश्चन पूर्ववंशोद्भव इत्यपि तन्मतनिराकरणानन्तरं 'इत्यलं निजपूर्वजसगोत्रैः साकं विवादेन' (१२३ पृष्ठे), चन्द्रिकाकारस्तु पठित-इत्यलं पूर्ववंश्यैः सह विवादेन' (१८५ पृष्ठे) इत्यादिभिर्लोचनस्थैर्वाक्यैः प्रतीयते. लोचनं तु ध्वन्यालोकोझ्योतत्रयस्यैव समुपलभ्यते, चतुर्थोझ्योतस्य तु मूलमात्रमेव. __ अस्मामिस्तु सलोचनस्य ध्वन्यालोकस्य पुस्तकत्रयं संकलितम्. तत्र कश्मीरमहाराजाश्रितज्योतिर्विदुपाह्वविद्वद्वरश्रीदयारामशर्मणां पुस्तकस्य प्रतिरूपकं (१९३०) मिते विक्रमाब्दे कश्मीरानधिवसद्भिरस्मामिर्गृहीतं प्रायः शुद्धं क-संज्ञकम्. अपरं विद्वन्मूर्धन्यभाण्डारकरोपाह्वश्रीरामकृष्णशर्मभिः पुण्यपत्तनस्थराजकीयपुस्तकालयस्थं पुस्तकं प्रहितमासीत्पूर्वतरे वर्षे. तदपि कस्यचित्काश्मीरिकपुस्तकस्य प्रतिरूपकं ख-संज्ञकम्. तृतीयं मैसूरनगरस्थमरिमल्लप्पास्कूलसंस्कृताध्यापकैः आ० अनन्ताचार्यपण्डितैः कस्यचन शतद्वयवर्षप्राचीनस्य तालपत्रपुस्तकस्य प्रतिरूपकं तद्देशाक्षरसमुल्लसितं प्रहितम्. तत्तु ग-संज्ञकम्. तत्पठनं तु जयपुरस्थजैनपाठशालाध्यापकद्रविडकाशिनाथशा'त्रिणां साहाय्येन विहितम्. इत्थं पुस्तकत्रयाधारेण कृतेऽपि मुद्रणे ग्रन्थस्यातिकाठिन्यात्पुस्तकानामनतिशुद्धलान्मतिमान्द्याचोर्वरितानवद्यान्विद्वांसः खयमपोहन्तु, भवन्तु च सानुकम्पा असाखिति भद्रम्. Page #9 --------------------------------------------------------------------------  Page #10 -------------------------------------------------------------------------- ________________ काव्यमाला । श्रीमदानन्दवर्धनाचार्यप्रणीतो ध्वन्यालोकः। श्रीमदाचार्याभिनवगुप्तविरचितया लोचनाख्यया व्याख्ययानुगतः । प्रथम उड्योतः। खेच्छाकेसरिणः खच्छखच्छायायोसितेन्दवः । त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ।। अपूर्व यद्वस्तु प्रथयति विना कारणकलां जगद्धावप्रख्यं निजरसभरात्सारयति च । क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति त त्सरखत्यास्तत्त्वं कविसहृदयाख्यं विजयतात् ॥ भहेन्दुराजचरणाब्जकृताधिवासहृद्यश्रुतोऽभिनवगुप्तपदाभिधोऽहम् । यत्किंचिदप्यनुरणन्स्फुटयामि काव्यालोकं सुलोचननियोजनया जनस्य ॥ खयमविच्छिन्नपरमेश्वरनमस्कारसंपत्तिचरितार्थोऽपि व्याख्यातृश्रोतृणामविघ्नेनाभीष्टव्याख्याश्रवणलक्षणफलसंपत्तये समुचिताशीःप्रकटनद्वारेण परमेश्वरसांमुख्यं करोति वृत्तिकारः-खेच्छेति । मधुरिपोर्नखा वो युष्मान्व्याख्यातृश्रोतस्त्रायन्ताम् । तेषामेवं संबोधनयोग्यत्वात् । संबोधनसारो हि युष्मदर्थः । त्राणं चाभीष्टलाभं प्रति साहा. यकाचरणम् । तच्च तत्प्रतिद्वन्द्विविघ्नापसारणादिना भवतीति । इयदत्र त्राणं विवक्षितम् । नित्योद्योगिनश्च भगवतः संमोहाध्यवसायप्रतियोगित्वेनोत्साहप्रतीतेीररसो १. 'विजितेन्दवः' ग. २. 'वः प्रपन्नार्तिच्छिदो मधुरिपोर्नखाः' ग. १. क-पुस्तके टीकाप्रारम्भ "उपास्महे खानुभवैकवेयं खच्छन्दमानन्दसमुद्रमी. शम् । व्याप्तं जगच्छक्तितरत्तरजैरदृष्टपारं परमेष्ठिनापि ॥' इह हि कश्चिद्विपश्चिजनमनोरञ्जनाय निजान्तेवासिवासनासंजननाय च दुहृदयोद्वेजितसहृदयसमुदायसमुत्ते. जितः श्रीमदभिनवगुप्तपादोपदिष्टं विष्टपरम्पराप्राप्तमभीष्टदेवतासंमुखीकरणरूपं ध्वन्यालोचने मङ्गलं विवृणोति" इत्यधिकमस्ति. २. 'अनुरणत्' क-ख. ३. 'खलोचन' ख. ४. 'अपि' ग-पुस्तके नास्ति. ५. 'अविच्छिन्नाभीष्ट' ग. ६. 'खेच्छेत्यादिना' ग. ७. 'वो' ग-पुस्तके नास्ति. ८. 'एवात्र' ग. ९. 'फललामं' ग. १०. 'साहाय्यका-' क-ख. ११. 'प्रति' ग-पुस्तके नास्ति. Page #11 -------------------------------------------------------------------------- ________________ २ काव्यमाला | 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । ध्वन्यते । नखानां प्रहरणत्वे, प्रहरणेन च रक्षणे कर्तव्ये नखानामव्यतिरिक्तत्वेन करणत्वात्सातिशयशक्तिता कर्तृत्वेन सूचिता । ध्वनितश्च परमेश्वरत्य व्यतिरिक्त केरणापेक्षाविरहः । मधुरिपोरित्यनेन तस्य सदैव जगत्रासापसारणोद्यम उक्तः । कीदृशस्य मधुरिपोः । खेच्छया केसरिणः । न तु कर्मपारतन्त्र्येण, नाप्यन्यदीयेच्छया । अपि तु विशिष्टदानवर्हेननोचितात्तथाविधेच्छापरिग्रहौचित्यादेव स्वीकृतसिंहरूपस्येत्यर्थः । कीदृशा नखाः । प्रपन्नानामार्तिं ये छिन्दन्ति । नखानां छेदकत्वमुचितम् । आर्तेः पुनश्छेद्यत्वं नखान्प्रत्यसंभावनीयमपि तदीयानां नखानां खेच्छानिर्माणौचित्यात्संभाव्यत एवेति यावत् । अथवा त्रिजगत्कण्टको हिरण्यकशिपुर्वि र्श्वस्योत्क्लेशक इति स एव वस्तुतः प्रपन्नानां भगवदेकशरणस्थितीनां जनानामार्तिकारित्वान्मूर्तेवार्तिस्तं विनाशयद्भिरार्तिरेवोच्छिन्ना भवतीति परमेश्वरस्य तस्यामप्यवस्थायां परमकारुणिकत्वमुक्तम् । किं च ते किंगुणाः । खच्छेन खच्छतागुणेन नैर्मल्येन । स्वच्छ मृदुप्रभृतयो हि मुख्यतया भाववृत्तय एव । खच्छायया च वैंकहृद्यरूपया कृत्यायासितः खेदित इन्दुर्यैः । अत्रार्थशक्त्यनुरणनमूलेन ध्वनिना बालचन्द्रत्वं ध्वन्यते । औयासनेन तत्संनिधौ चन्द्रस्य - च्छायत्वप्रतीतिरहृद्यत्वप्रतीतिश्च ध्वन्यते । आयासकारित्वं च नखानां सुप्रसिद्धम् । नरहरिनखानां तेच लोकोत्तरेण रूपेण प्रतिपादितम् । किं च तदीयां स्वच्छतां कुटिलिमानं चावलोक्य बालचन्द्रः खात्मनि खेदमनुभवति । तुल्येऽपि खच्छकुटिलाकारयोगेऽमी प्रपन्नार्तिनिवारणकुशलाः, न त्वहमिति व्यतिरेकालंकारध्वनिः । किं चाह पूर्वमेक एवासाधारणवैशद्यहृद्या कारयोगात्समस्तजनाभिलषणीयताभाजनमभवम्, अय पुनरेवंविधा नैखा दश बालचन्द्राकाराः संतापार्तिच्छेदकुशलाश्चेति ताने लोको बालेन्दुबहुमाने न पश्यति, न तु मामित्याकलयन्वालेन्दुरविरत मायासमनुभवतीत्युत्प्रेक्षापह्नुतिध्वनिरपि । एवं वस्त्वलंकाररेंसमेदेन त्रिधा ध्वनिरत्र श्लोकेऽस्मद्गुरुभिर्व्याख्यातः ॥ अथ प्राधान्येनाभिधेयखरूपमभिदधदप्रधानतया प्रयोजनप्रयोजनं तत्संबन्धं प्रयोजनं च सामर्थ्यात्प्रकटयन्नादिवाक्यमाह - काव्यस्यात्मेति । काव्यात्मशब्दसंनिधानाद्बुध १. ‘शक्तता' ग. २. 'कारणापेक्षा' ख. ३. 'खेच्छाकेसरिणः' ग. ४. 'हननोचिततथाविधेच्छापरिग्रहादेव' ग. ५. 'संभावित' क ख ६. 'विश्वक्लेशकरण एवेति' ग. ७. ‘तदेक' ख. ८. 'अपि ' ग-पुस्तके नास्ति. ९. 'परम' क ख - पुस्तकयोर्नास्ति. १०. 'चक्र' ख. ११. 'आयासेन' क-ख. १२. ‘तच' क-ख-पुस्तकयोर्नास्ति. १३. ‘नखा' क-ख-पुस्तकयोर्नास्ति. १४. ' एवं ' ग. १५. ' इत्युत्प्रेक्ष्यते इत्युत्प्रेक्षापहुति' क- ख. १६. 'रस' ग-पुस्तके नास्ति. १७. 'प्रयोजन' ग-पुस्तके नास्ति. १८. ' तत्संबन्धिप्रयोजनं' ग. Page #12 -------------------------------------------------------------------------- ________________ १ उध्योतः] ध्वन्यालोकः। ... केचिद्वाचां स्थितमविषये तत्वमृचुस्तदीयं तेने ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥१॥ बुधैः काव्यतत्त्वविद्भिः काव्यस्यात्मा ध्वनिरिति संज्ञितः परम्परया यः समानातः समाख्यातः, तस्य सहृदयजनमनःप्रकाशमानस्याप्यमाव शब्दोऽत्र काव्यात्मावबोधकनिमित्तक इत्यभिप्रायेण विवृणोति-काव्यतत्त्वविद्भिरिति । आत्मशब्दस्य तत्त्वशब्देनार्थ विवृण्वानः सारत्वमपरशब्दवैलक्षण्यकारित्वं च दर्शयति । इतिशब्दः खरूपपरत्वं ध्वनिशब्दस्याचष्टे । तदर्थस्य विवादास्पदीभूततया निश्चयाभावेऽर्थतत्त्वायोगात् । एतद्विवृणोति-संहित इति । वस्तुतस्तु न सत्संज्ञामात्रेणोकम् । अपि वस्त्येव ध्वनिशब्दवाच्यं प्रत्युत समस्तसारभूतम् । नान्यथा बुधास्तादृशमामनेयुरित्यभिप्रायेण विवृणोति-तस्य सहृदयेत्यादिना । एवं तु युक्ततरम् । इतिशब्दो भिन्नक्रमो वाक्यार्थपरामर्शकः । ध्वनिलक्षणोऽर्थः काव्यस्यात्मेति यः समानातः । शब्दपरामर्शकत्वे हि ध्वनिसंज्ञितोऽर्थः इति कासंगतिः । एवं हि ध्वनिशब्दः काव्यस्यात्मेत्युक्तं भवेत् । गवित्ययमाहेति यथा । न च विप्रतिपत्तिस्थानमसदेव । प्रत्युत सत्येव धर्मिणि धर्ममात्रकृता विप्रतिपत्तिः । इत्यलमप्रस्तुतेन भूयसा सहृदयजनोद्वेजनेन । बुधस्यैकस्य प्रामादिकमपि तथाभिधानं स्यात्, न तु भूयसां तद्युक्तम् । तेन बुधैरिति बहुवचनम् । एतदेव व्याचष्टे-परम्परयेति । अविच्छिन्नेन प्रवाहेण तैरेतदुक्तम् । विनापि विशिष्टपुस्तकेषु विवेचनादित्यमिप्रायः । न च बुधा भूयांसोऽनादरणीयं वस्वादरेणोपदिशेयुः । एतत्त्वादरेणोपदिष्टम् । तदाह-सम्यग्य भानातपूर्व इति । पूर्वग्रहणेनेदंप्रथमता नात्र संभाव्यत इत्याह । व्याचष्टे च-समाख्यातः सम्यगासमन्ताख्यातः प्रकटित इत्यनेन । तस्येति । यस्याधिगमाय प्रत्युत यतनीयं का तत्रासंभवना । अतः किं कुर्मः । अपारं मौर्यमभाववादिनामिति भावः। न चास्मामिरभाववादिनां विकल्पाः श्रुताः । किं तु संभाव्य दूषयिष्यन्ते । अतः परोक्षवम् । न च भविष्यद्वस्तु दूषयितुं शक्यम् । अनुत्पन्नवादेव । तदपि बुद्ध्यारोपितं दूंष्यत इति १. 'अविषयं' ग. २. 'येन' ग. १. 'बोधनिमित्त इत्यमि' ग. २. 'तत्तदर्थस्य' ग. ३. 'निश्चयायोगात्' ग. ४. 'बस्यैव' ख. 'वन्यच्च' ग. ५. 'आमनेयुः कथयेरन्' क-ख. 'खतादृशमामिनेयुरित्यभिप्रायेण' ग. ६. 'युक्तत्वम्' ग. ७. ध्वनिलक्षणार्थकः' ग. ८. 'पदार्थकत्वे' ग. ९. 'संज्ञको' ग. १०. 'हि' क-ख-पुस्तकयो स्ति. ११. 'तदेव त्याचष्टे' ग. १२. 'कैः' ग. १३. 'पुस्तकविनिवेशनात्' ग. १४. 'सम्यगाम्नातपूर्वः' ग. १५. 'प्रथमान्ता' ख. १६. 'व्याचष्टे च सम्यगानातः प्रकटीकृतः' ग. १७. 'तत्राभावसंभावना' ग. १८. 'कृताः' क-ख. १९. 'दूषयिष्यते' ग. Page #13 -------------------------------------------------------------------------- ________________ काव्यमाला । मन्ये जगदुः । तदुभाववादिनां चामी विकल्पाः संभवन्ति । तत्र केचि - चेत्, बुद्ध्यारोपितत्वादेव भविष्यत्वहानिः । अतो भूतकालोन्मेषात्परोक्षाद्विशिष्टाद्यतनत्वप्रेतिभानाभावाच्चे लिटा प्रयोगः कृतः - जगदुरिति । तद्व्याख्यानायैव संभाव्यदूषणं प्रकटयिष्यति । संभावनापि नेयमसंभवतो युक्ता, अपि तु संभवत एव । अन्यथा . संभावनानामपर्यवसानं स्यात्, दूषणानां च । अतः संभावनानामभिधायिष्यमाणानां समर्थयितुं पूर्वं संभैवन्तीत्याह । संभाव्यन्त इति तूच्यमानं पुनरुक्तार्थमेव स्यात् । न च संभवस्य संभावना । अपि तु सा वर्तमानतैव स्फुटेति वर्तमानेनैव निर्देशः । नन्वसंभवद्वस्तुमूलया संभावनया यत्संभावितं तद्दूषयितुमशक्यमित्याशङ्कयाह - विकल्पा इति । नैं तु वस्तु संभवति तादृक् यत इयं संभावना । अपि तु विकल्प एव । ते च तत्त्वावबोधवन्ध्यतया स्फुरेयुरपि । अत एव 'आचक्षीरन्' इत्यादयोऽत्र संभावनाविषया लिङ्प्रयोगा अतीतपरमार्था एव पर्यवस्यन्ति । यथा - 'यदि नामास्य कायस्य यदन्तस्तद्बहिर्भवत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥' इत्यत्रार्थाद्यद्येवं काव्यस्य दृष्टता स्यात्तदैवमवलोक्येतेति भूतप्राणतैव । यदि न स्यात्ततः किं स्यादित्यैनेनापि किं वृत्तम्, यदि न पूर्वं भवनस्य संभावनेत्ययमेवार्थः । इत्यलमप्रकृतेन बहुना । तत्र समयापेक्षणेन शब्दोऽर्थप्रतिपादक इति कृत्वा वाच्यव्यतिरिक्तं नास्ति व्यक्त्यम् । सदपि वा तदभिधाक्षिप्तं शब्दावगतार्थबलाकृष्टत्वाद्भाक्तम् । तदनाक्षिप्तमपि वा न वक्तुं शक्यम्, कुमारीष्विव भर्तृसुखमतद्वित्सु । तत्रय एवैते प्रधानविप्रतिपत्तिप्रकाराः । तत्राभावविकल्पस्य त्रयः प्रकाराः । शब्दार्थगुणालंकाराणामेव शब्दार्थशोभाकारित्वाल्लोकशास्त्रातिरिक्तसुन्दरशब्दार्थमयस्य काव्यस्यानन्यशोभाहेतुः कश्चिदन्योऽस्ति योऽस्माभिर्न गणित इत्येकः प्रकारः । यो वा न गणितः स शोभाकार्येव न भवतीति द्वितीयः । अथ शोभाकारी भवति तर्ह्यस्मदुक्त एव गुणे वालंकारे वान्तर्भवति । नामान्तरकरणे तु कियदिदं पाण्डित्यम् । अथापि गुणेष्वलंकारेषु वन्तर्भावः, तथापि किंचिद्विशेषैलेशमाश्रित्य नौमान्तरमात्रम् । उपमा १८ १. 'तत्र' क-ख-पुस्तकयोर्नास्ति. १. ‘प्रतिभानात्' ख. २. 'च' क-ख- पुस्तकयोर्नास्ति. ३. 'संभवतीत्याह' ग. ४. 'संभवन्तीति संभाव्यन्त इति' क ख ५. 'संभावस्यापि' ख. ६. 'ननु च' ग. ७. 'न वस्तुसंभावना तादृक्क्रियत इयं' ग. ८. 'विकल्प एव' क-ख. ९. 'अर्थात् ' ग- पुस्तके नास्ति. १०. 'तदेव' क ख. ११. ' इत्यत्रापि किं वृतं यदि पूर्ववन्न भवनसंभावनेत्ययमेवार्थः ' ग. १२. 'अमिधावृत्त्या' ग. १३. 'शब्दानुगतार्थ' ख. १४. 'शक्यते' ख. १५. 'इति' ग. १६. 'प्रधानानि' ग. १७. ' काव्यस्य न शोभा' ग. १८. 'द्वितीयः प्रकारः ' ग. १९. 'वा नान्तर्भावः' ग. २०. 'अविशेष' ग. २१. 'नामान्तरकरणम्' ग. Page #14 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः । दाचक्षीरन्-शब्दार्थशरीरं तावत्काव्यम् । तस्य शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थगताश्चोपमादयः । वर्णसंघटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते । तदनतिरिक्तवृत्तयोऽपि याः कैश्चिदुप विच्छित्तिप्रकाराणामसंख्यत्वात् । तथापि गुणालंकारव्यतिरिक्तवाभाव एव । तावन्मात्रेण च किं केल्यम् । अन्यस्यापि वैचित्र्यस्य शक्योत्प्रेक्ष्यत्वात् । चिरंतनैहि भरतमुनिप्रभृतिभिर्यमकोपमे शब्दार्थालंकारत्वेनेष्टे । तत्प्रपञ्चदिक्प्रदर्शनं वन्यैरलंकारकारैः कृतम् । तत्र यथा 'कर्मण्यण्' इत्यत्र कुम्भकाराद्युदाहरणं श्रुखा खयं नगरकारादिशब्दा उत्प्रेक्ष्यन्ते । तावता क आत्मनि बहुमानः । एवं प्रकृतेऽपीति तृतीयः प्रकारः। एवमेकस्त्रिधाविकल्पः अन्यौ च द्वौ इति पञ्च विकल्पा इति तात्पर्यार्थः । तानेव क्रमेणाह-शब्दार्थशरीरं तावदित्यादिना । तावद्हणेन कस्याप्यत्र न विप्रतिपत्तिरिति दर्शयति । तंत्र शब्दार्थो न तावद्ध्वनिः । संज्ञामात्रे हि को गुणः । अथ शब्दार्थयोश्चारुत्वं स ध्वनिः । तथापि द्विविधं चारुत्वम्-खरूपमात्रनिष्ठम् , संघटनाश्रितं च । तत्र शब्दानां स्वरूपमात्रकृतं चारुत्वं शब्दालंकारेभ्यः । संघटनाश्रितं तु शब्दगुणेभ्यः । एवमर्थानां चारुवं खरूपमात्रनिष्ठमुपमादिभ्यः । संघटनापर्यवसितं वर्थगुणेभ्य इति न गुणालंकारव्यतिरिक्तो ध्वनिः कश्चित् । संघटनाधर्मा इति । शब्दार्थयोरिति शेषः । यद्गुणालंकारव्यतिरिक्तं तच्चारुत्वकारि न भवति । नित्यानित्यदोषा असाधुदुःश्रवादय इव । चारुत्वहेतुश्च ध्वनिः । तन्न तद्यतिरिक्त इति व्यतिरेकी। ननु वृत्तयो रीतयश्च यथा गुणालंकारव्यतिरिक्ताश्चारुत्वहेतवश्च तथा ध्वनिरपि तद्यतिरिक्तश्च चारुत्वहेतुश्च भविष्यतीत्यसिद्धो व्यतिरेक इत्यनेनाभिप्रायेणाह-तदनतिरिक्तवृत्तय इति । नैव वृत्तिरीतीनां तद्व्यतिरिक्तत्वं सिद्धम् । तथा ह्यनुप्रासानामेव दीप्तमसृणमध्यमवर्णनीयोपयोगितया परुषत्वललितत्वमध्यमत्वखरूपविवेचनाय वर्गत्रयसंपादनार्थ तिस्रोऽनुप्रासजातयो वृत्तय इत्युक्ताः । वर्तन्तेऽनुप्रासभेदा आस्विति । यदाह'सरूपव्यानन्यासं तिसृष्वेतासु वृत्तिषु । पृथपृथगनुप्रासमुशन्ति' 'इति । पृथक्पृथ १. 'काश्चित्' ग. १. 'एव' ग-पुस्तके नास्ति. २. 'कृतम्' ग. ३. 'उत्प्रेक्षितत्वात्' ग. ४. 'एव शब्दार्थालंकृतित्वेनोक्ते' ग. ५. 'तानेव च' ग. ६. 'न' ग-पुस्तके नास्ति. ७. 'तत्र' ग-पुस्तके नास्ति. ८. 'अतः' क-ख. ९. 'मात्र' क-ख-पुस्तकयो स्ति. १०. 'दुःश्रवा इव' ख. ११. 'व्यतिरेकिहेतुः' ग. १२. 'अनेन' ग-पुस्तके नास्ति. १३. 'धनुप्रासादीनां' क-ख. १४. 'मध्य' ग. १५. 'खरूपव्यञ्जनान्यासान्' ग. १६. 'कवयस्तथेति' ग. २ ध्व. लो. Page #15 -------------------------------------------------------------------------- ________________ काव्यमाला। नागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगोचरम् । रीतयश्च वैदभीप्रभृतयः । तद्व्यतिरिक्तः कोऽयं ध्वनिर्नामेति । अन्ये ब्रूयुः-नास्त्येव ध्वनिः । प्रसिद्धप्रस्थानव्यतिरेकिणः काव्य गिति । परुषानुप्रासः । उपनागरिकानुप्रासः । उपनागरिका ललिता । नागरिकया विदग्धया उपमितेति कृत्वा । मध्यमं कोमलम् । अपरुषमित्यर्थः । अत एव वैदग्ध्यविहीनखभावा सुकुमारा अपरुषा ग्राम्यवनितासादृश्यादियं वेत्तिाम्येति च तृतीयः कोमलानुप्रास इति वृत्तयोऽनुप्रासजातय एव । न चेह वैशेषिकवद्वृत्तिर्विवक्षिता । येन जातौ जातिमतो वर्तमानत्वं न स्यात् । तदनुग्रह एव हि तत्र वर्तमानत्वम् । यथाह कश्चित् ।-'लोकोत्तरे हि गाम्भीर्ये वर्तन्ते पृथिवीभुजः' इति । तस्माद्वृत्तयोऽनुप्रासेभ्योउनतिरिक्तवृत्तयो नाभ्यधिकव्यापाराः । अत एव व्यापारभेदाभावान्न पृथगनुमेयखरूपा अपीति वृत्तिशब्दस्य व्यापारवाचिनोऽभिप्रायः । अनतिरिक्तत्वादेव वृत्तिव्यवहारो भामहादिभिर्न कृतः । उद्भटादिभिः प्रयुक्तेऽपि तस्मिन्नार्थः कश्चिदधिको हृदयपथमवतीर्ण इत्यभिप्रायेणाह-गताः श्रवणगोचरमिति । रीतयश्चेति । तदनतिरिक्तवृत्तयोऽपि गताः श्रवणगोचरमिति संबन्धः । तद्यतिरिक्त इति । तच्छब्देनात्र माधुर्यादयो गुणाः । तेषां च समुचितचित्तवृत्त्यर्पणे यदन्योन्यमेलनक्षमत्वेन पानक इव गुडमरिचादिरसानां संघातरूपतागमनं दीप्तललितमध्यमवर्णनीयविषयं गौडीयवैदर्भपाञ्चालदेशहेवाकप्राचुर्यदृशा तदेव त्रिविधं रीतिरित्युक्तम् । जातिर्जातिमतो नान्या समुदायश्च सेमुदायिभ्यो नान्य इति वृत्तिरीतयो न गुणालंकारव्यतिरिक्ता इति स्थित एवासौ व्यतिरेकी हेतुः । तदाह-कोऽयं ध्वनिरिति । नैष चारुत्वस्थानम् । शब्दार्थवरूपत्वाभावात् । नापि चारुत्वहेतुः । गुणालंकारव्यतिरिक्तत्वात् । तेनाखण्डबुद्धिसमाखाद्यमपि काव्यमपोद्धारबुद्ध्या यदि विभज्यते तत्रा(था)प्यत्र ध्वनिशब्दवाच्यो न कश्चिदतिरिक्तोऽर्थो लभ्यत इति नामशब्देनाह । ननु मा भूदसौ शब्दार्थखभावः, मा च भूचारुत्वहेतुः येन गुणालंकारव्यतिरिक्तोऽसौ न स्यादित्याशय द्वितीयमभाववादप्रकारमाह-अन्य इति । भवत्वेवम् , तथापि नास्त्येव ध्वनिर्यादृशस्तव लिलक्षयिषतः काव्यस्य ह्यसौ कश्चिद्वक्तव्यः । न चासौ गीतनृतहास्यादिस्था १. 'परुषानुप्रासः । परुषा दीप्ता । मसृणानुप्रासः । उपनागरिका कया विदग्धया' ग. २. 'वृत्तिाम्या कोमला च । तृतीयः कोमलपरुषानुप्रास इति' ग. ३. 'जातिमतिवर्तन' ग. 'वर्तमानं' ख. ४. 'नुप्रासादिभ्यो' क-ख. ५. 'अभिधेय' ग. ६. 'तद्व्यतिरिक्त इति' ग-पुस्तके नास्ति. ७. 'गमनं च दीप्त' ख., 'गमनदीप्त' ग. ८. वैदर्भीपाञ्चालीदेशपाकप्राचुर्य' ग. ९. 'समुदायिनो' ग. १०. 'स्वरूपाभावात्' ग. ११. 'यदि' ख-पुस्तके नास्ति. १२. 'अर्थो' ग-पुस्तके नास्ति. १३. 'तेन गुणालंकारव्यतिरिक्तन सौस्थ्यादित्या' ग. १४. 'लिलक्षयिषितः' ग. १५. 'वाद्यादिस्थानीयः' ग. Page #16 -------------------------------------------------------------------------- ________________ १ उद्योतः ] ध्वन्यालोकः । प्रकारस्य काव्यत्वहानेः । सहृदयहृदयाह्नादिशब्दार्थमयत्वमेव काव्यलक्षणम् । न चोक्तप्रस्थानांतिरेकिणो मार्गस्य तत्संभवति । न च तत्समयान्तःपातिनः सहृदयान्कांश्चित्परिकल्पिततत्प्रसिद्ध्या ध्वनौ काव्यव्यपदेशः प्रवर्तितोऽपि सकल विद्वन्मनोग्राहितामैवलम्बते । नीयः काव्यस्य कश्चित् । कवनीयं काव्यम् । तस्य भावः काव्यत्वम् । न च नृत्तगीतादि कवनीयमित्युच्यते । प्रसिद्धेति । प्रसिद्धं प्रस्थानं शब्दार्थौ तद्गुणालंकाराश्चेति । प्रतिष्ठन्ते परम्परया विहरन्ति येन मार्गेण तत्प्रस्थानम् । काव्यप्रकारस्येति । काव्यप्रकारत्वेन तव स मार्गोऽभिप्रेतः । ' काव्यस्यात्मा' इत्युक्तत्वात् । ननु कस्मात्तत्काव्यं न भवतीत्याह- सहृदयेति । मार्गस्येति । नृत्तगीताद्यक्षि निकोचनादिप्राय-स्येत्यर्थः । तदिति । सहृदयेत्यादिकाव्यलक्षणमित्यर्थः । ननु ये तादृशमपूर्वं काव्यरूपतया जानन्ति त एव सहृदयाः । तदभिमतत्वं च नाम काव्यलक्षणमुक्तप्रस्थानाति रेकिण एव भविष्यतीत्याशङ्कयाह – न चेति । यथा हि खङ्गलक्षणं करोमीत्युक्त्वा आतानवितानात्मा प्रात्रियमाणः सकलदेहाच्छादकः सुकुमारश्चित्रतन्तुविचितः संवर्त -- नविवर्तनसहिष्णुरच्छेदकः सुच्छेद्य उत्कृष्टः खङ्ग इति ब्रुवाणः परैः पटः खल्वेवंविधो भवति न खड्ग इत्युक्ततया पर्यनुयुज्यमान एवं ब्रूयात् — ईदृश एव खड्गो ममाभिमत इति तादृगेवैतत् । प्रसिद्धं हि लक्ष्यं भवति ने 'केल्पितमिति भावः । तदाह-सक १२ 93 लविद्वदिति । विद्वांसोऽपि हि तत्समयज्ञा एवं भविष्यन्तीति शङ्कां सकलशब्देन निराकरोति । एवं हि कृतेऽपि न किंचित्कृतम् । तस्मादुन्मत्तता परं प्रकटितेति भावः । यस्त्वत्राभिप्रायं व्याचष्टे – जीवितभूतो ध्वनिस्तावत्त्वाभिमतः । जीवितं च नाम प्रसिद्धप्रस्थानातिरिक्तम् । अलंकारैरनुक्तत्वात्तच्च न काव्यमिति लोके प्रसिद्धमिति । तस्येदं सर्वं स्ववचनविरुद्धम् । यदि हि तत्काव्यस्यानुप्राणकं तेनाङ्गीकृतं पूर्वपक्षवादिना तश्चिरंतनैरनुक्तमिति प्रत्युत लक्षणानर्हमेव भवति । तस्मात्प्राक्तन एवात्राभिप्रायः । ननु भवत्वसौ चारुत्वहेतुः शब्दार्थगुणालंकारान्तर्भूतश्च तथापि ध्वनिरित्यमुया भाषया जीवितमित्यसौ न केनचिदुक्त इत्यभिप्रायमाशङ्क्य तृतीयमभाववादमुपन्यस्य १. 'अतिक्रमिणो' ग. २. 'परिकल्प्य तत्प्र-' ग. ३. 'एव लम्बते' ग. १. 'काव्यस्य च' क-ख. २. 'नृत्तादि' ग. ३. 'प्रसिद्ध्येति' क. ४. 'नृत्तगीतादिकामिनीकोपादिप्राय' ग. ५. 'तमिति' ग. ६. 'हि' क ख - पुस्तकयोर्नास्ति. ७. 'प्रापयमाणः ' ग. ८. 'तन्तुचितः ' ग. ९. 'खच्छ' ख-ग. १०. 'न' ग-पुस्तके नास्ति. ११. 'विकल्पितं' क. १२. 'अपि' ख- पुस्तके नास्ति. १३. 'हि' ग-पुस्तके नास्ति. १४. 'एव' क-ख- पुस्तकयोर्नास्ति. १५. 'किंचित्कृतं स्यात् ' क ' कश्चित्कृतः स्यात् ' ग. १६. ‘तथाभिमतः’ क-ख. १७. 'लक्षणा' ग. १८. 'अत्र' ग-पुस्तके नास्ति Page #17 -------------------------------------------------------------------------- ________________ काव्यमाला। पुनरपरे तस्याभावमन्यथा कथयेयुःन संभवत्येव ध्वनिर्नामापूर्वः कश्चित् । कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् । तेषामन्यतमस्यैव वा पूर्वसमाख्यामात्रप्रकरणे यत्किंचन कथनं स्यात् । किं च वाग्विकल्पानामानन्त्यात्संभवत्यपि वा कसिंश्चित्काव्यलक्षणविधायिभिः प्रसिद्धैरदर्शिते प्रकारलेशे ध्वनिर्ध्वनिरिति तदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते । तत्र हेतुं न विद्मः । सहस्रशो हिं महात्मभिरन्यैरलंकारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषामेषा दशा श्रूयते । तस्मात्प्रवादमात्रं ध्वनिः । न त्वस्य क्षोदेशमं तत्त्वं किंचिदपि प्रकाशयितुं शक्यम् । तथा चान्येन कृत एवात्र श्लोकः ति-पुनरपर इति । कामनीयकमिति कमनीयस्य कर्म । चारुत्वहेतुतेति यावत् । ननु विच्छित्तीनामसंख्येयत्वान्न काचित्तादृशी विच्छित्तिरस्माभिर्टष्टा या नानुप्रासादौ नापि माधुर्यादावुक्तलक्षणेऽन्तर्भवेदित्याशयाभ्युपगमपूर्वकं परिहरति-वाग्विकल्पानामिति । वक्तीति वाक् शब्दः । उच्यत इति वागर्थः । उच्यतेऽनयेति वागभिधाव्यापारः । तत्र शब्दार्थवैचित्र्यप्रकारोऽनन्तः । अभिधावैचित्र्यप्रकारोऽप्यसंख्येयः। प्रकारलेश इति । स हि चारुत्वहेतुर्गुणो वालंकारो वा स च सामान्यलक्षणेन संगृहीत एव । यदाहुः-'काव्यशोभायाः कर्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलंकाराः' इति । ध्वनिर्ध्वनिरिति वीप्सायां संभ्रमं सूचयन्नादरं दर्शयति-नृत्यत इति । तल्लक्षणकृद्भिस्तयुक्तकाव्यविधायिभिस्तच्छ्रवणोद्भूतचमत्कारैच प्रतिपत्तभिरिति शेषः । ध्वनिशब्दे कोऽत्यादर इति भावः । एषा दशेति । खयं दर्पः परैश्च स्तूयमानतेत्यर्थः । वाग्विकल्प इति वाक्प्रवृत्तिहेतुप्रतिभायापारप्रकार इति वा । तस्मात्प्रवादमात्रमिति सर्वेषामभाववादिनां साधारण उपसंहारः । यतः शोभाहेतुत्वे गुणालंकारेभ्यो न व्यतिरिक्तः । यतश्च व्यतिरिक्तत्वे न शोभाहेतुः । यतश्च शोभाहेर्तुत्वेऽपि नादरास्पदं तस्मादित्यर्थः । न चेयमभावसंभावना निर्मूलैव दूषितेत्याह-तथा चान्येनेति । ग्रन्थकृत्समानकालभांविना मनोरथनाम्ना कविना । यतो न सालंकृति अतो न मनःप्रह्लादि । १. 'कथं न' ख, 'कथितं' ग. २. 'अपि' क-ख. ३. 'क्षोदक्षमत्वं' ग. ४. 'अस्ति ' क-ख. १. 'यदाह' ग. २. ग-पुस्तके 'इति' इत्यस्मादनन्तरं 'तथा व...भिधेयशब्दोक्तिरिष्टावाचामलंकृतिः। इति' इत्यधिकमस्ति. ३. "विधातृभिः' क-ख. ४. 'च' क-ख. पुस्तकयो स्ति. ५. 'वाग्विकल्पा इति वाक्प्रतिपत्तिहेतु' ग. ३. 'व्यापारा इति' ग. ७. 'इव संभारः' ग. ८. 'अपि' ग-पुस्तके नास्ति. ९. 'भाविनैव' ग. Page #18 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः। 'यस्मिन्नस्ति न वस्तु किंचन मनःप्रहादि सालंकृति व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् । काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो - नो विद्मोऽभिदधाति किं सुमतिना पृष्टः खरूपं ध्वनेः ॥' . . भाक्तमाहुस्तमन्ये । अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरि अनेनार्थालंकाराणामभाव उक्तः । व्युत्पन्नै रचितं च नैवे वचनैरिति शब्दालंकाराणाम् । वक्रोक्तिरुत्कृष्टा संघटना । तच्छून्यमिति शब्दार्थगुणानाम् । वक्रोक्तिशून्यशब्देन सामान्यलक्षणाभावेन सर्वालंकाराभाव उक्त इति केचित् । तैः पुनरुक्तं न पैरिहृतमित्यलम् । प्रीत्येति । गतानुगतिकानुरागेणेत्यर्थः । सुमतिनेति । जडेन पृष्टो भ्रूभङ्गकटाक्षादिभिरेवोत्तरं ददत्तत्स्वरूपं काममाचक्षीतेति भावः । एवमेतेऽभावविकल्पाः शृङ्खलाक्रमेणागताः । न त्वन्योन्यमसंबद्धा एव । तथा हि तृतीयाभावप्रकारनिरूपणोपक्रमे पुनःशब्दस्यायमेवाभिप्राय उपसंहारैक्येन संगच्छते । अभाववादस्य संभावनाप्राणत्वेन भूतत्वमुक्तम् । भाक्तवादस्त्वविच्छिन्नः पुस्तकेष्वित्यभिप्रायेण भाक्तमाहुरिति नित्यप्रवृत्तवर्तमानापेक्षयाभिधानम् । भज्यते सेव्यते प्राज्ञेन प्रसिद्धतयोद्धोष्यत इति भक्तिधर्मोऽभिधेयेन सारूप्यादिः । तत आगतो भाक्तो लाक्षणिकोऽर्थः । यदाहुः-'अभिधेयेन सारूप्यासामीप्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥' इति । गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्या दिर्भक्तिः । तत आगतो गौणोऽर्थो भाक्तः । भक्तिः प्रतिपाये सामीप्यतैक्षण्यादौ श्रद्धातिशयः । तां प्रयोजनत्वेनोद्दिश्य तत आगतो भाक्त इति गौणो लाक्षणिकश्च । मुख्यस्य वार्थस्य भङ्गो भक्तिरित्येवं मुख्यार्थबाधननिमित्तप्रयोजनमिति त्रयसद्भाव उपचारबीजमित्युक्तं भवति । काव्यास्मानं गुणवृत्तिरिति । सामानाधिकरण्यस्यायं भावः-यद्यप्यविवक्षितवाच्ये ध्वनिभेदे 'निःश्वासान्ध इवादर्शः' इत्यादावुपचारोऽस्ति, तथापि न तदात्मैव ध्वनिः । तयतिरेकेणापि भावात् । विवक्षितान्यपरवाच्यभेदादावविवक्षिते वाच्येऽप्युपचार एव, न ध्वनिरिति वक्ष्यामः । तथा च वक्ष्यति-'भक्त्या बिभर्ति नैकत्वं रूपमेदादयं ध्वनिः । अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ [इति], 'कस्यचिद्धनिमेदस्य सा तु स्यादुपलक्षणम् ।' इति च । गुणाः सामीप्यादयः । धर्मास्तेक्ष्ण्यादयश्च । तैरुपा १. 'मालंकृति' ख., 'सोलंकृति' ग. २. 'अभिदधातु' ग. १. 'यन' ग. २. 'शून्य' क-ख-पुस्तकयो स्ति. ३. 'परिहृतमेवेत्यलम्' ग. ४. 'कटाक्षरेव' ग. ५. 'उपसंभारैक्यं च संगच्छते' ग. ६. 'विभाक्तं' ग. ७. 'संभाव्यते पदार्थेन' क-ख. ८. 'सादृश्यात्' क-ख. ९. 'प्रभेदात्' ख. १०. 'त्वया' ख. ११. 'साम्यादयः' ख. Page #19 -------------------------------------------------------------------------- ________________ १० काव्यमाला । त्याहुः । यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृचिरन्यो वा न कश्चित्प्रकारः प्रकाशितः, तथापि गुणवृत्त्या काव्येषु व्यवहारं दर्शयता ध्वनिमार्गो मनाक्स्पृष्टो लक्ष्यत इति परिकल्प्यैवमुक्तम् — 'भाक्तमाहुस्तमन्ये' इति । केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरं सहृदयहृदयसंवेद्यमेव समाख्यातवन्तः । तेनैवंविधासु विमतिषु स्थितासु सह यैर्वृत्तिरर्थान्तरे यस्य, तैरुपायैर्वृत्तिर्वा शब्दस्य यत्र स गुणवृत्तिः शब्दोऽर्थो वा । गुणद्वारेण वा वैर्तनं गुणवृत्तिर मुख्योऽभिधाव्यापारः । एतदुक्तं भवति – ध्वनतीति वा, ध्वन्यत इति वा, ध्वननमिति वा यदि ध्वनिस्तथाप्युपचरितशब्दार्थव्यापारातिरिक्तो नासौ कश्चित् । मुख्यार्थे ह्यभिधैवेति पारिशेष्यादमुख्य एव ध्वनिः । तृतीयराश्यभाचात् । ननु केनैतदुक्तं ध्वनिर्गुणवृत्तिरित्याशङ्कयाह — यद्यपि चेति । अन्यो वेति । गुणालंकारप्रकार इति यावत् । दर्शयतेति । भट्टोद्भवामनादिना । भामहोक्तं 'शब्दश्छन्दोभिधानार्थः' इत्यभिधानस्य शब्दाद्भेदं व्याख्यातुं भट्टोद्भटो बभाषे - ' शब्दना - मभिधानमभिधाव्यापारो मुख्यो गुणवृत्तिश्च' इति । वामनोऽपि 'सा सादृश्यालक्षणा वक्रोक्तिः' इति । मनाक्पृष्ट इति । तैस्तावद्धनिदिगुन्मीलिता । यथालिखितप्रतिपादकैस्तु स्वरूपविवेकं कर्तुमशक्नुवद्भिस्तत्स्वरूपविवेकोद्यतः प्रत्युतोपालभ्यते । अभअनारिकेलकल्पयथाश्रुर्तग्रन्थनोद्रन्थनमात्रेणेति । अत एवाह परिकल्प्यैवमुक्तमिति । यद्येवं न योज्यंते तदा ध्वनिमार्गः स्पृष्ट इति पूर्वपक्षेऽभिधानं विरुध्यते । शालीनबुद्धय इति । अप्रगल्भमतय इत्यर्थः । एते च त्रय उत्तरोत्तरं भव्यबुद्धयः । प्राच्या हि विपर्यस्ता एव सर्वथा । मध्यमास्तु तद्रूपं जानाना अपि संदेहेन पहुवते । अन्त्यास्त्वनपह्नुवाना अपि लक्षयितुं न जानत इति क्रमेण विपर्याससंदेहाज्ञानप्राधान्य — तेषाम् । तेनेति । एकैकोऽप्ययं विप्रतिपत्तिरूपो वाक्यार्थो निरूपणे हेतुत्वं प्रतिपद्यत इत्येकवचनम् । एवंविधासु विमतिष्विति निर्धारणे सप्तमी । आसु मध्ये एकोऽपि १. 'स्पृष्टोऽपि न' ख. १. ‘स्मृतिः’ ग. २. ‘तैरुपायैर्वा शब्दस्य यत्र गुणवृत्तः' ग. ३. 'वर्तमानं' क-ख. ४. ‘मुख्यार्थेऽप्यभिधैव’ ग. ५. 'भामहेनोक्तं' ग. ६. शब्दारछन्दोभिधानार्थाः' ग., ‘शब्दरछन्दोभिधानार्थं’ ख. ७. 'सादृश्यात्' ग-पुस्तके नास्ति. ८. 'पातैस्तु' ग. ९. ‘विवेकोद्योतः’ ख., 'विवेको न कृतः' ग. १०. ' तग्रन्थोग्रहण' ग. ११. योक्ष्यते मनाग्ध्वनि’ ग. १२. 'पक्षविधानं' ग. १३. 'निहुवते' ग. १४. 'निहुवाना' ग. १५. ‘निरूपणेऽपि’ ग. १६. 'एकोऽपि ' ग-पुस्तके नास्ति . Page #20 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः। दयमनःप्रीतये तत्वरूपं ब्रूमः। तस्य हि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीयमणीयसीभिश्चिरंतनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलितपूर्वम् । अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते । यो विमतिप्रकारस्तेनैव हेतुना तत्वरूपं ब्रूम इति ध्वनिखरूपमभिधेयम् । अभिधानाभिधेयलक्षणयोर्ध्व निशास्त्रयोर्वक्तश्रोत्रोर्युत्पाद्यव्युत्पादकभावः संबन्धः । विमतिनिवृत्त्या तत्वरूपज्ञानं प्रयोजनम् । शास्त्रप्रयोजनयोः साध्यसाधनभावः संबन्ध इत्युक्तम् । अथ त्रितयप्रयोजनप्रतिपादकं 'सहृदयमनःप्रीतये' इति भागं व्याख्यातुमाह-तस्य हीति । विमतिपदपतितस्येत्यर्थः । ध्वनेः स्वरूपं लक्षयतां संबन्धिनि मैनसि आनन्दो निर्वृत्यात्मा चमत्कारापरपर्यायः प्रतिष्ठां परैर्विपर्यासाद्युपहतैरनुन्मील्यमानत्वेन स्थेमानं लभतामिति प्रयोजनं संपादयितुं तत्स्वरूपं प्रकाश्यत इति संगतिः । प्रयोजनं च नाम तत्संपादकवस्तुप्रयोक्तताप्राणतयैव तथा भवतीत्याशयेन प्रीतये तत्वरूपं ब्रूम इत्येकवाक्यतया व्याख्यातं तत्स्वरूपशब्दं व्याचक्षाणः संक्षेपेण तावत्पूर्वोदीरितविकल्पप॑ञ्चकोद्धरणं प्रथयति-सकलेत्यादिना । सकलशब्देन सत्कविशब्देन च प्रकारलेशे कस्मिश्चिदिति निराकरोति । अतिरमणीयमिति भाक्ताव्यतिरिक्तमाह । नहि 'सिंहो बटुः' 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् । उपनिषद्भुतशब्देन तु अपूर्वसमाख्यामात्रकरण इत्यादि निराकृतम् । अणीयसीभिरित्यादिना गुणालंकारानन्तर्भूतत्वं सूचयति । अथ चेत्यादिना तत्समयान्तःपातिन इत्यादिना यत्सामयिकत्वं शङ्कितं तन्निरवकाशीकरोति । रामायणमहाभारतशब्देनादिकवेः प्रभृति सर्वैरेव मुनिभिरस्यादरः [कृतः] इति दर्शयति । लक्षयतामित्यनेन वाचां स्थितमविषय इति परास्यति । लक्ष्यतेऽनेनेति लक्ष्यो लक्षणम् । लक्ष्येण निरूपयन्ति लक्षयन्ति तेषाम् । लक्षणद्वारेण निरूपयतामित्यर्थः । सहृदयानामिति । येषां काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते हृदयसंवादभाजः सहृदयाः । यथोक्तम्-'योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥' इति । आनन्द इति । रसस्य चर्वणात्मनः प्राधान्यं दर्शयन्सध्वनेरेव सर्वत्र मुख्यभूतमात्मत्वमिति दर्शयति । तेन यदुक्तम्-ध्वनिर्नामापरो योऽसौ व्यापारो व्यञ्जनात्मकः । तस्य सिद्धेऽपि भेदे स्यात्कोव्याङ्गत्वं न रूपिता ॥' इति तदपहस्तितं भवति । तथा ह्यभि १. 'अणीयसीभिरपि' ग. १. 'साधकभाव इत्युक्तम्' क-ख. २. 'अतः श्रोतृगतप्रयोजन' ग. ३. 'मनसि हृदये' क-ख. ४. 'पञ्चतोद्धरणं' ग. ५. 'व्यतिरेकमाह' ग. ६. 'क्वचित्' ख. ७. 'त एव' ग. ८. 'असिद्धे' ग. ९. 'काव्येऽशत्वं न रूपतेति । एतेनापहस्वितं' ग. Page #21 -------------------------------------------------------------------------- ________________ १२ काव्यमाला । तत्र पुनर्वनेर्लक्षयितुमारब्धस्य भूमिका रचयितुमिदमुच्यते'अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः। वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥२॥ धाभावनारसचर्वणात्मकेऽपि त्र्यंशे काव्ये रसचर्वणा तावज्जीवितभूतेति भवतोऽप्यविवादोऽस्ति । यथोक्तं त्वयैव–'काव्ये रसयिता सर्वो न बोद्धा न नियोगभाक्' इति । तद्वस्त्वलंकारध्वन्यभिप्रायेणाङ्गमात्रत्वमिति सिद्धसाधनम् । रसध्वन्यभिप्रायेण तु खाभ्युपगमप्रसिद्धिसंवेदनविरुद्धमिति । तत्र कवेस्तावत्कीर्त्यापि प्रीतिरेव संपाद्या । यदाह'कीर्ति स्वर्गफलामाहुः' इत्यादि । श्रोतृणां च व्युत्पत्तिर्यद्यप्यस्ति, यथोक्तम्-'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेणम् ॥' इति तथापि प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसंमितेभ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितत्वलक्षणो विशेष इति प्राधान्येनानन्द एवोक्तः । चतुर्वर्गव्युत्पत्तरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् । आनन्द इति च ग्रन्थकृतो नाम । तेन स एवानन्दवर्धनाचार्य एतच्छास्त्रद्वारेण सहृदयहृदयेषु प्रतिष्ठां देवतायतनादिवदनश्वरी स्थितिं लभताम् । सिद्धिं गच्छत्विति भावः। यथोक्तम्-'उपेयुषामपि दिवं सन्निबन्धविधायिनाम् । आँस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥' इति । तथा मनसि प्रतिष्ठामिति एवंविधस्य मनसः सहृदयचक्रवर्ती खल्वयं ग्रन्थकृदिति भावः । यथा-'युद्धे प्रतिष्ठा परमार्जुनस्य' इति । खनामप्रकटीकरणं श्रोतृणां प्रवृत्त्यङ्गमेव संभावनात्ययोत्पादकमुखेनेति ग्रन्थान्ते वक्ष्यामः । एवं ग्रन्थकृतः कवेः श्रोतुश्च मुख्य प्रयोजनमुक्तम् ।। ननु 'ध्वनिखरूपं ब्रूम' इति प्रतिज्ञाय वाच्यप्रतीयमानाख्यौ द्वौ भेदावर्थस्येति व्याख्याभिधाने का संगतिः कारिकाया इत्याशय संगतिं कर्तुमवतरणिकां करोतितत्रेति । एवं विधेऽभिधेये प्रयोजने च स्थित इत्यर्थः । भूमिरेव भूमिका । यथापूर्वनिर्माणे चिकीर्षिते पूर्वं भूमिरेव विरच्यते तथा ध्वनिखरूपे प्रतीयमानाख्ये निरुपयतव्ये निर्विवादसिद्धवाच्याभिधानं भूमिः । तत्पृष्ठेऽधिकप्रतीयमानांशोल्लिङ्गनात् । १. 'पुनः' ग-पुस्तके नास्ति. १. 'अंशमात्रलं' ग. २. 'स्वार्थापगम' ग. ३. 'इत्यादौ' क-ख. ४. व्युत्पत्तिप्रीती यद्यपि स्तः' ग. ५. 'निबन्धनम्' क-ख. ६. 'वेदादिशास्त्रेभ्यो' क-ख. ७. 'हेतुजाया' ग. ८. 'देवायतनादि' ग. ९. 'स्थितिं लभताम्' क-ख-पुस्तकयोर्नास्ति. १०. 'आस्थयेव' ग. ११. 'यथा' ख. १२. 'यावत्' क-ख. १३. 'प्रत्ययोपादानमुखेन' ग. १४. ग-पुस्तके 'तत्रेति' इत्यादि 'इत्यर्थः' इत्यन्तं प्रथमम् , 'ननु ध्वनिखरूपं' इत्यादि 'करोति' इत्यन्तं चानन्तरं वर्तते. १५. 'अस्येति' ग. १६. 'करोति ध्वनेरेवेत्यादिना' ग. १७. 'इव' ग. १८. 'निरूपितव्ये' क-ख. १९. 'आलिङ्गनात्' ग. Page #22 -------------------------------------------------------------------------- ________________ १ उझ्योतः] ध्वन्यालोकः। काव्यस्य हि ललितोचितसंनिवेशचारुणः शरीरस्येवात्मा साररूपतया स्थितः सहृदयश्लाघ्यो योऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ । वाच्येन समशीर्षिकागणनं तस्याप्यनपह्नवनीयत्वं प्रतिपादयितुम् । स्मृतावित्यनेन यः समानातपूर्व इति द्रढयति । शब्दार्थशरीरं काव्यमिति यदुक्तं तत्र शरीरग्रहणादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव । तत्र शब्दस्तावच्छरीरभाग एव संनिविशते । सर्वजनसंवेद्यधर्मत्वात्स्थूलकृशादिवत् । अर्थः पुनः सकलजनसंवेद्यो न भवति । न ह्यर्थमात्रेण काव्यव्यपदेशः । लौकिकवैदिकवाक्येषु तदभावात् । तदाह-सहृदयश्लाघ्य इति । स एक एवार्थो द्विशाखतया विवेकिभिर्विभागबुद्ध्याभियुज्यते । तथाहि-तुल्येऽर्थरूपत्वे किमिति कस्मैचित्सहृदयः श्लाघते । तद्भवितव्यं केनचिद्विशेषेण । यो विशेषः स प्रतीयमानभागो विवेकिभिर्विशेषहेतुत्वादात्मेति व्यवस्थाप्यते । वाच्यसंकलनाविमोहितहृदयैस्तु तत्पृथग्भावो विप्रतिपद्यते चार्वाकरिवात्मपृथग्भावः । अत एवार्थ इत्येकतयोपक्रम्य सहृदयश्लाघ्य इति विशेषणद्वारा हेतुमभिधाोपोद्धारणदृशा तस्य द्वौ भेदावंशावित्युक्तम् । न तु द्वावप्यात्मानौ कोव्यस्य । काव्यात्मेति कारिकाभौगगतं काव्यशब्दं व्याकर्तुमाह-काव्यस्य हीति । ललितशब्देन गुणालंकारग्रहणमाह । उचितशब्देन रसविषयमेवौचित्यं भवतीति दर्शयन्सध्वनेर्जीवित्वं सूचयति । तदभावे हि किमपेक्षयेदमौचित्यं नाम सर्वत्रोद्धोष्यत इति भावः । योऽर्थ 'ईति येतानुवदन्परेणाप्येतत्तावदभ्युपगतमिति दर्शयति-तस्येत्यादिना । तदभ्युपगम एव बुद्ध्यंशत्वे सत्युपपद्यत इति दर्शयति । तेन यदुक्तम्-'चौरुत्वहेतुत्वाद्गुणालंकारव्यतिरिक्तो न ध्वनिः' इति तत्र ध्वनेरात्मस्वरूपत्वाद्धेतुरसिद्ध इति दर्शितम् । ने ह्यात्मा चारुत्वहेतुर्दैहस्येति भवति । अथाप्येवं स्यात्तथापि वाच्ये नानैकान्तिको हेतुः । न ह्यलंकार्य एवालंकारः । गुणी एवं गुणः । तदर्थमपि वाच्यांशोपक्षेपः । अत एव वक्ष्यति-'वाच्यः प्रसिद्धः' इति ।। १. 'स्मृतः' क-ख. २. 'यो' क-ख-पुस्तकयो स्ति. १. "निर्वहणादेव' ग. २. 'संनिर्विशते' ख. ३. 'व्यवहारः' ग. ४. "विभज्यते' ग. ५. 'कस्मैचिदेव सहृदयाः श्लाघन्ते । तत्र भवितव्यं' ग. ६. 'यतो विशेषः' ग. ७. 'संवलना' ग. ८. 'भावे' ग. ९. 'भावे' ग. १०. 'इत्येक' ग-पुस्तके नास्ति. ११. 'उपोद्धारदृशा' ग. १२. 'काव्यस्य' क-ख-पुस्तकयो स्ति. १३. 'भाग' गपुस्तके नास्ति. १४. 'मिलित' ग. १५. 'अनुग्रह' ग. १६. 'सूत्रयति' ग. १७. 'इत्ये वेति' ग. १८. 'इतीयत्ता' क., 'इतीयता' ख., 'इति यदा' ग. १९. यता यच्छदेनेत्यर्थः. २०. 'तावत्' ग-पुस्तके नास्ति. २१. 'चारुत्वहेतुत्वाद्धेतुरसिद्ध इति दर्शितम्' कःख. २२. 'न त्वात्मा' ग. २३. 'वा' ग. २४. 'एतदर्थमपि' ग. Page #23 -------------------------------------------------------------------------- ________________ काव्यमाला। 'तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः । बहुधा व्याकृतः सोऽन्यैः काव्यलक्ष्मविधायिमिः ॥३॥ ततो नेह प्रतन्यते केवलमनूद्यते पुनर्यथोपयोगमिति । प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥४॥ तत्रेति । द्यशत्वे सत्यपीत्यर्थः । प्रसिद्ध इति । वनितावदनोद्यानेन्दूदयादिवल्लौकिक एवेत्यर्थः । उपमादिभिः प्रकारैः स व्याकृतो बहुधेति संगतिः । अन्यैरिति कारिकाभागं काव्येत्यादिना व्याचष्टे-ततो नेह प्रतन्यत इति । विशेषप्रतिषेधेन शेषाभ्यनुज्ञेति दर्शयति-केवलमित्यादिना । पुनःशब्दो वाच्याद्विशेषद्योतकः । अन्यदेव वस्त्विति । तद्यतिरिक्त सारभूतं चेत्यर्थः । महाकवीनामिति बहुवचनमशेषविषयाव्यापकत्वमाह । एतदभिधास्यमानप्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशो भवतीति भावः । यदेवंविधमस्ति तद्भाति । न ह्यत्यन्तासतो मानमुपपन्नम् । रजताद्यपि नात्यन्तमसद्भाति । अनेन सत्त्वप्रयुक्तं तावद्भानमिति भोसनात्मत्वमवगम्यते । तेन यद्भाति तदस्ति तथेत्युक्तं भवति । तेनायं प्रयोगार्थःप्रसिद्धं वाच्यं धर्मिप्रतीयमानेन व्यतिरिक्तेन तद्वत्तथा भासमानत्वाल्लावण्यापेताङ्गनाङ्गवत् । प्रसिद्धशब्दस्य 'सर्वप्रतीतत्वमलंकृतत्वं चार्थः । यत्तदिति सर्वनामसमुदायश्चमत्कारसारताप्रकटीकरणार्थमव्यपदेश्यत्वमन्योन्यसंवलनाकृतं चाव्यतिरेकिभ्रमं दृष्टान्तदार्टान्तिकयोर्दर्शयति । एतच्च किमपीत्यादिना व्याचष्टे । लावण्यं हि नामावयवसंस्थानाभिव्यनयमवयवव्यतिरिक्तं धर्मान्तरमेव । न चावयवानामेव निर्दोषता वा भूषणयोगो वा लाव. ण्यम् । पृथनिर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्यलंकृतायामपि लावण्यशून्येयमिति, अतथाभूतायामपि कस्यांचिल्लावण्यामृतचन्द्रिकेयमिति सहृदयानां व्यवहारात् । ननु लावण्यं तावद्यतिरिक्तं प्रथितम् । प्रतीयमानं किं तदित्येव न जानीमः । दूरे तु व्यतिरिक्तप्रथेति तथाभासमानत्वमसिद्धो हेतुरित्याशय स ह्यर्थ इत्या १. 'भट्टोद्भटप्रभृतिभिस्ततो' ग. २. 'पुनः' सर्वेषु पुस्तकेषु नास्ति. ३. 'आभाति' ग. १. 'वाच्यांशात्' ग. २. 'रिक्तासारभूतं' ग. ३. 'महा' ग-पुस्तके नास्ति. ४. “विषयव्यापकमाह' क-ख. ५. 'मानं' क-ख. ६. 'यद्येवं' ग. ७. 'भवति' ग. ८. 'भाग' ग. ९. 'भानात्सत्त्वमवगम्यते' ग. १०. 'अतो यद्भाति' ग. ११. 'शब्दप्रतीतत्वं' क-ख. १२. 'व्यतिरेकभ्रम' क-ख. १३. 'इत्यनेन' ग. १४. 'व्यङ्गय इवावयव' ग. १५. "धर्माक्रम' ग. १६. 'इत्येवं जानीमः' ग. १७. 'व्यतिरेक' ग. Page #24 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः। १५ प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्सहृदयहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलंकृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यमिवाङ्गनासु । यथा ह्यङ्गनासु लावण्यं पृथगिर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः । स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलं. कारा रसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु दिना खरूपं तस्याभिधत्ते । सर्वेषु चेत्यादिना च व्यतिरेकप्रथां साधयिष्यति । तंत्र प्रतीयमानस्य तावद्वौ भेदौ-लौकिकः, काव्यव्यवहारगोचरश्चेति । लौकिको यः शब्दवाच्यतां कदाचिदैधिशेते । स च विधिनिषेधाद्यनेकप्रकारो वस्तुशब्देनोच्यते । सोऽपि द्विविधः । यः पूर्व क्वापि वाक्यालंकारभावमुपमादिरूपतयान्वभूत् , इदानीं बनलं. काररूप एवान्यत्र गुणीभावाभीवादपूर्वप्रत्यभिज्ञानबलादलंकारध्वनिरिति व्यपदिश्यते । ब्राह्मणश्रमणन्यायेन तद्रूपताभावेन तूपलक्षितं वस्तुमात्रमुच्यते । मात्रग्रहणेन हि रूपान्तरं निराकृतम् । यस्तु स्वप्नेऽपि न खशब्दवाच्यो न लौकिकव्यवहारपतितः, किं तु शब्दसमर्प्यमाणहृदयसंवादसुन्दरविभावानुभावसमुदितप्रानिविष्टरत्यादिवासनानुराग-- सुकुमारखेसंविदानन्दचर्वणव्यापाररसनीयरूपो रसः । स च काव्यव्यापारैकगोचरो रसध्वनिरिति । स च ध्वनिरेवेति स एव मुख्यतयात्मेति । यदूचे मॅटनायकेन'अंशवं न रूपिता' इति, तद्वस्वलंकारध्वन्योरेव यदिनामोपालम्भः, रसध्वनिस्तु तेनैवात्मतयाङ्गीकृतः । रसचर्वात्मनस्तृतीयस्यांशस्याभिधाभावनांशद्वयोत्तीर्णवेन निर्णयाद्वस्वलंकारध्वन्यो रसध्वनिपर्यन्तमेवेति वयमेव वक्ष्यामस्तैत्रेत्यास्तां तावद्वाच्यसाम•क्षिप्त इति भेदत्रयव्यापकं सामान्यलक्षणम् । यद्यपि हि२४ ध्वननं शब्दस्यैव व्यापारः, १. 'हृदय' क-ख-पुस्तकयो स्ति. २. 'चावयवेभ्यः' ख. ३. 'अपृथक्पृथडिर्वर्ण्यमानं' ग. १. 'सर्वेष्वित्यादिना' क. २. 'तत्तु' ग. ३. 'काव्यव्यापार' क-ख. ४. 'इति' क-ख-पुस्तकयो स्ति. ५. 'खशब्दवाच्यताः कदाचिदध्यशेते' ग. ६. 'शब्दो वाच्यतां' ख. ७. 'अपि शेते' ख. ८. 'वस्तुभेदेन' क-ख. ९. 'वाक्यार्थोऽलंकार' क-ख. १०. 'भावात्मपूर्व' क-ख. ११. 'अपदिश्यते' क-ख. १२. 'तद्रूपाभावेन' क-ख. १३. 'समीक्ष्यमाण' ग. १४. 'समुचितप्राग्विनिविष्ट' ग. १५. 'सुसंविदा' क-ख. १६. 'चर्वणा' ग. १७. 'च' ग-पुस्तके नास्ति. १८. 'भट्टनायकः अङ्गवं न रूपतेति' ग. १९. 'उपालब्धः ' ख, 'उपारम्भः' ग. २०. 'आत्मना' क. २१. 'द्वयोक्तिर्न तैरूनयावस्त्वलंकार' ग. २२. 'तत्र तेभ्यस्तावत्' क. २३. 'क्षिप्तं' क-ख. २४. 'हि' क-ख-पुस्तकयो स्ति. Page #25 -------------------------------------------------------------------------- ________________ . १६ काव्यमाला | तस्य वाच्यादन्यत्वम् । तथा ह्याद्यस्तावत्प्रभेदो वाच्याद्दूरं विभेदवान् । स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः । यथा— 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण । गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥' तथाप्यर्थसामर्थ्यस्य सहकारिणः सर्वत्रानपायाद्वाच्यसामर्थ्याक्षिप्तत्वम् । शब्दशक्तिमूलानुरणनव्यङ्ग्येऽप्यर्थ सामर्थ्यात्प्रतीयमानावगतिः । शब्दशक्तिः केवलमवान्तरकरण इति वक्ष्यामः । दूरं विभेदवानिति । विधिनिषेधौ विरुद्धाविति न कस्यचिदपि विमतिः । एतदर्थं प्रथमं तावदे तावेवोदाहरति- 'भ्रम धार्मिक विब्धः स शुनकोऽद्य मारितस्तेन । गोदावरी नदीकूलतागहनवासिना दृप्तसिंहेन ॥' कस्याश्चित्संकेतस्थानं जीवितसर्वस्वायमानं धार्मिकसंचरणान्तरायदोषात्तदवलुप्यमानपल्लव कुसुमादिविच्छायीकरणाच्च परित्रातुमियमुक्तिः । तत्र स्वतः सिद्धमपि भ्रमणं श्वभयेनापोहितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु वियोगप्रैषादिरूपोऽत्र विधिः । अतिसर्गप्राप्तकाल - योर्ह्ययं लोट् । तत्र भावतदभावयोर्विरोधाद्वयोस्तावन्न युगपद्वाच्यता, नं क्रमेण । विरम्य व्यापारद्वयाभावात् । 'विशेष्यं" नाभिधा गच्छेत्' इत्यादिनाभिधाव्यापारस्य विरम्य व्यापारासंभवाभिधानात् । ननु तात्पर्यशक्तिपर्यवसिता विवक्षया दृप्तधार्मिकतदादिपदार्थान्वयरूपमुख्यार्थबाधकबलेन विरोधनिमित्तया विपरीतलक्षणया च वाक्यार्थीभूतनिषेधप्रतीतिमभिहितान्वयदृशा करोतीति शब्दशक्तिमूल एव सोऽर्थः । एवमनेनोकमिति हि व्यवहारस्तंत्र वाच्यातिरिक्तोऽन्योऽर्थ इति नैतत् । त्रयो ह्यत्र व्यापाराः संवेद्यन्ते—–— पदार्थेषु सामान्यात्म स्वभिधाव्यापारः, समयापेक्षार्थावगमनशक्तिः, अभिधासमयश्च । तावत्येव न विशेषांशे । आनन्त्याव्यभिचाराच्च । एकस्य ततो विशेषरूपे वाक्यार्थे तापर्यशक्तिः परस्परान्विते । 'सामान्याद्यन्यथासिद्धेर्विशेषं गमयन्ति हि ' इति न्यायात् । तत्र च द्वितीयकक्षायां भ्रमेति विध्यतिरिक्तं न किंचित्प्रतीयते । अन्वयमात्रस्यैव प्रतिपन्नत्वात् । नहि 'गङ्गायां घोषः ' ' सिंहो बटुः' इत्यत्र यथान्वय एव बुभूषन्प्रतिहन्यते । योग्यताविरहात् । तथा तव भ्रमणनिषेद्धा स श्वा सिंहेन हतः । तदिदानीं भ्रमणनिषेधक कारणवैकल्याद्रमणं तवोचितमित्यन्वयस्य न काचित्क्षतिः अत एव मुख्यार्थबाधा नात्र शङ्क्येति न विपरीतलक्षणाया अवसरः । भवतु वासौ । १. 'दूरप्रविभेदवान्' ग. १. ‘सामर्थ्यादेव गतिः’ग. २. 'कस्यापि ' ग. ३. 'तावदेवोदाहरति' क.ख. ४. 'विश्वस्तः' क-ख. ५. 'श्वाद्य' क-ख. ६. तीरलतागहनदृप्तसिंहेन' ग. ७. 'प्रसवार्थको न विषयाभावरूपो' ग. ८. 'रूपो विधिरिति सर्वं प्राप्तकालयोग्यम् । तत्र भावतदभाव' ग. ९. ‘न' क-ख-पुस्तकयोर्नास्ति. १०. 'विशेष' ख. ११. 'व्यापारस्यासंभवाभिधानात् ' क-ख. १२. 'शक्ति' क- ख- पुस्तकयोर्नास्ति १३. 'तन्न' ग. १४. 'व्यवहाराः ' ग. १५ ‘इत्यत्रापि’ग. १६. 'निषेधकारण' ग. १७. ' इत्यत्रा न्वयस्य' ख. १८. 'चासौ' ग. Page #26 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः। तथापि द्वितीयस्थानसंक्रान्ताभावादसौ न भवति । तथा हि मुख्यार्थबाधायां लक्षणाप्रक्लप्तिः । सा च विरोधप्रतीतिरेव । न चात्र पदार्थानां खात्मनि विरोधः । परस्पर विरोध इति चेत्, सोऽयं तन्वये विरोधः प्रत्येयः । न च प्रतिपन्नेऽन्वये विरोधप्रतीतिः । प्रतिपत्तिश्चान्वयस्य नाभिधाशक्त्या । तस्याः पदार्थप्रतिपत्त्युपक्षीणाया विरम्यव्यापारात् इति तात्पर्यशक्त्यैवान्वयप्रतिपत्तिः । नन्वेवमैपि 'अङ्गुल्यो करिवरशतम्। इत्यत्राप्यन्वयप्रतीतिः स्यात् । किं न भवत्यन्वयप्रतीतिः । देशदाडिमादिवाक्यवत् । किं तु प्रमाणान्तरेण सोऽन्वयः प्रत्यक्षादिना बाधितः प्रतिपन्नोऽपि शुक्तिकायां रजतमिवेति तदवगमकारिणो वाक्यस्याप्रामाण्यम् । 'सिंहो माणवकः' इत्यत्र द्वितीयकक्षानिविष्टतात्पर्यशक्तिसमर्पितान्वयबाधकोल्लासनानन्तरमभिधातात्पर्यशक्तिद्वयव्यतिरिक्ता तावत्तृतीयैव शक्तिस्तद्वाधकशक्तिविधुरीकरणनिपुणा लक्षणाभिधाना समुल्लसति । नन्वेवं 'सिंहो बटुः' इत्यत्रापि काव्यरूंपता स्यात् । ध्वननलक्षणस्यात्मनोऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् । ननु घटेऽपि जीवव्यवहारः स्यात् । आत्मनो विभुखेन तत्रापि भावात् । शरीरस्य खलु विशिष्टाधिष्ठानयुक्तस्य सत्यात्मनि जीवव्यवहारः। ने यस्य कस्यचिदिति चेत्, गुणालंकारौचित्यसुन्दरशब्दार्थशरीरस्य सति वननात्मन्यात्मनि काव्यरूपताव्यवहारः । न चात्मनोऽसारता काचिदिति समानम् । न चैवं भक्तिरेव ध्वनिः। भक्तिर्हि लक्षणाव्यापारस्तृतीयकक्षानिवेशी । चतुर्थ्यां तु कक्षायां ध्वननव्यापारः । तथा हि त्रितयसंनिधौ लक्षणा प्रवर्तत इति तावद्भवन्त एव वदन्ति । तत्र मुख्यार्थबाँधता तावत्प्रत्यक्षादिप्रमाणान्तरमूला । निमित्तं च यदभिधीयते सामीप्यादि तदपि प्रमाणान्तरावगम्यमेव । यत्त्विदं घोषस्यातिपवित्रत्वशीतलखसेव्यैवादिकं प्रयोजनमशब्दान्तरवाच्यं प्रमाणान्तराप्रतिपन्नम् , बटोर्वा पराक्रमातिशयशालिवं तत्र शब्दस्य तावन्न व्यापारः । तथाहि तत्सामीप्यात्तद्धर्मवानुमानमैनैकान्तिकम् , सिंहशब्दवाच्यवं च बटोरसिद्धम् । अथ यत्र यत्रैवंशब्दप्रयोगस्तत्र तत्र तद्धर्मयोग इत्यनुमानान्तरं कथं तथापि व्याप्तिग्रहणकाले मौलिकं प्रमाणान्तरं वौच्यं च नास्ति । १. 'लक्षणायां' क. २. 'बाधा च' ग. ३. 'अपि' ग-पुस्तके नास्ति. ४. 'दशदाडिमानि, षडपूपाः, कुण्डमजाजिनम् , पललपिण्डः, अधरोरुकमेतत्कुमार्याः, स्फैयकृतस्य पिता प्रतिशीनः, इति समुदायोऽत्रानर्थकः ।' इति व्याकरणमहाभाष्यम् (१।२।४५). ५. 'एवेति' ग. ६. 'तदपगम' ग. ७. 'तावत्' ग-पुस्तके नास्ति. ८. 'रूपवं' ग. ९. 'ध्वनिलक्षण' ग. १०. 'समनन्तरमेव लक्ष्यमाण' ग. ११. 'न घटेऽपि' क. १२. 'अन्यस्य कस्यचिदिति' ग. १३. 'गुणालंकारोचिल' ग-पुस्तके नास्ति. १४. 'ध्वन्याख्ये आत्मनि' ग. १५. 'तथाहीति' ग. १६. 'तावद्भवतां मतम्' ग. १७. 'बाधा' ग. १८. 'सेव्यत्वादिकं प्रयोजनं सशब्दान्तरावाच्यं' क, 'सेव्यखादिशब्दान्तरवाच्यं' ग. १९. 'पदेन वा' ग. २०. 'न तावन्न' ग. २१. 'अनैकान्तिकलं' ग. २२. 'इत्यनुमानं तस्यापि' ग. २३. 'वाच्यं' क-ख-पुस्तकयो स्ति। ३ ध्व० लो. Page #27 -------------------------------------------------------------------------- ________________ ટ काव्यमाला न च स्मृतिरियम् । अननुभूतेस्तदयोगानियमाप्रतिपत्तेर्वक्तुरेतदे विवक्षितमित्यध्यवसायाभावप्रसङ्गाचेत्यस्ति तावदत्र शब्दस्यैव व्यापारः । व्यापारश्च नाभिधात्मा । समयाभावात् । न तात्पर्यात्मा तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा । उक्तादेव हेतोः स्खलद्गतित्वाभावात् । तत्रापि हि स्खलद्गतिले पुनर्मुख्यार्थबाधानिमित्तं प्रयोजनमित्यनवस्था स्यात् । अत एव यत्केनचिल्लक्षितलक्षणेति नाम कृतं तयसनमात्रम् । तस्मादभिघातात्पर्यलक्षणव्यतिरिक्तश्चतुर्थोऽसौ व्यापारो ध्वननँद्योतनव्यञ्जनप्रत्यायनावगमनादि सोदरव्यपदेशनिरूपितोऽभ्युपगन्तव्यः । यद्वक्ष्यति — 'मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥' इति । तेन समयापेक्षा वाच्यावगमशक्तिरभिधाशक्तिः । तदन्यथानुपपत्तिसहायार्थावबोधनशक्तिस्तात्पर्यशक्तिः । मुख्यार्थबाधादि सहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणाशक्तिः । तच्छक्तित्रयोपजनितार्थावगममूलजीततत्प्रतिभापवित्रितंप्रतिपत्ते प्रतिभासहायार्थद्योतनशक्तिर्ध्वननव्यापारः । स च प्राग्वृत्तं व्यापारत्रयं न्यक्कुर्वन् प्रधानम् । अत एव काव्यात्मत्याशयेन विधिनिषेधप्रमुखतया च प्रयोजनविषयोऽपि निषेधविषय इत्युक्तः । अभ्युपगममात्रेण चैतदुक्तम् । न त्वत्र लक्षणात्यन्ततिरस्कृता । अन्यसंक्रमणयोरभावात् । नार्थशक्तिमूलेऽस्या व्यापारः । सहकारि मेदाच्च शक्तिभेदः स्पष्ट एव । तथा तस्यैव शब्दस्य व्याप्तिस्मृत्यादिसहकृतस्य विवक्षावगतावनुमापकत्वव्यापारः । अक्षादिसँहकृतस्य वा विकल्पत्वव्यापारः । एवमभिहितान्वयवादिनामिये दैनपह्नवनीयम् । योऽयन्विताभिधानवादी ‘यत्परः शब्दः स शब्दार्थः' इति हृदेये गृहीला शरखदभिधाव्यापारमेव दीर्घदीर्घमिच्छति तस्य यदि दीर्घदीर्घो व्यापारस्तदेकोऽसाविति कुतः । भिन्नविषयत्वात् । अथानेकोऽसौ तद्विषयसहकारिमेदादसजातीय एवं युक्तः । सजातीये च कौर्ये विरम्यव्यापारः शब्दकर्मबुद्ध्यादीनां पदार्थविद्भिर्निषिद्धः । असजातीये चस्मिन्नय एव । अथ योऽसौ चतुर्थकक्षानिविष्टोऽर्थः स एव झटिति वाक्येनाभिधीयत इत्येवंविधं दीर्घदीर्घत्वं विवक्षितम् । तर्हि तत्र संकेताकरणात्कथं साक्षात्प्रतिपत्तिः । निमित्तेषु · १. ‘नियम्याप्रति’ ग. २. 'वक्तुरेवं विवक्षितं' क-ख. ३. 'एव' क-ख-पुस्तकयोर्नास्ति. ४. 'न' ग-पुस्तके नास्ति. ५. 'स्खलितगतिला' ग. ६. 'हि' क-ख-पुस्त - कयोर्नास्ति. ७. 'द्योतन' ग-पुस्तके नास्ति. ८. 'सहायार्थबोधन' क ख. ९. 'तच्छक्तिबाधोपजनित' ग. १०. 'ज्ञाततत्प्रतिभास' ग. ११. 'प्रतिपत्त' क-पुस्तके नास्ति. १२. 'प्रभा' ग. १३. 'प्रधानभूतः काव्यात्मे' ग. १४. ' इत्युक्तम्' ग. १५. ‘चेदमुक्तम्' ग. १६. 'सहकृत्य वा' ग. १७. ' तावदियमनपह्नवनीयं' ग. १८. 'यो ह्यन्विता' ग. १९. 'हृदये' ग-पुस्तके नास्ति २०. 'एव' ग-पुस्तके नास्ति. २१. ‘कार्ये’ क· ख- पुस्तकयोर्नास्ति. २२. 'च' ग-पुस्तके नास्ति २३. 'स ‘इति झडिति' क-ख. २४. 'तत्र तर्हि ' क- ख. Page #28 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः। संकेतः नैमित्तिकस्वसावर्थ इति संकेतानपेक्ष ऐवेति चेत्, पैश्यत श्रोत्रियस्यानुवाकहतबुद्धरुक्तिकौशलम् । यो ह्यसौ पर्यन्तकक्षाभांगार्थः प्रथमं प्रतीतिपथमवतीर्णस्तस्य पश्चात्तनाः पदार्था निमित्तभावं गच्छन्तीति नूनं मीमांसकस्य प्रपौत्रं प्रति नैमित्तिकखमभिमतम् । अथोच्यते-पूर्व तत्र संकेतग्रहणसंस्कृतस्य तथा प्रतिपत्तिर्भवतीत्यमुया वस्तुस्थित्या निमित्तवं पदार्थानाम् , तर्हि तदनुसारानुपयोगेन न किंचिदप्युक्तं स्यात् । न चापि प्राक्पदार्थेषु संकेतँग्रहणं वृत्तम् । अन्वितानामेव सर्वदा प्रयोगात् । आवापोद्वापाभ्यां तथाभाव इति चेत्, संकेतः पदार्थमात्र एवेत्यभ्युपगमे पाश्चात्यैव विशेषप्रतीतिः । अथोच्यते-दृष्टैव झडिति तात्पर्यप्रतिपत्तिः किमंत्र कुर्म इति तदिदं वयमपि न नाङ्गीकुर्मः । यद्वक्ष्यामः-'तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् । बुद्धौ तत्त्वावभासिन्यां झडित्येवावभासते ॥ इति । किं तु सातिशयानुशीलनाभ्यासातत्र संभाव्यमानोऽपि क्रमः सजातीयतद्विकल्पपरम्परानुदयादभ्यस्तविषयव्याप्तिसमयस्मृतिक्रमवन्न संवेद्यत इति निमित्तनैमित्तकभावश्चावश्याश्रयणीयः । अन्यथा गौणलाक्षणिकयोर्मुख्याद्भेदः 'श्रुतिलिङ्गादिप्रमाणषट्वस्य परदौर्बल्यम्' इत्यादि प्रक्रियाविघातो निमित्ततावैचित्र्येणैवास्याः सामर्थ्यान्निर्निमित्ततावैचित्र्ये चाभ्युपगते किमपरमस्माखसूयया । येऽप्यविभक्तं स्फोटं वाक्यं तदर्थरूपमित्याहुस्तैरप्यविद्यापदपतितैः सर्वेयमनुसरणीया प्रक्रिया । तदुत्तीर्णले तु सर्वं परमेश्वराद्वयं ब्रह्मेत्यस्मच्छास्त्रानुसरणेन विदितं तत्रालोकग्रन्थं विचारयतेत्यास्ताम् । यत्तु भट्टनायकेनोक्तम्-'इह दृप्तसिंहादिपर्दैप्रयोगेऽपि धार्मिकपदप्रयोगे च भयानकरसावेशकृतैव निषेधावगतिः । तदीयभीरुधीरखप्रकृतिनियमावगममन्तरेणैकान्ततो निषेधगत्यभावात्' इति, तेन्न । केवलार्थसाम. र्थ्यान्निषेधगतेनिमित्तमिति, तत्रोच्यते-केनोक्तमेतत् , 'वक्तृप्रतिपत्तृविशेषावगमविरहेण शब्दगतध्वननव्यापारविरहेण च निषेधावगतिः' इति । वक्तृप्रतिपत्तप्रतिभासहकारिवं ह्यस्माभिर्योतनस्य प्राणखेनोक्तम् । भयानकरसावेशश्च नै वर्ण्यस्य । भयमात्रोत्पत्त्य भ्युपगमात् । प्रतिपत्तुश्च रसावेशो रसाभिव्यक्त्यैव । रसस्य च शब्दवाच्यखं तेनापि नोपगतमिति व्यङ्ग्यत्वमेव । प्रतिपत्तुरपि रसावेशो न नियतः । नह्यसौ नियमेन ___१. 'इति' ग-पुस्तके नास्ति. २. 'एव' ग-पुस्तके नास्ति. ३. 'पश्य' क-ख. ४. 'भागार्थः' ग. ५. पदार्थावगमनिमित्त' ग. ६. 'आगच्छन्तीति' ख. ७. 'तदनुरणनोपयोगि न तदप्युक्तं' ग. ८. 'संबन्धग्रहणं' ग. ९. 'सदा' क-ख. १०. 'अत्र' ग-पुस्तके नास्ति. ११. 'अपि न' क-ख-पुस्तकयो स्ति. .१२. 'तत्त्वार्थदर्शिन्यां' ग. १३. 'स्मृतिं तमवन्न' ग. १४. 'प्रक्रियाविकल्पास्तन्निमित्त' ग. १५. 'समर्थितत्वात्' ग. १६. 'स्फोटकवाक्यं तदर्थमाहुः' ग. १७. 'परमेश्वराद्वयं ब्रूमहे इत्यमच्छास्त्राकारणेन न विदितं तत्त्वालोक' ग. १८. 'पदयोगेऽपि' क-ख. १९. 'भीरुख' ग. २०. 'तत्र' ख. २१. 'न निवार्यते । तस्य' ग. Page #29 -------------------------------------------------------------------------- ________________ काव्यमाला। कैचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा 'अत्ता एत्थ णिमज्जइ एत्थ अहं दिअस पलोएहि । मा पहिअ रत्तिअन्धअ सेज्जाए महँण मज्जहिसि ॥' भीरुधार्मिकसब्रह्मचारी सहृदय एव । अथ तद्विशेषोऽपि सहकारी कल्प्यते तर्हि वक्तप्र:तिपत्तप्रतिभाप्राणितो ध्वननव्यापारः किं न सह्यते । किं च वस्तुध्वनि दूषयता रसध्वनिस्तदनुग्राहकः समर्थ्यत इति सुठतरां ध्वनिध्वंसोऽयम् । यदाह-'क्रोधोऽपि देवस्य वरेण तुल्यः' इति । अथ रसस्यैवेयता प्राधान्यमुक्तं तत्को न सहते । अथ वस्तुमात्रध्वनेरेतदुदाहरणं न युक्तमित्युच्यते तथापि काव्योदाहरणखाद्भावप्यत्र ध्वनी स्तः । को दोषः । अपि चोक्तनीया संभोगाभिलाषविभावसंकेतस्थानोचितविशिष्टकाक्काद्यनुभावशबलनोचितशृङ्गाररसानुवेधः । रसस्यालौकिकवात् । तावन्मात्रादेवं भेदस्यानुगमात् । प्रथमं निर्विवादसिद्धविविक्तविधिनिषेधप्रदर्शनाभिप्रायेण चैतद्वंस्तुध्वनेरुदाहरणं दत्तम् । यस्तु ध्वनिव्याख्यानोद्यतस्तात्पर्यशक्तिमेव विवक्षासूचकत्वमेव वा ध्वननमवोचत्स नास्माकं हृदयमावर्जयति । यदाहुः-'भिन्नरुचिर्हि लोकः' इति । तदेतदने यथायथं प्रतरिष्याम इत्यास्तां तावत् । भंमेति अतिसृष्टोऽपि प्राप्तस्ते भ्रमणकालः । धार्मिकेति कुसुमाग्रुपकरणार्थ युक्तं ते भ्रमणम् । विश्रब्ध इति शङ्काकारणवैकल्यात् । स इति यस्ते भयप्रकम्पप्रामङ्गलकामकृत । अद्येति दिष्ट्या वर्धस इत्यर्थः । मारित इति पुनरस्यानुत्थानम् । तेनेति यः पूर्व कर्णोपकर्णिकया वयाप्याकर्णितो गोदावरीकच्छगहने प्रतिवसतीति । पूर्वमेव हि तद्रक्षायै तत्त्वतयोपश्रावितः स चाधुना तु दृप्तवात्ततो गहनान्न निःसरतीति प्रसिद्धगोदावरीतीरंपरिसरानुसरणमपि तावत्कथाशेषीभूतं का कथा तल्लतागहनप्रवेशशङ्कीया इति भावः । श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय । मा पथिक राज्यन्ध शय्यायाममा॑वयोर्मात्रीः ॥ अत्र शयिष्ठा वा।' महँण इति निपातोऽनेकार्थवृत्तिरत्रावयोरित्यर्थे न तु ममेति । एवं हि विशेषवचनमेव शङ्काकारि - १. 'क्वचित्प्रतिषेधे विधिरूपो' ग. १. 'भीरुधार्मिकस्य सब्रह्मचारिहृदय एव' क-ख. २. 'इयत्ता' क. ३. 'तत्केन सह्यते' क-ख. ४. 'कार्योदाहरणवादावपि ध्वनी स्ताम्' क-ख. ५. 'अनुभावं खवलनोदित' ग. ६. 'एव चानुपगमात्' ग. ७. रसध्वनेः' ग. ८. 'यत्तु' ग. ९. 'इति' ख-पुस्तके नास्ति, 'इति वदताने यथायथं' ग. १०. 'ब्रूमेति' ग. ११. 'असि' ग. १२. 'कर्णाकर्णिकया' ग. १३. 'यत्त्वयापश्रावितोऽसावधुना' क. 'एतत्त्वया' ख. १४. 'तीर' क-ख-पुस्तकयो स्ति. १५. 'आशङ्कयेति' ग. १६. 'आवयोः शयिष्ठाः । हे इति निपातोऽनेकार्थवृत्तिरत्र न तु ममेति' ग. Page #30 -------------------------------------------------------------------------- ________________ १ उद्योतः ] ध्वन्यालोकः । कचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा 'वच्च मह व्विअ एक्केइ होन्तु णीसासरोइअव्वाइं । मा तुज वि ती विणा दक्खिण्णहअस्स जाअन्तु ॥' २१ भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । केचित्प्रोषितपतिकां तरुणीमवलोक्य प्रेवृद्धमंदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाभ्युपगत इति निषेधाभावोऽत्र विधिः । न तु निमन्त्रणरूपोऽप्रवृत्तत्रैवर्तनास्खभावः । सौभाग्याभिमान खण्डनाप्रसङ्गात् । रात्र्यन्धेति समुचित समय संभाव्यमानविकाराकुलितत्वं ध्वनितम् । भावतदभावयोश्च साक्षाद्विरोधाद्वाच्याङ्ग्यस्य स्फुटमेवान्यत्वम् । यत्त्वाह भट्टनायकः – 'अहमित्यभिनयविशेषणात्मदशावेदनाच्छाब्दमेतदपि ' इति । तत्राहमिति शब्दस्य तावन्नायं साक्षादर्थः । काक्कादिसहायस्य च तावति ध्वननमेव व्यापार इति ध्वनेर्भूषणमेतत् । अति प्रयत्नेनानिभृतसंभोगपरिहारः । अथ यद्यपि भवान्मदनशरासारदीर्यमाणहृदय उपेक्षितुं न युक्तस्तथापि किं करोमि पापो दिवसकोऽयम् । अनुचितत्वात्कुत्सितोऽयमित्यर्थः । प्राकृते पुंनपुंसकयोरनियमः । न च सर्वथा समुपेक्ष्यः । यतोऽत्रैवाहं तत्प्रलोकय नान्यतोऽहं गच्छामि । तदन्योन्यवदनावलोकन विनोदेन दिनं तावदतिवाहयाव इत्यर्थः । प्रतिपन्नमात्रायां च रात्रावन्धीभूतो मंदीयायां शय्यायां मा विक्षः । अपि तु निभृतनिभृतमेत्य देत्तावधाननिकट कण्टकनिद्रान्वेषणपूर्वकमितीयदत्र ध्वन्यते । 'ब्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य 'जैनिवत ॥' अत्र व्रजेति विधिः । न प्रमादादेव नायिकान्तरसंगमनं तव, अपि तु गौढानुरागादेव । अन्यादृङ्मुखरागगोत्रस्खलनादि च । केवलं पूर्वकृतानुपालनात्मना दाक्षिण्येनैकरूपताभिमानेनैव त्वमंत्र स्थितः, तत्सर्वथा शठोऽसीति गाढमन्युरूपोऽयं खण्डितनायिकाभिप्रायोऽत्र प्रतीयते । न चासौ विभावरूपो निषेधः । नापि विध्यन्तरमेवे ँ । अन्यनिषेधाभावात् । हे इति निपातः प्रार्थनायाम् । आ इति तावच्छब्दार्थे । १. 'कांचित्' ग. २. 'प्रबुद्धमदनातुरं संपन्नं' ग. ३. 'प्रवर्तनारूपः ' ग. ४. ' खण्डनापदेशादत्रैव रात्र्यन्धेति' क- ख. ५. 'साक्षात् ' ग-पुस्तके नास्ति. ६. 'व्यक्त्यास्य स्फुटं' ग. ७. 'तत्रापि भट्टनायकः' ग. ८. ' तावच्छब्दस्य नायं' ग. ९. अ प्रयत्नेनामृतसंभोग' ग. १०. ' मदीयां शय्यां मा श्लिक्ष्याः' क-ख. ११. 'दत्ताभिधान' क-ख. १२. 'जनिष्यते' क- ख. १३. 'गाढानुरागाद्येनान्यादृङ्मुखवर्णो गोत्रस्खलनादि तानि च केवलं पूर्वकृतानुपालनं न दाक्षिण्येन नैक' ग. १४. 'एव' ग-पुस्तके नास्ति. १५. 'अत्रास्थितः ' ग. १६. 'व्रजनाभाव' ग. १७. 'एव' क- ख. पुस्तकयोर्नास्ति. Page #31 -------------------------------------------------------------------------- ________________ काव्यमाला। क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा'दे आ पसिअ णिवत्तसु मुहससिजोलाविलुत्ततमणिवहे । अहिसारिआण विग्धं करोसि अण्णाण वि हआसे ॥' तेनायमर्थः-'प्रार्थये तावत्प्रसीद निवर्तख मुखशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥' अत्राध्यवसितानिवर्तखेति प्रतीतेनिषेधो वाच्यः । गुहागता नायिका गोत्रस्खलिताद्यपराधिनि नायके सति ततः प्रतिगन्तुं प्रवृत्ता, नायकेन चाटूपक्रमपूर्वकं निवर्त्यते-न केवलं खात्मनो मम च निर्वृत्त्या विघ्नं करोषि, यावदन्यासामपि । ततस्तव न कदाचन सुखलवलाभोऽपि भविष्यतीत्यत एव हताशासीति वल्लभाभिप्रायरूपश्चाटुविशेषो व्यङ्ग्यः । यदि वा सख्योपदिश्यमानापि तदवधीरणया गच्छन्ती सख्योपदिश्यते न केवलमात्मनो विघ्नं करोषि, लाघवादंबहुमानास्पदमात्मानं कुर्वती अत एव हताशा यावद्वदनचन्द्रिकाप्रकाशितमार्गतयान्यासामभिसारिकाणां विघ्नं करोषीति सख्यभिप्रायरूपश्चाटुविशेषो व्यङ्ग्यः । अत्र तु ब्याख्यानद्वयेऽपि व्यवसितात्प्रतीपगमनाप्रियतमगृहगमनाच्च निवर्तखेति पुनरपि वाच्य एव विश्रान्तेर्गुणीभूतव्यङ्ग्यभेदस्य प्रेयोरसवदलंकारस्योदाहरणमिदं स्यात् , न ध्वनेः । तेनायमत्र भावः- काचिद्रभसात्प्रियतममभिसरन्ती तद्गृहाभिमुखमागच्छता तेनैव हृदयवल्लभेनैवमुपश्लोक्यतेऽप्रत्यभिज्ञानच्छलेन । अत एवात्मप्रत्यभिज्ञापनार्थमेव नर्मवचनं हताशे इति । अन्यासामपि विघ्नं करोषि तव चेप्सितलाभो भविष्यतीति का प्रत्याशा । अत एव मदीयं वा गृहमागच्छ, त्वदीयं वा गच्छाव इत्युभयत्रापि तात्पर्यादनुभयरूपो वल्लभाभिप्रायश्चाद्वात्मा व्यङ्ग्य इत्येव व्यवतिष्ठते । अन्ये तु-तटस्थानां सहृदयानामभिसारिकां प्रतीयमुक्तिः' इत्याहुः । तत्र हताशे इत्यामन्त्रणादि युक्तमयुक्तं वेति सहृदया एव प्रमाणम् । एवं वाच्यव्यङ्ग्ययोर्धार्मिकपान्थप्रियतमाभिसारिकाविषयैक्येऽपि खरूपभेदाढ़ेद इति प्रतिपादितम् । अधुना तु विषयभेदादपि व्यङ्ग्यस्य वाच्या १. 'तमोणिवहे' ख-ग. १. 'तेनायमर्थः' ग-पुस्तके नास्ति. २. 'प्रसीद तावत्' ग. ३. 'ज्योत्स्नाभा' ग. ४. 'अत्रावसितागमनात्' ग. ५. 'गृहागतनायिका' क-ख. ६. 'चारूपक्रम' ग. ७. 'निर्वृत्या' ख, "निर्वृति' ग. ८. 'भविष्यत्यत एवाह' क-ख. ९. 'चाविशेषो' ग. १०. 'यदि वा' क-ख-पुस्तकयो स्ति. ११. 'अबहुमान' क, 'अबहुमानमात्मानं' ख. १२. 'व्यङ्ग्यस्य च' ग. १३. 'इदं' क-ख-पुस्तकयो स्ति. १४. 'तद्धनेः' क. १५. 'अन्यासां च' ग. १६. 'इत्यामन्त्रणौचित्यादि' ग. Page #32 -------------------------------------------------------------------------- ________________ १ उच्योतः ] ध्वन्यालोकः । क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा - 'कस्स व ण होइ रोसो दट्ठूण पिआऍ सव्वणं अहरम् । सभमरउपमग्धाइणि वारिअवामे सहसु एहिम् ॥' R अन्ये चैवंविधाः प्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः संभवन्ति । तेषां दिङ्मात्रमेतत्प्रदर्शितम् । द्वितीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्च दर्शयिष्यते । तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्या द्भेद इत्याह-व्यवस्थापित इति । विषयभेदोऽपि विचित्ररूपो व्यवतिष्ठमानः सहृदयैर्व्यवस्थापयितुं शक्यत इत्यर्थः । 'कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्राणशीले वारितवामे सहखेदानीम् ॥' कस्य वेति अनीर्ष्यालोरपि । न भवति रोषो दृष्ट्वेति कृत्वापि कुतश्विदेवापूर्वतया प्रियायाः सव्रणमधरं दृष्ट्वावलोक्य | सभ्रमरपद्माघ्राणशीले । शीलं हि कथंचिदपि वारयितुं न शक्यम् । वारिते वारणायां हे चामे, तद(न)ङ्गीकारिणि सहखेदानीम् । उपालम्भपरम्परामित्यर्थः । अत्रायं भावः'काचिदविनीता कुतश्चित्खण्डिताधरा तत्सविधसंविधाने भर्तरि तेमनव लोकमानयेव कयाचिद्विदग्धसख्या तेद्वाच्यतापरिहारायैर्वैमुच्यते । सहस्वेदानीमिति वाच्यमविनयवतीविषयम् । भर्तृविषयं तु अपराधो नास्तीत्यावेद्यमानं व्यङ्ग्यम् । तस्यां च प्रियतमेन गाढमुपालभ्यमानायां तद्व्यलीकशङ्कितप्रातिवेश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्ग्यम् । तत्पढ्यां च तदुपालम्भतदविनय प्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्ग्यम् । सपत्नीमध्ये इयत्खलीकृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम् । प्रत्युतायं बहुमानः । सहख शोभखेदानीमिति सखी - विषयं सौभाग्यप्रख्यापनं व्ययम् । अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लमेत्थं रक्षिता । पुनः फ्रँकटरदनदंशनविधिर्न विधेय इति तचौर्य कामुकविषयसंबोधनं व्यङ्ग्यम् । इत्थं मयैतदपह्नुतमिति स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकँविषयं व्यङ्ग्यमिति । तदेतदुक्तं व्यवस्थापितशब्देन । अग्र इति द्वितीयोयोते 'असंलक्ष्यक्रमव्यङ्ग्यः क्रमेणोद्दयोतितः परः' इति विवक्षितान्यपरवाच्यस्य द्वितीयप्रभेदवर्णनावसरे । तथाहि विधिनिषेधतदुभयात्मना रूपेण संकलय्य वस्तुध्वनिः संक्षेपेण सुवचनः, तथा नालंकारध्वनिः । अलंकाराणां भूयस्त्वात् । तत एवोक्तम्- 'सप्रपञ्चं' इति । तृतीयस्त्विति । तुशब्दो १. 'क्वचिद्वाच्याद्' ग. १. ‘पद्माघ्रायिणि’ क. २. 'तदनवलोक्यमानयैव' क-ख. ३. 'तदनार्यपरि' ग ४. 'एतत्' क- ख. ५. 'इयत्ता' क-ख. ६. 'प्रकटाधरदंशन विधिरत्र न युक्तः प्रत्युतायं बहुमानः' इति ग. ७. 'लोक' क-ख-पुस्तकयोर्नास्ति. Page #33 -------------------------------------------------------------------------- ________________ २४ 'काव्यमाला। क्षिप्तः प्रकाशते । न तु साक्षाच्छन्दव्यापारविषय इति वाच्याद्विभिन्न एव । तथा हि वाच्यत्वं तस्य खशब्दनिवेदितत्वेन वा स्यात् , विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन्पक्षे खशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः । न च सर्वत्र तेषां खशब्दनिवेदितत्वम् । यत्राप्यस्ति व्यतिरेके । वस्खलंकारौ शब्दाभिधेयलमध्यासाते तावद्रसभावतदाभासतत्प्रशमाः पुनर्न कदाचिदभिधीयन्ते । अथ चाखाद्यप्राणतया प्रतिभान्ति तत्र तु ध्वननव्यापारादते नास्ति कल्पनान्तरम् । स्खलद्गतिवाभावे मुख्यार्थबाधादेर्लक्षणानिबन्धनस्यानाशङ्कनी. यत्वात् । औचित्येन प्रवृत्ती चित्तवृत्तेरास्वाद्यले स्थायिन्या रसो व्यभिचारिण्या भावः । अनौचित्येन तदाभासः । रावणस्येव सीतायां रतेः । यद्यपि तत्र हास्यरसरूपतैव । 'शृङ्गाराद्धि भवेद्धासः' इति वचनात् । तथापि पाश्चात्येयं सामाजिकानां स्थितिः। तन्मयीभवनदशायां तु रतेरेवाखाद्यतेति शृङ्गारतैव प्रतिभाति । पौर्वापर्यविवेकावधीरणेन । 'दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिम्' इत्यादौ । तदसौ शृङ्गाराभास एव तदङ्गभावाभासश्चित्तवृत्तः प्रशम एव प्रक्रान्ताया हृदयमाहादयति । यतो विशेषण तत एव तत्संगृहीतोऽपि पृथगणितोऽसौ । तथा-'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरंन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' इत्यारोषोत्मनो मानस्य प्रशमः । न चायं रसादिरर्थः । 'पुत्रस्ते जातः' इत्यतो यथा हर्षों जायते तथा नापि लक्षणया । अपि तु सहृदयस्य हृदयसंवादबलाद्विभावानुभावप्रतीती तन्मयीभावेनाखाद्यमान एव रेस्यमानतैकप्राणः सिद्धखभावसुखादिविलक्षणः परिस्फुति । तदाह-प्रकाशत इति । तेन तत्र शब्दस्य ध्वननमेव व्यापारोऽर्थसहकृतस्येति । विभावाद्यर्थोऽपि त्रजन्महर्षन्यायेन तां चित्तवृत्तिं जनयतीति जननातिरि. १. 'प्रकाश्यते' क-ख. २. 'ख' क-ख-पुस्तकयो स्ति. ३. 'निवेद्य वम् । यत्रापि वास्ति' क-ख. १. 'व्यतिरेकी' क. २. 'अथवाखाद्य' ग. ३. 'तु' क-ख-पुस्तकयो स्ति. ४. 'रस' क-ख-पुस्तकयो स्ति. ५. 'हास्यः' क-ख. ६. 'प्रति' ग-पुस्तके नास्ति. ७. 'तत एतत्संगृहीतो' क-ख. ८. 'भणितः' ख. ९. 'अन्योन्यस्य हृदि स्थिते' ग. १०. 'वलनात्' ग. ११. 'कण्ठप्रहम्' ग. १२. 'कोपात्मनो' ग. १३. 'उपशमः' ग. १४. 'रसाद्यर्थः' ग. १५. 'इत्यत्र' ग. १६. 'सहृदयहृदय' ग. १७. 'विभावप्रतीतेः' क-ख. १८. 'रसस्यमानतैक' क. 'रसरस्यमानतैक' ख. १९. 'प्रकाश्यते क-ख. २०. 'न पुत्रजन्यविषन्यायेन' ग. Page #34 -------------------------------------------------------------------------- ________________ १ उड्योतः] ध्वन्यालोकः। तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः । खशब्देन सा केवलमनूद्यते । न तु तत्कृता । विषयान्तरे तथा तस्या अंदर्शनात् । नहि केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये कोऽर्थस्यापि व्यापारो ध्वननमेवोच्यते । स्वशब्देति । श्रेङ्गारादिनाभिधाव्यापारवशादेव । निवेदितत्वेनेति । विभावादीति । तात्पर्यशक्त्येत्यर्थः । तत्र खशब्दस्यान्वयव्यतिरेको रस्यमानतासारं रसं प्रति निराकुर्वन्ध्वननस्यैव ताविति दर्शयतिन च सर्वत्रेति । यथा भद्देन्दुराजस्य- यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोईष्टे यूनि सयौवनासु वनिताखषैव वेषस्थितिः ॥' इत्यत्रानुभावविर्भावावबोधनोत्तरमेव तन्मयीभवनयुक्त्यां तद्विभावानुभावोचितचित्तवृत्तिवासनानुरञ्जितखसंविदानन्दचर्वणगोचरोऽर्थो रसात्मा स्फुरत्येवाभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्य श्रमस्मृतिवितर्कादिशब्दाभावेऽपि । एवं व्यतिरेकाभावं प्रदर्यान्वयाभावं दर्शयति-यत्रापीति । तदिति खशब्दनिवेदितत्वम् । प्रतिपादनमुखेनेति । शब्दप्रयुक्तया विभावादिप्रतिपत्त्येत्यर्थः । सा केवलमिति । तथा हि-'याते द्वारवतीं तदा मधुरिपौ तद्दत्तकम्पानतां कालिन्दीतटरूढवञ्जुललतामालिङ्गय सोत्कण्ठया । तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥' इत्यत्र विभावानुभावौ म्लानतया प्रतीयते । प्रतिपन्नं कुर्वतोत्कण्ठाचर्वणागोचरं प्रतिपायत एव । सोत्कण्ठशब्दः केवलं सिद्धं साधयति । उत्कमित्यनेन तूक्तानुभावानुकर्षणं कर्तुं सोत्कण्ठशब्दः प्रयुक्त इत्यनुवादोऽपि नानर्थकः । पुनरनुभावप्रतिपादने हि पुनरुक्तमतन्मयीभावो वा । न तु तत्कृतेत्यत्र हेतुमाह-विषयान्तर इति । 'यद्विश्रम्य-' इत्यादौ, न हि यदभावेऽपि यद्भवति तत्कृतं तदिति भावः । अदर्शनमेव ट्रेढयतिनहीति । केवलशब्दार्थ स्फुटयति-विभीवादीति । काव्य इति । तव मते १. 'अप्रतीतिः' ग. २. 'सा' क-ख-पुस्तकयो स्ति. ३. 'तथा' ग-पुस्तके नास्ति. ४. 'दर्शनात्' ग. १. 'ऽप्यर्थस्यापि' क. २. 'शृङ्गारादिना शब्देन' ग. ३. 'विभावादिति' ग. ४. 'व्यतिरेकस्य मानकसारं' ग. ५. 'स्थीमनी' क-ख. ६. 'दून' क-ख. ७. 'कृष्णे यूनि' ग. ८. 'विभावबोधानन्तर' ग. ९. 'वृत्तिर्वासना' क-ख. १०. 'चर्वण' कख-पुस्तकयो स्ति. ११. 'भावभ्रम' ग. १२. 'निवेद्यवं' क-ख. १३. 'प्रतिपद्यते' क, 'प्रत्यपद्यत' ख. १४. 'सोत्कण्ठा' ग. १५. 'कर्तुं' क-ख-पुस्तकयो स्ति. १६. 'नानार्थकः' ग. १५. 'प्रथयति' ग. १८. 'शब्दार्थः' ग. १९. 'विभावादिति' ग. Page #35 -------------------------------------------------------------------------- ________________ २६ काव्यमाला। मनागपि रसवत्त्वप्रतीतिरस्ति । यतश्व खाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो 'विशिष्टेभ्यो रसादीनां प्रतीतिः । केवलाच खोभिधानादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथंचित् । इति तृतीयोऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितम् । वाच्येन त्वस्य सहैव प्रतीतिरित्यग्रे दर्शयिष्यते । 'काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । क्रौश्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥५॥ काव्यरूपतया प्रयुज्यमान इत्यर्थः । मनागपीति । 'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाव्ये रसाः स्मृताः ॥' इति । ऐवं स्वशब्देन सह रसादेर्व्यतिरेकान्वयाभावमुंपदर्य तमेवोपसंहरति-यतश्चेत्यादिना कथंचिदित्यन्तेन । अभिधेयमेव सामर्थ्यं सहकारिशक्तिरूपं विभावादिकं रसध्वनने शब्दस्य कर्तव्ये, अभिधेयस्य च पुत्रजन्महर्षभिन्नयोगक्षेमतया जननव्यतिरिक्त दिवाभोजनाभावविशिष्टपीनखानुमितरात्रिभोजनविलक्षणतया चानुमानव्यतिरिक्ते ध्वनने कर्तव्ये सामर्थ्य शक्तिविशिष्टं समुचितसाकल्यम् । इति द्वयोरपि शब्दार्थयोर्ध्वननव्यापारः । एवं द्वौ पक्षावुपक्रम्याद्यो दूषितः । द्वितीयस्तु कथंचिद्दषितः कथंचिदङ्गीकृतः । जननांनुमानव्यापाराभिप्रायेण दूषितः ध्वननाभिप्रायेणाङ्गीकृतः । यस्त्वत्रापि तात्पर्यशक्तिमेव ध्वननं मन्यते स न वस्तुतत्त्ववेदी । विभावानुभावप्रतिपादके हि वाक्ये तात्पर्यशक्तिर्भेदसंसर्गे वा पर्यवस्येत् । न तु रस्यमानतासारे रसे । इत्यलं बहुना । इतिशब्दो हेलर्थे । इत्यपि हेतोस्तृतीयोऽपि प्रकारो वाच्याद्भिन्न एवेति संबन्धः । सहैवेति । ईवशब्देन विद्यमानोऽपि क्रमो न संलक्ष्यत इति तदर्शयति-अग्र इति । द्वितीयोहयोते । एवं 'प्रतीयमानं पुनरन्यदेव' 'इतीयता ध्वनिखरूपं व्याख्यातम् । अधुना काव्यात्मवमितिहीसव्याजेनैव दर्शयति-काव्यस्यात्मेति । स एवेति प्रतीयमानमात्रेऽपि प्रक्रान्ते तृतीय एव रसध्वनिरिति मन्तव्यम् । इतिहासबलात् १. विशिष्टेभ्यो' ग-पुस्तके नास्ति. २. 'खाभिधानमात्रात्' क-ख. ३. 'प्रदर्शयिष्यते' ग. १. 'प्रसज्यमान' ग. २. 'अत्रैव खशब्देन' ग. ३. 'उपदर्शि' ख, 'उपपत्त्या प्रदर्य तथैवोप' ग. ४. 'विधेयस्य पुत्र' ग. ५. 'शक्तिः विशिष्टसमुचित' ग. ६. 'अनुव्यापार' क, 'अनुमाव्यापार' ग. ७. 'शक्तिभेदः संसर्गे' ग. ८. 'सारो रसः' ग. ९. 'इह शब्देन' क-ख. १०. 'इति तदर्शयति' क-ख-पुस्तकयो स्ति. ११. 'इति यतो' ग. १२. 'इतीतिहास' ग. १३. 'वाच्यस्य' क-ख. Page #36 -------------------------------------------------------------------------- ________________ १ उच्योतः ] ध्वन्यालोकः । विविधविशिष्टवाच्यवाचकरचनामैपञ्चचारुणः क्राव्यस्य स एवार्थः सौरभूतः संनिहितसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः । प्रक्रान्तवृत्तिग्रन्थबलाच्च । तेन रस एव वस्तुत आत्मा वस्त्वलंकारध्वनी तु सर्वथा रेस प्रति पर्यवस्येते इति वाच्यादुत्कृष्टौ तावित्यभिप्रायेण ध्वनिः काव्यस्यात्मेति सामान्येनोक्तम् । शोक इति । क्रौञ्चद्वन्द्वावियोगेन सहचरीहननोद्भूतेन साहचर्यध्वंसनेनोत्थितो यः शोकः स्थायिभावो निरपेक्ष्य भावत्वाद्विप्रलम्भ शृङ्गारोचितस्थायिभावत्वादन्य एव । स एव तथाभूतविभावतदुत्थाक्रन्दाद्यनुभावचर्वणया हृदयसंवादतन्मयी भवनक्रमादास्वाद्यमानतां प्रतिपन्नः करुणरसरूपतां लौकिकशोकव्यतिरिक्तां स्वचित्तवृत्ति - माखाद्यसारां प्रतिपन्नो रसः परिपूर्णकुम्भोच्छलनवश्चित्तवृत्तिनिःस्पन्दखभाववाग्विलापादिसमयानपेक्षित्वेऽपि चित्तवृत्तिव्यञ्जकत्वादिनयेनाकृतकतयैवावेशवशात्समुचितच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपतां प्राप्तः मा निषादेत्यादि । न तु मुनेः शोक इति मन्तव्यम् । एवं हि 'संति तद्दुःखेन सोऽपि दुःखित इति कृत्वा रसस्यात्मतेति निरवकाश भवेत् । 'ने तु दुःखसंतप्तस्यैषा दशेति । एवं हि चर्वणोचितशोकस्थायिभावात्मककरुणरससर्मुच्छलनस्वभावत्वात्स एव काव्यस्यात्मा सौरभूतस्वभावोऽपरशब्दवैलक्षण्यकारकः । एतदेवोक्तं हृदयदर्पणे - ' यावत्पूर्णो न चैतेन तावन्नैवैवम्' इति । ग -च्छान्दसेनाडागमेन । स एवेत्येवकारेणेदमाह– नान्य आत्मेति । तेन यदाह भट्टनायकः'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । 'अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ॥ द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत्' इति तेदेपास्तम् । व्यापारो हि यदि ध्वननात्मा रसनाखभावस्तन्नापूर्वमुक्तम् । अथाभिधैव व्यापारस्तथाप्यस्याः प्राधान्यं नेत्यावे - दितं प्राक् । श्लोकं व्याचष्टे – विविधेति । विविधं तत्तदभिव्यञ्जनीयरसानुगुण्येन विचित्रं कृत्वा वाच्ये वाचके रचनायां च पञ्चेन यच्चारुशब्दार्थालंकार गुणयुक्तमित्यर्थः । १. ‘विशिष्ट’ ग-पुस्तके नास्ति. २. 'प्रपञ्च' क ख - पुस्तकयोर्नास्ति. ३. 'सारभूतः । तथा चादिकवेर्निहतसहचरी' ग. १. ‘ग्रन्थार्थ' क-ख. २. 'रसं पर्यवस्यत इति' गं. ३. 'कौश्चस्य' क-ख. ४. 'खचि'तद्रुतमाखाद्य' ग. ५. 'बलवत्' ग. ६. ' स्वरूप भाववाग्विलासादि' ग. ७. 'व्यञ्जकत्वादिति नये' ग. ८. 'इव' ख. ९. 'प्राप्तम्' ग. १०. 'सति' ग-पुस्तके नास्ति. ११. 'तद्दुःख' ख, 'न च दुःख' ग. १२. 'भाववचनात्मक' क- ख. १३. 'समुच्चलन' ग. १४. 'रसभूतोऽपरशब्दस्य वैलक्षण्य' ग. १५. 'अमुमेवेति । च्छान्दसेनडा' ग. १६. ‘इति’ क-ख-पुस्तकयोर्नास्ति १७. 'अर्थे तत्त्वेन युक्ते' ग. १८. 'काव्यगीः ' ग. १९. 'तदस्तम्' क ख २०. 'अथाभिधेय' क ख २१. 'प्राधान्ये' ग. २२. 'प्रप'चैन' क-ख-पुस्तकयोर्नास्ति. Page #37 -------------------------------------------------------------------------- ________________ २८ ' काव्यमाला । 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥' शोको हि करुणरसस्थायिभावः प्रतीयमानरूप एवेति प्रतिपादितम् । प्रतीयमानस्य चान्यप्रभेददर्शनेऽपि रसाभावमुखेनैवोपलक्षणम् । प्राधान्यात् । तेन सर्वत्रापि न ध्वननसद्भावेऽपि तथा व्यवहारः । आत्मसद्भावेऽपि क्वचिदेव जीवव्यवहार इत्युक्तं प्रागेव । तेनैतन्निरवकाशम् । यदुक्तं हृदयदर्पणे–'सर्वत्र तर्हि काव्यव्यवहारः स्यात्' इति । संनिहितसहचरीति विभाव उक्तः । आक्रन्दितशब्देनानुभावः । जनित इति । चर्वणगोचरखेनेति शेषः । ननु शोकचर्वणातो यदि श्लोक उद्भूतस्तत्प्रतीयमानं वस्तु काव्यस्यात्मेति कुत इत्याशङ्याह-शोको हीति । करुणस्य च चर्वणागोचरात्मनः शोकः स्थायिभावः । शोके हि स्थायिभावे ये विभावानुभावास्तसमुचिता चित्तवृत्तिश्चर्वणात्मा रस इत्यौचित्यात्स्थायिनो रसतापत्तिरित्युच्यते । प्राक्खसंविदितं परत्रानुमितं च चित्तवृत्तिजातं संस्कारक्रमेण हृदयसंवादमादधानं चर्वणायामुपयुज्यते । ननु प्रतीयमानरूपमात्मा तंत्र विमेदं प्रतिपादितम् । न तु रसैकरूपम् । अनेन चेतिहासेन रसस्यैवात्मभूतत्वमुक्तं भवतीत्याशझ्याभ्युपगमेनैवोत्तरमाह-प्रती. यमानस्य चेति । अन्यो भेदो वस्त्वलंकारात्मा। भावग्रहणं व्यभिचारिणोऽपि चळमाणस्य तावन्मात्राविश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्ठामनवोप्यानुप्राणकलं भवतीत्युक्तम् । यथा-'नखं नखाग्रेण विघट्टयन्ती विवर्तयन्ती वलयं विलोलम् । आमन्द्रमाशिजितनूपुरेण पादेन मन्दं भुवमालिखन्ती ॥' इत्यत्र लज्जायाः । रसभावशब्देन च तदाभासतत्प्रशमावपि संगृहीतावेव । अवान्तरवैचित्र्येऽपि तदेकरूपत्वात् । प्राधान्यादिति । रसपर्यवसानादित्यर्थः । तावन्मात्रविश्रान्तावपि चान्यशब्दवैलक्षण्यकारित्वेन वस्खलंकारध्वनेरपि जीवितत्वमौचित्यादुक्तमिति भावः । १. 'रस' ग-पुस्तके नास्ति. १. 'प्रागेतन्नैतन्निरव' ग. २. 'निहत' ग. ३. 'विशेषः' क-ख. ४. 'काव्यात्मेति' ग. ५. 'तचर्वणा' ग. ६. 'शोकः' ग-पुस्तके नास्ति. ७. 'तत्त्वसमुचिताः' ग. ८. 'तच्चेति भेदं' ग. ९. 'उक्तं' ग-पुस्तके नास्ति. १०. 'उदित' क-ख. ११. 'अपि प्राणकत्त्वं' क ख. १२. 'भवतीति' ग-पुस्तके नास्ति. १३. 'लज्जया' क-ख. १४. 'च' ग-पुस्तके नास्ति. १५. 'चाशाब्द' ग. १६. 'एवौचित्यात्' ग. Page #38 -------------------------------------------------------------------------- ________________ १ उठ्योतः] ध्वन्यालोकः। 'सरखती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।। अलोकसामान्यमभिव्यनक्ति प्रतिस्फुरन्तं प्रतिभाविशेषम् ॥ ६॥ वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां [ सरखती ] लोकसामान्य प्रतिभाविशेष परिस्फुरन्तमभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते । इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम् 'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ ७॥ एवमितिहासमुखेन प्रतीयमानस्य काव्यात्मतां प्रदर्य खंसंवित्सिद्धमप्येतदिति दर्शअति-सरस्वतीति । वाररूपा भगवतीत्यर्थः । अर्थशब्देन वस्तुशब्दं वस्तुशब्देन तत्त्वशब्दं च वक्तुं वस्तुशब्दं व्याचष्टे-निष्पन्दमानेति । दिव्यमानन्दरसं खयमेव प्रस्नुवानेत्यर्थः । यदाह भट्टनायकः–'वाग्धेनुर्दुग्ध ऎकं हि रसं येल्लाभतृष्णया। तेन नास्य समः स स्याङ्ह्यते योगिभिर्हि यः ॥' तदावेशेन विनाप्याक्रान्त्या हि योनिभिदुयते । अत एव–'यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भीखन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥' इत्यनेन साराग्यवस्तुपात्रलं हिमवत उक्तम् । अभिव्यनक्ति प्रतिस्फुरन्तमिति । प्रतिपत्तन्प्रति सा प्रतिभा नानुमीयमाना, अपि तु तदावेशेन भासमानेत्यर्थः । यदुक्तमस्मदुपाध्यायभट्टतौतेन–नायकस्य कवेः श्रोतुः समानोऽनुभवस्ततः' इति । प्रतिभा अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा । तस्या विशेषो रसावेशवैशंद्यसौन्दर्यकाव्यनिर्माणक्षमत्वम् । यदाह मुनिः-'कवेरन्तर्गन्तं भावं' इति । येनेति । अभिव्यक्तेन स्फुरता प्रतिभाविशेषेण निमित्तेन महाकवि[व]गणनेति यावत् । इदं चेति । न केवलं 'प्रतीयमानं पुनरन्यदेव' इत्येतत्कारिकासूचितौ खरूपविषयभेदावे', यावद्भिनसामग्रीवेद्यत्वमपि वाच्यातिरिक्तले प्रमाणमिति यावत् । वेद्यत १. 'अवलोकसाम्यं प्रतिभाविशेषं परिस्फुरन्तं समभिव्यनक्ति' क-ख. २. 'वस्तुतत्त्वं' इत्यारभ्य 'व्यनक्ति' इतिपर्यन्तं क-ख-पुस्तकयो स्ति. ३. 'इयति' क-ख. ४. 'इति' ग-पुस्तके नास्ति. ५. 'तु' ग. १. स च संवित्' ग. २. 'वस्तुशब्देनार्थशब्दं तत्त्वशब्देन च वस्तुशब्द' ग. ३. 'यथा' ग. ४. 'एव' क-ख. ५. 'यद्वाल' ग. ६. भाखन्तीत्युत्तरार्ध क-ख-पुस्तकयो स्ति. .. 'परिस्फुरन्तं' कख. ८. 'प्रतिभानुमीया नापि तद्विलेशेन' ग. ९. 'यथोक्तमस्मदुपाध्यायेन भट्टलोल्लटेन' ग. १०. 'वैशारद्यसौन्दर्य' क-ख. ११. 'एवं' क-ख. ४ ध्व० लो० Page #39 -------------------------------------------------------------------------- ________________ काव्यमाला। शब्दार्थशासनज्ञानमात्रेऽपि परं न वेद्यते सोऽर्थों यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते । यदि च वाच्यरूप एवासावर्थः स्यात्तद्वाच्याचकखरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां कोव्यतत्त्वार्थभावनाविमुखानां खरश्रुत्यादिलक्षणमिव प्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः । एवं वाच्यव्यतिरेकिणो व्यङ्गयस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति प्रतिपादयति 'सोऽर्थस्तव्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन । यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थों महाकवेः ॥ ८॥ इति । न तु न वेद्यते, येन न स्यादसाविति भावः । काव्यतत्त्वभूतो योऽर्थस्तस्य भावना वाच्यातिरेकेणानवरतचर्वणा तत्र विमुखानाम् । खराः षड्जादयः सप्त । श्रुतिर्नाम शब्दस्य वैलक्षण्यमात्रकारि यद्रूपान्तरं तत्परिणामानां खरतदन्तरालोभयभेदकल्पिता द्वाविंशतिविधा । औदिशब्देन जात्यंशकग्रामरागभाषाविभाषान्तरभाषा देशीमार्गा गृह्यन्ते । प्रकृष्टं गीतं गानं येषां ते प्रगीताः, गातुं वा प्रारब्धा इत्यादिकर्मणिः क्तः । प्रारम्मेण चात्र फैलपर्यन्तता लक्ष्यते। एवमिति । खेरूपविषयभेदेन भिन्नसामग्रीज्ञेयत्वेन चेत्यर्थः । प्रत्यभिज्ञेयावित्यहाथै कृत्यः । सर्वोऽपि हि तथा यतते इतीयता प्राधान्ये लोकप्रसिद्धलं प्रमाणमुक्तम् । नियोगार्थेन च कृत्येन शिक्षाक्रम उक्तः । प्रत्यभिज्ञेयशब्देनेदमाह—'काव्यं तु जातु जायेत कस्यचित्प्रतिभावतः' इति नयेन यद्यपि स्वयमस्यैव तत्पॅरिस्फुरति तथापीदमितीत्थमिति विशेषतो निरूप्यमाणं सहस्रशाखीभवति । यदुक्तमस्मत्परमगुरुभिः श्रीमदुत्पलपादैः–'तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा । लोकस्यैष तथानवेक्षितर्गुणः खात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥' इति । तेन ज्ञातस्यापि विशेषतो निरूपणमनुसं. धानात्मकमत्र प्रत्यभिज्ञानम् । न तु तदेवेदमित्येतावन्मात्रम् । महाकवेरिति । यो १. 'च' क-ख-पुस्तकयो स्ति. २. 'एवास्यार्थः' ग. ३. 'तत्' क-पुस्तके नास्ति. ४. 'वाचकरूप' ग. ५. 'काव्यार्थतत्त्व' क-ख. ६. 'खलक्षण' ग. ७. 'व्यङ्ग्यस्यार्थस्य' ग. ८. 'प्रदर्शयति' ग. १. 'मात्र' ग-पुस्तके नास्ति. २. 'तत्परिमाणानां' ग-पुस्तके नास्ति. ३. 'आदि- . ग्रहणेन जात्यंशतद्रामरागभाषाभाषान्तरभागा' ग. ४. 'पर्यन्तमालक्ष्यते' ग. ५. 'खरूपभेदेन विषयभेदेन' क-ख. ६. 'प्रसिद्धप्रमाणं' ग. ७. 'परिष्कारीति' क-ख. ८. 'यथोकं' ग. ९. 'गुणस्यात्मापि' ग. १०. 'निरूपणानुसंधाना' क-ख. Page #40 -------------------------------------------------------------------------- ________________ १ उच्योतः ] ध्वन्यालोकः । ३१ स व्यङ्ग्योऽर्थस्तंत्प्रकाशनसामर्थ्ययोगी शब्दश्च कश्चन, ने सर्वः । तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ व्यङ्ग्यव्यञ्जकाभ्यामेव हि सुप्रयुताभ्यां महाकवित्वलाभो महाकवीनाम्, न वाच्यवाचकरचनामात्रेण । इदानीं व्यङ्गयव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह 'आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः । तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ ९ ॥ यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवानो भवति तदुपायतया । नहि दीपशिखामन्तरेणालोकः संभवति । तद्वद्व्यङ्गयमर्थं प्रत्याहतो जनो वाच्येऽर्थे यत्नवान्भवति । अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यर्थं प्रति व्यापारो दर्शितः । प्रतिपाद्यस्यापि तं दर्शयितुमाह 'यथा पदार्थद्वारेण वाक्यार्थः संप्रतीयते । वाच्यार्थ पूर्विका तद्वत्प्रतिपत्तव्यवस्तुनः ॥ १० ॥' मंहाकविरित्यहं भूयासमित्याशास्ते । एवं व्यङ्ग्यस्यार्थस्य व्यञ्जकस्य शब्दस्य च प्राधान्यं वदता व्यङ्ग्यव्यञ्जकभावस्यापि प्राधान्यमुक्तमिति ध्वनति ध्वन्यते ध्वननमिति त्रितयमप्युपपन्नमित्युक्तम् । ननु प्रथमोपदीयमानत्वाद्वाच्यवाचकतेंद्भावस्यैव किं न प्राधान्यमित्याशङ्कयोपायानामेव प्रथममुपादानं भवतीत्यभिप्रायेण विरुद्धोऽयं प्राधान्ये साध्ये हेतुरिति दर्शयतिइदानीमित्यादिना । आलोकनमालोकः । वनितावदनारविन्दावलोकनमित्यर्थः । तत्र चोपायो दीपशिखा । प्रतिपदिति भावे क्विप् । तस्य वस्तुन इति व्यङ्ग्यरूपस्य सारस्येत्यर्थः । अनेन श्लोकेनात्यन्तसहृदयो यो न भवति तस्यैष स्फुटसंवेद्य एव क्रमः १. ‘तद्व्यक्तिसामर्थ्यं’ ग. २. 'न शब्दमात्रम्' ग.. ३. 'अर्थो वाच्यो' ग. ४. 'जनो' क-ख- पुस्तकयोर्नास्ति. ५. 'वाच्यार्थे' ख. ६. 'प्रतिपदिकस्य' ख. ७. 'अर्थ' क ख- पुस्तकयोर्नास्ति. ८. 'प्रतिपन्नस्य' क- ख. १. ‘महाकविरहं भूयासमित्याशंसा' ग. २. 'उक्त' ग-पुस्तके नास्ति. ३. 'उपलक्षणं' ग. ४. ‘उपादेयमान' क ख ५. 'तद्' ग-पुस्तके नास्ति ६. 'किं न' ग-पुस्तके' नास्ति, ७. ‘संवेद्यक्रमः' क- ख. Page #41 -------------------------------------------------------------------------- ________________ ३२ काव्यमाला। यथा हि' पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीतिपूर्विका व्यङ्गयस्यार्थस्य प्रतिपत्तिः। इदानी वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्येत तथा दर्शयति 'खसामर्थ्यवशेनैव वाक्यार्थ पँथयन्नपि । यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ ११ ॥ यथा स्वसामर्थ्यवशेनैव वाक्यार्थ प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न विभाव्यते विभक्ततया । 'तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् । बुद्धौ तत्वार्थदर्शिन्यां झेटियेवावभासते ॥ १२ ॥ यंत्रा(ना)वभासते । (६) यथात्यन्तशब्दवृत्तज्ञो यो न भवति तस्य पदार्थवाक्यक्रमः।प्रतिपाद्यापि तं दर्शयितुमाहइदानीमित्यादिना । काष्ठाप्राप्तसहृदयभावस्य तु वाक्यार्थवृत्तकुशलस्येव सैन्नपि क्रमोऽभ्यस्ताविनाभावस्मृत्यादिवदसंवेद्यः । न व्यालुप्येतेति । प्राधान्यादेव तत्पर्यन्तानुसरणवरिता मध्ये विश्रान्ति न कुर्वत इति क्रमस्य संतोऽप्यलक्षणं प्राधान्ये हेतुः। खसामर्थ्यमाकाङ्क्षायोग्यतासंनिधयः । विभाव्यत इति । विशब्देन विभक्ततोक्ता । विभक्ततया न भाव्यत इत्यर्थः । अनेन विद्यमान एव क्रमो न संवेद्यत इत्युक्तम् । तेन यत्स्फोटाभिप्रायेणासन्नेव क्रम इति व्याचक्षते तत्प्रत्युत विरुद्धमेव । वाच्येऽर्थे विमुखो विश्रान्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यनेन सचेतसामित्यस्यैवार्थो विभक्तः । सहृदयानामेव तयं महिमास्तु, न तु काव्यस्यासौ कश्चिदतिशय इत्याशङ्याह-यत्रावभासत इति । तेनात्र विभक्ततया न भासते । न तु वाच्यस्यैव सर्वथानवभासः । अत एव तृतीयोड्योते घटप्रदीपदृष्टान्तबलाव्यङ्ग्यप्रतीतिकालेऽपि वाच्यप्रतीतिर्न विघटत इति यद्वक्ष्यति तेन सहास्य ग्रन्थस्य न विरोधः। १. 'हि' क-ख-पुस्तकयो स्ति. २. 'वाक्यार्थस्यावगमः' ग. ३. 'व्यालुप्यते' क-ख. ४. 'प्रतिपादयन्' ग. ५. 'झगिति' ख. ६. 'यत्रावभासते' ग-पुस्तके नास्ति. १. 'वाक्यवृत्त' ग. २. 'असन्नपि क्रमोऽभ्यस्त्रानुभाविनाभावस्मृत्यादिपदसंवेद्यः' ग. ३. 'प्राधान्यादेव रणरणिकलरितया' ग. ४. 'सतोपलक्षणं' क-ख. ५. 'इत्यर्थः' कख. ६. 'अभिव्यक्तः' ग. ७. 'इत्यत्रावभासते' ग. ८. 'विभकता न' क-ख. ९. 'वक्ष्यति' क-ख. . Page #42 -------------------------------------------------------------------------- ________________ ३३ १ उझ्योतः] ध्वन्यालोकः । ___ एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भाव प्रतिपाद्य प्रकृत उपयोजयन्नाह'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यतः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ १३ ॥ यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थ व्यङ्गः, स काव्यविशेषो ध्वनिरिति । अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च विभक्त एव ध्वनेविषय इति दर्शितम् । यदप्यु सद्भावमिति । सत्तां साधुभावं प्राधान्यं चेत्यर्थः । द्वयं हि प्रतिपिपादयिषितम् । प्रेकृत इति लक्षणे । उपयोजयन्नित्युपयोगं गमयन् । तमर्थमिति चायमुपयोगः । खशब्द आत्मवाची । खं चासावर्थश्च तो खार्थी । तो गुणीभूतौ याभ्याम् । यथासंख्येन तेनार्थो गुणीकृतात्मा, शब्दो गुणीकृताभिधेयः । तमर्थमिति । 'सरस्वती स्वादु तदर्थवस्तु' इति यदुक्तम् । व्यतः द्योतयतः । व्यत इति द्विवचनेनेदमाह-यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्यापि सहकारिता न त्रुट्यति । अन्यथा ज्ञातोऽपि शब्दस्तयञ्जकः स्यात् । विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारिखं भवत्येव । विशिष्टशब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोरुभयोरपि ध्वननव्यापारः । तेन यद्भट्टनायकेन द्विवचनं दूषितं तद्गनिमीलिकयैव । अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेण । काव्यं च तद्विशेषश्चासौ, काव्यस्य वा विशेषः । काव्यग्रहणाद्गुणालंकारोपस्कृतशब्दार्थपृष्ठपाती ध्वनिलक्षण आत्मेत्युक्तम् । तेनँ नैतन्निरवकाशम् श्रुतार्थापत्तावपि ध्वनिव्यवहारः स्यादिति । यच्चोक्तम्-'चारुवप्रतीतिस्तर्हि काव्यस्यात्मा स्यात्' इति तदङ्गीकुर्म एव । नास्ति खल्वयं विवाद इति । यथोक्तम् –'चारुणः प्रतीतिर्यदि काव्यात्मा प्रत्यक्षादिप्रमाणादपि सा भवन्ती तथा स्यात्' इति । तत्र शब्दार्थमयकाव्यात्माभिधानप्रस्तावे क एष प्रसङ्ग इति न किंचिदेतत् । स इति । अर्थो वा शब्दो वा, व्यापारो वा । अर्थोऽपि वाच्यो वा ध्वनतीति । शब्दोऽप्येवं व्यङ्गयो वा ध्वन्यत इति । व्यापारो वा शब्दार्थयोर्ध्वननमिति । कारिकया तु प्राधान्येन समुदाय एव वाच्यरूपमुखतया ध्वनिरिति प्रतिपादितम् । विभक्त इति । गुणालंकाराणां वाच्यवाचकभावप्राणवात् । १. 'वाचकविशेषः' क-ख-पुस्तकयो स्ति. १. 'पूर्व प्रकृते' क-ख. २. 'खश्चासा' क-ख. ३. 'तो' ग-पुस्तके नास्ति. ४. 'तो गुणीभूतौ क-ख-पुस्तकयो स्ति. ५. 'व्यतः द्योतयतः' ग-पुस्तके नास्ति. ६. 'ध्वननं' क-ख. ७. 'तेनैतत्' ग. ८. 'काव्याभिधान' ग. ९. 'कश्चित्' क-ख. १०. 'प्रतिपादितः' ग. Page #43 -------------------------------------------------------------------------- ________________ काव्यमाला। क्तम्-'प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानेर्ध्वनिर्नास्ति' इति, तदप्ययुक्तम् । यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् । ततोऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः । यदप्युक्तम्- 'कामनीयकमनतिवर्तमानस्य तस्योक्तालंकारादिप्रकारेष्वन्तर्भावः' इति, तदप्यसमीचीनम् । यतो वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेण व्यवस्थितस्य ध्वनेः कथमन्तर्भावः । वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, न तु तदेकरूपा एवेति प्रतिपिपादयिष्यमाणत्वात् । परिकरश्लोकश्चात्र 'व्यङ्गव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः । वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ॥' । ननु यत्र प्रतीयमानस्यार्थस्य वैशयेनाप्रतीतिः स नाम मा भूद्धने अस्य च तदन्यव्यङ्ग्यव्यञ्जकभावसारखान्नास्य तेष्वन्तर्भाव इति । अन्यत्र भावो विषयार्थः । एवं तद्यतिरिक्तः कोऽयं ध्वनिरिति निराकृतम् । लक्षणकृतामेवेति । लक्षणकारप्रसिद्धता विरुद्धो हेतुः । तत एव हि यत्नेन लक्षणीयतालक्ष्यत्वप्रसिद्धलमसिद्धो हेतुः । न च नृत्तगीतादिकल्पम् । तत्काव्यस्य वा क्वापि न किंचित् । चित्रमिति । विस्मयकृद्धृत्तादिवशात् , न तु सहृदयाभिलषणीयचमत्कारसाररसनिःष्पन्दमयमित्यर्थः । काव्यानुकारित्वाद्वा चित्रम् , लेख्यमात्रलाद्वा, कलमात्रखाद्वा । अग्न इति । 'प्रधानगुणभावाभ्यां व्यङ्गस्यैवं व्यवस्थितम् । द्विधा काव्यं ततोऽन्यद्यत्तच्चित्रमभिधीयते ॥' इति तृतीयोहयोते वक्ष्यति । परिकरार्थ कारिकार्थस्याधिकावापं कर्तुं श्लोकः परिकरश्लोकः । यत्रेयलंकारे । वैशयेनेति । चारुतया स्फुटतया चेत्यर्थः । अभिहि १. 'सहृदयाहादि काव्यम्' क-ख. २. 'एव' क-ख-पुस्तकयो स्ति. ३. 'उदितं' ग. ४. 'अप्यनति' ग. ५. 'यतो' ग-पुस्तके नास्ति. ६. 'हि' क-ख-पुस्तकयो स्ति. ७. 'न खङ्गिरूपा' ग. ८. 'अप्यर्थस्य' ग. १. 'एवं' क-ख-पुस्तकयो स्ति. २. 'गीतहास्यादि' क-ख. ३. 'वा क्वापि' ग-पुस्तके नास्ति. ४. 'वृत्त्यादि' क-ख. ५. 'काव्यानुकारकारिताद्वा' ग. ६. 'व्यवस्थिते । द्विधाकाव्येऽन्ततो' ग. ७. 'च वक्ष्यते' ग. Page #44 -------------------------------------------------------------------------- ________________ १ उझ्योतः] ध्वन्यालोकः । ३५ विषयः । यत्र तु प्रतीतिरस्ति यथा समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदीपकसंकरालंकारादौ तैत्र ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम् 'उपसर्जनीकृतखार्थी' इति । अर्थो गुणीकृतात्मा, गृणीकृताभिधेयश्च शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति । तेषु कथं तस्यान्तर्भावः । व्यङ्ग्यप्राधान्ये हि ध्वनिः । न चैतत्समासोक्त्यादिष्वस्ति । समासोक्तौ तावत्'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गतिं न लक्षितम् ॥' तमिति भूतप्रयोगः । आदौ व्यत इत्यस्य व्याख्यातवात् । गुणीकृतात्मेति । आत्मेत्यनेन खशब्दस्यार्थी व्याख्यातः । न चैतदिति । व्यङ्ग्यस्य प्राधान्यम् । प्राधान्यं च यद्यपि ज्ञप्तौ न चकास्ति 'बुद्धौ चत्त्वावभासिन्यां' इति नयेनाखण्डचर्वणविश्रान्तेः, तथापि विवेचकैर्जीवितान्वेषणे क्रियमाणे यदा व्यङ्गयोऽर्थः पुनरपि वाच्यमेवानुप्राणयनास्ते तदा तदुपकरणवादेव तस्यालंकारता । ततो वाच्यादेवोपस्कृताच्चमत्कारलाभ इति । यद्यपि पर्यन्ते रसध्वनिरस्ति तथापि मध्यकक्षानिविष्टोऽसौ व्यङ्गयोऽर्थो न रसोन्मुखीभवति खातन्त्र्येणापि तु वाच्यमेवार्थ संस्कर्तुं धावतीति गुणीभूतव्यङ्ग्यतोक्ता । समासोक्ताविति । 'यत्रोक्तो गम्यतेऽन्योऽर्थस्तत्समानैर्विशेषणैः । सा समासोतिरुदिता संक्षिप्तार्थतया बुधैः ॥' इत्यत्र समासोक्तेर्लक्षणं स्वरूपहेतु म तनिर्वचनमिति पादचतुष्टयेन क्रमादुक्तम् । उपोढो रागः सांध्योऽरुणिमा प्रेम च येन । विलोलास्तारका ज्योतींषि नेत्रत्रिभागश्च यत्र । तथेति झटित्येव प्रेमरभसेन गृहीतमाभासितं परिचुम्बितुमाकान्तं च । निशाया मुखं प्रारम्भो वदनकोकनदं चेति । यथेति यथा झटिति प्रहणेन प्रेमरभसेन च तिमिरं चांशुकं सूक्ष्मा अंशवस्तिमिरांशुकं रश्मिशबलीकृतं तमःपटलं तिमिरांशुकं नीलजालिका । नवोढा प्रौढवधूरुदिता (१) । रागा→क्तखात् संध्याकृताद्रागात् तदनन्तरं प्रेमरूपाच्च हेतोः । पुरोऽपि पूर्वस्यां दिशि अग्रे च । गलितं प्रशान्तं पतितं च । तया रात्र्या करणभूतया समस्तं मिश्रितं उपलक्षणवेन वा न लक्षितं रात्रिप्रारम्भोऽसाविति न ज्ञातम् । तिमिरसंवलितांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते । न तु स्फुट आलोके नायिकापक्षे तु तयेति कर्तृपदम् । रात्रिपक्षे १. 'पर्यायापहृति' ग. २. 'संकरादौ' ग. ३. 'तत्र तत्र' ग. ४. 'पुरो विरागात्' ग. १. 'ज्ञप्तौ यद्यपि' क-ख. २. 'इति तु' ग. ३. 'वाच्यादेव तदुपसंस्कृतात्' ग. ४. 'मध्यमकक्ष्याविनिविष्टो' ग. ५. 'यत्रोक्त' ग. ६. 'सोऽर्थः' ग. ७. 'यथा' ग. ८. 'त्रिभागा वा' ग. ९. 'झगित्येव' ख. १०. 'झगिति' ख. ११. 'रसखात्' क-ख. १२. 'कृतातू' क-ख-पुस्तकयोनास्ति. १३. 'क्षालितम्' क-ख. Page #45 -------------------------------------------------------------------------- ________________ काव्यमाला इत्यादौ व्यङ्ग्येनानुगतं वाच्यमेवं प्राधान्येन प्रतीयते । समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् । आक्षेपेऽपि व्यङ्ग्यविशेषाक्षेपिणो वाच्यस्यैव चारुत्वम् । प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते । तत्र शब्दोपारूढरूपो विशे तु अपिशब्दो लक्षितमित्यस्यानन्तरः । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा पुरोऽग्रे नायकेन तथा गृहीतं मुखमिति संबन्धः । तेनात्र व्यङ्गये प्रतीतेऽपि न प्राधान्यम् । ततोऽपि नायकव्यवहारो निशाशशिनावेव शृङ्गारविभावरूपौ संस्कुर्वाणोऽलंकारतां भजते । ततस्तु वाच्याद्विभावीभूताद्रसनिःष्पन्दः । यस्तु व्याचष्टे-'तया निशयेति कर्तृपदम् । न चाचेतनायाः कर्तृसमुपपन्नमिति शब्देनैवात्र नायकव्यवहार उन्नीतोऽभिधेय एव, न व्यङ्ग्य इत्यत एव समासोक्तिः' इति । स प्रकृतार्थमेव ग्रन्थार्थमत्यजत् । व्यङ्गयेनानुगतमिति । एकदे. शविवर्ति चेत्थं रूपकं स्यात् । 'राजहंसैरवीज्यन्त शरदैव सरोनृपाः' इतिव॑त् । न तु समासोक्तिः । तुल्यविशेषणाभावाद्गम्यत इति चानेनाभिव्यापारनिरासात् । इत्यलमवान्तरेण बहुना । नायिकाया नायके यो व्यवहारः स निशायां समारोपितः । नायिकायां नायकस्य यो व्यवहारः स शशिनि समारोपित इति व्याख्याने न कोऽपि दोषप्रसङ्गः । आक्षेप इति । 'प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । वक्ष्यमाणोकविषयः स आक्षेपो द्विधा मतः ॥' तत्राद्यो यथा-'अहं खां यदि नेक्षेय क्षणमप्युत्सुका ततः । इयदेवास्वतोऽन्येन किमुक्ताप्रियेण ते ॥' इति वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः । तत्रेयदस्वित्येतदेवात्र म्रिये इत्याक्षिपत्सच्चारुत्वनिबन्धनमित्याक्षेप्येणाक्षेपमलंकृतं सत्प्रधानम् । उक्तविषयस्तु यथा ममैव-'भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गतिस्तत्तादृक्तृषितस्य मे खेलमतिः सोऽयं जलं गूहते । अस्थानोपनतामकालसुलभां तृष्णां प्रति क्रुध्य भोस्त्रैलोक्यप्रथितप्रभावमहिमा मार्गः - ३. 'क्षेपिणोऽपि' ग. १. “एव' क-ख-पुस्तकयो स्ति. २. 'हि' क-ख. ४. 'वाच्यार्थ' ग. ५. 'तथाहि तत्र हि' ग. १. 'तु' क-ख-पुस्तकयो स्ति. २. 'तेनाप्यत्र' ग. ३. 'संस्कुर्वाणावलंकारतां' ग. ४. 'आनीतो' क-ख. ५. 'शरदीव' क-ख. ६. 'वत्' ग-पुस्तके नास्ति. ७. 'न एकशेषप्रसङ्गः' ग. ८. "प्रियेण' क-ख. ९. 'यत इयदस्तु इत्येतदेवात्र म्रियत इत्यस्याक्षेपकं सत्' ग. १०. 'सत्त्वप्रधानम्' ग. ११. 'ममैव' ग-पुस्तके नास्ति. १२. 'जडमतिः' ग. १३. 'क्रुध्यतः' क-ख. Page #46 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः। पाभिधानेच्छया प्रतिषेधरूपो य आक्षेपः स एव न्यङ्ग्यविशेषमाक्षिपन्मुख्यं काव्यशरीरम् । चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा । यथा 'अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिः कीहक्तथापि न समागमः ॥' अत्र सत्यामपि व्याजयप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा। पुनर्मारवः ॥' अत्र कश्चित्सेवकः प्राप्यमस्मात्किमिति न प्रतिलेभे इत्पन्तर्विषद्यमानहृदयः केनचिद्विडम्बनाक्षेपेण प्रतिबोध्यते । तत्राक्षेपेण निषेधरूपेण वाच्यस्यैवासत्पुरुषसेवातद्वैफल्यकृतोद्वेगात्मनः शान्तरसस्थायिभूतनिर्वेदविभावानुभावरूपतया चमत्कृतित्वम् । वामनस्य तु 'उपमानाक्षेपः' इत्याक्षेपलक्षणम् । उपमानस्य चन्द्रादेराक्षेपः । 'अस्मिन्सति किं वया कृतम्' इति । यथा-'तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च तैः किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे हे यान्तः (धातः) पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' अत्र व्यङ्ग्योऽप्युपमार्थो वाच्यस्यैवोपस्कुरुते किं तेन कृत्यमिति । अपहस्त्रनारोप (8) आक्षेपो वाच्य एव चमत्कारकारणम् । यदि वोपमानस्याक्षेपः सामर्थ्यादाकर्षणम् । यथा'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥' इत्यत्रेाकलुषितनायिकान्तरमुपमानमाक्षिप्तमपि वाच्यार्थमेवालंकरोतीयेषा समासोक्तिरेव । तदाह-चारुत्वोत्कर्षेति । अत्रैव प्रसिद्धं दृष्टान्तमाह-अनुरागवतीति । तेनाक्षेपेण प्रमेयसमर्थनमेव परिसमाप्तमिति मन्तव्यम् । तत्रोदाहरणेन समासोक्तिश्लोकः पठितः । अहो दैवगतिः कीदृगिति । गुरुपारतच्यादिनिमित्तोऽसमागम इत्यर्थः । तस्यैवेति । वाच्यस्यैवेति यावत् । वामनाभिप्रायेणायमाक्षेपः, भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीला समासोक्त्याक्षेपयोरिदमेकमेवोदाहरणं व्यतरद्धन्थकृत् । एषोपि समासोतिर्वास्तु औक्षेपो वा । किमनेनास्माकम् । सर्वथालंकारादिषु व्यङ्ग्यं वाच्ये गुणीभवतीति नः साध्यमित्यत्राशयोऽत्र ग्रन्थेऽस्मद्गुरुभिर्निरूपितः। १. 'निबन्धनाभिदा' ग. २. 'चित्रा' क-ख-ग. १. 'प्राप्तः प्राप्तव्यं' ग. २. 'लमे इति प्रत्याशाविशस्यमानहृदयः' ग. ३. 'तद्वैफल्यतः' क-ख. ४. 'ते' ग. ५. 'इति । एषा तु' ग. ६. 'तेनाक्षेपप्रमेयसमर्थनमेवापरि' ग. ७. 'तत्र तूदाहरणलेन' ग. ८. 'तावत्' क-ख. ९. 'तु' क-ख-पुस्तकयोर्नास्ति. १०. 'अमुं' ग-पुस्तके नास्ति. ११. 'युक्त्यैवेदमेकं' ग. १२. 'अपि' गपुस्तके नास्त्रि. १३. 'आक्षेपोक्तिर्वा' ग. १४. 'समासोक्त्यादिषु सिद्धालंकारेषु' ग. १५. 'अस्मद्' क-ख-पुस्तकयो स्ति. Page #47 -------------------------------------------------------------------------- ________________ ३८ काव्यमाला । यथा च दीपकापहुत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येनाविवक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् । अनुक्तनिमित्तायामपि विशेषोक्तौ - 'आहूतोऽपि सहायैरे मीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥' इत्यादौ व्यङ्ग्यस्य प्रकरणसामर्थ्याप्रतीतिमात्रम् । न तु तत्प्रेती - एवं प्राधान्यविवक्षायां दृष्टान्तमुक्त्वा व्यपदेशोऽपि प्राधान्यकृत एव भवतीत्यत्र दृष्टान्तं खपरप्रेसिद्धमाह - यथा चेति । उपमाया इति । उपमानोपमेयभावस्येत्यर्थः । तयेत्युपमया । दीपके हि 'आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते' इति लक्षणम् । तंत्र दीपकेनैव शोभा यथा - 'मणिः शाणोलीढः समरविजयी हेतिदलितः कलाशेषश्चन्द्रः सुरतमृदिता बालैललना । मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जैनाः ॥' इत्यत्र दीपककृतमेव चारुत्वम् । 'अपह्नुतिरभीष्टस्य किंचिदर्थंगतोपमा' इति । तंत्रापहृत्यैव शोभा यथा - 'नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कंदर्पधनुषो ध्वनिः ॥' इति । एवमाक्षेपं विचार्येौद्देशक्रमेणैव प्रमेयान्तरमाह - अनुक्तनिमित्तायामिति । 'एकदेशस्य विगमे या गुणान्तरसंस्तुतिः । विशेषप्रथनायासौ विशेषोक्तिरिति स्मृता ॥' यथा - 'स एकत्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥' इयं चाचि - न्त्यनिमित्तेति नास्यां व्यङ्ग्यस्य सद्भावः । उक्तनिमित्तायमपि वस्तुस्वभावमात्रे तु पर्यवसानमिति तत्रापि न व्यङ्ग्यसद्भावशङ्का । यथा - ' - 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै कुसुम धन्वने ॥' तेन प्रकारद्वयमवधार्य तृतीयं प्रकारमाशङ्कते – ( अनुक्तनिमित्तायामपीति । ) व्यङ्ग्यस्येति । शीतकृता खल्वार्तिरत्र निमित्तमिति भट्टोद्भटः । तदभिप्रायेणाह — न त्वत्र काचिच्चरुत्वनिष्पत्तिः इति । यत्तु रसिकैरपि निमित्तं कल्पितम् — 'कान्तासमागमे लघुतरमुपायं स्वप्नं मन्यमानो निद्राग १. 'ओमित्युक्त्वा' ग. २. 'तत्' क-ख- पुस्तकयोर्नास्ति. १. ‘अपि’ क-ख-पुस्तकयोर्नास्ति. २. 'सिद्धं' क- ख. ३. 'यथा चैतद्रूपाया' इति ग. ४. 'तत्र दीपकेनैव शोभा' ग-पुस्तके नास्ति ५. 'वनिता' ग. ६. 'नराः' ग. ७. ‘अन्तगता' ग. ८. 'इति' क-ख- पुस्तकयोर्नास्ति. ९. ' तत्रापह्नवेनैव' ग. १०. 'निगमे ' क-ख. ११. ‘अपि’ ख- पुस्तके नास्ति. १२. 'वस्तुस्वभावे पर्यवसितम्' ग. १३. 'तथापि ' क-ख. १४. ‘चारुत्वहानिः ' क ख १५. 'न मनागपि लघुतर' क- ख. Page #48 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः। तिनिमित्ता काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् । पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः । न तु ध्वनेस्तत्रान्तर्भावः । तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपिपादयिष्यमाणत्वात् । न पुनः पर्यायोक्ते भामहोदाहृतसदृशे व्यङ्गयस्यैव प्राधान्यम् । वाच्यस्य मनबुद्ध्या संकोचं नात्यजत्' इति तदपि निमित्तं चारुखहेतुतया नालंकारकृद्भिः कल्पितम् । अपि तु विशेषोक्तिभाग एव न शिथिलयतीति एवंभूतोऽभिव्यज्यमाननिमित्तोपस्कृतश्चारुत्वहेतुः । अन्यथा तु विशेषोक्तिरेवेयं न भवेत् । एवमभिप्रायद्वयमपि साधारणोक्त्या ग्रन्थकृश्यरूपयत् । न लौद्भटेनैवाभिप्रायेण ग्रन्थो व्यवस्थित इति मन्तव्यम् । पर्यायोक्तेऽपीति । 'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥' इति लक्षणम् । यथा—'शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । रामस्यानेन धनुषा देशिता धर्मदेशना ॥' इति । अत्र भीष्मस्य भार्गवप्रभावाभिभावी प्रताप इति यद्यपि प्रतीयते तथापि तत्सहायेन देशिता धर्मदेशनेत्यभिधीयमानेनैव वाक्यार्थोऽलंकृतः । अत एव पर्यायेण प्रकारान्तरेणावगमात्मना व्यङ्गयेनोपलक्षितं संघदभिधीयते तदभिधीयमानमुक्तमेव सत्पर्यायोक्तमेवाभिधीयत इति लक्षणपदम् , पर्यायोक्तमिति लक्ष्यपदम् , अर्थालंकारत्वं सामान्यलक्षणं 'चेति सर्वं युज्यते । यदि खभिधीयते इत्यस्य बलाद्याख्यानमभिधीयते प्रतीयते प्रधानतयेति, उदाहरणं च 'भम धम्मिअ-' इत्यादि । तदालंकारत्वमेव दूरे संपन्नम् । आत्मतायां पर्यवसानात् । तथा चालंकारमध्ये गणना न कार्या । मेदान्तराणि चास्य वक्तव्यानि । तदाह यदि प्राधान्येनेति । ध्वनाविति । आत्मन्यन्त वादात्मैवासौ नालंकारः स्यादित्यर्थः । तत्रेति । याहशोऽलंकारत्वेन विवक्षितस्तादृशे ध्वनिर्नान्तर्भवति । न तादृगस्माभिर्ध्वनिरुक्तः । ध्वनिर्हि महाविषयः सर्वत्रभावाद्यापकः समस्तप्रतिष्ठास्थानवाच्चाङ्गी । न चीलंकारो व्यापकोऽन्यालंकारवत् । न चाङ्गी । अलंकार्यतन्त्रवात् । अथ व्यापकत्वाङ्गिले तस्योपगम्येते, त्यज्यते चालंकारता तस्मिन्नय एवायमवलम्बते केवलं मात्सर्यग्रहात्पर्यायोक्तभागिति भावः । न चेयदपि प्राक्तनैदृष्टमपि खस्माभिरेवोन्मीलितमिति दर्शयति-न पुनरिति । भामहस्य यादृक्तदीयं रूपमभिमतं तादृगुदाहरणेन दर्शितम् । तत्रापि नैव व्यङ्ग्यस्य प्राधान्यम् । चारुवाहेतुवात् । तेन तदनुसारितया तत्सदृशं यदुदाहरणान्तरमपि कल्प्यते तत्र नैव व्यङ्ग्यस्य प्राधान्यमिति संगतिः । यदि तु तदु १. 'नाम' ग-पुस्तके नास्ति. १. 'विभज्यमान' क-ख. २. 'दर्शिता' ग. ३. 'काव्यार्थो' ग. ४. 'यद्यदभि' ग. ५. 'च' ग-पुस्तके नास्ति. ६. 'तदा' क-ख. ७. 'आत्मनि' क-ख-पुस्तकयो स्ति. ८. 'तत्रेति' ग-पुस्तके नास्ति. ९. 'तादृशो' ग. १०. 'न वा' ग. ११. 'व्यापकाङ्गिवे' ग. १२. 'लम्ब्य ते न केवलं' क-ख. १३. 'चेदमपि' ग. १४. 'तत्र चैव न' क-ख. Page #49 -------------------------------------------------------------------------- ________________ काव्यमाला। तत्रोपसर्जनीभावेनाविवक्षितत्वात् । अपहृतिदीपकयोः पुनर्वाच्यस्य प्राधान्यं न्यायस्यानुयायित्वं प्रसिद्धमेव । संकरालंकारेऽपि यदालं. कमुदाहरणमनादृत्य 'भम धम्मिअ' इत्याद्युदाहियते तदस्मच्छिष्यतैव । केवलं तनयमवलम्ब्यापवरणेनात्मसंस्कार इत्यनार्यचेष्टितम् । यदाहुरैतिहासिकाः-'अवज्ञयाप्यवेच्छाद्य शृण्वन्नरकमृच्छति' इति । भामहेन धुदाहृतम्-'गृहेष्वध्वसु वा नान्नं भुमहे यदधीतिनौ । विप्रा न भुञ्जते' इति । एतद्धि भगवद्वासुदेववचनं पर्यायेण रसदानं निषेधयति । यत्स एवाह-'तच्च रसदाननिवृत्तये' इति । न चास्य रसदाननिषेधस्य व्यङ्ग्यस्य किंचिच्चारुखमस्ति येन प्राधान्यं शङ्कयेत । अपि तु तद्यङ्गयोपोद्वलितं विप्रभोजनेन विना यदन्नभोजनं तदेवोक्तप्रकारेण पर्यायोक्तं सत्प्राकरणिकं भोजनार्थमलंकुरुते । तेनै ह्यस्य निर्विषं भोजनं लिति विवक्षितमिति पर्यायोक्तमलंकार एवेति चिरंतनानामभिमत इति तात्पर्यम् । अपह्नुतिदीपकयोरिति । एतत्पूर्वमेव निर्णीतम् । अत एवाह-प्रसिद्धमिति । प्रतीतं प्रसाधितं चेत्प्रमाणितं चेत्यर्थः । पूर्व चैतदुपमादिव्यपदेशभाजनम् । एतद्यथा न भवतीत्यमुया छायया दृष्टान्ततयोक्तमप्युद्देशानुक्रमपूरणाय ग्रन्थशय्यां योजयितुं पुनरप्युक्तम्-'व्यङ्ग्यं प्राधान्याभावान्न ध्वनिः' इति । छायान्तरेण वस्तु पुनरेकमेव । उपमाया एव व्यङ्ग्यवेन ध्वनिवाशङ्कनात् । यत्तु विवरणकृत्-दीपकस्य सर्वत्रोपमान्वयोऽस्तीति बहुनोदाहरणप्रपञ्चेन विचारितवास्तदनुपयोगि नितरां सप्रतिक्षेपं च । 'मंदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् । स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥' इति । अत्राप्युत्तरोत्तरजन्यलेऽप्युपमानोपमेयभावस्य सुकल्पवात् । नहि क्रमिकाणां नोपमानोपमेयभावः । तथाहि'राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः । अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥' इति । नतु भवति तस्मात्क्रमिकत्वम् । समं वा प्राकरणिकत्वमुपमां निरुणद्धीति कोऽयं त्रासः । इत्यलं गर्दभीदोहानुवर्तनेन । संकरालंकारेऽपीति । 'विरुद्धालंक्रियोल्लेखे समं तयक्त्यसंभवे । एकस्य च वचोन्यायदोषाभावे अपि संकरः ॥ इति लक्षणादेकः प्रकारः । यथा ममैव-शशिवदनासितसरसिजनयना सितकुन्ददशनपतिरियम् । गगनजलस्थलसंभवहृद्याकारा कृता विधिना ॥' इति । १. 'म्ब्यार्धश्रवणे' क-ख. २. 'ऽप्युदाहृतं' क-ख. ३. 'नह्यस्य निर्विशेष भोजनं भवविति विवक्षितम्' क, 'भवतीति विवक्षितम्' ख. ४. 'प्रमाणितं' क-ख-पुस्तकयो स्ति. ५. 'उद्देश्यक्रम' क-ख. ६. 'उदाहरणादेः' क-ख. ७. “विस्तारितवान्' क-ख. ८. 'निःसार' ग. ९. क-ख-पुस्तकयोरस्मात्पूर्वम् 'अत्र हेतुमाह मद इत्यादि सुकल्पलादित्यन्तम् ।' इत्यधिकमस्ति. १०. 'जन्यत्वेन' क-ख. ११. 'विकल्प' ग. १२. 'वृत्त्यसं' ग. १३. 'ग्रहोन्याय' ग. १४. 'च' ग. Page #50 -------------------------------------------------------------------------- ________________ १ उयोतः] कारोऽलंकारान्तरच्छायामनुगृहाति, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान ध्वनिविषयत्वम् । अलंकारद्वयसंभावनामं तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनीभावेन व्ययस्य तंत्रापि व्यवस्था तदा सोऽपि ध्वनिविषयोऽस्तु न तु स एव ध्वनिरिति वक्तुं शक्यम् । अत्र शशी वदनमस्याः तद्वद्वा वदनमस्या इति रूपकोपमोल्लेखाद्युगपद्व्यासंभवादेकतरपक्षत्यागग्रहणे प्रमाणाभावात्संकर इति व्यङ्ग्यवाच्यताया एवानिश्चयात्का ध्वनिसंभावना । योऽपि द्वितीयः प्रकारः-शब्दार्थालंकाराणामेकीभाव इति तत्रापि प्रतीयमानस्य का शङ्का । यथा-'स्मर स्मरमिव प्रियं रैमयसे यदालिङ्गनात्' इति । अत्रैव यमकमुपमा च । तृतीयः प्रकारः-यत्रैकवाच्यांशेऽनेकोर्थालंकारस्तत्रापि द्वयोः साम्याकस्य व्यङ्ग्यता । यथा-'तुल्योदयावसानत्वाद्गतेऽस्तं प्रति भाखति । वासाय वासरः क्लान्तो विशतीव तमोगुहाम् ॥' इति । अत्र हि खामिविपत्तिसमुचितव्रतग्रहणहेवाकिकुलपुत्रकरूपणमेकदेश विवर्तिरूपकं दर्शयति । उत्प्रेक्षा चेवशब्देनोका । तदिदं प्रकार द्वयमुक्तम् । 'शब्दार्थवृत्त्यालंकारा वाक्य एकत्र भाविनः । संकरश्चैकवाक्यांशेप्रवेशाद्वाभि. धीयते ॥' इति च । चतुर्थस्तु प्रकारः-यत्रानुग्राह्यानुप्राहकभावोऽलंकाराणाम् । यथा'प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनामिः॥' अत्र मृगाङ्गनावलोकनेन तदवलोकनस्योपमा यद्यपि व्यङ्ग्या, तथापि वाच्यस्य सा संदेहालंकारस्याभ्युत्थानकारिणीत्वेनानुग्राहकत्वाद्गुणीभूता । अनु. ग्राह्यत्वेन हि संदेहे पर्यवसानम् । यथोक्तम्-'परस्परोपकारेण यत्रालंकृतयः स्थिताः । खातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि संकरः ॥' तदाह-यदालंकार इत्यादि । एवं चतुर्थेऽपि प्रकारे ध्वनिता निराकृता । मध्यमयोस्तु व्यङ्ग्यसंभावनैव नास्तीत्युक्तम् । आये तु प्रकारे शशिवदनेत्याद्युदाहृते कथंचिदस्ति संभावनेत्याशक्य निराकरोति–अलंकारद्धयेति । सममिति । द्वयोरप्यान्दोल्यमानवादिति भावः । ननु यत्र व्यङ्ग्यमेव प्राधान्येन भाति तत्र किं कर्तव्यम् । यथा 'होइ ण गुणाणुराओ खलाण णवरं पसिद्धिसरणाणम् । किर पहिणुसइससिमणं चन्देण पिआमुहे दिठे ॥' अत्रार्थान्तरन्यासस्तावद्वाच्यत्वेनाभाति, व्यतिरेकापहृती तु व्यङ्ग्यत्वेन प्रधानतयेत्यभिप्रायेणाशङ्कते-अथेति । तत्रोत्तरम् तदा सोऽपीति । संकरालंकार एवायं न भवति, अपि खलंकारध्वनि १. 'तत्रावस्थानं' ग. १. 'आहे' ग. २. 'एकत्र भासत इति' ग. ३. 'न रमसे' क-ख. ४. 'यत्रैकत्र वाक्यांशे' क-ख. ५. 'एकस्य' क-ख. ६. 'कान्तो' क-ख. ७. 'वळलंकारा' क-ख. ८. 'वर्तिनः' ग. ९. 'वैक' क-ख. १०. 'प्रवेशश्च' ग. ११. 'अलंकारध्वनिनामायं' ग-पुस्तके नास्ति.. ५ व. लो. Page #51 -------------------------------------------------------------------------- ________________ ४३ तिरा काव्यमाला ।' 1393 पर्यायोक्तनिर्दिष्टन्यायात् । अपि च संकरालंकारस्य संकरोक्तिरेव ध्वनिसंभावनां करोति । अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावानिमित्तनिमित्तिभावाद्वाभिधेयप्रतीयमानयोः सममेव प्राधान्यम् । यदा " यथा नामायं ध्वनेर्द्वितीयो भेदः । यच्च पर्यायोक्ते निरूपितं तत्सर्वमैत्राप्यनुसरणीयम् । अथ सर्वेषु संकरप्रभेदेषु व्ययसंभावनानिरासप्रकारं साधारणमाह-अपि चेति । कचिदपि ' संकरालंकारे चेति संबन्धः । सर्वभेदभिन्न इत्यर्थः । संकीर्णतामिश्रत्वं लोलीभावः । तत्र कथमेकस्य प्राधान्यं क्षीरजलवत् । ' अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसा सा त्रिविधा पैरिकीर्तिता ॥' अप्रस्तुतस्य च वर्णनं प्रस्तुताक्षेपिण इत्यर्थः । स चाक्षैर्पंस्त्रिविधो भवति – सामान्यविशेषभावात्, निमित्तनिमित्तिभावात्, सारूप्याच्च । तत्र प्रथमे प्रकारद्वये प्रस्तुताप्रस्तुतयोस्तुल्यमेव प्राधान्यमिति प्रतिज्ञां करोति - अप्रस्तुतेत्यादिना प्राधान्यमित्यन्तेन । तत्र सामान्यविशेषभावेऽपि द्वयी गतिःसामान्यमप्राकरणिकं शब्देनोच्यते, गम्यते तु प्राकरणिको विशेषः । स एकः प्रकारः । - "अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् । अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥' अत्र हि दैवँखातन्त्र्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितं सत्प्रकृ कापि विनष्टे विशेषात्मनि पर्यवस्यति । तत्रापि विशेषांशस्य सामान्येन व्याप्ताय स् विशेषवद्वाच्यस्य सामान्यस्यापि प्राधान्यम् । न हि सामान्यविशेषयोर्युगपत्प्राधान्यं विरुध्यते । यदा तु विशेषोऽप्राकरणिकः प्राकरणिकं सामान्यमाक्षिपति तदा द्वितीयः प्रकारः । यथा—'एतत्तस्य मुखात्कियत्कमलिनीपत्रे केणं पाथसो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने 'शनैस्तत्रो - ड्डीय गतो हहेत्यनुदिनं निद्राति नन्तिः शुचा ॥' अत्रास्थाने महत्त्वसंभावनं सामान्यं प्रस्तुतम् । अप्रस्तुतं तु जलबिन्दौ मणित्वसंभावनं विशेषरूपं वाच्यम् । तत्रापि सामा-न्यविशेषयोर्युगपत्प्राधान्ये न विरोध इत्युक्तम् । एवमेकः प्रकारो द्विमेदोऽपि विचारितः, - यदा तावदित्यादिना विशेषस्यापि प्राधान्यमित्यन्तेन । एतमेव न्यायं निमित्तनैमित्तिका - भावेऽतिदिशंस्तस्यापि द्विप्रकारतां दर्शयति - ( निमित्तेति । ) कदाचिन्निमित्तमप्र १. 'यत्तु' ग. २. 'अप्यत्र' क- ख. ३. 'संकीर्ण तु' ग. ४. 'अधिकारानपेतस्य ' ग. ५. 'परिकल्पिता' क ख ६. 'त्रिभिः प्रकारैः' ग. ७. 'प्राधान्यं ' ग. ८. 'तत्र च ंग, ९. ‘प्राप्तत्वाद्व्यङ्ग्यं च विशेषवद्वाच्यसामान्यस्यापि ' गं. १०. ' विभाव्यते क-ख. ११. 'आक्षिपतीति तत्र' म. १२. 'कणः पाथसो यो' ग. १३. ' ततः कुत्रोड्डीय गतो मम' ग. १४. 'नार्तः' क. १५. 'अपि' क-ख- पुस्तकयोर्नास्ति. Page #52 -------------------------------------------------------------------------- ________________ १ उद्योतः ] ध्वन्यालोकः च ४३ तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन संबन्धस्तदा विशेषप्रतीतो सत्यामपि प्राधान्येन तस्य सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्यनिष्ठत्वं स्तंसदमधीयमानं नैमित्तिकं प्रस्तुतमाक्षिपति । यथा – 'ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः ॥' अत्राप्रस्तुतं सुहृद्वान्धवरूपत्वं निमित्तं सेज्जनासक्त्या वर्णयति नैमित्तिकीं श्रद्धेयवचनतां प्रस्तुतामात्मनोऽमिव्यङ्कुम् । तत्र नैमित्तिकप्रतीतावपि निमित्तप्रतीतिरेव प्रधानीभवत्यनुप्राणकत्वेनेति वाच्यव्यङ्ग्ययोः प्राधान्यम् । कदाचित्तु नैमित्तिकमप्रस्तुतं वर्ण्यमानं सत्प्रस्तुतं निमित्तं व्यनक्ति । यथा सेतौ (४/२०) 'सग्गं आपरिजाअं कोत्थूहलच्छिंरहिअं महुमइस्स उरम् । सुमरामि महणपुरओ अमुद्धअन्दं च हरजडापब्भारम् ॥' अत्र जाम्बवान् कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतनैमित्तिकं वर्णयति प्रस्तुतं वृद्धसेवाचिरजीवित्वव्यवहारकौशलादिनिमित्तभूतं मन्त्रितायामुपादेयममिव्यङ्कुम् । तत्र निमित्त`प्रतीतावपि नैमित्तिकं वाच्यभूतम् । प्रत्युत तन्निमित्तानुप्राणितत्वेनोद्धुरकंधरीकरोत्यामानमिति समप्रधानतैव वाच्यव्यङ्ग्ययोः । एवं द्वौ प्रकारौ प्रत्येकं द्विविधौ विचार्य तृतीयः प्रकारः परीक्ष्यते सारूप्यलक्षणः । तत्रापि द्वौ प्रकारौ - अप्रस्तुतात्कदाचिद्वा`च्याच्चमत्कारः, व्यङ्ग्यं तु तन्मुखप्रेक्षेम् । यथास्मदुपाध्याय भट्टेन्दुराजस्य – 'प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मितमात्रकेण जनयन्त्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥' अत्र यद्यपि सौरूप्यवशेन कृतघ्नः कश्चिदेन्यः प्रस्तुत आक्षिप्यते तथाप्यप्रस्तुतस्यैव वेतालवृत्तान्तस्य चमत्कारकारित्वम् । नह्यचेतनोपलम्भवदसंभाव्यमानोऽयमर्थो 'ने॑ च हृद्यं इति वाच्यस्यात्र प्रधानता । यदि पुनरचेतनादिनात्यन्तासंभाव्य - मानतदर्थविशेषणेनाप्रस्तुतेन वर्णितेन प्रस्तुतमाक्षिप्यमाणं चमत्कारकारि तदा वस्तुध्वनिरसौ । यथा ममैव — 'भावत्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन्भङ्गीमिर्विविधामि १. 'विशेषणेन' ख. २. 'सत्यां' ग-पुस्तके नास्ति ३. 'विनाभावात् क ख “प्रस्तुतात्मनो' १. 'प्रस्तुतं' क-ख पुस्तकयोर्नास्ति. २. 'सज्जरासन्धो' क-ख. ग. ४. 'व्यक्तयव्यञ्जकयोः' ग. ५. 'स्मरणरूपम प्रस्तुतस्य वृद्धत्वस्य व्यायस्यानुप्राणकत्वमिति व्यङ्ग्यानुप्राणकत्वेन वाच्यस्यापि प्राधान्यम् । वृद्धतामेव चिरजीवित्वल क-ख. ६. ‘उपादेयभूतायां' क ख ७. 'प्राणकत्वेन' क-ख. ८.. 'किं चायं' कख. ९. 'प्रेक्ष्यम्' क- ख. १०. 'जीवाप' ग. ११. ‘सारूप्यवशेन' म-पुस्तके नास्ति. .१२. ‘अन्यः प्रस्तुतः’ ग-पुस्तके नास्ति. १३. 'नालम्बवद' क- ख. १४. 'न हृद्यः ' क-ख. Page #53 -------------------------------------------------------------------------- ________________ काव्यमाला। तदापि सामान्यस्य प्राधान्ये सामान्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्थापि प्राधान्यम् । निमित्तनिमित्तिभावे चायमेव न्यायः । यदा तु सारूप्यमात्रवैशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकृतयोः संबन्धस्तदाप्यप्रस्तुत सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः । इतरथा त्वलंकारान्तरमेव । तदयमत्र संक्षेपः रात्महृदयं प्रच्छाद्य यत्क्रीडसे । यस्त्वामाह जडं ततः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जैडात्मनः स्तुतिपदं त्वत्साम्यसंभावनात् ॥' कश्चिन्महापुरुषो वीतरागोऽपि सरागवदिति न्यायेन गाढविवेकालोकतिरस्कृततिमिरप्रतानोऽपि लोकमध्ये खात्मानं प्रच्छादयल्लोकं च वाचालयन्नात्मन्यप्रतिभासमेवाङ्गीकुर्वस्तेनैव लोकेन मूर्योऽयमिति यदावज्ञायते तदा तदीयं लोकोत्तरं चरितं प्रस्तुतं व्यङ्ग्यतया प्राधान्येन प्रकाश्यते । जडोऽयमिति घुद्यानेन्दूदयादि वो लोके नावज्ञायते । स च प्रत्युत कस्यचिद्विरहिण औत्सुक्यचिन्तादूयमानमानसतामन्यस्य प्रहर्षपरवशतां करोतीति हठादेव लोकं यथेच्छं विकारकारणादिभिर्नर्तयति । न च तस्य हृदयं केनापि ज्ञायते कीदृगयमिति । प्रत्युत महागम्भीरोऽतिविदग्धः सुष्टुगर्वहीनोऽतिशयेन क्रीडाचतुरः सपदि लोकेन जड इति तत एव कारणात्प्रत्युत वैदग्ध्यसंभावनानिमित्तात्संभावितः । आत्मा च यत एव कारणात्प्रत्युत जाज्येन संभाव्यस्तत एव सहृदयः संभावितस्तदस्य लोकस्य जडोऽसीति यद्युच्यते तदा जाज्यमे. वंविधस्य भावव्रातस्याविदग्धस्य प्रसिद्धमिति सा प्रत्युत स्तुतिरिति जडादपि पापी. यानयं लोक इति ध्वन्यते । तदाह-यदा त्विति । इतरथा विति । इतरथैव पुनरलंकारत्वमलंकारविशेषत्वम् । न व्यङ्ग्यस्य कथंचिदपि प्राधान्यमिति भावः । उद्देशे यदादिग्रहणं कृतं समासोक्तीत्यत्र द्वन्द्वे तेन व्याजस्तुतिप्रभृतिरैलंकारवर्गोऽपि संभाव्यमानव्यङ्ग्यानुवेशः संभावितः। तत्र सर्वत्र साधारणमुत्तरं दातुमुपक्रमते-तंदयमत्रेति। कि. यद्वा प्रतिपदं लिख्यतामिति भावः। तत्र व्याजस्तुतिर्यथा-'किं वृत्तान्तैः परगृहगतो किंतु नाहं समर्थस्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः । गेहेगेहे विपणिषु तथा चत्वरे पानगोठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥' अत्र व्यङ्गय स्तुत्यात्मकं यत्तेन वाच्यमेवोपस्क्रियते । यतूदाहृतं केनचित्-'आसीनाथ पितामही तव मही जोता ततो. १. 'प्राधान्येन' क-ख. २. 'विशेषणानांक-ख. ३. 'वशेनान्यस्य' क-ख. ४. 'प्राधान्यस्य' क-ख. १. 'स त्वां' क-ख. २. 'जडात्मना' क-ख. ३. 'यथेष्टं ग. ४. 'प्रत्युत' ग. पुस्तके नास्ति. ५. 'अतः' ग. ६. 'लोकस्य' ग-पुस्तके नास्ति. ७. 'अलंकारान्तरत्व. विशेषणत्वं' क-ख. ८. 'अलंकारः सर्वोऽपि' ग. ९. 'व्यङ्गयोऽनु' ग. १०. 'तदयमत्रेति । तदयमिति' काख. ११. 'अत्र' ग. १२. 'माता' ग. Page #54 -------------------------------------------------------------------------- ________________ १ उयोतः] ध्वन्यालोकः । 'व्ययस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालंकृतयः स्फुटाः ॥१४॥ 'व्यङ्गयस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा । न ध्वनियंत्र वा तस्य प्राधान्यं न प्रतीयते ॥ १५॥ . ऽनन्तरं माता संप्रति साम्बुराशिरशना जाया कुलोद्भुतये । पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या नुषा युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले ॥' इति । तदस्माकं याम्यं प्रतिभाति । अत्यन्तासभ्यस्मृतिहेतुवात् । का वानेन स्तुतिः कृता । त्वं वंशकमेण राजेति हि कियदिदम् । इत्येवंप्राया व्याजस्तुतिः सहृदयंगोष्ठीनिन्दितेत्युपेक्ष्यैव । 'यस्य विकारः प्रभवनप्रतिबद्धन हेतुना येन । गमयति तदभिप्रायं तत्प्रेतिबद्धं च मावोऽसौ ॥' इति । अत्रापि वाच्यप्राधान्ये भावालंकारता । यस्य चित्तवृत्तिविशेषस्य संबन्धी वाग्व्यापारादिर्विकारोऽप्रतिबद्धोऽनियतः प्रभवंस्तं चित्तवृत्तिविशेषरूपमभिप्रायं येमाप्रतिबद्धन हेतुना गमयति स हेतुर्यथेष्टोपभोग्यवादिलक्षणार्थो भावालंकारः। यथा-एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम् । के याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धवधिरा ननु मूढ पान्थ ॥' अत्र व्यङ्ग्यमेकैकत्र पदार्थ उपस्करोतीति वाच्यं प्रधानम् । प्रधान्ये हि भावालंकारता । व्यङ्ग्येप्राधान्ये तु न काचिदलंकारतेति निरूपितम् । इत्यलं बहुना। योति काव्ये । अलंकृतय इति । अलंकृतिलादेव च वाच्योपस्कारकत्वम् । प्रतिभामात्र इति । यत्रोपमादौ क्लिष्टा प्रतीतिः । वाच्यार्थानुगम इति । वाच्येनार्थेनानुगमः समं प्राधान्यमप्रस्तुतप्रशंसायामिवेत्यर्थः । न प्रतीयत इति । स्फुटतया प्राधान्यं न चकास्ति,अपि तु बलात्कल्प्यते, तथापि हृदयेनानुप्रविशति । यथा'देओं पसिअणिआतासु' इत्यत्रान्यकृतासु व्याख्यासु। तेन चतुर्पु प्रकारेषु न ध्वनिव्यवहार १. 'जाता' ग. २. 'काव्यं' ग. ३. 'असह्य' ग. ४. 'चानेन विस्मृतिः' ग. ५: 'हि' ग-मुस्तके नास्ति. ६. 'गोष्ठीषु' ग. ७. रुद्रटप्रणीतकाव्यालंकारप्रन्थस्थे. यमार्या. ८. 'अप्रतिबन्धस्तु' ग. ९. 'प्रतिबन्ध' ग. १०. 'अप्रतिबद्धो' ग-पुस्तके नास्ति. ११. 'प्रतिबद्धस्तं' ग. १२. 'उपयोत्तृवादि' क. 'उपयोग्यवादि' ख. १३. 'लक्षणोऽर्थो' ग. १४. एतदुदाहरणमपि रुद्रटालंकारस्थमेव. १५ 'यथाहमस्मद्गहे' क-ख. १६. ‘पदार्थोपस्कारकारीति' कख. १७. 'प्रधानम्' क-ख-पुस्तकयो खि. १८. 'प्राधान्ये हि भावालंकारता' ग-पुस्तके नास्ति. १९. 'प्राधान्येन तु न कदाचित्' क-ख. २०. 'वाच्यार्थो' ग. २१. 'श्लिष्टाक-ख. २२. 'तथापि च' क-ख. १३. 'यथा' ग-पुस्तके नास्ति. २४. 'देआइ पसिअणु अन्तसु' ग. २५. 'व्यवहारसद्भावेऽपि व्यास्य प्राधान्ये क्लिष्ट' ग. Page #55 -------------------------------------------------------------------------- ________________ काव्यमाला। 'तत्परावेव शब्दार्थों यत्र व्यङ्गय प्रति स्थितौ।' वनेः स एव विषयो मन्तव्यः संकरोज्झितः ॥ १६ ॥ तस्मान्न ध्वनेरन्यत्रान्तर्भावः । इतश्च नान्तर्भावः । यतः काव्यविशेषोऽङ्गी ध्वनिरिति कथितः । तस्य पुनरङ्गानि-अलंकारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः । अपृथग्भावे तु तदङ्गत्वं तस्य । न तु तत्त्वमेव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव । सूरिभिः कथित इति विद्वदुपज्ञेय सद्भावेऽपि व्यङ्ग्यस्य प्राधान्यम् । अप्राधान्ये क्लिष्टप्रतीतौ वाच्येन समप्राधान्येऽस्फुटप्राधान्ये च । क तर्खसावित्याह-तत्परावेवेति । संकरेणालंकारानुप्रवेशसंभावनया उज्झित इत्यर्थः । संकरालंकारेणेति बसत् । अन्यालंकारोपलक्षणत्वे हि क्लिष्टं स्यात् । इतश्चेति । न केवलमेन्योन्यविरुद्धवाच्यवाचकभावव्यङ्ग्यव्यञ्जकभावसमाश्रयत्वात् । न तादात्म्यमलंकाराणां ध्वनेश्च यावत्स्वामिभृत्यवदङ्गिरूपाङ्गरूपयोर्विरोधादित्यर्थः । अवयव इति । एकैक इत्यर्थः । तँदाह-पृथग्भूत इति । पृथग्भूतस्तथा माभूत् , समुदायमध्यनिपतितस्तर्वस्तु तथेत्याशझ्याह-अपृथग्भावे विति । तदापि न स एक एव समुदायः । अन्येषामपि समुदायिनां तद्भावात् । तत्समुदायिमध्ये च प्रतीयमानमप्यस्ति । न च तदलंकाररूपम् । प्रधानत्वादेव । यत्त्वलंकाररूपं तदप्रधानत्वान्न ध्वनिः । तदाह न तु तत्त्वमेवेति । नन्वलंकार एव कश्चित्त्वया प्रधानताभिषेकं दत्त्वा ध्वनिरित्यात्मेति चोक्त इत्याशङ्कयाह-यत्रापि वेति । नहि समासोक्त्यादीनामन्यतम एवासौ तथास्माभिः कृतः । तद्विविक्तत्वेऽपि तस्य भावात् । समासोक्त्यायलंकारखरू'पस्य समस्तस्याभावेऽपि तस्य दर्शितत्वात् 'अत्ता एत्थ' इति 'कस वा ण' इत्यादि । तदाह-न तनिष्ठत्वमेवेति । तस्मिन्निष्ठा पर्यवसानं यस्येति तन्न भवति । महाविषयलात् । व्यापकत्वादित्यर्थः । घटो घट एव न भवति, किं तु तत्कर्परेऽपि, तत्रापि - १. 'अलंकारों' क-ख. २. 'न' क-ख. पुस्तकयो स्ति. १. 'क्लिष्ट' क-ख. २. 'स्फुटे प्राधान्ये क' क-ख. ३. 'उत्थित' ग. ४. 'म्लिष्टं' क-ख. ५. 'अनेन' क-खं. ६. 'इत्याह' क-ख. ७. 'तदा' क-ख-पुस्तकयो स्ति. ८. 'अथ पृथग्भूतस्तदा क-ख. ९. 'समुदायपतितः' क-ख. १०. 'पृथग्भावेति' क-ख. ११. 'तत्रभावात्' क-ख. १२. 'समुदाय' क-ख. १३. 'यदलंकार' ग. १४, 'त्वया' क-ख-पुस्तकयो स्ति.. १५. 'तस्मिन्' इत्यारभ्य 'विद्वदुपक्षेति' इत्यन्तं ग. पुस्तके नास्ति. Page #56 -------------------------------------------------------------------------- ________________ १ उयोतः] वन्यालोकन "४७ मुक्तिः, न तु यथाकथंचित्प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः व्याकरणमूलत्वात्सर्वविद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति । तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसंमिश्रः शब्दात्मा काव्यमिति व्यपदेश्यो व्यञ्ज न भवति किं तु घटेऽपीत्यनेन व्यापकोऽयमित्युक्तं भवति महाविषयत्वात् । विद्वदुपशेति । विद्वंय उपज्ञा प्रथम उपक्रमो यैस्या उक्तेरिति बहुव्रीहिः । तेन 'उपज्ञोपक्रम' इति तत्पुरुषाश्रयं नपुंसकत्वं निरवकाशम् । श्रूयमाणेष्विति । श्रोत्रशष्कुली संतानेनागता अन्त्याः शब्दाः श्रूयन्त इति प्रक्रियायां शैब्दाः श्रूयमाणा इत्युक्तम् । तेषां घण्टानुरणनरूपत्वं तावदस्ति ते च ध्वनिशब्देनोक्ताः । यथाह भगवान्भर्तृहरिः-'यः संयोगवियोगाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजः शब्दो ध्वनिरित्युच्यते बुधैः ॥' एवं घण्टादिनिर्हादस्थानीयोऽनुरणनात्मोपलक्षितो व्यङ्ग्योऽप्यर्थो ध्वनिरिति व्यवहृतः । इत्येष प्रकारोऽव्यक्तशब्दानामेव वर्तते । व्यक्तशब्दानां तथा श्रूयमाणा ये वर्णा नादशब्दवाच्या अन्त्यबुद्धिनिर्माह्याः स्फोटामिव्यञ्जकास्ते ध्वनिशब्देनोक्ताः। यथाह भगवान्स एव-प्रत्ययैरनुपाख्येयैर्ग्रहणानुग्रहैस्तथा । ध्वनिप्रकाशिते शब्दे खरूपमवधार्यते ॥ इति । तेन व्यञ्जको शब्दार्थावपीह ध्वनिशब्देनोक्तौ । किंचं वर्णेषु तावमात्रपरिमाणेष्वपि सत्सु । यथोक्तम्-'अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः । यदि या नैव गृह्णाति वर्ण वा सकलं स्फुटम् ॥ इति । तेषु तावत्खेव श्रूयमाणेषु वक्तुर्योऽन्यो द्रुतविलम्बितादिवृत्तिभेदात्मा प्रसिद्धादुच्चारणोदिव्यापारादभ्यधिकः स ध्वनिरुतः । यदाह स एव–'शब्दस्योर्ध्वममिव्यक्तेर्वृत्तिभेदास्तु वैकृताः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥' इति । अस्माभिरपि प्रसिद्धेभ्यः शब्दव्यापारेभ्योऽमिधातात्पर्यलक्षणारूपेभ्योऽतिरिक्तो व्यापारो ध्वनिरित्युक्तः । एवं चतुष्कमपि ध्वनिः । तद्योगाच्च १. 'प्रकाश्यते' ग. २. 'तेषु श्रूय' क-ख. ३. 'व्याहरन्ति' ख. ४. 'तथैवान्यैः इत्यारभ्य 'आविष्करणीयम्' इत्यन्तं क-ख-पुस्तकयो स्ति. - १. 'विद्वदुपज्ञा' ग. २. 'अस्या क-ख. ३. श्रयत्वं गः ४. 'शब्दजाः शब्दा इत्युक्तम् क-ख. ५. 'तत्राह' क-ख.. ६. 'तत्रभवान्भर्तृ' ग. ७. 'शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः' ग. ८. 'घण्टानाद' ग. ९. 'इत्येष-शब्दाना' ग-पुस्तके नास्ति. १०. 'यथा' क-ख. ११. 'स एव तत्रभवान्' ग. १२. 'इति तेन' ग-पुस्तके नास्ति. १३. 'अपि' ग-पुस्तके नास्ति. १४. 'किंच' ग-पुस्तके नास्ति. १५. 'आदि' ग-पुस्तके नास्ति.. १६. 'भेदं तु' क-ख. १७. 'समपोहन्ते' क-ख. १८. 'ध्वनिरुक्तः'ग. Page #57 -------------------------------------------------------------------------- ________________ काव्यमाला। कत्वसाम्याङ्ग्रनिरित्युक्तः । न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदतद्भेदसंकलनया महाविषयस्य यत्प्रकाशनं तदत्र प्रसिद्धालंकारविशेषमात्रप्रतिपादनेन तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः । न च तेषु कथंचिदीर्घ्यया कलुषितशेमुषीकत्वमाविष्करणीयम् । तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः। अस्ति ध्वनिः । स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति समस्तमपि काव्यं ध्वनिः । तेन व्यतिरेकाव्यतिरेकव्यपदेशोऽपि न युक्तः । वाच्यवाचकसंमिश्र इति । वाच्यवाचकसहितः संमिश्र इति मध्यमपदलोपी समासः । 'गामश्वं पुरुषं पशुम्' इतिवत्समुच्चयोऽत्र चकारेण विनापि तेन वाच्योऽपि ध्वनिः वाचकोऽपि शब्दो ध्वनिः । द्वयोरपि व्यञ्जकत्वं ध्वनिवभावात् । संमिश्रिते विभावानुभावसंवलनच्छाययेति व्यङ्ग्योऽपि ध्वनिः ध्वन्यत इति कृता । शब्दनं शब्दः शब्दव्यापारः। नचासावभिधादिरूपः । अपि खात्मभूतः। सोऽपि ध्वननाद्ध्वनिः । काव्यमिति व्यपदेश्यश्च योऽर्थः सोऽपि ध्वनिः । उक्तप्रकारध्वनिचतुष्टयत्वात् । अत एव साधारणहेतुमाह-व्यअकत्वसाम्यादिति । व्यञ्जकत्वं व्यञ्जनभावः सर्वेषु पक्षेषु सामान्यरूपः । साधारण इत्यर्थः । यत्पुनरेतदुक्तं 'वाग्विकल्पानामानन्त्यात्' इत्यादि तत्परिहरति-न चैवंविधस्येति । वक्ष्यमाणः प्रभेदो यथा-मुख्य द्वे रूपे । तद्भेदा यथा-अर्थान्तरसंक्रमितवाच्यः अत्यन्ततिरस्कृतवाच्य इत्यविवक्षितवाच्यस्य, असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यकमव्यङ्ग्य इति विवक्षितान्यपरवाच्यस्येति । तत्राप्यवान्तरभेदाः। महाविषयस्येति । अशेषलक्ष्यव्यापिन इत्यर्थः । विशेषग्रहणेनाव्यापकत्वमाह । मात्रशब्देनाङ्गित्वाभावम् । नं चैवं भवतीत्यन्वयः । तत्र ध्वनिखरूपे भावितं प्रणिहितं चेतो येषाम् । न चमत्काररूपेण भावितमधिवासितम् । अत एव मुकुलितलोचनत्वादिविकारकारणं चेतो येषामिति । अभाववादिन इति । अवान्तरप्रकारत्रयमिन्ना अपीत्यर्थः । तेषां प्रत्युक्तौ फलमाह-अस्तीति । उदाहरणपृष्ठे भाक्तत्वं सुशङ्क सुपरिहरं च भवतीत्यभिप्रायेणोदाहरणदानावकाशार्थ भाक्तत्वालक्षणीयत्वे प्रथमं परिहरणयोग्येऽप्यप्रतिसमाधाय भविष्यदुझोतानुवादानुसारेण वृत्तिकृदेव प्रभेदनिरूपणं करोतिस चेति । पञ्चधापि ध्वनिशब्दार्थे येन यत्र यतो यस्य यस्मै इति बहुव्रीह्याश्रयण यथोचित सामानाधिकरण्यं सुयोज्यम् । वाच्य तु ध्वनी वाच्यशब्देन खात्मा वक्ष्यते । तेनाविवक्षितोऽप्रधानी १. 'व्यञ्जकत्वात् । ध्वनतीति कृत्या' ग. २. 'संबलनयेति' क-ख. ३. 'स चापि ध्वनिः । उक्तप्रकारध्वनिचतु' क-ख. ४. 'व्यन्यस्य व्यञ्जकभावः' ग. ५. 'अङ्गित्वाभावं' क-ख. ६. 'न चैवं भवतीत्यन्वयः' ग-पुस्तके नास्ति. ७. 'न वा' कख. ८. 'वासितं चेतो येषाम्' क-ख. ९. 'मिन्नोऽपीत्यर्थः' क-ख. १०. 'उद्योते गतानुवादानुसरणेन' ग, ११. 'शब्दार्थो' ग, १२. 'अर्थे' क-ख-पुस्तकयो स्ति. १३. 'वक्ष्यते' क-ख. पुस्तकयोनोस्ति. Page #58 -------------------------------------------------------------------------- ________________ १ उद्योतः ] द्विविधः सामान्येन । तत्राद्यस्योदाहरणम्--- Ishalls 'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरं कृतविद्यश्च यश्च जानाति सेवितुम् ॥' द्वितीयस्यापि -- 'शिखरिणि क नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाघरपाटलं दशति बिम्बफलं शुकशावकः ॥' ૧ भूतः खात्मा येनेत्यविवक्षितवाच्यो व्यञ्जकोऽर्थः । एवं विवक्षितान्यपरवाच्यैऽपि । यदि वा कर्मधारयः । अत्र पक्षे विवक्षितश्चासौ वाध्यश्चेति । तत्रार्थः कदाचिदैनुपपद्यमानत्वादिना निमित्तेनाविवक्षितो भवति । कदाचिदुपपद्यमान इति कृत्वा विक्षि एक् । व्यङ्ग्यपर्यन्तां तु प्रतीतिं स्वसौभाग्यमहिम्ना करोति । अत एवार्थोऽत्र प्राधान्येन व्यञ्जकः पूर्वत्र शब्दः । ननु च विवक्षा चान्यपरत्वं चेति विरुद्धम् । अन्यपरत्वेनैव विर्वेक्षणात्को विरोधः । सामान्येनेति । वस्त्वलंकाररसात्मना हि त्रिदो ध्वनिरुभाभ्यामेवाभ्यां संगृहीत इति भावः । ननुं तन्नामपृष्ठे एतन्नामनिवेशनस्य किं फलम् । उच्यते - अनेन हि नामद्वयेन ध्वननात्मनि व्यापारे पूर्वप्रसिद्धामिधातात्पर्यलक्षणात्मकव्यापारत्रितयावगतार्थप्रतीतेः प्रतिपत्तृगतायाः प्रयोक्रभिप्रायरूपायाच विवक्षायाः सहकारित्वमुक्तमिति ध्वनिस्खरूपमेध नामभ्यामेव प्रोज्जीवितम् । सुवपुष्पामिति । सुवर्णानि पुष्प्यतीति सुवर्णपुष्पा । एतच्च वाक्यमेवासंभवत्स्वार्थमिति कृत्वाविवक्षितवींच्यम् । तत एव पदार्थमै मिधायान्वयं च तात्पर्यशक्त्यावगमय्यैव बाधकवशेनोपहत्य सादृश्यात्सुलभसमृद्धिसंभारभाजनतां लक्षयति । तलक्षणाप्रयोजकं शूरकृतविद्यासेवकानां प्राशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशँयुगलमिव महार्घतामुपयद्धन्यत इति । शब्दोऽत्र प्रधानतया व्यञ्जकः, अर्थस्तु तत्सहकारितयेति चत्वारो व्यापाराः । शिखरिणीति । नहि निर्विघ्नोत्तमसिद्धयोऽपि श्रीपर्व - तादय इमां सिद्धिं विदध्युः । दिव्यकल्पसहस्रादिश्चात्र परिमितः कालः । किममिधान १. ‘कृतः ।..................णार्थपथे अविवक्षितश्चासावर्यश्चेति । विवक्षितान्यपरश्वासौ वाच्यवेति । तत्रार्थः कदाचिद्' ग. २. 'अनुपपाद्य' क-ख. ३० 'उपपाय' क-ख. ४. 'तु' क·ख-पुस्तकयोर्नास्ति. ५. 'विवक्षितात्' ग. ६. 'हिं' गं-पुस्तकें नास्ति. ७. किं नाम' ग. ८. 'प्रोज्झितम्' क.ख. ९. 'वाक्यक्रमे संभवत्' ग. १०. 'वाध्यात्' ग. ११. 'अमिघेयान्वयं च' ग. १२. 'वशेन तमपहस्य' ग. १३. 'तलक्षणप्रयोजनं' ग. १४. 'उपनयत् क- ख. १५. 'अर्थस्तत्' क-ख. १६. 'व्यारोपाः' ग० १७. 'निर्मि नाक्रम' ग. १८. 'श्रीपर्वतप्रभृतय इत्यं' ग. Page #59 -------------------------------------------------------------------------- ________________ काव्यमाला यदप्युक्तं भक्तिर्ध्वनिरिति तत्प्रतिसमाधीयते-:.. _ 'भक्या बिभर्ति नैकत्वं रूपमेदादयं ध्वनिः। मिति न चैवंविधोत्तमफैलजनकत्वेन पञ्चाग्निप्रभृत्यपि तपः श्रुतम् । तवेति मिन्नं पदम् । समासेन विगलिततया सा न प्रेतीयते। तव दशतीत्यभिप्रायेण । तेन यत्केचिदाहुः'वृत्तानुरोधात्त्वधरपाटलमिति न कृतम्' इति, तदसदेव । देशतीत्याखादयति । अनवच्छिन्नप्रबन्धतया न त्वौदरिकवत्परं भुढे । अपि तु रसज्ञोऽत्रेति तत्प्राप्तिवदेवं रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति तारुण्यादुचितकाललाभोऽपि फलं तपस एवेति । अनुरागिणश्च प्रच्छन्नखामिप्रायख्यापनचाटुविरचनात्मकविभावोन्मीलनं व्यङ्ग्यम् । अत्र च त्रय एव व्यापाराः-अभिधा तात्पर्य ध्वननं चेति । मुख्यार्थबाधाद्यभावे मध्यमकक्ष्याया लक्षणायास्तृतीयस्या अभावात् । यदिवाकस्मिकविशिष्टप्रश्नार्थानुपपत्तेर्मुल्यार्थबाधायां सादृश्याल्लक्षणा भवतु मध्ये । तस्यास्तु प्रयोजनं ध्वन्यमानमेव । तत्तुर्यकक्ष्यानिवेशि । केवल पूर्वत्र लक्षणैव प्रधानं ध्वननव्यापारसहकारि । इह खमिधातात्पर्यशक्ती । वाक्यार्थसौन्दर्यादेव व्यङ्ग्यप्रतिपत्तेः केवलं लेशेन लक्षणाव्योपारोपयोगोऽप्यस्तीत्युक्तम् । असंलक्ष्यक्रमव्यङ्ग्ये तु लक्षणासमुन्मेषमात्रमपि नास्ति । असंलक्ष्यत्वादेव क्रमस्येति वक्ष्यामः । तेन द्वितीयेऽपि भेदे चत्वार एव व्यापाराः । अत एवोभयोदाहरणपृष्ठ एव भाक्तमाहुरित्यनुभाष्य दूषयति-भक्त्या बिभर्तीति ।। - १. 'फलत्वेन' क-ख. २. 'प्रतीयता' ग. ३. 'केचित्' ग-पुस्तके नास्ति. ४. दशतीति' ग-पुस्तके नास्ति. ५. 'लोभोऽपि तपसैवेति' ग. ६. 'मुख्याद्वाधाविरहे मध्यम' ग. ७. 'भावात्' ग. ८. 'मुख्यबाधायां' ग. ९. 'तु' क-ख.पुस्तकयो स्ति. १०. 'न केवलं' क-ख. ११. 'व्यापारे' ग. १२. 'व्यापारयोगो' ग. १३. 'समुद्दे. शमात्रं' नास्ति. १४. 'अस्तु लक्ष्यत्वादेव' ग. १५. 'अनुभाष्य' इत्यारभ्य 'उपचारमात्रमिति' इतिपर्यन्तं पुस्तकेष्वतीव पाठपौर्वापर्य वर्तते. तत्र ख-पुस्तकेऽयं पाठक्रमः'अनुभाष्य भक्केत्यादिना दूषयति-अत्रोक्तप्रकार इति पञ्चखर्थेषु योज्यम् । शब्देऽर्थे व्यापारे व्यङ्ग्ये समुदाये च । रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह-वाच्येति । भक्तिश्च ध्वनिश्चेति । ताप्यं लक्षणमुपलक्षणमिति त्रिविधमपि मतं दूषयति । किं पर्यायवत्ताद्रूप्यं पृथिवीत्वमिव पृथिव्याः । अन्यव्यावर्तकधर्मरूपतया लक्षणम् , उत काक इव देवदत्तस्य संभवमात्रादुपलक्षणम् । तत्र प्रथमं पक्षं निराकरोति-भक्त्या बिभर्तीति । तात्पर्येण विश्रान्तिधामतया । प्रयोजनत्वेनेति यावत् । प्रकाशनं द्योतनमित्यर्थः । उपचारमात्रमिति' इति. ग-पुस्तके तु–'अनुभाष्य दूषयति । अयं भावः-भक्ती..... तिकं पर्यायात्ताद्रूप्यमथ पृथिवीत्वमित्र पृथि..... अन्यतो व्यावर्तकधर्मरूपतया लक्षणम् , उत काक इव देवदत्तगृहस्य संभवमात्र........ भेदं दर्शयितुं ध्वनेस्तावद्रूपमाह-वाच्येति। तात्पर्येण विश्रान्तिधामतया प्रयोजनत्वेने.........रमात्रमिति । उपचा: Page #60 -------------------------------------------------------------------------- ________________ १ उयोतः] ध्वन्यालोकन अयमुक्तप्रकारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति । मिनरूपत्वात् । वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येणार्थप्रकाशनं यत्र व्यङ्ग्य. प्राधान्ये स ध्वनिः । उपचारमात्रं तु भक्तिः । ..... तत्रैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह-- .: . ___ 'अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ १७ ॥ ने च भक्त्या ध्वनिर्लक्ष्यते । कथम् । अतिव्याप्तेरव्याप्तेश्च । तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः संभवात् । यत्र हि व्यञ्जकत्वकृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते । यथा-: अत्रोकप्रकार इति पञ्चखर्थेषु योज्यम् । शब्देऽर्थे व्यापारे व्यङ्ग्ये समुदाये च । रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह-वाच्येति । तात्पर्येण विश्रान्तिधामतया। प्रयोजनत्वे. नेति यावत् । प्रकाशनं द्योतनमित्यर्थः । भक्तिश्च ध्वनिश्चेति ताद्रूप्यं लक्षणमुपलक्षणमिति त्रिविधमपि मतं दूषयति । किं पर्यायवत्ताद्रूप्यम् । अथ पृथिवीत्वमिव पृथिव्या अन्यतो व्यावर्तकधर्मरूपतया लक्षणम् , उत काक इव देवदत्तगृहस्य संभवमात्रादुपलक्षणम् । तत्र प्रथमं पक्षं निराकरोति-उपचारमात्रमिति । उपचारो गुणवृत्तिलक्षणा उपचरणमतिशयितो व्यवहार इत्यर्थः । मात्रशब्देनेदमाह-यत्र लक्षणाव्यापारात्ततीयादन्यश्चतुर्थः प्रयोजनद्योतनात्मा व्यापारो वस्तुस्थित्या संभवन्नप्यनुपयुज्यमानत्वेनानाद्रियमाणत्वादस्मत्कल्पो यमर्थमधिकृत्य प्रवर्तते तद्धि प्रयोजनलक्षणम् । तत्रापि लक्षणास्तीति कथं ध्वननं लक्षणा चेत्येकं तत्त्वं स्यात् । द्वितीयं पक्षं दूषयति-तत्रैतदिति । असाविति ध्वनिः । तयेति भक्त्या । ननु ध्वननमवश्यंभावीति कथं तयतिरिक्तोऽस्ति विषय इत्याह-महत्सौष्ठवमिति । अत एव प्रयोजनस्यानादरणीयत्वायञ्जकत्वे न कृत्यं किंचिदिति भावः । महद्ब्रहणेन गुणमात्रं तद्भवति । यथोक्तम्-'समाघिरन्यधर्मस्य क्वाप्यारोपो विवक्षितः' इति । दर्शयति (2) । ननु प्रयोजनाभावे कथं तथा व्यवहार इत्याह-प्रसिद्ध्यनुरोधेति । परम्परया तथैव प्रयोगात् । वयं तु ब्रूमः-प्रसिद्धिर्या प्रयोजनस्य निगूढतेत्यर्थः । उत्तानेनापि रूपेण तत्प्रयोजनं चंकासन्नि १. 'नैकतां' ग. २. 'व्यङ्ग्यप्राधान्ये' क-ख-पुस्तकयो स्ति.. '३. 'तु' क-खपुस्तकयो स्ति. ४. 'मा चैतत्' ग. ५. 'नैव' ग. ६. 'च' ग. ७. 'व्यङ्ग्यकृतं' ग. ... १. 'पर्यायस्ताद्रूप्यं' ग. २. 'अथ' क-ख-पुस्तकयो स्तिः३. 'अन्यव्यावर्तक' क-ख. ४. 'माणत्वात्संकल्पो' क-ख. . . ५. 'अतिव्याप्तेरिति' ग. ६. 'प्रयोजनस्य प्रयोजनानादरणाद्यञ्जकत्वे' क-ख. ७. 'न तद्भवति' क-ख. ८. 'प्रयोजनस्यानिरूढते' ग. ९. 'च तां निरूढतां' ग. Page #61 -------------------------------------------------------------------------- ________________ परिवार वास्तनपान सजादुमयक खनोमवयस्मान्तः परिमलनमप्राप्य हरित। इदं व्यस्तन्यासं प्रशिथिलभुजाक्षेपबलमैः ___ कृशान्याः संतापं वदति बिसिनीपत्रशयनम् ॥ तथा 'चुम्बिज्जाइ साहु अवरुन्धिलाइ सहस्सहुत्तम्मि । विरमिअ पुणो रमिजइ पिओ जणो पस्थि पुनरुतम् ॥' तैया--- 'कुविआओ पसन्नाओ ओरण्णमुहीओ विहसमाणाको । जह महिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ।' तथा'अज्जाऍ पहारो पवलदार दिष्णो पिएण थणक्ट्टे । मिउओ वि दूसहो विवअ जाओ हिआए सवत्तीणम् ।।' गूढतां निधानवदपेक्षत इति भावः । यथेति । वदतीत्युपचारेण हि स्फुटीकरणप्रतिपत्तिः। प्रयोजनं यद्यगूढं खशब्देनोच्यते किमचारुत्वं स्यात् । गूढतया वर्णनेन किं चारुत्वमधिकं जातम् । अनेनैवाशयेन वक्ष्यति-यत उक्त्यन्तरेणाशक्यं किं यदिति । अवरुन्धिज्जइ आलिङ्गयते । पुनरुक्तमित्यनुपादेयता लक्ष्यते । उक्तार्थस्यासंभवात् । 'कु. पिताः प्रसन्ना अवरुदितवदना विहसन्त्यः । यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥' अत्र ग्रहणेनोपादेयता लक्ष्यते । हरणेन तत्परतन्त्रतापत्तिः । तथा अजेति । कनिष्ठभार्यायाः स्तनपृष्ठे नवलतया कान्तेनोचितक्रीडायोगेन मृदुकोऽपि प्रहारो दत्तः सपत्नीनां सौभाग्यसूचकं तत्क्रीडासंविभागमप्राप्तानां हृदये दुःसहो जातः । मुंदुत्वादेव अन्यस्य दत्तो मृदुः प्रहारोऽन्येन च संवेद्यते दुःसहश्च मृदुरपीति चित्रम् । १. 'परिमिलन' ग. २. 'श्लथभुजलताक्षेप' क-ख. ३. 'यथा' ग. ४. 'चुम्ब्यते शतकृत्वोऽवरुध्यते सहस्रकृत्वः । विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥' इति च्छाया. ५. 'यथा' ग. ६. टीकायामेव छायास्ति. ७. 'यथा' ग. ८. 'कनिष्ठभार्यायाः प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे । मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् ॥' इति च्छाया. १. 'यथेति' ग-पुस्तके नास्ति. २. 'यद्यरूढं' ग. ३. 'उपरुदित' कख. ४. 'तत्' क-ख-पुस्तकयो स्ति. ५. 'सूचका क-ख, ६. 'मृदुलत्वादेव' ग. ७. 'अन्यस्य संपद्यते' ग. Page #62 -------------------------------------------------------------------------- ________________ १ उझ्योतः] ध्वन्यालोकः। तथा 'परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो ___ यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः। न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' इत्यत्रेक्षुपदेऽनुभूतिशब्दः । न चैवंविधः कदाचिदपि ध्वनेर्विषयोऽमिमतः । यतः_ 'उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् । शब्दो व्यञ्जकतां बिभ्रद्धन्युक्तर्विषयी भवेत् ॥ १८॥ अत्र चोदाहृते विषये नोक्त्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः । किंच 'रूंढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि । लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ १९ ॥ दानेनात्र फलवत्त्वं लक्ष्यते। तथा-परार्थेति । यद्यपि प्रस्तुतमहापुरुषापेक्षयामनुभवतिशब्दो मुख्य एव तथाप्यप्रस्तुते इक्षौ प्रशस्यमाने पीडाया अनुभवनेनासंभवता पीडावत्त्वं लक्ष्यते । तच्च पीज्यमाने पर्यवस्यति । नन्वस्त्यत्र प्रयोजनं तत्किमिति ने ध्वन्यत इत्याशङ्कयाह-न चैवंविध इति । यत उक्त्यन्तरेणेति । उक्त्यन्तरेण ध्वन्यतिरिक्तेन स्फुटेन शब्दार्थो(भय)व्यापारविशेषेणेत्यर्थः । शब्द इति पञ्चवर्थेषु योज्यम् । ध्वन्युक्तेर्विषयी भवेदिति । ध्वनिशब्देनोच्यत इत्यर्थः । उदाहृत इति । वदतीत्यादौ । एवं यत्र प्रयोजनं सदपि नादरास्पदं तत्र को ध्वननव्यापार इत्युक्वा यत्र मूलत एव प्रयोजनं नास्ति, भवति चोपचारस्तत्रापि को ध्वननव्यापार इत्याहकिं चेति । लावण्याद्या ये शब्दाः खविषयालवणरसयुक्तलादेः खार्थादन्यत्र हृधखादौ रूढाः रूढखादेव त्रितयसंनिध्युपेक्षणव्यवधानशून्याः । यदाह-निरूढा लक्षणा काचित्सामर्थ्यादभिधानवत्' इति । ते तस्मिन्खविषयादन्यत्र प्रयुक्ता अपि न ध्वनेः पदं भवन्ति । न तत्र ध्वनिव्यवहारः । उपचरिता शेब्दस्य वृत्तिर्गोणी । लाक्षणिकी १. 'यथा' ग. २. 'च' ग. ३. 'अयं' ग. ४. 'इत्यादाविक्षुपदेऽनुभूतिशब्दः' कस. ५. 'कदाचिद्धनेर्विषयः । यतः' क-ख. ६. 'णाश' ख. ७. 'नोक्त्यन्तरेणाशक्य' क-ख. ८. 'निरूढा' ग. १. 'तद्बलवत्त्वं' ग. २. 'म' ग-पुस्तके नास्ति. ३. 'धन्यथै क-ख. ४. 'लक्षणाः काश्चितू' ग. ५. 'शब्दवृत्तिः ' ग. ६ ध्व० लो. Page #63 -------------------------------------------------------------------------- ________________ काव्यमाला। तेषु चोपचरितशब्दवृत्तिरस्तीति । तथाविधे च विषये कचित्संभवनपि ध्वनिव्यवहारः प्रकारान्तरेण प्रवर्तते । न तथाविधशब्दमुखेन । अपि च। 'मुख्यां वृत्ति परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलदतिः ॥२०॥ तंत्र हि चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणे प्रयोजने कर्तव्ये यदि त्यर्थः । आदिग्रहणेनानुलोम्यं प्रातिकूल्यं सब्रह्मचारीत्येवमादयः शब्दा लाक्षणिका गृह्यन्ते । लोनामनुगतमनुलोमं मर्दनम् । कूलस्य प्रतिपक्षतया स्थितं स्रोतः प्रतिकूलम् । तुल्यगुरुः सब्रह्मचारी । इति मुख्यो विषयः । अन्यः पुनरुपचरित एव । न चात्र प्रयोजनं किंचिदुद्दिश्य लक्षणा प्रवृत्तेति न तद्विषयो ध्वननव्यवहारः । ननु 'देवडिति लुणाहि पलुम्मिगमिज्वालवणुज्वलं गुमरिफोल्लपरण्य' (8) इत्यादौ लावण्यादिशब्दसंनिधानेऽस्ति प्रतीयमानाभिव्यक्तिः । सत्यम् । सा तु न लावण्यशब्दात् । अपि तु समग्रवाक्यार्थप्रतीत्यनन्तरं ध्वननव्यापारादेव । अत्र हि प्रियतमामुखस्यैव समस्ताशाप्रकाशकवं ध्वन्यत इत्यलं बहुना । तदाह-प्रकारान्तरेणेति । व्यञ्जकलेनैव । न तूपचरितलावण्यादिशब्दप्रयोगादित्यर्थः । एवं यत्र यत्र भक्तिस्तत्र तत्र ध्वनिरिति तावनास्ति । तेन यदि ध्वनेर्भक्तिर्लक्षणं तदा भक्तिसंनिधौ सर्वत्र ध्वनिव्यवहारः स्यादित्यतिव्याप्तिमभ्युपगम्यापि ब्रूमः-भवतु यत्र यत्र भक्तिस्तत्र तत्र ध्वनिः । तथापि यद्विषयो लक्षणाव्यापारो न तद्विषयो ध्वननव्यापारः । न च भिन्नविषयो धर्मधर्मिभावो धर्म एव लक्षणमित्युच्यते । तत्र लक्षणा तावदमुख्यार्थविषयो व्यापारः । ध्वननं च प्रयोजनविषयम् । न च तद्विषयोऽपि द्वितीयो लक्षणाव्यापारो युक्तः। लक्षणासामग्र्यभावात् । इत्यभिप्रायेणाह-अपि चेत्यादि । मुख्यां वृत्तिमभिधाव्यापार परित्यज्य परिसमाप्य गुणवृत्त्या लक्षणारूपयार्थस्यामुख्यस्य दर्शनं प्रत्यायना सा यत्फलं कर्मभूतं प्रयोजनरूपमुद्दिश्य क्रियते तत्र प्रयोजने तावद्वितीयो व्यापारः । न चासौ लक्षणैव । यतः स्खलन्ती बाधकव्यापारेण विधुरीक्रियमाणा गतिरवबोधनशक्तिर्यस्य शब्दस्य तदीयो व्यापारो लक्षणा । न च प्रयोजनमवेगमयतः शब्दस्य बाधकयोगः । तथाभावे तत्रापि निमित्तान्तरस्य प्रयोजनान्तरस्य चान्वेषणेनावस्थानात् । तेनायं लक्षणलक्षणाया न विषय १. 'शब्दप्रवृत्ति' ग. २. 'अत्र' ग. ३. 'लक्षणाप्रयोजने' ग. १. 'चेत्यर्थः' क ख. २. 'लोम्नानुगतं' ग. ३. 'सदनम्' क-ख. ४. 'ध्वनिव्यवहारः' ग. ५. 'प्रियतमस्यैव' क-ख. ६. 'बहुना' क-ख-पुस्तकयो स्ति. ७. 'ध्वनेयदि' ग. ८. 'अतिव्याप्तिरभ्युपगमस्यापि' क-ख. ९. 'यद्विषयोऽपि' ग. १०. "विषययोः', ग. ११. 'युक्तः कःख-पुस्तकयो स्ति. १२. 'व्यापार च' ग. १३. 'अदर्शनं' ग. १४. 'अपगमयतः' ग. Page #64 -------------------------------------------------------------------------- ________________ १ उक्ष्योतः] ध्वन्यालोकः । शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम् । तस्मात् 'वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता। व्यञ्जकत्वैकमूलस्य ध्वनेः खाल्लक्षणं कथम् ॥ २१ ॥ तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः । अव्याप्तिरस्य लक्षणस्य । नहि इति भावः । दर्शनमिति ण्यन्तो निर्देशः । कर्तव्य इत्येव । अवगमयितव्य इत्यर्थः । अमुख्यतेति । बाधकेन विधुरीकृततेत्यर्थः । तस्येति शब्दस्य । दुष्टतैवेति । प्रयोजनावगमस्य सुखसंपत्तये हि से शब्दः प्रयुज्यते । तस्मान्न मुख्यार्थे । यदि च 'सिंहो बटुः' इति शौर्यातिशयेऽप्यवगमयितव्ये स्खलद्गतिवं शब्दस्य तत्तर्हि प्रतीति नैव कुर्यादिति किमर्थं तस्य प्रयोगः । उपचारेण करिष्यतीति चेत्तत्रापि प्रयोजनान्तरमन्विष्यते तत्राप्युपचारेऽनवस्था । अथ न तत्र स्खलद्गतिवं तर्हि प्रयोजनेऽवगमयितव्ये न लक्षणाख्यो व्यापारः । तत्सामग्र्यभावात् । न च नास्ति व्यापारः । न चासावभिधा । समयस्य तत्राभावात् । यद्यापारान्तरमभिधालक्षणातिरिक्तं स ध्वननव्यापारः । न चैवमिति । न च प्रयोगे दुष्टता काचित् । प्रयोजनस्याविघ्नेनैव प्रतीतेः । तेनौभिधैव मुख्येऽर्थे बाधकेन प्रविवित्सुर्निरुध्यमाना सती अचरितार्थवादन्यत्र प्रसरतीति । अत एव मुख्योऽस्यायमर्थ इति व्यवहारः । तथैव चामुख्यतया संकेतग्रहणमपि तत्रास्तीत्यभिधापुच्छभूतैव लक्षणा (उपसंहरति-तस्मादिति । यतोऽभिधापुच्छभूतैव लक्षणा) ततो हेतोवाचकलमभिधाव्यापारमाश्रिता तद्बाधनेनोत्थानात्तत्पुच्छभूतत्वाच गुणवृत्तिः । गौणलाक्षणिकप्रकार इत्यर्थः । सा कथं ध्वनेर्व्यञ्जनात्मनो लक्षणं स्यात् भिन्नविषयवादिति । एतदुपसंहरति-तस्मादिति । यतोऽतिव्याप्तिरुक्ता तत्प्रसङ्गेन च भिन्नविषयलं तस्माद्धेतोरित्यर्थः । एवम् 'अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया' इति कारिकागतामतिव्याप्तिं व्याख्यायाव्याप्तिं व्यांचष्टे-अव्याप्तिरस्येति । अस्य गुणवृत्तिरूपस्येत्यर्थः । यत्र यत्र ध्वनिस्तत्र तत्र यदि भक्तिर्भवेन च स्यादव्याप्तिः । न चैवम् । अविवक्षितवाच्येऽस्ति भक्तिः 'सुवर्णपुष्पां-' इत्यादौ । 'शिखरिणि-' इत्यादौ तु सा कथम् । ननु लक्षणा तावद्गौणमपि व्याप्नोति । केवलं शब्दस्तमर्थ लक्षयित्वा तेनैव सह सामानाधिकरण्यं भजते । 'सिंहो बटुः' इति । अर्थों वार्थान्तरं लक्षयिता खवाचकेन तद्वाचकं समानाधिकरणं करोति । शब्दार्थों वा युगपत्तं लक्षयित्वा ताभ्या १. 'अप्यस्य' ग. - १. 'उपगमस्य' ग. २. 'स' क-ख-पुस्तकयो स्ति. ३. 'तस्मिन्नमुख्येऽर्थे' क-ख. ४. 'अन्वेष्यम्' ग. ५. 'अथ' ग-पुस्तके नास्ति. ६. 'न' क-ख-पुस्तकयो स्ति. ७. 'तेनाभिधेयमुख्यार्थबाधकेन प्रविधुरीकृता प्रि.........माना सती' ग. ८. 'उप-' इत्यारभ्य 'लक्षणा' इत्यन्तं क-ख-पुस्तकयो स्ति. ९. 'आचष्टे' क-ख. १०. 'यदि' क-ख-पुस्तकयो स्ति: ११. 'ह्यस्ति' ग. १२. 'गौणीमपि' ग.. Page #65 -------------------------------------------------------------------------- ________________ ५६ काब्बमाला। ध्वनिप्रमेदो विवक्षितान्यपरवाच्यलक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्ते । तस्माद्भक्तिरलक्षणम् । मेव शब्दार्थाभ्यां मिश्रीभवत इत्येवं लाक्षणिकागौणस्य भेदः । यदाह-'गौणे शब्दप्रयोगः, न लक्षणायाम्' इति । तत्रापि लक्षणास्त्येवेति सर्वत्र सैव व्यापिका । सा च पञ्चविधा । तद्यथा-अभिधेयेन संयोगात् । द्विरेफशब्दस्य हि योऽभिधेयो भ्रमरशब्दः द्वौ रेफौ यस्येति कृला तेने भ्रमरशब्देन यस्य संयोगः संबन्धः षट्पदलक्षणस्यायस्य सोऽर्थो द्विरेफशब्देन लक्ष्यते । अभिधेयसंबन्धं व्याख्यातरूपं निमित्तीकृत्य सामीप्यात् । 'गङ्गायां घोषः' । समवायादिति । वसंबन्धादित्यर्थः । 'यष्टीः प्रवेशय' इति यथा । वैपरीत्यात् । यथा-शत्रुमुद्दिश्य कश्चिद्रवीति-'किमिवोपकृतं न तेन मम' इति । क्रियायोगादिति । कार्यकारणभावादित्यर्थः । यथा-अन्नापहारिणि व्यवहारः 'प्राणानयं हरति' इति । एवमनया लक्षणया पञ्चविधया विश्वमेव व्याप्तम् । तथाहि-शिखरिणि-' इत्यत्राकस्मिकप्रश्नविशेषादिबाधकानुप्रवेशे सादृश्याल्लक्षणास्त्येव । नन्वत्राशीकृतैव मध्ये लक्षणा । कथं तर्युकं विवक्षितान्यपरेति । तद्भेदोऽत्र मुख्योऽसंलक्ष्यक्रमात्मा विवक्षितः । तद्भेदशब्देन च रसाभावतदाभासतत्प्रशमभेदाखदवान्तरमेदाश्च । न च तेषु लक्षणाया उपपत्तिः । तथाहि विभावानुभावप्रतिपादके काव्ये तत्रार्थे मुख्ये तावद्वाधकानुप्रवेशोऽप्यसंभाव्य इति को लक्षणावकाशः । ननु किं बाधया इयदेव लक्षणाखरूपम्-'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इति । इह चाभिधेयानां विभावानुभावादीनामविनाभूता रसादय इति लक्ष्यन्ते । विभावानुभावयोः कारणकार्यरूपत्वात् , व्यभिचारिणां च तत्सहकारित्वादिति चेत्, मैवम् । धूमशब्दाद्धमे प्रतिपने ह्यनिस्मृतिरपि लक्षणाकृतैव स्यात् । ततोऽनेः शीतापनोदस्मृतिरित्यादिरपर्यवसितः शब्दार्थः स्यात् । धूमशब्दस्य खार्थविश्रान्तवान्न तावति व्यापार इति चेत् , आयातं तर्हि मुख्यार्थबाधो लक्षणाया जीवितमिति । सति हि तस्मिन्खार्थविश्रान्त्यभावात् । न च विभावादिप्रतिपादने बाधकं किंचिदस्ति । नन्वेवं धूमावगमनानन्तराग्निस्मरणवद्विभावादिप्रतिपत्त्यनन्तरं रत्यादिचित्तवृत्तिप्रतिपत्तिरिति शब्दव्यापार एवात्र नास्ति । इदं तावदयं प्रतीतिज्ञो मीमांसकः प्रष्टव्यः-किमत्र परचित्तवृत्तिमात्रे प्रतिपत्तिरेव रसप्रतिपत्तिरभिमता भवतः । नैवं भ्रमितव्यम् । एवं हि लोकगतचित्तवृत्त्यनुमानमात्रमिति का रसता । यस्वलौकिकचमत्कारात्मा रसाखादः काव्यगतविभावादिचर्वणाप्राणो नासौ स्मरणानुमानादिना खलीकारपात्रीकर्तव्यः । १. 'तद्भेदप्रकारा वक्ष्यमाणभक्त्या ' ग. १. 'प्रयोगेण लक्षणां' क-ख. २. 'सैव सर्वत्र' ग. ३. 'पञ्चधा' ग. ४. 'हि' कख-पुस्तकयो स्ति. ५. 'तेन' क-ख-पुस्तकयो स्ति. ६. 'ख' ग-पुस्तके नास्ति. ७. 'न त दो हि मुख्यो' क-ख... 'स्मरणानुमानादिसाम्येन' ग. Page #66 -------------------------------------------------------------------------- ________________ १ उयोतः] . ध्वन्यालोकः । ५७ किं तु लौकिकेन कार्यकारणानुमानादिना संस्कृतहृदयो विभावादिकं प्रतिपद्यमान एव न ताटस्थ्येन प्रतिपद्यते । अपि तु हृदयसंवादापरपर्यायसहृदयत्वपरवशीकृततया पूर्णीभविष्यद्रसाखादाकुरीभावेनानुमानस्मरणादिसरणिमनारुयैव तन्मयीभवनोचितचर्वणाप्राणतया । न चासौ चर्वणा प्रमाणान्तरतो जाता पूर्व येनेदानीं स्मृतिः स्यात् । न चाधुना कुतश्चित्प्रमाणान्तरादुत्पन्ना । अलौकिके प्रत्यक्षाद्यव्यापारात् । अत एवालौकिक एव विभावादिव्यवहारः। यदाह-'यदयमनुभावयति वागङ्गसत्त्वकृतोऽभिनयस्तस्मादनुभाव' इति । तच्चित्तवृत्तितन्मयीभवनमेव ह्यनुभवनम् । लोके तु कार्यमेवोच्यते नानुभावः। अत एव परकीया न चित्तवृत्तिर्गम्यत इत्यभिप्रायेण 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रे स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । स्थायिनस्तु रसीभाव औचित्यादुच्यते । तद्विभावानुभावोचितचित्तवृत्तिसंस्कारसुन्दरचर्वणोदयात् । हृदयसंवादोपयोगिलोकचित्तवृत्तिपरिज्ञानावस्थायामुद्यानपुलकादिभिः स्थायिभूतरत्याद्यवगमाच्च । व्यभिचारी तु चित्तवृत्त्यात्मले मुख्यचित्तवृत्तिपरवश एव चळत इति विभावानुभावमध्ये गणितः । अत एव रस्यमानताया एषैव निष्पत्तिो प्रबन्धप्रवृत्तबन्धुसमागमादिकारणोदितहर्षादिलौकिकचित्तवृत्तिन्यग्भावेन चर्वणारूपत्वम् । अतश्चर्वणात्राभिव्यञ्जनमेव, न तु ज्ञापनम् । प्रमाणव्यापारवत् । नाप्युत्पादनम् । हेतुव्यापारवत् । ननु यदि नेयं ज्ञप्तिर्न वा निष्पत्तिः, तर्हि किमेतत् । न वयमसावलौकिको रसः। अपि तु चर्वणोपयोगी । ननु वैतदृष्टमन्यत्र । यत एव न दृष्टं तत एवालौकिकमित्युक्तम् । नन्वेवं रसोऽप्रमेयः स्यात् । अस्तु । किं ततः । तच्चर्वणात एव प्रतीतिव्युत्पत्तिसिद्धेः किमन्यदर्थनीयम् । नन्वप्रमाणकमेतत् । न । खैसंवेदनसिद्धतात् । ज्ञानविशेषस्यैव चर्वणात्मसात् । इत्यलं बहुना । अतश्च रसोऽयमलौकिकः । येन ललितपरुषानुप्रासस्यार्थाभिधानानुपयोगिनोऽपि रसं प्रति व्यञ्जकलम् । का तत्र लक्षणायाः शङ्कापि । काव्यात्मकशब्दनिष्पादनेनैव तच्चर्वणा दृश्यते । दृश्यते हि तदेव काव्यं पुनः पुनः पठंश्चर्वमाणश्च सहृदयो लोकः । न तु काव्यस्य तत्र 'उपादेयापि ये हेया' इति न्यायेन कृतप्रतीतिकस्यानुपयोग एवेति शब्दस्यापि ध्वननव्यापारः । अत एवालक्ष्यक्रमता । यत्तु वाक्यभेदः स्यादिति केनचिदुक्तम् , तदनभिज्ञतया । शास्त्रं हि सकृदुच्चारितं समयबलेनार्थ प्रतिपादयद्युगपद्विरुद्धानेकसमयस्मृत्ययोगात्कथमर्थद्वयं प्रत्याययेत् । अविरुद्धत्वे वा तावा १. 'प्रतीयते' ग. २. 'व्यवहार एव' क-ख. ३. 'लोकवृत्ति' क-ख. ४. 'चोच्यते' क. ५. 'यत्प्रबलप्रवृत्तवं बन्धु' ग. ६. 'स्वव्यापार' ग. ७. 'नैवं' क-ख. ८. 'नन्वयं' ग. ९. 'रसः । ननु विभावादिरत्र किं ज्ञापको हेतुरुत कारकः । न ज्ञापको न कारकः । अपि तु' ग. १०. 'अप्रमाणं' क-ख. ११. 'प्रीतिव्युत्पत्ति' क. 'प्रीत्युत्पत्ति' ख. १२. “किमर्थनीयम्' ग. १३. 'ख' क-खपुस्तकयो स्ति. १४. 'नुपयोगेऽपि' ग. १५. "निष्पीडनेनैव' क-ख. १६. 'कार्य' क-ख. १७. 'चळमाणः' ग. १८. 'सहृदयलोकः' क-ख. १९. 'शब्दस्यापीह ध्वननं' ग. २०. 'प्रत्यापयेत्' ग. Page #67 -------------------------------------------------------------------------- ________________ काव्यमाला । " कस्यचिद्धनिभेदस्य सा तु स्यादुपलक्षणम् i सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदिनामोपलक्षणतया 'संभाव्येत । यदि च गुणवृत्त्यैव ध्वनिर्लक्ष्यत इत्युच्यते तदभिधा ५८ नेको वाक्यार्थः स्यात् । क्रमेणापि विरम्यव्यापारयोगः । पुनरुच्चारितेऽपि वाक्ये एव । समयादिप्रकरणादेस्तादवस्थ्यात् । प्रकरणसमयप्राप्यार्थतिरस्कारेणर्थान्तरप्रत्यायकत्वे हि नियमाभाव इति । तेन 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इति श्रुतौ खादेच्च न मांसमित्येष नार्थ इत्यत्र का प्रमेति प्रसज्यते । तैत्रापि न काचिदियत्तेत्यनाश्वास इत्येवं वाक्यभेदो दूषणम् । इह तु विभावाद्येव प्रतिपाद्यमानं चर्वणाविषयतोन्मुखमिति समयाद्युपयोगाभावः । न च नियुक्तोऽहमत्र करवाणि कृतार्थोऽहमिति शास्त्रप्रतीति[:] सदृशमदः । तत्रोत्तर कर्तव्यौन्मुख्येन लौकिकत्वात् । इह तु विभावादिचर्वणाद्भुतपुष्पवत्तत्कालसारैवोदिता न पूर्वापरकालानुबन्धिनीति लौकिकास्वादाद्योगि विषयाच्चान्य एवायं रसास्वादः । अत एव 'शिखरिणि-' इत्यादावपि मुख्यार्थबाधादिक्रममनपेक्ष्यैव सहृदया वक्रभिप्रायं चाटुप्रतीत्यात्मकं संवेदयन्ते । अत एव ग्रन्थकारः सामान्येन विवक्षितान्यपरवाच्ये ध्वनौ 'भक्तेरभावमभ्यधात् । अस्माभिस्तु द्वन्द्वरूढं प्रत्याययितुमुक्तम् । भवत्वत्र लक्षणा । अलक्ष्यक्रमे तु कुपितोऽपि किं करिष्यसीति । यदि तु न कुप्यते 'सुवर्णपुष्पां - ' इत्यादावविवक्षितवाच्येऽपि मुख्यार्थबाधादिलक्षणासामग्रीमनपेक्ष्यैव व्यक्त्यार्थविश्रान्ति-रित्यलं बहुना । उपसंहरति — तस्माद्भक्तिरिति । "ननु मा 'भूद्धनिरिति भक्तिरिति चैकं रूपम् । मा च भूद्भक्तिर्ध्वनेर्लक्षणम् । उपलक्षणं 'तु भविष्यति । यत्र ध्वनिभवॆति तत्र भक्तिरप्यस्तीति भक्त्युपलक्षितो ध्वनिर्न तावदेतत्सर्वत्रास्ति । इयता च किं परस्य सिद्धं किं वा नु (नः) त्रुटितमिति तदाह — कस्यचिदित्यादि । ननु भक्तिस्तावच्चिरंतनैरुक्ता । तदुपलक्षणमुखेन च ध्वनिमपि समग्रभेदं लक्षयिष्यन्ति । किं तल्लक्षणेनेत्याशङ्कयाह - यदि चेति । अभिधानाभिधेयभावो ह्यलंकाराणां व्यापकः । ततश्चाभिधावृत्ते वैयाकरणमीमांसकैर्निरूपिते कुत्रेदा १. 'संभाव्यते' क-ख. १. ' क्रमेण विरम्यव्यापारयोगः ' क-ख. २. 'अपि' ग-पुस्तके नास्ति. ३. 'प्राप्तार्थ ' 'क, 'प्राप्त्यार्थ' ख. ४. 'अर्थान्तरत्व' ग. ५. 'तत्र न' ग. ६. 'विषयोन्मुखं' क- ख. ७. 'सहृदयाः' ग-पुस्तके नास्ति. ८. 'तत एव' क- ख. ९. 'ध्वनौ' क-खपुस्तकयोर्नास्ति. १०. 'भक्तेरसभावं' क-ख. ११. 'भक्तिर्ध्वनिरिति' क- ख. १२. 'तु' क- ख- पुस्तकयोर्नास्ति. १३. 'भविष्यति' क- ख. १४. 'लक्षयिष्यन्ति ज्ञास्यन्ति च ' ग. १५. व्यापक इत्यारभ्य अलंकाराणामित्यन्तं क ख - पुस्तकयोर्नास्ति. Page #68 -------------------------------------------------------------------------- ________________ १ उझ्योतः] ध्वन्यालोकः। व्यापारेण तदितरोऽलंकारवर्गः समग्र एव लक्ष्यति इति प्रत्येकमलंकाराणां लक्षणकरणे वैयर्थ्यप्रसङ्गः । किं च । ___ लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥२२॥ कृतेऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः । यस्माद्धनिरस्तीति नः पक्षः । स च प्रागेव संसिद्ध इत्ययत्नसंपन्नसमीहितार्थाः संपन्नाः स्मः । येऽपि सहृदयहृदयसंवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषुस्तेऽपि न परीक्ष्यवादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां प्रसक्तम् । यदि पुनलनेरतिशयोक्त्यानया काव्यान्तर्रातिशायि तैः खरूपमाख्यायते तत्तेऽपि युक्ताभिधायिन एव । इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्द्योतः । नीमलंकाराणां व्यापारः । यथा हेतुबलात्कार्य जायत इति तार्किकैरुक्ते किमिदानीमीश्वरप्रभृतीनां कर्तृणां ज्ञातृणां वा कृत्यमपूर्व स्यादिति सर्वो निरालम्बः स्यात् । तदाहलक्षणकरणे वैयर्थ्यप्रसङ्ग इति । मा भूद्वा पूर्वोन्मीलनम् । पूर्वोन्मीलितमेवास्माभिः सम्यङिरूपितं तथापि को दोष इत्यभिप्रायेणाह-किं चेत्यादि । प्रागेवेति । अस्मत्प्रयत्नादिति शेषः । एवं त्रिप्रकारमभाववादं, भक्त्यन्तर्भूततां च निराकुर्वता लक्षणीयत्वमेतन्मध्ये निराकृतमेव । अत एव मूलकारिका साक्षात्तन्निराकरणार्थी न श्रूयते । वृत्तिकृत्तु निराकृतमपि प्रमेयसंख्यापूरणाय कण्ठेन तत्पक्षमनूद्य निराकरोतियेऽपीत्यादिना । उक्तया नीत्या यंत्रार्थः शब्दो वा-' इति सामान्यलक्षणं प्रतिपादितम् । वक्ष्यमाणया तु नीत्या विशेषलक्षणं भविष्यति 'अर्थान्तरे संक्रमितं'-इत्यादिना । तेनान प्रथमोयोते ध्वनेः सामान्यलक्षणमेव कारिकाकारेण कृतम् । द्वितीयो योते कारिकाकारोऽवान्तरविभागं विशेषलक्षणं च विदधदनुवादमुखेन मूलविभागं द्विविधं सूचितवान् । तदाशयानुसारेण तु वृत्तिकृदत्रैवोहयोते मूलविभागमवोचत् 'स.च १. 'तदितरालंकार' ग. २. 'करणवैयर्थ्य' ग. ३. 'वादिनः' क-ख. ४. 'अतिशयितं खरूपं' ग. ५. 'श्रीमदानन्द' क-ख. ६. 'काव्यालोके क, 'सहृदयालोकनाग्नि काव्यालंकारे' ग. ७. 'संकेतः' ख.. १. 'करणवैयर्थ्य' ग. २. 'इति' क-ख-पुस्तकयो स्ति. , ३. 'अस्मात्' ग. ४. 'निराकुर्वत एव' ग. ५. 'परिपूरणाय खकण्ठे' ग. ६. यत्रार्थ इत्यारभ्य नीत्या इत्यन्तं क-ख-पुस्तकयो स्ति. ' ७. 'सूचितम्' क-ख. ८. 'वृत्तिर्यदत्र' क-ख. ९. 'मूलभागं' ग. Page #69 -------------------------------------------------------------------------- ________________ काव्यमाल। द्वितीय उद्योतः। एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वे ध्वनिर्द्धिप्रकारः प्रकाशितः । तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते 'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य वनेर्वाच्यं द्विधा मतम् ॥१॥ द्विविधः' इति । सर्वेषामिति । लौकिकानां शास्त्रीयाणां चेत्यर्थः । अतिशयोक्त्येति । तथा 'तान्यक्षराणि हृदये किमपि स्फुरन्ति' इतिवदतिशयोक्त्यानाख्येयतोक्ता सारभूततां प्रतिपादयितुमिति शिवम् । कि लोचनं विना लोको भाति चन्द्रिकयापि हि । तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ॥ यदुन्मीलनशक्त्यैव विश्वमुन्मीलति क्षणात् । खात्मायतनविश्रान्तां तां वन्दे प्रतिभां शिवाम् ॥ ... इति श्रीमहामाहेश्वराचार्यवभिनवगुप्तोन्मीलिते सहृदयालोक(ध्वन्यालोक)लोचने ध्वनिसंकेते प्रथम उठ्योतः। या स्मर्यमाणा श्रेयांसि सूते ध्वंसयते रुजः। तामभीष्टफलोदारकल्पवल्लीं स्तुवे शिवाम् ॥ वृत्तिकारः · संगतिमुद्दयोतस्य कुर्वाण उपक्रमते-युवमित्यादि । प्रकाशित इति । मया वृत्तिकारेण सतेति भावः । न चैतन्मयोक्तम् , अपि तु कारिकाकाराभिप्रायेणेत्याह-तत्रेति । द्विप्रकारप्रकाशने वृत्तिकारकृते यन्निमित्तं बीजभूतमिति संबन्धः । यदिवा तत्रेति पूर्वशेषः । तत्रेति प्रथमोझ्योते वृत्तिकारेण प्रकाशितो विवक्षितवाच्यस्य यः प्रमेदोऽवान्तरप्रंकारस्तत्प्रतिपादनायेदमुच्यते । तदवान्तरमेदप्रतिपादनद्वारेणैव चानुवादद्वारेणाविवक्षितवाच्यस्य यः प्रमेदो विवक्षितान्यपरवाच्यात्प्रभिन्नलं तत्प्रतिपादनायेदमुच्यते । भवति मूलतो द्विमेदवं कारिकाकारस्यापि संमतमेवेति भावः । संक्रमितमिति णिचा व्यञ्जनाव्यापारे यः सहकारिवर्गस्तस्यायं 'अंमेद इत्युक्तम् । तिरस्कृतशब्देन च येन वाच्येनौविवक्षितेन सताविवक्षितवाच्यो ध्वनिर्व्यपदिश्यते तद्वाच्यं द्विधेति १. 'अविवक्षितार्थ' क-ख. १. 'लौकिकीयानां शब्दानां शास्त्रीयाणां' क-ख. २. 'इत्यतिशयो' क-ख. ३. 'साररूपता' ग. ४. 'युक्त्यैव' क-ग. ५. 'चार्याभिनव' ग. ६. 'विरचिते काव्यालोकलोचने प्रथमः' ग. ७. 'एवमिति' ग. ८. 'मेदः' क-ख. ९. 'संक्रमितेऽपि णिचा व्यञ्जनव्यापारो यः' क-ख. १०. 'प्रभावः' क-ख. ११. 'अविवक्षितवाच्येनावस्थितेव सता' ग. Page #70 -------------------------------------------------------------------------- ________________ २ उक्ष्योतः] ध्वन्यालोकः। तथाविधाभ्यां च ताभ्यां व्यङ्गयस्यैव विशेष इति व्यावप्रकाशन. परस्य ध्वनेरेवायं प्रकारः। तत्रार्थान्तरसंक्रमितवाच्यो यथा- . 'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका धना __ वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' संबन्धः । योऽथ उपपद्यमानोऽपि तावतैवानुपयोगाद्धर्मान्तरसंवलनयान्यतामिव गतोऽपि लक्ष्यमाणोऽनुगतेधर्मी सूत्रन्यायेनास्ते स रूपान्तरपरिणत उक्तः । यस्वनुपपद्यमान उपायतामात्रेणार्थान्तरप्रतिपत्तिं कृला पलायत इव स तिरस्कृत इति । ननु व्यङ्ग्यात्मनो यदा ध्वनेर्भदो निरूप्यते तदा वाच्यस्य द्विधेति भेदकथनं नै संगतमित्याशमाह-तथाविधाभ्यां चेति । चो यस्मादर्थे । व्यञ्जकवैचित्र्याद्वियुक्त व्यायवैचित्र्यमिति भावः । व्यञ्जके वर्थे यदि ध्वनिशब्दस्तदा न कश्चिद्दोष इति भावः । तत्रार्थान्तरेति । अत्र श्लोके रामशब्दसंगतिः। स्निग्धया जलसंबन्धसरसया श्यामलया द्रविडवनितोचितासितवर्णया कान्त्या कालवर्णेन लिप्तमाच्छुरितं वियन्नभो यैः । वेल्लन्यो विजृम्भमाणास्तथा चलन्त्यः परभागवशात्प्रहर्षवशाच्च बलाकाः सितपक्षिविशेषा येषु त एवंविधा मेघाः । एवं नभस्तावदुरालोकं वर्तते । दिशोऽपि दुःसहाः । यतः सूक्ष्मजैलकणोद्गारिणो वाता इति मन्दमन्दलमेषामनियतदिग्भागगमनं च बहुवचनेन सूचितम् । तर्हि गुहासु क्वचित्प्रविश्यास्यतामित्यत आह–पयोदानां ये सुहृदस्तेषु च सत्सु शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः। ताश्च सर्व पयोदवृत्तान्तं दुःसहं स्मारयन्ति खयं च दुःसहा इति भावः । एवमुद्दीपनविभावोद्बोधितो विप्रलम्भः । परस्पराधिष्ठानत्वाद्रतेः । विभावानां साधारणतामभिमान्य १. 'वाच्याभ्यां' क-ख. २. 'इति' क-ख-पुस्तकयो स्ति. १. 'अनुप्रयोगा' ग. २. 'धर्मिसूत्र'कख.३. 'कथं' ग.४.'च'काग. ५. 'भावः। मेदप्रतिपादकेने.........नाना.........णमपि सिद्धमित्यभिप्रायेणोदाहरणमाह' ग. ६. 'अर्थान्तरसंक्रमितवाच्यो यथेति' ग. ७. 'शब्द इति' ग. ८. 'कान्या चकाचकेनानुलिप्तं' ग. ९. "वियत्' क-ख-पुस्तकयो स्ति. १०. 'पूर्णहर्ष' क-ख. ११. 'येषु सत्सु' ग. १२. 'अपि' क-ख-पुस्तकयो स्त्रि. १३. 'जलोद्गारिणः' ग. १४. 'दिगागमं बहु' क-ख. १५. 'संवादिनो' क-ख. १६. 'दुःसहं' ग-पुस्तके नास्ति. १७. 'उद्बोधितविप्र' ग. १८. 'साधारण्यं' ग. Page #71 -------------------------------------------------------------------------- ________________ ६२ काव्यमाला । ईत्यत्र रामशब्दः । अनेन हि व्यङ्गयधर्मान्तररूपपरिणतः संज्ञी प्रत्याय्यते, न संज्ञामात्रम् । यथा च ममैव विषमबाणलीलायाम् - ' तौला जाअन्ति गुणा जाला दे सहिअएहिँ घेप्पन्ति । रइकिरणानुग्गहिआइँ होन्ति कमलाइँ कमलाई ।' अत्र द्वितीयः कमलशब्दः । इत एव प्रभृति प्रियतमां हृदये निधायैव खात्मवृत्तान्तं तावदाह - कामं सन्त्विति । दृढमिति सातिशयम् । कठोरहृदय इति । रामशब्दार्थध्वनिविशेषावकाशदानाय कठोरहृदयपदम् । यथा 'तहं' इत्युक्तेऽपि 'नतभित्ति' इति अन्यथा रामपदं दशरथकुलोद्भवत्वकौसल्यास्नेहपात्रत्वबाल्य चैरितजानकीला भादिधर्मान्तरपरिणतमर्थं कथं ने ध्वनेदिति । अस्मीति । स एवाहं भवामीत्यर्थः । भविष्यतीति क्रियासामान्यम् । तेन किं करिष्यतीत्यर्थः । अथ च भवनमेवास्या असंभाव्यमित्युक्तप्रकारेण हृदयनिहितां प्रियां स्मरणशब्दविकल्पपरम्परया प्रत्यक्षी भावितां हृदयस्फोटनोन्मुखीं ससंभ्रममाह - हहाहेति । देवीति । युक्तं तव धैर्यमित्यर्थः । अनेनेति । रामशब्देनानुपयुज्यमानेनार्थेनेति भावः । व्यङ्गयं धर्मान्तरप्रयोजनरूपं राज्यनिर्वासनाद्यसंख्येयम् । तच्चासंख्यत्वादभिधाव्यापारेणाशक्यसमर्पणम् । क्रमेणार्प्यमाणमप्येकधी विषयभावाभावान्न चित्रचर्वणापदमिति न चारुत्वातिशयकृत् । प्रतीयमानं तु तदसंख्यमनुद्भिन्नविशेषत्वेनैव किं किं रूपं न सहत इति चित्रपानकरस धूपगुंडमोदकस्थानीयविचित्रचर्वणापदं भवति यथोक्तम् —– 'उक्त्यन्तरेणाशक्यं यत्' इति । एष एव सर्वत्र प्रयोजनस्य प्रतीयमानत्वेनोत्कर्षहेतुर्मन्तव्यः । मात्रग्रहणेन संज्ञी नात्र तिरस्कृत इत्याह-यथा चेत्यादि । ताला तदा । जाला यदा । घेप्पैन्ति गृह्यन्ते । अर्थान्तरन्यासमाह - रविकिरणेति । कमलशेब्दो लक्ष्मीपात्रत्वादिधर्मान्तरशतचित्रतापरिणतं संज्ञिनमाहेत्यर्थः । तेन शुद्धेऽर्थे मुख्ये बाधा निमित्तं तत्रार्थे तद्धर्मिसमवायः । तेन निमित्तेन रामशब्दो धर्मान्तरपरिणतमर्थं लक्षयति । व्यङ्गेयान्यसाधारणान्यशब्दवाच्यानि धर्मान्तराणि । एवं कमलशैब्दः । १. ' इत्यत्रानेन रामशब्देन हि' क ख २. 'संज्ञि' ग. ३. 'तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥' इति च्छाया. १. 'एव इतः ' क ख २. 'अपि' ग-पुस्तके नास्ति ३. 'इत्यादि' ग. ४. 'परिचित' ग. ५. 'न' ग-पुस्तके नास्ति. ६. 'धर्मान्तरं' क- ख. ७. 'अशक्यत्वात्' क-ख. ८. 'चित्र' क-ख. ९. 'कुलकामोदस्थानीयं' क-ख. १०. 'परं' गं. ११ . ' घेव्वन्ति' ST. १२. 'शब्द इति' गं. १३. 'शुद्धोते' क-ख. १४. 'असाधारणान्य' ग. १५. 'शब्दे' क- ख. Page #72 -------------------------------------------------------------------------- ________________ ६३ २ उझ्योतः] ध्वन्यालोकः । अत्यन्ततिरस्कृतवाच्यो यथादिकवेल्मिीके:-... 'रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥' इति। ... अत्रान्धशब्दः। 'गअणं च मत्तमेहं धारालुलिअजुणाइँ अ वणाई । णिरहंकारमिअङ्का हरन्ति नीलाओ वि णिसाओ.॥ अत्र मत्तनिरहंकारशब्दौ । ' गुणशब्दस्तु संज्ञिमात्रमाहेति । तत्र तद्बलात्कैश्चिदारोपितं तदप्रातीतिकम् । अनुपयोगबाधितो ह्यर्थोऽस्य ध्वनेर्विषयो लक्षणामूलस्य । यत्तु हृदयदपण उक्तम्-'हहा हेति । संरम्भार्थोऽयं चमत्कारः' इति । तत्रापि संरम्भ आवेगो विप्रलम्भव्यभिचारीति रसध्वनिस्तावदुपगतः । न च रामशब्दाभिव्यक्त्यार्थसाहायकेन विना संरम्भोल्लासोऽपि । अहं सहे तस्याः किं वर्तत इत्येवमात्मा हि संरम्भः। कमलपदे च कः संरम्भ इत्यास्तां तावत् । अनुपयोग्यात्मिका च मुख्यार्थबाधात्रास्तीति लक्षणामूलवादविवक्षितवाच्यमेदतास्योपपनैव । शुद्धार्थस्यौविवक्षणात् । न च तिरस्कृतलं शुद्धस्य । तस्यापि तावत्यनुगमात् । अत एव चे परिणताचोयुक्त्या व्यवहृतम्-अत्यन्तेत्यादि। आदिकवेरिति ध्वनेर्लक्ष्यप्रसिद्धतामाह-रवीति । हेमन्तवर्णने पञ्चवट्या रामस्योक्तिरियम् । अन्ध इति चोपहतदृष्टिः । जात्यन्धस्यापि गर्भे दृष्टयुपघातात् । अन्धोऽयं पुरोऽपि न पश्यतीत्यतस्तत्र तिरस्कारोऽन्धार्थस्य न खत्यन्तम् । इह खादर्शस्यान्धलमारोप्यमाणमपि न सह्यमिति । अन्धशब्दोऽत्र पदार्थस्फुटीकरणाशक्तवं नष्टदृष्टिगतं निमित्तीकृत्यादर्शलक्षणया प्रतिपादयति । असाधारणविच्छायत्वानुपयोगिवादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति । भट्टनायकेन तु यदुक्तम्-'इवशब्दयोगाद्गौणताप्यंत्र न काचित्' इति, तच्छ्रोकार्थमपरामृश्य । आदर्शचन्द्रमसोर्हि सादृश्यमिवशब्दो द्योतयति । निःश्वासान्ध इति चादर्शविशेषणम् । इवशब्दस्यान्धार्थवेन योजने आदर्शश्चन्द्रमा इत्युदाहरणं भवेत् । योजनं चैतदिवशब्दस्य क्लिष्टम् । न च निःश्वासेनान्ध इवादर्शः स इव चन्द्र इति कल्पना युक्ता । जैमि-. नीयसूत्रे ह्येवं योज्यते न काव्येऽपीत्यलम् । गअणमिति । [गगनं च मत्तमेचं १. 'वाच्यार्थों ध्वनिर्यथा' ग. २. 'इति' क-ख-पुस्तकयो स्ति. ३. 'यथा च श्लोकः गअणं च' ग. ४. 'लीलाइ वि' क-ख. १. 'लक्षणामूलं ह्यस्य' क-ख. २. 'कमलशब्देन च' ग. ३.. 'अविवक्षितत्वात्' ग. ४. 'धर्मिरूपेण' ग. ५. 'च' ग-पुस्तके नास्ति. ६. 'वचो' क-ख. ७. 'अत्यन्तेत्यादि' गपुस्तके नास्ति. ८. 'रतिसंक्रान्त-श्लोकः' ग. ९ 'इत्युपसंहृत' क-ख. १०. 'दृष्टरुपघातात्' क. ११. 'अन्वर्थस्य' क-ख. १२. 'न दृष्टदृष्टिगतवं' क-ख. १३. 'आदर्शल' क-ख. १४. 'धर्मान्तमसंख्य' ग. १५. 'सूत्रं-काव्यमित्यलं' ग. १६. 'यथाचेति' ग. Page #73 -------------------------------------------------------------------------- ________________ काव्यमाला। 'असंलक्ष्यक्रमोहयोतः क्रमेण घोतितः परः। विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः॥२॥ मुख्यतया प्रकाशमानो व्यङ्गयोऽर्थो ध्वनेराल्मा । स च वाच्यार्थापेक्षया कश्चिदलक्ष्यक्रमतया तुल्यं प्रकाशते, कश्चित्क्रमेणेति द्विधा मतः । तत्र 'रसभावतदाभासतत्प्रशान्त्यादिरक्रमः। ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥३॥ धारालुलितार्जुनानि च वनानि । निरहंकारमृगाङ्का हरन्ति नीला अपि निशाः ॥' इति च्छाया।] चशब्दोऽपिशब्दार्थे । गगनमपि मत्तमेघमपि न केवलं तारकितम् । धारालु लितार्जुनवृक्षाण्यपि वनानि न केवलं मलयमारुतान्दोलितसहकाराणि । निरहंकारमृगाङ्का नीला अपि निशा न केवलं सितंकरकरधवलिता हरन्ति । उत्सुकयन्तीत्यर्थः । मत्तशब्देन सैर्वथैवेहासंभवत्वार्थेन बाधितमद्योपयोगक्षीबात्मकमुख्यार्थेन सदृशान्मेघांलक्षयतासमजसकारिखदुर्निवारवादिधर्मसहस्रं ध्वन्यते । निरहंकारशब्देनापि चन्द्रं लक्षयता तत्पारतक्ष्यविच्छोयलानुजिगमिषारूपजिगीषात्यागप्रभृति_न्यते । अविवक्षितवाच्यस्य प्रभिन्नवमिति यदुक्तं तत्कुतो भवतीत्याशङ्का विवक्षितवाच्यादेवास्य मेदो भवति । विवक्षा तदभावयोर्विरोधादित्यभिप्रायेणाह-असंलक्ष्येति । सम्यङ् न लक्षयितुं शक्यः क्रमो यस्य तादृश उड्योत उड्योतनव्यापारोऽस्येति बेहुव्रीहिगर्भो बहुव्रीहिः । ध्वनिशब्दसांनिध्याद्विवक्षिताभिधेयलेनान्यपरखमत्राक्षिप्तमिति खकण्ठेनोक्तम् । ध्वनेरिति । व्यायस्येत्यर्थः । आत्मेति । पूर्वश्लोकेन व्यङ्ग्यस्य वाच्यमुखेन भेद उक्तः । इदानीं तु द्योतनव्यापारमुंखेन द्योत्यस्य खर्थिनिष्ठ एवेत्यर्थः । व्यङ्ग्यस्य वैनेर्योतने खात्मनि कः क्रम इत्याशझ्याह-वाच्यार्थापेक्षयेति । वाच्योऽर्थो विभावादिः । तत्रेति । तयोर्मध्यादित्यर्थः । यो रसादिरर्थः स एव केमो ध्वनेरात्मा न वक्रम एवं सः। अक्रमलमपि - १. 'तुल्यं ग-पुस्तके नास्ति. १. 'केवलमन्दमारुता' ग. २. 'सितकिरणधवलिता' ग. ३. 'सर्वथैव' ग-पुस्तके नास्ति. ४. 'क्षेमात्मक' क-ख. ५. 'विच्छायखोज्जिगमिषा' क-ख. ६. 'ध्वन्यते' गपुस्तके नास्ति. ७. 'कृतो नहि खरूपादेव मेदो भविष्यति- क-ख. ८. 'उड्योत' इति क-ख-पुस्तकयोनास्ति. ९. 'बहुव्रीहिगर्भो' इति क-ख-पुस्तकयो स्ति. १०. 'परमप्याक्षिप्तं' क-ख. ११. 'भेदेन' क-ख. १२. 'खात्मनिष्ठ' क-ख. १३. 'ध्वनेर्योतने' क-ख-पुस्तकयो स्ति. १४. 'मध्यं' ग. १५. 'अक्रमो' ग. १६. 'एव सक्रमलमपि' क-ख. Page #74 -------------------------------------------------------------------------- ________________ २ उक्ष्योतः ] ध्वन्यालोकः। ६५ हि तस्य कदाचिद्भवति । तदा चार्थशक्त्युद्भवानुस्खानरूपमेदेनेति वक्ष्यते । आत्मशब्दः खभाववचनः प्रकारमाह । तेन (सादिर्योऽर्थः स ध्वनेरक्रमो नाममेदः । असंलक्ष्यक्रम इति यावत् । ननु किं सर्वदैव रसादिरों ध्वनेः प्रकारः । नेत्याह-भासमान इति । किं तु यदाङ्गिखेन प्रधानसेनावभासमानः । एतच्च सामान्यलक्षणे गुणीकृतखार्थावित्यत्र यद्यपि निरूपितम् , तथापि रसवदाद्यलंकारप्रकाशनावकाशदानायोदितम् । स च रसादिध्वनिव्यवस्थित एव । नहि तच्छून्यं काव्यं किंचिदस्ति । यद्यपि चे रसेनैव सर्व जीवति काव्यम् , तथापि तस्य रसस्यैकघनचमत्कारात्मनोऽपि कुतश्चिदंशात्प्रयोजकीभूतादधिकोऽसौ चमत्कारोऽपि भवति । तत्र यदा कश्चिदुद्रिक्तावस्थां प्रतिपनो व्यभिचारी चमत्कारातिशयप्रयोजको भवति तदा भावध्वनिः । यथा-'तिष्ठेत्कोपवशाप्रभावपिहिता दीर्घ न सा कुप्यति वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हां विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥' अत्र हि विप्रलम्भरसंसद्भावेऽपीयति वितर्काख्यव्यभिचारिचमक्रियाप्रयुक्त आखादातिशयः । व्यभिचारिण उदयस्थित्यपायत्रिधर्मकाः । यदाह-'विविधमाभिमुख्येन चरन्तीति व्यभिचारिणः' इति । तत्रोदयावस्थाप्रयुक्तः कदाचित् , यथा'याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निर्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम् । भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया तन्वङ्ग्या न तु पारितः स्तनभरः ऋष्टुं प्रियस्योरसः ॥' अत्र हि प्रणयकोपस्यैवोज्जिगमिषयैव यदवस्थानं न तु पारित इत्युदयावकाशनिराकरणात्तदेवांखादजीवितम् । स्थितिः पुनरुदाहृता 'तिष्ठेत्कोपवशात्-' इत्यादिना । क्वचित्तु व्यभिचारिणः प्रशमावस्थया प्रयुक्तश्चमत्कारः । यथोदाहृतं प्राक् ‘एकस्मिन्शयने पराङ्मुखतया-' इति । अयं तत्प्रशम इत्युक्तः । अत्र चेाविप्रलम्भस्य रसस्यापि प्रशम इति शक्यं योजयितुम् । क्वचित्तुं व्यभिचारिणः संधिरेव चर्वणास्पदम् । यथा-'ईसेंसु केसुम्भिआए मह चुम्बिउ जेण । अमिअरसो घोण्टाण पडिजाणिउ तेण ॥ (१) त्यक्ते तु कोपे कोपकषायगद्गदमन्दरुदिताया १. 'तथा' ग. २. 'मेदतेति' क-ख. ३. 'रसादिभ्योऽर्थः' क-ख. ४. 'ननु गपुस्तके नास्ति. ५. 'सदैव' ग. ६. 'भासमान इति' ग-पुस्तके नास्ति. ७. 'यदगिलेन' क-ख. ८. 'गुणीभूत' क-ख. ९. 'रसवदाद्यलंकारतत्त्वप्रकटनायावकाशदानायानूदितम्' क-ख. १०. 'काव्यं' क-ख-पुस्तकयो स्ति. ११. 'च' ग-पुस्तके नास्ति. १२. 'अपि' ग-पुस्तके नास्ति. १३. 'अप्रतिपन्नो' ग. १४. 'अदर्शनं' ग. १५. 'रस' क-ख-पुस्तकयो स्ति. १६. 'इति' क-ख-पुस्तकयो स्ति. १७. 'अनुप्राप्तयोर्निर्वातं' ग. १८. 'निातं' क. १९. 'शिथिलं' ग. २०. 'आह्लाद' ग. २१. 'योऽयं' ग. २२. 'तु' क-ख-पुस्तकयो स्ति. २३. 'सुरसुंभिआइ सहु चुबिते जेण अपहु अन्वो? डाहजतजाणित्ते तेन' क-ख. २४. 'त्यक्तेऽपि कोपकषाय' क-ख. ७ ध्व. लो. Page #75 -------------------------------------------------------------------------- ________________ ६६ काव्यमाला। यैन मुखं चुम्बितं तेनामृतरसनिगरणविश्रान्तिपरम्पराणां तृप्तिीवेति कोपप्रसादसंधिश्चमत्कारस्थानम् । क्वचिद्यभिचार्यन्तरशबलतैव विश्रान्तिपदम् । यथा-'क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥' अत्र हि वितर्कीत्सुक्ये मतिस्मरणे शङ्कादैन्ये स्मृतिचिन्तने परस्परं बाध्यबाधकभावेन द्वन्द्वशो भवन्ती पर्यन्ते तु चिन्ताया एव प्रधानता ददती परमाखादस्थानम् । एवमन्यदप्युत्प्रेक्ष्यम् । एतानि चोदयसंधिशबलवादिकानि कारिकायामादिग्रहणेन गृहीतानि । नन्वेवं विभावानुभावमुखेनाप्यधिकश्चमत्कारो दृश्यत इति विभावध्वनिरनुभावध्वनिश्च वक्तव्यः । मैवम् । विभावानुभावौ तावत्खशब्दवाच्यावेव । तच्चर्वणापि चित्तवृत्तिष्वेव पर्यवस्यतीति रसभावेभ्यो नाँधिकं चर्वणीयम् । यदि तु विभावानुभावापि व्यङ्गयौ भवतस्तदा वस्तुवनिरपि किं न सह्यते । यदा तु विभौवानुभावाभासाद्रत्याभासोदयस्तदा विभावानुभावाभासीच्चर्वणाभास इति रसाभासस्य विषयः । यथा रावणकाव्याकर्णने शृङ्गाराभासः । यद्यपि 'शृङ्गारानुवृत्तिर्या तु स हासः' इति मुनिना निरूपितं तथाप्यौत्तरकालिकं तत्र हास्यरसत्वम् । 'दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुतिं चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना।' इत्यत्र तु न हास्यचर्वणावसरः । ननु नात्र रतिः स्थायिभावोऽस्ति । परस्परावस्थाबन्धाभावात् केनैतदुक्तं रतिरिति । रत्याभासो हि सः । अतश्चाभीसो येनास्य सीता मैय्युपेक्षिका द्विष्टा वेति प्रतिपत्तिहृदयं न स्पृशत्येव । तत्स्पर्शे हि तस्याप्यभिलाषो विलीयेत । न च मयीयमनुरक्तेत्यपि निश्चयेन कृतं कामकृतान्मोहात् । अत एव तदाभासत्वम् । वस्तुतस्तन्न स्थाप्यते । शुक्तौ रजताभासवत् । ऐतच्च शृङ्गारानुकृतिं प्रयुञ्जानो मुनिरपि सूचितवान् । अनुकृतिरमुख्यता आभास इति ह्येकोऽर्थः । अत एवाभिलाषे एकतरनिष्ठेऽपि शृङ्गारशब्देन तेत्र तत्र व्यवहारस्तदाभासतया मैंन्तव्यः । शृङ्गारेण वीरादीनामप्याभासरूपतोपलक्षितैव । एवं रसध्वनेरेकस्यैवामी भावध्वनिप्रभृतयो निःस्र्यंन्दा आखादे १. 'तेनामृतस्य रसविश्रान्तिनिगरणपरम्पराणां' क-ख. २. 'जातेति' ग. ३. 'वृत्तचिन्तने' क-ख. ४. 'भवन्ति तत्पर्यन्ते-ददति' ग. ५. 'आहाद' ग. ६. 'अपि' क-ख-पुस्तकयो स्ति. ७. 'न' ग-पुस्तके नास्ति. ८. 'यदा' ग. ९. 'एव' ग. १०. 'अपि' ग-पुस्तके नास्ति. ११. "विभावाभासरत्याभासादयः' ग. १२. 'भासाश्वर्व' क-ग. १३. 'तु' क-ख. १४. 'परस्परावस्थाबाधाभावात्' क-ख. १५. 'आभासतः' ग. १६. 'उपेक्षिता' ग. १७. 'न हृदयं न च' क-ख. १८. 'तत्वशोभित. स्यापि' ग. १९. 'लीयेत' क-ख. २०. 'अतश्च' क-ख.. २१. 'नुकृतिर्यथाशब्दं प्रयुञ्जानो' ग. २२. एकवारमेव तत्रेति क-ख-पुस्तकयोः. २३. 'मन्तव्यम्' ग. २४. 'अपि' क-ख-पुस्तकयो स्त्रि. २५. 'एकस्य' क-ख-पुस्तकयो स्ति. २६. 'निःष्यन्द आखादे प्रधानम्' क-ख. Page #76 -------------------------------------------------------------------------- ________________ २ उच्योतः ] ध्वन्यालोकः । रसादिरर्थो हि सहैव वाच्येनावभासते । स चाङ्गित्वेनावभासमानो ध्वनेरात्मा । इदानीं रसवदेलंकारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते 'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ ४ ॥' ६७ परस्परावस्थाबन्ध प्रयोजनम् । प्रयोजकमेवमेव भावादिकमंशं विभज्य पृथग्व्यङ्ग्यं स्थाप्यते । यथा गन्धयुक्तिज्ञैरेकसंमूच्छितामो दोपभोगेऽपि शुद्ध मांस्यादिप्रयुक्तमिदं सौरभमिति । रसध्वनिस्तु स एवं योऽत्रै मुख्यतया विभावानुभावव्यभिचारिसंयोजनोदितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवाखादप्रकर्षः । यथा - ' - ' कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निःस्पन्दतामागता । मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साका मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥' अत्र हि नायि कानुवर्ण्यमानखात्मप्रकृतिपवित्रितचित्रफलकावलोकनाद्वत्सराजस्य रूपो रतिस्थायिभावो विभावानुभावसंयोजनवशेन चर्वणारूढ इति । तदलं बहुना । स्थितमेतत् – 'रसादिरर्थोऽङ्गित्वेन भासमानोऽसंलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेः प्रकार' इति । सहैवेति । इवशब्देन संलक्ष्यता विद्यमानत्वेऽपि क्रमस्य व्याख्याता । वाच्येनेति । विभावानुभावादिना । नन्वङ्गित्वेनावभासमान इत्युच्यते तत्राङ्गलमपि किमस्ति रसादे - र्येन तन्निराकरणायैतद्विशेषणमित्य भिप्रायेणोपक्रमते - इदानीमित्यादिना । अङ्गत्वमैंस्ति रसादीनां रसवत्प्रेयऊर्जखिसमाहितालंकाररूपतायामिति भावः । अनया चे भङ्गया रसवदादिष्वलंकारेषु रसादिध्वनेर्नान्तर्भाव इति सूचयति वाच्येति । पूर्वं हि समासोक्त्यादिषु वस्तुध्वनेर्नान्तर्भाव इति दर्शितम् । वाच्यं च वाचकं च तच्चारुत्वहेतव - श्चेति द्वन्द्वः । वृत्तावपि शब्दाश्चार्थाश्चालंकाराश्चेति द्वेन्द्रः । मत इति । पूर्वमेवैतदुक्तमित्यर्थः । ननूक्तं भट्टनायकेन – “रसो यदा परगततया प्रतीयते 'तैर्हि ताटस्थ्यमेव १. ‘अव' क-ख-पुस्तकयोर्नास्ति. २. 'अलंकारादौ ' क-ख. १. 'पृथग्व्यवस्थाप्यते' क ख २. 'भोगोपरि' क ख ३. 'यत्र' क-ख. ४. कृच्छ्रात्' ग. ५. 'नायिकाकारानु' क-ख. ६. 'आदिना' ग-पुस्तके नास्ति ७. 'अपि क-ख. ८. ‘प्रेयस्व्यूर्जखि' क- ख. ९. 'च' क-ख- पुस्तकयोर्नास्ति. १०. ' सूचयति' इत्यारभ्य 'नान्तर्भाव इति' इतिपर्यन्तं कख पुस्तकयोर्नास्ति ११. 'द्वन्द्वः' क-खपुस्तकयोर्नास्ति. १२. 'तत्' ग. Page #77 -------------------------------------------------------------------------- ________________ काव्यमाला। स्यात् । न च खगतत्वेन रामादिचरितमयात्काव्यादसौ प्रतीयते । खात्मगतत्वेन च प्रतीतौ खात्मनि रसस्योत्पत्तिरेवाभ्युपगता स्यात् । सा चायुक्ता । सामाजिक प्रत्यविभावत्वात् । कान्तावं साधारणं वासनाविकासहेतुर्विभावनायां प्रयोजकमिति चेत्, देवतावर्णनादौ तदपि कथम् । न च खकान्तास्मरणं मध्ये संवेद्यते । अलोकसामान्यानां च रामादीनां ये समुद्रसेतुबन्धादयो विभावास्ते कथं साधारण्यं भजेयुः । न चोत्साहादिमानं स्मर्यते। अननुरूपत्वात् । शब्दादपि तत्प्रतिपत्तौ नैं रसोपजनः । प्रत्यक्षादिव नायकमिथुनप्रतिपत्तौ । उत्पत्तिपक्षे च करुणस्योत्पादाद्दुःखिले करुणप्रेक्षासु पुनरप्रवृत्तिः स्यात् । तन्न । उत्पत्तिरपि नाप्यभिव्यक्तिः । शक्तिरूपस्य हि शृङ्गारस्याभिव्यक्तौ विषयार्जनतारतम्यप्रवृत्तिः स्यात् । तत्रापि "किं स्वगतोऽभिव्यज्यते पैरगतो वेति पूर्ववदेव दोषः । तेन न प्रतीयते नोत्पद्यते नाभिव्यज्यते काव्येन रसः । किं वन्यशब्दवैलक्षण्यं काव्यात्मनः शब्दस्य । त्र्यंशताप्रसादात् । तत्राभिधायकत्वं वाच्यविषयम् , भावकत्वं रसादिविषयम् , भोक्तृत्वं सहृदयविषयमिति त्रयोंऽशभूता व्यापाराः । तत्राभिधाभागो यदि शुद्धः स्यात्तत्तन्त्रादिभ्यः शास्त्रन्यायेभ्यः श्लेषोद्यलंकाराणां को भेदः । वृत्तिभेदवैचित्र्यं वाकिंचित्करम् । श्रुतिदुष्टादिवर्जनं च किमर्थम् । तेन रसभावनाख्यो द्वितीयो व्यापारः । यद्वशादभिधापि लक्षणैव । तच्चैतद्भावकत्वं नाम यत्काव्यस्य तद्विभावादीनां साधारणत्वापादनं नाम । भाविते च रसे तस्य भोगः । योऽनुभवस्मरणप्रतिपत्तिभ्यो विलक्षण एव द्रुतिविस्तरविकासनामा रजस्तमोवैचित्र्याननुविद्धसत्त्वमयनिजचित्स्वभावनिवृत्तिद्रुतिविश्रान्तिलक्षणः परब्रह्मास्वादसचिवः । स एव च प्रेधानभूतोंऽशः सिद्धिरूप इति । व्युत्पत्तिनामाप्रधानमेवेति ।' अत्रोच्यते-रसस्वरूप एव तावद्विप्रतिपत्तयः प्रतिवादिनाम् । तथाहि पूर्वावस्थायां यः स्थायी स एव व्यभिचारिसंपातादिना प्राप्तपरिपोषोऽनुकार्यगत एव रसः । नाट्ये तु प्रयुज्यमानवान्नाट्यरस इति केचित् । प्रवाहधर्मिण्यां चित्तवृत्तौ चित्तवृत्तवृत्त्यन्तरेण कः परिपोषार्थः । विस्मयशोकक्रोधादेश्च क्रमेण तावन्न परिपोष इति नानुकार्यो रसः । नानुकर्तरि च तद्भावेन लयाद्यनुकरणं स्यात् । सामाजिकगते वा क १. 'रसस्यैव' क-ख. २. 'उत्साहादिमान् रामः' क-ख. ३. 'भूतखात्' क-ख. ४. 'त' क-ख-पुस्तकयो स्ति. ५. 'अदुःखित्वे' ग. ६. 'तन्न' इत्यारभ्य 'स्यात्' इत्यन्तं क-ख-पुस्तकयो स्ति. ७. 'च किं न स्वागतो व्यज्यते' क-ख. ८. 'परगतो' इत्यारभ्य 'नाभिव्यज्यते' इत्यन्तं क-ख-पुस्तकयो स्ति. ९. 'रसविषयम्' ग. १०. 'ऽयमशुद्धः' ग. ११. 'तत्' ग-पुस्तके नास्ति. १२. 'श्लेषालंकाराणां' ग. १३. ‘एको भेदः' ग. १४. 'चापि किंचित्' क-ख. १५. 'यः' क-ख. १६. 'पादनानाम' ग. १७. 'अनुभाव' क-ख. १८. 'दूती' ग. १९. 'विशुद्ध' ग. २०. 'द्रुति' क-ख-पुस्तकयो स्ति. २१. 'सविधः' क-ख. २२. 'प्रधानरूपोऽशेषसिद्ध' ग. २३. 'तु' क-ख-पुस्तकयो स्ति. २४. चित्तवृत्त्यन्तरेण' ख. २५. 'न' क-ख-पुस्तकयो स्ति. २६. 'भावे लयाद्यनुसरणं' क-ख. Page #78 -------------------------------------------------------------------------- ________________ २ उझ्योतः] ध्वन्यालोकः। श्चमत्कारः । प्रत्युत करुणादौ दुःखप्राप्तिः । तस्मानायं पक्षः । कस्तर्हि । इहानन्त्यानियतस्यानुकारो न शक्यः, निष्प्रयोजनश्च विशिष्टताप्रतीतौ । ताटस्थ्येन व्युत्पत्त्यभावात् । तस्मादनियतावस्थात्मकं स्थायिनमुद्दिश्य विभावानुभावव्यभिचारिभिः संयुज्यमोनैरयं रामः सुखीति स्मृतिविलक्षणा स्थायिनि प्रतीतिगोचरतयाखादरुपा प्रतिपत्तिरनुकालॅम्बना नाट्यैकगामिनी रसः । स च ने व्यतिरिक्तमाधारमपेक्षते । किं बनुकार्याभिन्नाभिमते नर्तके आखादयिता सामाजिक इत्येतावन्मांत्रमदः । तेन नाट्य एव सः, नानुकार्यादिष्विति केचित् । अन्ये तु-अनुकर्तरि यः स्थाय्यवभासोऽभिनयादिसामग्र्यादि. कृतो भित्ताविव हरितालादिना खावभासः स एव लोकातीततयाखादापरसंज्ञया प्रतीत्या रस्यमानो रस इति नाट्याद्रसा नाट्यरसाः । अपरे पुनर्विभावमनुभावमेव विशिष्टसामग्र्या समर्प्यमाणं तद्विभावनीयानुभावनीयस्थायिरूपचित्तवृत्त्युपचितवासनानुषक्तं स्वनितिर्वणाविशिष्टमेव रसः । तनाट्यमेव रसाः । अन्ये तु शुद्धं विभावम् , अपरे शुद्धमनुभावम् , केचित्तु स्थायिमात्रम् , इतरे व्यभिचारिणम् , अन्ये तत्संयोगम् , एके नुकार्यम् , केचेंन सकलमेव समुदायं रसमाहुरित्यलं बहुना। काव्येऽपि च लोकनाट्यधैर्मिस्थानीये खभावोक्तिवक्रोक्तिप्रकारद्वयेनालौकिकप्रसन्नमधुरौजखिशब्दसमर्प्यमाणविभावादियोगादियमेव रेसवार्ता । अस्तु वा नाट्याद्विचित्ररूपा रसप्रतीतिः । उपायवैलक्षण्यादियमेव तावदत्र सरणिः । एवं स्थिते प्रथमपक्ष एवैतानि दूषणानि । प्रतीतेः स्वपरगतलादिविकल्पने सर्वपक्षेषु प्रतीतिरपरिहार्या । रसस्य प्रतीतं हि पिशाचवदव्यवहार्यं स्यात् । किं तु यथा प्रतीतिमात्रत्वेनाविष्टत्वेऽपि प्रात्यक्षिकी आनुमानिकी आगमोत्था प्रतिभानकृता योगिप्रत्यक्षजा च प्रतीतिरुपायवैलक्षण्यादन्यैव तद्वदियमपि प्रतीतिश्चर्वणाखादनभोगापरनामा भैवतु । तन्निदानभूताया हृदयसंवादाद्युपकृताया विभावादिसामग्र्या लोकोत्तररूपत्वाद्रसाः प्रतीयन्त इति । ओदनं पचतीतिवद्यवहारः प्रतीयमान एव हि रैसः । १. 'तस्मानियतात्मक' ग. २. 'मानोऽयं रसः' क, 'मानोऽयं रामः' ख. ३. 'रूपप्रति' क-ख. ४. 'लम्बनानास्यैक' क. 'लम्बनायैक' ग. ५. 'न' ग-पुस्तके नास्ति. ६. 'रिक्तसाधारणमपे' क-ख. ७. 'मात्रभेदः' ख. ८. 'रसाः' ग. ९. 'केचित्' क-ख-पुस्तकयो स्ति. १०. 'भिन्नव्यवहारतालादिना' क-ख. ११. 'तु' ग. १२. 'वृत्त्युचित' क-ख, १३. 'सक्तं' क-ख. १४. 'चर्वणाविष्टं' क-ख. १५. 'तनाट्यमेव रसाः' क-ख-पुस्तकयो स्ति. १६. 'अपरे तु' ग. १७. 'केचित्स्थायि' क-ख. १८. 'व्यभिचारिणः' ग. १९. 'तत्त्वसंयोग' ग. २०. 'केचित्' ग. २१. 'धर्मे स्थानीयेन' क-ख. २२. 'रसवार्तास्तु । तत्र' क ख. २३. 'विरचितरूपा' ग. २४. 'गतादि' क-ख. २५. 'न सर्वपक्षेषु च' क-ख. २६. 'अप्रतीतं' क-ख. २७. 'स्यात्' क-ख-पुस्तकयो स्ति. २८. 'यया' ख. २९. 'प्रात्यक्षी' क-ख. ३०. 'आगमोर्थी' क-ग. ३१. 'प्रत्यक्षजाता प्रतीति' क-ख. ३२. 'भवतु' ग-पुस्तके नास्ति. ३३. 'सहृदय' क-ख. ३४. 'रसप्रतीतिरेव' क-ख. Page #79 -------------------------------------------------------------------------- ________________ काव्यमाला। प्रवीतिरेव विशिष्टा रसना । सा च नाट्ये लौकिकानुमानप्रतीतेविलक्षणतां प्रेमुखे उपाय. तया संदधाना । एवं काव्य शाब्दप्रतीतेश्च विलक्षणतां प्रमुखतामुपेक्ष्यमाणा । तस्मादनुत्थानोपहतः पूर्वपक्षः। रोमादिचरितं तु न सर्वस्य हृदयसंवादीति महत्साहसम् । चित्रवासनाविशिष्टखाचेतसः । यदाह-'तासामनादित्वं चात्मनो नित्यखात् । जातिदेशकालच्यवहितानामप्यानन्तर्य स्मृतिसंस्कारयोरेकरूपत्वात्' इति । तेन प्रतीतिस्तावद्रसस्य सिद्धा । सा च रसनारूपा प्रतीतिरुत्पद्यते । वाच्यवाचकयोस्तत्राभिधादिविविक्तो व्यञ्जनात्मा ध्वननव्यापार एव । भोगीकरणव्यापारश्च काव्यात्मकरसविषयो ध्वननात्मैव । नान्यत्किंचित् । भावकत्वमपि समुचितगुणालंकारपरिग्रहात्मकमस्माभिरेव वितत्य वक्ष्यते। किमेवैमपूर्व काव्यं च रसान्प्रति भावकत्वमिति यदुच्यते तत्र भवत 'इति भावनादुत्पत्तिपक्ष एव प्रत्युज्जीवितः । न च काव्यशब्दानां केवलानां भावकत्वम् । अर्थापरिज्ञाने तदभावात् । न च केवलानामर्थानाम् । शब्दान्तरेणार्ण्यमाणत्वे तदयोगात् । द्वयोस्तु भावकत्वमस्माभिरेवोक्तम् । 'यत्रार्थः शब्दो वा तमर्थ-व्यङ्कः' इत्यत्र । तस्माद्यञ्जकखाख्येन व्यापारेण गुणालंकारौचित्यादिकयेतिकर्तव्यतया काव्यं भावकं रसान्भावयति । इति त्र्यंशायामपि भावनायां कारणांशे ध्वननमेव निपतति । भोगोऽपि न काव्यशब्देन क्रियते अपि तु घनमोहान्ध्यसंघटनादिनिवृत्तिप्रवृत्तिद्वारेणावादापरनाम्नि । अलौकिके द्रुतविस्तरविकासात्मनि भोगे कर्तव्ये लोकोत्तरो ध्वननव्यापार एव मूर्धाभिषिक्तः । तच्चेदं भोगेकृत्त्वं रसस्य ध्वननीयत्वे सिद्धे सिद्धे(ध्येत्) । रस्यमानोदितचमत्कारानतिरिक्तवाद्भोगस्येति । सत्त्वादीनां चौगोङ्गिभाववैचित्र्यस्यानन्याद्रत्यादित्वेनावादगणना ने युक्ता । परब्रह्मास्वादसब्रह्मचारित्वं वास्त्वस्य रसास्वादस्य । व्युत्पादनं च शासनप्रतिपादनाभ्यां शास्त्रेतिहासकृताभ्यां विलक्षणम् । यथा रामस्तथाहमित्युपमानातिरिक्तां रसाखादोपायखप्रतिभाविजृम्भणारूपां व्युत्पत्तिमन्ते करोतीति कमुपालभामहे । तस्मास्थितमेतत्-अभिव्यज्यन्ते रसाः प्रतीत्यैव च रस्यन्त इति । तत्राभिव्यक्तिप्रधान १. 'विलक्षणा तां च मुखे' ग. २. 'प्रमुख्ये' ख. ३. 'शाब्दप्रतीतेर्विलक्षणा तां च प्रमुखतां' ग. ४. 'अनुमानोपहतः पूर्वः' ग. ५. 'रसादि' ग. ६. 'चिद्वासना' ग. ७. 'चाविशेषो' क-ख. ८. 'काव्यस्य रस' क-ख. ९. 'ग्रहणात्मक' ग. १०. किमेतदपूर्वे' क-ख. ११. 'भावकं' क-ख. १२. 'एव' ग. १३. 'शब्दान्तानां' क-ख. १४. 'अर्थानामर्थान्तरेण' क-ख. १५. 'भावकत्वात्' ग. १६. 'व्यापारेणौचित्यादिकतयेति' ग. १७. 'भावुक' क-ख. १८. 'करणांशेन' क-ख. १९. 'क्रियत इति धन' क-ख. २०. 'संघटनावृत्तिद्वारेण' क-ख. २१. 'दूत' क, 'इति' ग. २२. 'भोगकृतं' क, 'भोगकत्वं' ग. २३. 'सिद्धे मखदन्तवदसिद्धम्' ग. २४. 'वा' ख. २५. 'अङ्गाङ्गितावैचित्र्य' ग. २६. 'न' क-ख-पुस्तकयो स्ति. २७. 'चारित्वं चाखादस्य रसा' ग. २८. 'शास्त्र' ग. Page #80 -------------------------------------------------------------------------- ________________ २ उक्ष्योतः] ध्वन्यालोकः । रसभावतदाभासतत्पशमलक्षणं मुख्यमर्थमनुवर्तमाना यत्र शब्दार्थालंकारा गुणाश्च परस्परं ध्वन्यपेक्षया च विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः। 'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः। काव्ये तसिनलंकारो रसादिरिति मे मतिः ॥५॥ यद्यपि रसवदलंकारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन्काव्ये प्रधानतयान्योऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये रसादयस्ते रसादेरलंकारस्य विषय इति मोमकीनः पक्षः । तद्यथा चाटुषु प्रेयोलंकारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते । तया भवतु, अप्रधानतया वा। प्रधानले ध्वनिः अन्यथा रसाद्यलंकाराः । तदाहरेसमावेत्यादि । व्यवस्थिता इति । पूर्वोक्तयुक्तिभिर्विभागेन व्यवस्थापितवादिति भावः । अन्यत्रेति । रसखरूपे वस्तुमात्रेऽलंकारतायोग्ये वा। मे मतिरिति । अन्यपक्षं दूष्यवेन हृदि निधायाभीष्टवात्स्वपक्षं पूर्व दर्शयति वृत्तिकारः-यद्यपीत्यादि । स हि परदर्शितो विषयो भाविनीत्या नोपपन्न इति भावः । यस्मिन्काव्ये इति स्पष्टलेनासङ्गतं वाक्यमित्थं योजनीयम्-यस्मिन्काव्ये ते पूर्वोक्ता रसादयोऽङ्गभूता वाक्यार्थीभूतश्वान्यः । चशब्दस्तुशब्दस्यार्थे । तस्य काव्यस्य संबन्धिनो ये रसादयोऽङ्गभूतास्ते रसादेरलंकारस्य रसवदाद्यलंकारशब्दस्य विषयाः। स एवालंकारशब्दवाच्यो भवति योऽङ्गभूतः, न वन्य इति यावत् । अत्रोदाहरणमाह-तद्यथेति । तदित्यङ्गखम् । यथा वक्ष्यमाणोदाहरणे तथान्यत्रापीत्यर्थः । भामहाभिप्रायेण तु चाटुषु प्रेयोलंकारस्य वाक्यार्थवेऽपि रसादयोऽङ्गभूता दृश्यन्त इतीदमेकं वाक्यम् । भामहेन हि गुरुदेव पंतिपुत्रविषयप्रीतिवर्णनं प्रेयोलंकार इत्युक्तम् । तत्र प्रेयानलंकारो यत्र स प्रेयोलंकारोऽप्युक्तोऽलंकरणीय इहोक्तः । तत्र न बैलंकारस्य वाक्यार्थत्वमुक्तम् । यदिवा वाक्यार्थलं प्रधानलम् । १. 'शब्दालंकारा अर्थालंकारा गुणाश्च' क-ख. २. 'अन्यैः' ग-पुस्तके नास्ति. ३. 'ये' ग-पुस्तके नास्ति. ४. "विषयाः' ग. ५. 'मामकः' ग. १. 'वा भवति' क-ख. २. 'मुख्यमर्थमिति' ग. ३. 'वृत्तिकारः' ग-पुस्तके नास्ति. ४. 'तथापीति' ग. ५. 'इति' क-ख-पुस्तकयो स्ति. ६. 'संगतं' ग. ७. 'अधिभूता' ग. ८. 'ते-Sङ्गभूतः' क-ख-पुस्तकयो स्ति. ९. 'तु' क-ख-पुस्तकयो स्ति. १०. 'नृपविषय' क-ख. ११. 'ऽप्युक्तो' ग-पुस्तके नास्ति. १२. 'तत्र' ग-पुस्तके नास्ति. १३. 'अलंकारवाक्यार्थलम्' ग. Page #81 -------------------------------------------------------------------------- ________________ ૦૨ काव्यमाला | स च रसादिरलंकारः शुद्धः संकीर्णो वा । तत्राद्यो यथा'किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति ते' वदन्प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्त बाहुवलयस्तारं रिपुस्त्रीजनः ॥' चमत्कारकारितेति यावत् । उद्भटमतानुसारिणस्तु भेक्वा व्याचक्षते । चाटुषु चाटुविषये वाक्यार्थत्वे चौटूनां वाक्यार्थले प्रेयोलंकारस्यापि विषय इति पूर्वेण संबन्धः । उद्भटमते हि भावालंकार एव प्रेर्ये इत्युक्तः । प्रेम्णा भावानामुपलक्षणात् । न केवलं रसवदलंकारस्य विषयः यावत्प्रेर्यैःप्रभृतेरपीत्यपिशब्दार्थः । रसवच्छब्देन प्रेयः शब्देन च सर्व एव रसवदलंकार उपलक्षितः । तदेवाह – रसादयोऽङ्गभूता दृश्यन्त इति । स चेति । उक्तविषय इति शेषः । शुद्ध इति । रसान्तरेणाङ्गभूतेनलंकारान्तरेण न मिश्रः । अमिश्रत्सु संकीर्णः । उदाहरति - ( किमिति । ) स्वैप्रस्यानुभूतसदृशत्वेन भवनमिति हसन्नेव प्रियतमः स्वप्नेऽवलोकितः । न मे प्रयास्यसि पुनरिति । इदानीं त्वां विदितशठभावं बाहुपाशबन्धान्न मोक्ष्यामि । अत एव रिक्त बाहुवलय इति । स्वीकृतस्य चोपालम्भो युक्त इत्याह-केयं निष्करुणेति । केनासीति । गोत्रस्खेलनादावपि न मया कदाचित्खेदितोऽसि । स्वप्नान्तेषु स्वप्नायितेषु सुप्तप्रलपितेषु पुनः पुनरुद्भूततया बहुष्विति वदन्युष्माकं संबन्धी रिपुस्त्रीजनः प्रियतमे विशेषेणासक्तः कण्ठग्रहो येन तादृश एव सन्बुद्ध्वा शून्यवलयाकारीकृतबाहुपाशः संस्तारं मुक्तकण्ठं रोदितीति । अत्र शोकस्थायिभावेन स्वप्नदर्शनोद्दीपितेन करुणरसेन चर्व्यमाणेन सुन्दरीभूतो नरपतिप्रभावो भातीति कैरुणः शुद्ध एवालंकारः । नहि त्वया रिपवो हता इति यादृगनलंकृतोऽयं वाक्यार्थस्तादृगयम्, अपि 'तु सुन्दरीभूतः । अत्रार्थसौन्दर्यं च करुणरसकृतमेवेति । चन्द्रादिना वस्तुना तथा वस्त्वन्तरं वदनाद्यलंक्रियते तदुपमितत्वेन चारुतयावभासात् । १. 'वो' क- ख. १. 'औद्भट' ग. २. 'भक्त्या' ग. ३. 'चाटूनां वाक्यार्थले ' ग-पुस्तके नास्ति. ४. 'प्रेयस्वी' ग. ५. 'उपलक्षणत्वात् ' क ख ६. 'प्रेयखिप्रभृते' ग. ७. 'रसाधलंकारा उपलक्षिताः' ग. ८. 'दृश्यन्ते' ग-पुस्तके नास्ति. ९. 'अलंकारेण' क-ख. १०. ‘मिश्रवस्तुसंकीर्णः' ग. ११. 'स्वप्नस्याङ्गभूत' क-ख. १२. 'स्खलितादावपि कदाचिन्मया' ग. १३. ‘सुप्त' क-ख-पुस्तकयोर्नास्ति. १४. 'पुनर्भूत' क ख १५. 'करु' णस्तु' ग. १६. ‘अपि सुन्दरीभूतो वाक्यार्थः । सौन्दर्यं च करुणस्य कृतमेव' ग. Page #82 -------------------------------------------------------------------------- ________________ २ उपयोतः] ध्वन्यालोकः। इत्यत्र करुणरसस्य शुद्धस्याङ्गभावात्स्पष्टमेव रसवदलंकारत्वम् । एवमेवंविधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः । संकीर्णो रसादिरङ्गभूतो यथा'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृहन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलामिः __ कामीवा पराधः स दहतु दुरितं शांभवो वः शरामिः ॥' इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्याविप्रलम्भस्य श्लेषसहितस्याङ्गभाव इत्येवंविध एव रेसवदाद्यलंकारस्य न्याय्यो विषयः । तथा रसेनापि वस्तु वा रसान्तरं वोपैस्कृतं सुन्दरं भाति । इति रसस्यापि वस्तुन इवालंकारले को विरोधः । ननु रसेन किं कुर्वता कृतोऽर्थोऽलंक्रियते । तर्हि उपमयापि किं कुर्वत्यालंक्रियेत । ननु तयोपमीयते प्रस्तुतोऽर्थः । रसेनापि तर्हि सरसीक्रियते सोऽर्थ इति स्वसंवेद्यमेतत् । तेन यत्केचिदचूचुदन् 'अत्र रसेन विभावादीनां मध्ये किमलंक्रियते' इति तदनभ्युपगमपराहतम् । प्रस्तुतार्थस्यालंकार्यत्वेनाभिधानात् । अस्यार्थस्य भूयसा लक्ष्ये सद्भाव इति दर्शयति-एवमिति । यत्र राजादेः प्रभावख्यापनं तादृश इत्यर्थः । संकीर्णरसाद्यलंकारमुदाहरति-क्षिप्त इति । कामिपक्षेऽनादृतः, इतरत्र धुतः । अवधूत इति न प्रतीप्सितः प्रत्यालिङ्गनेन, इतरत्र सर्वाङ्गधूननेन विशेरारूकृतः । साश्रुत्वमेकत्रेjया अन्यत्र निष्प्रत्याशतया । कामीवेत्यनेनोपमानेन श्लेषानुगृहीतेनेाविप्रलम्भो ये आकृष्टस्तस्य श्लेषोपमासहितस्याङ्गत्वम् , न केवलस्य । यद्यत्र करुणो रसो वास्तवोऽप्यस्ति तथापि स तच्चारुवप्रतीतौ न व्याप्रियत १. 'शुद्धस्य' ग-पुस्तके नास्ति. २. 'संकीर्णे' क-ख. ३. 'तश्चा' ग. ४. 'आदधानो' क-ख. ५. 'रसवदलंकारस्य' ग. १. 'अतथा' ग. २. 'वस्तुना रसान्तर' ख. ३. 'वा' क-ख-पुस्तकयो स्ति. ४. 'किं' क-ख पुस्तकयो स्ति. ५. 'प्रस्तुतो' ग. ६. 'क्रियते' क-ख. ७. 'प्रस्तुतोऽर्थः' क-ख पुस्तकयो स्ति. ८. 'अत्र' क-ख-पुस्तकयो स्ति. ९. 'इति' गपुस्तके नास्ति. १०. 'तदभ्युपगम' क-ख. ११. 'अलंकारत्वेन' क-ख. १२. 'भूयसार्थसद्भावः' क-ख. १३. 'अत्र' ग. १४. 'प्रभाव' क-ख-पुस्तकयो स्ति. १५. 'संकी-रति' ग-पुस्तके नास्ति. १६. 'द्रुतः' ख, 'भूतः' ग. १७. “विशरारुकः' ग. १८. 'य आकृ-केवलस्य' ग-पुस्तके नास्ति. Page #83 -------------------------------------------------------------------------- ________________ ७४ काव्यमान। अत एव चेाविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानासमावेशो न दोषः । यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलंकारत्वम् । अलंकारो हि चारुत्वहेतुः प्रसिद्धः । न त्वसावात्मैवात्मनश्वारुत्वहेतुः । तथा चायमत्र संक्षेपः'रसभावादितात्पर्यमाश्रित्य विनिवेशनम् । अलंकृतीनां सर्वासामलंकारत्वसाधनम् ॥६॥ तस्माद्यत्र रसादयो वाक्यार्थीभूताः सर्वे ते न रसादेरलंकारस्य वा विषयाः स ध्वनेः प्रभेदः। तस्योपमादयोऽलंकाराः । यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते स रसादेरेलंकारताया विषयः। इत्यनेनाभिप्रायेण श्लेषसहितस्येत्येतावदेवावोचत् । न तु करुणसहितस्येत्यपि । एतमर्थमपूर्वतयोत्प्रेक्षितं द्रढीकर्तुमाह-अत एवेति । यतोऽत्र विप्रलम्भस्यालंकारत्वं न तु वाक्यार्थता अतो हेतोरित्यर्थः । न दोष इति । यदि ह्यन्यतरस्य रेसादेः प्राधान्यमभविष्यन्न द्वितीयो रसः समाविशेत् । रतिस्थायिभावत्वेन तु सापेक्षभावो विप्रलम्भः । से च शोकस्थायिभावत्वेन निरपेक्षभावस्य करुणस्य विरुद्ध एव । एवमलंकारशब्दप्रसङ्गेन समावेशं प्रसाध्य एवंविध एवेति यदुक्तं तत्रैवकारस्याभिप्रायं व्याचष्टे-यत्र हीति । सर्वासामुपमादीनाम् । अयं भावः-उपमादीनामलंकारत्वे यादृशी वार्ता ताहश्येव रसादीनाम् । तदवश्यमनेनालंकार्येण भवितव्यम् । तच्च यद्यपि वस्तुमात्रमपि भवति तथापि तस्य पुनरपि विभावादिरूपतात्पर्यावसानाद्रसादितात्पर्यमेवेति सर्वत्र रस. ध्वनेरेवात्मभावः । तदुक्तं-रसभावादितात्पर्यमिति । तस्येति प्रधानस्यात्मभूतस्य । एतदुक्तं भवति–उपमया यद्यपि वाच्योऽर्थोऽलंक्रियते तथापि तस्य तदेवीलंकरणं यद्य १. 'समावेशे' क-ख. २. 'चारुत्वे सिद्धिहेतुः' क-ख. ३. 'न खात्मैवात्मनः । तथा' क-ख. ४. 'तथायमत्र' ग. ५. 'विनिवेशितम्' क-ख. ६. 'सर्वे-विषयाः' क-ख-पुस्तकयो स्ति. ७. 'तु' क-ख-पुस्तकयो स्ति. ८. 'अर्थान्तरवाक्यार्थी' क-ख. ९. 'अलंकारताविषयः' क-ख. १. 'एवंविध एवेति' ग. २. 'ततो' क-ख. ३. 'रसादेः' ग-पुस्तके नास्ति. ४. 'तु' क-ख-पुस्तकयो स्ति. ५. 'स च' क-ख-पुस्तकयो स्ति. ६. 'सर्वासामित्युपमा' ग. ७. 'वाक्' ग. ८. 'तत्र' ग. ९. 'तस्य' क-ख-पुस्तकयो स्ति. १०. 'तदेवालंकरणीयं व्यङ्गयार्था' क-ख. Page #84 -------------------------------------------------------------------------- ________________ २ उक्ष्योतः] ध्वन्यालोकः। . एवं ध्वनेरुपमादीनां रसवदलंकारस्य च विभक्तविषयता भवति । यदि तु चेतनानां वाक्यार्थीभावो रसायलंकारस्य विषय इत्युच्यते तैयु झ्यार्थाभिव्यञ्जनसामर्थ्याधानमिति । वस्तुतो ध्वन्यात्मैवालंकार्यः । कटककेयूरादिभिरपि हि शरीरसमवायिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मतयालंकियते । तथाह्यचेतनं शवशरीरं कुण्डलायुपेतमपि न भाति । अलंकार्यस्याभावात् । यतिशरीरं कटकादियुक्तं हास्यावहं भवति । अलंकार्यस्यानौचित्यात् । न च देहस्य किंचिदनौचित्यमिति वस्तुत आत्मैवालंकार्यः । अहमलंकृत इत्यभिमानात् । रसादेरलंकारताया इति व्यधिकरणषष्ठ्यौ । रसादेर्यालंकारता तस्याः स एव विषयः । एतदनुसारेणैव पूर्वत्रापि वाक्ये योज्यम् । रसादिकर्तृकस्यालंकरणक्रियात्मनो विषय इति । एपमिति । अस्मदुक्तेन विषयविभागेनेत्यर्थः । यत्र रसस्यालंकार्यता रसान्तरं चाङ्गभूतं नास्ति तत्र शुद्धा एवोपमादयः । तेन सृष्ट्या नोपमादीनां विषयापहार इति भावः । रसवदलंकारस्य चेति । अनेन भावाद्यलंकारा अपि प्रेयस्व्यूर्जखिसैमाहितादयो गृह्यन्ते । तंत्र भावालंकारस्य शुद्धस्योदाहरणं यथा-'तव शतपत्रपत्रमृदुताम्रतलश्वरणश्चलकलहंसनूपुरकलध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतामयमम्ब गतः ॥' इत्यत्र देवतास्तोत्रे वाक्यार्थीभूते वितर्कविस्मयादिभावस्य चारुत्वहेतुतेति तस्याङ्गलाद्भावालंकारस्य विषयः । रसाभासस्यालंकारता यथा ममैव स्तोत्रे–'समस्तगुणसंपदः सममलंक्रियाणां गुणैर्भवन्ति यदि भूषणं तव तथापि नो शोभसे । शिवं हृदयवल्लभं यदि यथा तथा रजयेस्तदेव ननु वाणि ते जगति सर्वलोकोत्तरम् ॥' अत्र हि परमेशस्तुतिमात्रं वाचः परमोपादेयमिति वाक्यार्थे शृङ्गाराभासश्चारुखहेतुः श्लेषसहितः । नॅह्ययं पूर्णः शृङ्गारो नायिकाया निर्गुणत्वे निरलंकारत्वे च भवति । 'उत्तमयुवप्रकृतिरुज्ज्वलवेषात्मकः' इति चाभिधानात् । भावाभासाङ्गता यथा-'स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः खकान्तानयनोत्पलेषु ॥' अत्र रौद्रप्रभृतीनामनुचितस्त्रासो भगवत्प्रभावकारणकृत इति भावाभासः । एवं तत्प्रशमस्याङ्गलमुदाहार्यम् । मे मतिरित्यनेन यत्परमतं सूचितं तदूषणमुपन्यस्यति-यदीत्यादिना । परस्य चायमाशयः-अचेतनानां चित्तवृत्तिरूपरसाद्यसंभवात्तद्वर्णनेन रसवदलंकारस्यानाशयखात्तद्विभक्त एवोपमादीनां विषय १. 'विविक्त' ग. २. 'इति' ग-पुस्तके नास्ति. ३. 'तदुपमा क-ख. १. 'दानमिति' क-ख. २. 'सूचनायात्मतया' क-ख. ३. 'समाहितलक्षणादयो' ग. ४. 'तत्र' ग-पुस्तके नास्ति. ५. 'रव' क-ख. ६. 'कस्य' ग. ७. 'न हृदयं' क-ख. ८. 'पूर्वः' ग. ९. 'तद्वर्णने रसवदायलंकारस्य' ग. Page #85 -------------------------------------------------------------------------- ________________ काव्यमाला। पमादीनां प्रविरलविषयता निर्विषयता वाभिहिता स्यात् । तस्मादचेतनवस्तुवृत्ते वाक्यार्थीभूते पुनश्चेतनवस्तुवृत्तान्तयोजनया यथाकथंचिद्भवितव्यम् । अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नासौ रसवदलंकारस्य विषय इत्युच्यते । ननु महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्व. मभिहितं स्यात् । यथा 'तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरैशना .. विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् । यथाविद्धं याति स्खलितमभिसंधाय बहुशो नंदीरूपेणेयं ध्रुवमसहना सा परिणता ॥' यथा वा'तन्वी मेघजलाईपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः खकालविरहाद्विश्रान्तपुष्पोद्मा। इति । एतद्दषयति-तहीति । तस्माद्वचनाद्धेतोरित्यर्थः । नन्वचेतनवर्णनं विषय इत्युक्तमित्याशय हेतुमाह-यस्मादिति । यथाकथंचिदिति विभावादिरूपतया । तस्यामिति । चेदनवृत्तान्तयोजनायाम् । नीरसत्वमिति । यत्र हि रसस्तत्रावश्यं रसवदलंकार इति पैरमतम् । ततो न रसवदलंकारश्चन्नूनं तत्र रसो नास्तीति परमताभिप्रायान्नीरसत्वमुक्तम् । न वस्माकं रसवदलंकाराभावे नीरसत्वम् । अपि तु ध्वन्यात्मभूतरसाभावे । तादृसोऽत्रास्त्येव । परपक्षदूषणायोदाहरति-यथा-तरङ्गेति । तरङ्गा एव भ्रूभङ्गा यस्याः । विकर्षन्ती विलम्बमानं बलादाक्षिपन्ती । वसनमंशुकम् । प्रियतमावलम्बननिषेधायेति भावः । बहुशो यत्स्खलितं येऽपराधास्तानभिसंधाय हृदयेनैकीकृत्यासहमाना मानिनीत्यर्थः । अथ च मद्वियोगपश्चात्तापासहिष्णुस्तापशान्तये नदीभावं गतेति । तन्वीति । वियोगकृशाप्यनुतप्ता चाभरणानि त्यजति । खकालो वसन्तग्रीध्मप्रायः । उपायचिन्तनाथ मौनं किमिति पादपतितमपि दयितमवधूतवत्यहमिति च १. 'वृत्तान्ते' क-ख. २. 'वृत्तान्त' क-ख-पुस्तकयो स्ति. ३. 'नयना' क-ख. ४. 'नदीभावेन' क-ख. १. 'तदिति' क-ख. २. 'ननु चेतन' क-ख. ३. 'नीरसत्वमिति' क-ख-पुस्तकयो स्ति. ४. 'परस्य' क-ख. ५. 'परमताभिप्रायं' क-ख. ६. 'रसो नास्त्येव' क-ख. ७. 'पर-तरङ्गेति' ग-पुस्तके नास्ति. ८. 'विरोधाः' ग. ९. 'तत्तदभि' क-ख. १०. 'उपायचिन्ता तन्मौनं चिन्तामौनं' ग. Page #86 -------------------------------------------------------------------------- ________________ ७७ २ उक्ष्योतः] ध्वन्यालोकः। चिन्तामौनमिवाश्रिता मधुकृतां शब्दैविना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥' यथा वा'तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥' इत्येवमादौ विषयेऽचेतनानां वाक्यार्थीभावेऽपि चेतैनवस्तुवृत्तान्तयोजनास्त्येव । अर्थ यत्र चेतनवस्तुवृत्तान्तयोजनास्ति तत्र रसादिरलंकारः। चिन्तया मौनम् । चण्डी कोपना । एतौ श्लोको नदीलतावर्णनपरौ तात्पर्येण पुरूरवस उन्मादाक्रान्तस्योक्तिरूपौ। यथा वा-तेषामिति । हे भद्र, तेषामिति ये ममैव हृदये स्थितास्तेषाम् । गोपवधूनां गोपीनां ये विलाससुहृदो नर्मसचिवास्तेषाम् । प्रच्छन्नानुरागिणीनां हि नान्यो नर्मसुहृद्भवति । राधायाश्च सातिशयं प्रेमस्थानमित्याह-राधासंभोगानां ये साक्षाद्रष्टारः कलिन्दशैलतनया यमुना तस्यास्तीरे लतागृहाणां क्षेमं कुशलमिति काक्का प्रश्नः । एवं तं पृष्ट्वा गोपदर्शनप्रबुद्धसंस्कार आलम्बनोद्दीपनविभावस्मरणात्प्रबुद्धरतिभावमात्मगतमौत्सुक्यगर्भमाह द्वारकागतो भगवान्कृष्णः-स्मरतल्पस्य मदनशय्यायाः कल्पनार्थ मृदु सुकुमारं कृत्वा यश्छेदत्रोटनं स एवोपयोगः साफल्यम् । अथवा स्मरतल्पे यत्कल्पनं क्लुप्तिः स एव मृदुः सुकुमार उत्कृष्टश्छेदोपयोगस्त्रोटनफलंतस्मिन्विच्छिन्ने । मय्यनासीने का स्मरतल्पकल्पनेति भावः । अत एव परस्परानुरागनिश्चयगर्भमेवाह-ते जान इति । वाक्यार्थस्यात्र कर्मलम् । अधुना जरठीभवन्तीति । मयि तु संनिहितेऽनवरतकलिकोपयोगान्नेमे जीर्णताखलीकारं कदाचिदवाप्नुवन्तीति भावः । विगलन्ती नीला विज्येषामित्यनेन कतिपयकालप्रोषितस्याप्यौत्सुक्यनिर्भरवं ध्वनितम् । एवमात्मगतेयमुक्तिर्यदिवा गोपं प्रत्येव संप्रधारणोक्तिः । बहुभिरुदाहरणैर्महतो भूयसः प्रबन्धस्येति यदुक्तं तत्सूचितम् । अथेत्यादि । नीरसलमत्र मा भूदित्यभिप्रा ___१. 'दृश्यते' ग. २. 'यथा वा' ग-पुस्तके नास्ति. ३. 'सचेतन' क-ख. ४. 'अत्र यत्र' ग. १. 'राधा च सातिशयप्रेम' क-ख. २. 'कथं' ग. ३. 'त' ग-पुस्तके नास्ति. ४. 'कथितोपयोगान्ते मार्यो जीर्णता' क-ख. ५. 'नीरसत्वमानं' क-ख. ८ ध्व० लो. Page #87 -------------------------------------------------------------------------- ________________ काव्यमाला। तदेवं सत्युपमादयो निर्विषयाः प्रविरलविषया वा स्युः । यस्मानास्त्येवासावचेतनवस्तुवृत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजना नास्त्यन्ततो विभावत्वेन । तस्मादङ्गत्वेन च रसादीनामलंकारता । यः पुनरङ्गी रसो भावो वा सर्वाकारमलंकार्यः स ध्वनेरात्मेति । किंच। 'तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः। अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटकादिवत् ॥ ७॥ ये तमर्थ रसादिलक्षणमङ्गिनं सन्तमवलम्बन्ते ते गुणाः शौर्यादिवत् । वाच्यवाचकलक्षणान्यङ्गानि ये ऍनराश्रितास्तेऽलंकारा मन्तव्याः । कटकादिवदिति । येणेति शेषः । ननु यत्र चेतनवस्तुवृत्तस्य सर्वथा नानुप्रवेशः स उपमादेविषयो भविष्यतीत्याशयाह-यमादित्यादि । स्तम्भपुलकायचेतनमपि वर्ण्यमानर्मनुभावत्वाचेतनमाक्षिपत्येव । तावत्किमत्रोच्यते । अतिजडोऽपि चन्द्रोद्यानमृतिस्त्वविश्रान्तोऽपि वर्ण्यमानोऽवश्यं चित्तवृत्तिविभावतां त्यक्त्वा काव्येऽनाख्येय एव स्यात् । शास्त्रेतिहासयोरपि वा। एवं परमतं दूषयिता खमतमेव प्रत्याम्नायोपसंहरति-तस्मादिति । यतः पैरोको विषयविभागो न युक्त इत्यर्थः । यः पुनरिति । भावो वेति । भावग्रहणात्तदाभास. तत्प्रशमादयः । सर्वाकारमिति क्रियाविशेषणम् । तेन सर्वप्रकारमित्यर्थः । अलंकार्य इत्यत्रैव, नालंकार इति भावः । अलंकार्यव्यतिरिक्तश्चालंकारोऽभ्युपगन्तव्यः । लोके तथासिद्धत्वात् । यथा गुणिव्यतिरिको गुणः । गुणालंकारव्यवहारश्च गुणिन्यलंकार्ये च सति । स चास्मत्पक्ष एवोपपन्न इत्यभिप्रायेणाह-किं चेत्यादि । न केवलमेतावद्युक्तिजातं रसस्याङ्गिले यावदन्यदपीति समुच्चयार्थः । तमर्थमिति । कौरिकाप्यभिप्रायद्वयेनैव योज्या । न केवलं प्रथमाभिप्राये प्रथमकोरिकार्थदृष्टान्ताभिप्रायेण व्याख्येयम् । एवं ऋत्तिग्रन्थोऽपि योज्यः । ननु शब्दार्थयोर्माधुर्यादयो गुणातत्कथमुक्तं रसादिकमङ्गिनं १. "विभातलेन' क-ख. २. 'तस्मादङ्गलेन च' ग-पुस्तके नास्ति. ३. 'योगिनं ते गुणाश्रिताः' ग. ४. 'पुनस्तदाश्रिताः' ग. ५. 'कुण्डलादिवदिति' ग. १. 'चेतनवृत्तस्य' ग. १. अनुभवत्वाचेतनमाक्षिपतीत्येव तावदत्र किमुच्यते' क-ख. ३. 'प्रभृतिखविश्रान्ती' क-ख. ४. 'विभावनां' क-ख. ५. 'इति वा' क-ख. ६. 'परोक्ते' क-ख. ७. 'यः पुनरिति' ग-पुस्तके नास्ति. ८. 'वाग्रहणात्' क-ख. ९. 'अभिप्रायद्वयेनाह' ग. १०. 'तमर्थमिति' ग-पुस्तके नास्ति. ११. 'कारिकेयमभिप्रायद्वारेणैव' क-ख. १२. 'कारिकापूर्वदृष्टा' क-ख. १३. 'ननु चकख. Page #88 -------------------------------------------------------------------------- ________________ २ उझोतः] ध्वन्यालोकः। तथा च'शृङ्गार एव मधुरः परः प्रह्लादनो रसः। तैन्मयं काव्यमाश्रित्य माधुर्य प्रतितिष्ठति ॥८॥ शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लादहेतुत्वात्प्रकाशनपरः । शब्दार्थयोः काव्यस्य स माधुर्यलक्षणो गुणः। श्रेव्यत्वं पुनरोजसोऽपि साधारणमिति। 'शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् । माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ॥९॥ गुणा आश्रिता इत्याशयाह-तथा चेत्यादि । तेन वक्ष्यमाणेन बुद्धिस्थेन परिहार प्रकारेणोपपद्यते चैतदित्यर्थः । शृङ्गार एवेति । मधुर इत्यत्र हेतुमाह-परः प्रह्लादन इति । रतौ हि समस्तदेवतिर्यकरादिजातिष्वविच्छिन्नैव वासनास्त इति न कश्चित्तंत्र तादृग्यो न हृदयसंवादमयः। रतेरपि हि तचमत्कारोऽस्त्येव । अत एव मधुर इत्युक्तः । मधुरो हि शर्करादिरसो विवेकिनो वा स्वस्थस्यातुरस्य वा झटिति रसनानिपतितस्तावदभिलषणीय एव भवति । तन्मयमिति । स शृङ्गार आत्मलेन प्रकृतो यत्र व्यङ्ग्यतया । काव्यमिति । शब्दार्थावित्यर्थः । प्रतितिष्ठतीति । प्रतिष्ठां गच्छतीति यावत् । एतदुक्तं भवति-वस्तुतो माधुर्य नाम शृङ्गारादे रसस्यैव गुणः । तन्मधुराभिव्यञ्जकयोः शब्दार्थयोरुपचरितम् । मधुरशृङ्गाररसाभिव्यक्तिसमर्थता शब्दार्थयोर्माधुर्यमिति हि लक्षणम् । तस्माद्युक्तमुक्तं तमर्थमित्यादि । कारिकार्थ वृत्त्याह-शङ्गार इति । ननु 'श्रव्यं नातिसमस्तशब्दार्थ मधुरमिष्यते' इति माधुर्यस्य लक्षणं नेत्याह-श्रव्यत्वमिति । सर्व लक्षणमुपलक्षितम् । ओजसोऽपीति । 'यो यः शस्त्रं' इत्यत्र हि श्रव्यत्वमसमस्तख चास्त्येवेति भावः । संभोगशृङ्गारान्मधुरतरो विप्रलम्भः ततोऽपि मधुरतमः करुण इति तदभिव्यजनकौशलं शब्दार्थयोर्मधुरतरमधुरतमत्वं चेत्यभिप्रायेणाह-शृङ्गार इत्या. दि । करुणे चेति चशब्दः क्रममाह । प्रकर्षवदिति । उत्तरोत्तरं तरतमयोगेनेति १. 'यथा च' क. २. 'एको' ग. ३. 'तद्भूयं' ग. ४. 'शब्दार्थतया' ग. ५. 'श्राव्यवं' ग. ६. 'मतः' ग. १. 'यथा च' क. २. 'उपपद्यत एव चेत्यर्थः' ग. ३. 'शृङ्गार एवेति' क-खपुस्तकयोनोस्ति. ४. 'जातिषु च्छन्नव' क-ख. ५. "किंचित्तंत्र' क-ख. ६. 'एव' क-खपुस्तकयोनास्ति. ७. 'उपचित्तं माधुर्यम्' क-ख. ८. 'तल्लक्षणम्' क-ख. ९. 'कारिका-इति' ग-पुस्तके नास्ति. १०. 'सकलं' ग. ११. 'समस्तवं चास्ति वेति' क-ख. १२. 'इत्यर्थः' क-ख. Page #89 -------------------------------------------------------------------------- ________________ काव्यमाला । विप्रलम्भशृङ्गारकरुणयोस्तु माधुर्यमेव प्रकर्षवत् । सहृदयहृदयावर्ज - १ ८० नातिशयनिमित्तत्वादिति । 'रौद्रादयो रसा दीया लक्ष्यन्ते काव्यवर्तिनः । तद्व्यक्तिहेतू शब्दार्थावाश्रित्योजो व्यवस्थितम् ॥ १० ॥' रौद्रादयो हि रसाः परां दीप्तिमुज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिरित्युच्यते । तत्प्रकाशनपरः शब्दो दीर्घसमासरचनालंकृतं वाक्यम् । यथा - 'चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावबद्धघनशोणितशोणपाणि रुतंसयिष्यति कचांस्तव देवि भीमः ॥' भावः । आर्द्रतामिति । सहृदयस्य चेतः स्वाभाविकमना विष्टत्वात्मकं काठिन्यक्रोधादिदीप्तरूपं विस्मयहासादिरागित्वं च त्यजतीत्यर्थः । अधिकमिति । क्रमेणेत्याशयः । तेन करुणेऽपि सर्वथैव चित्तं द्रवतीत्युक्तं भवति । ननु करुणेऽपि यदि मधुरिमास्ति तर्हि पूर्व कारिकायां शृङ्गार एवेत्येवकारः किमर्थः । उच्यतेनानेन रसान्तरं व्यवच्छिद्यते । अपि त्वात्मभूतस्य रसस्यैव परमार्थतो गुणा माधुर्यादयः, उपचारेण तु शब्दार्थयोरित्येवकारेण द्योत्यते । वृत्त्यार्थमाह – विप्रलम्भेति । रौद्रेत्यादि । आदिशब्दः प्रकारे । तेन वीराद्भुतयोरपि ग्रहणम् । दीप्तिः प्रतिपत्तुर्हृदये विभासविस्तार प्रज्वलत्खभावा । सा च मुख्यतया ओजैः शब्दवाच्या । तदाखादमया रौद्रायास्तया दीप्त्याखादविशेषात्मिकया कार्यरूपया लक्ष्यन्ते रसान्तरात्पृथक्तया । तेन कारणे कार्योपचाराद्रौ - द्रादिरेवौर्जंःशब्दवाच्यः । ततो लक्षितलक्षणया तत्प्रकाशनपरः शब्दो दीर्घसमासरचनवाक्यरूपोऽपि दीप्तिरित्युच्यते । उदाहरति-यथा चञ्चदिति । चञ्चद्भयां वेगादावर्तमानाभ्यां भुजाभ्यां भ्रमिता येर्य चण्डा दारुणा गदा तया योऽभिंतः सर्वत ऊर्वो १. ‘इति’ ग-पुस्तके नास्ति २. 'दीप्ता' क ख ३. 'लक्षणया त एव' क-ख-पुस्तकयोर्नास्ति. १. 'काठिन्यमत्क्रोधादि' क ख २. 'विकास' क ख ३. 'तेजः' क- ख. ४. 'विशेषात्मतया 'क. ५. 'कारणेन कार्येऽपि च रौद्रा' क ख ६. 'तेजः' क- ख. ७. ‘शब्दो' क-ख पुस्तकयोर्नास्ति. ८. 'येयं' क-ख- पुस्तकयोर्नास्ति ९. ' योऽभिभूतः सर्वत' क- ख, 'योऽभिधातः संतत' ग. Page #90 -------------------------------------------------------------------------- ________________ २ उझ्योतः] ध्वन्यालोकः । तत्प्रकाशनपरश्वार्थोऽनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयः । यथा'यो यः शस्त्रं बिभर्ति खभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशययां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य खयमपि जगतामन्तकस्यान्तकोऽहम् ॥' इत्यादी द्वयोरोजस्त्वम् । _तस्तेन सम्यक् चूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनाश्यानतया न तु कालान्तरशुष्कतयावबद्धं हस्ताभ्यामविगैलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य सः । अत एव भीमः कातरत्रासदायी। तवेति । यस्यास्तत्तदपमानजातं कृतं देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यत्युत्तंसवतः करिष्यतीति वेणीलमपहरन्करविधृतशोणितशकलैर्लोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । देवीत्यनेन कुलकलत्रखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति नात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमात् । स च संचूर्णितोरुत्वादेव । स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने खरा सूचिता । समासेन च संततवेगवहनखभावात् तावत्येव मध्ये विश्रान्तिमलभमाना चूर्णितोरुद्वयसुयोधनानादरणपर्यन्ता प्रतीतिरेकैखेनैव भवतीत्यौद्धत्यस्य परं परिपोषिका । अन्ये तु सुयोधनस्य संबन्धि यत्स्त्यानावबद्धं घनं शोणितं तेन शोणपाणिरिति व्याचक्षते। तत्प्रकाशनपरश्वार्थः प्रसन्नैर्गमकैर्वाचकैरमिधीयमानः समासानपेक्ष्यपि दीप्तिरुच्यते। उदाहरति—य इति । खभुजयोर्गुरुर्मदो यस्य चमूनां मध्येऽर्जुनादिरित्यर्थः । पाञ्चालराजपुत्रेण धृष्टद्युम्नेन द्रोणस्य व्यापादनातंत्कुलं प्रत्यधिकः क्रोधावेशोऽश्वत्थाम्नः । तत्कर्मसाक्षीति कर्णप्रभृतिः । रणे सङ्ग्रामे कर्तव्ये यो मयि मद्विषये प्रतीपं चरति समरविघ्नमाचरति । यद्वा मयि चरति सति सङ्ग्रामे यः प्रतीपं प्रतिकूलं कृखास्ते स एवंविधो यदि सकलजगदन्तको भवति तस्याप्यहमन्तकः किमुतान्यमनुष्यस्य देवस्य वा । अत्र पृथग्भूतैरेव क्रमाद्विमृष्यमाणैरथैः पैदात्पदं क्रोधः पैरों १. 'तत्प्रकाशितश्चार्थो' क-ख. २. 'चलति' क-ख. ३. 'तयोः' ग. - १. 'चलद्रूप' क-ख. २. 'विच्युतशोणितशकलेन' ग. ३. 'देवीत्यत्र' क-ख. ४. 'अनुमानात्' ख, 'अनुद्यमः' ग. ५. 'एका घनैव' क. ६. 'औद्धत्यपरिपोषकाः' क-ख. ७. 'तत्-र्थः' क-ख-पुस्तकयो स्ति. ८. 'समासमनपेक्ष्यापि' ग. ९. 'तं प्रति' क-ख. १०. 'चलति' क-ख. ११. 'सति' क-ख-पुस्तकयो स्ति. १२. 'मानुषस्य ग. १३. 'अर्थैः' क-ख-पुस्तकयो स्ति. १४. 'पादात्पादे क्रोधात्परां' क-ख. १५. 'परां दीप्तिं गतः' ग. Page #91 -------------------------------------------------------------------------- ________________ काव्यमाल। 'समर्पकत्वं काव्यस्य यत्तु सर्वरसान्प्रति । स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥११॥ प्रसादस्तु खच्छता शब्दार्थयोः । स च सर्वरससाधारणो गुणः सर्वरचनासाधारणश्चेति व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः । 'श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥ १२ ॥' धारामाश्रित इत्यसमस्ततैव दीप्तिनिबन्धनम् । एवं माधुर्यदीप्ती परस्परप्रतिद्वन्द्वितया स्थिते शृङ्गारादिरौद्रादिगते इति प्रदर्शकतया तत्समावेशवैचित्र्यं हास्यभयानकबीभत्सशान्तेषु दर्शितम् । हास्यस्य शृङ्गाराङ्गतया माधुर्य प्रकृष्टं विकासधर्मतया चौजोऽपि प्रकृष्टमिति साम्यं द्वयोः । भयानकस्य मग्नचित्तवृत्तिखभावत्वेऽपि विभावस्य दीप्ततया ओजः प्रकृष्टं माधुर्यमल्पम् । बीभत्सेऽप्येवम् । शान्ते तु विभाववैचित्र्यात्कदाचिदोजः प्रकृष्टं कदाचिन्माधुर्यमिति विभागः। समर्पकवं सम्यगर्पकवं हृदयसंवादेन प्रतिपत्तन्प्रति खात्मावेशेन व्यापकलम् । झगिति शुष्ककाष्ठामिदृष्टान्तेनाकलुषोदकदृष्टान्तेन च तदकालुष्यं प्रसन्नत्वं नाम सर्वरसानां गुणः । उपचारात्तु तथाविधे व्यङ्ग्येऽर्थे यच्छब्दार्थयोः समर्पकत्वं तदपि प्रसादः । तमेव व्याचष्टे-प्रसादेति । ननु रसगतो गुणस्तत्कथं शब्दार्थयोः खच्छतेत्याशझ्याह-स चेति । चशब्दोऽवधारणे । सर्वरससाधारण्यमेव गुणः । स एव च गुण एवंविधः सर्वा चेयं रचना शब्दगतार्थगता चेति समस्ता चासमस्ता च तत्र साधारणः । अर्थस्य तावत्समर्पकत्वं व्यङ्ग्यं प्रत्येव संभवति नान्यथा । शब्दस्यापि खवाच्यात्मकत्वं नाम कियदलौकिकं येन गुणः स्यादिति भावः । एवं माधुर्योजःप्रसादास्त्रयो गुणा उपपन्नाः । भामहाभिप्रायेण ते च प्रतिपन्नास्वादमया मुख्यतया तत आस्वाद्ये उपचरिता रसे ततस्तद्व्यञ्जकयोः शब्दार्थयोरिति तात्पर्यम् । एवमसत्पक्ष एव गुणालंकारव्यवहारो विभागेनोपपद्यत इति प्रदर्य नित्यानित्यदोषविभागोऽप्यस्मत्पक्ष एव संगच्छत इति दर्शयितुमाह-श्रुतिदुष्टादय इत्यादि । वान्तादयोऽप्यसभ्यस्मृतिहेतवः । श्रुतिदुष्टा अर्थदुष्टा वाक्यार्थबलादश्लीलार्थप्रतिपत्तिकारिणः । यथा-'छिन्द्रान्वेषी महांस्तब्धो घातायैवोपसर्पति' । कल्पना दुष्टा तु द्वयोः पदयोः कल्पना । यथा 'कुरु रुचिम्' इत्यत्र क्रमव्यत्यासे । श्रुतिकटुस्तु अधाक्षीत् अक्षौत्सीत् तृणेढि इत्यादि । शृङ्गार इत्युचितरसोपलक्षणार्थम् । वीरशान्ताद्भुतादावपि तेषां १. 'शब्दार्थयोरिति' क-ख. २. 'इति' ग-पुस्तके नास्ति. ३. 'मुख्यतया द्रष्टव्य' ग. १. 'तेजः' क-ख. २. 'दृष्टान्तं' ग. Page #92 -------------------------------------------------------------------------- ________________ २ उद्द्योतः ] ध्वन्यालोकः । ८३ अनित्या दोषाश्च ये श्रुतिदुष्टाद्यः सूचितास्तेऽपि न वाच्यार्थमात्रे, न च व्यजये शृङ्गारे शृङ्गारव्यतिरेकिणि वा ध्वैनेरनात्मभावे । किं तर्हि ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्गचे ते हेया इत्युदाहृताः । अन्यथा हि तेषामै नित्यदोषतैव न स्यात् । एवमैयमसंलक्ष्यक्रमो यो ध्वनेरात्मा प्रदर्शितः सामान्येन । 'तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये । तेषामानन्त्यमन्योन्यसंबन्धपरिकल्पने ॥ १३ ॥' अङ्गितया व्यजयो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां वाच्यवाचकानुपातिनामलंकाराणां ये प्रभेदा निरंवघयो ये च खगतास्तस्याङ्गिनोऽर्थस्य रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास्तेषामन्योन्यसंबन्धपरिकल्पने क्रियमाणे कस्यचिदन्यतमस्यापि रसस्य प्रकाराः परिसंख्यातुं न शक्यन्ते किमुत सर्वेषाम् । तथा हि शृङ्गारस्यैवाङ्गिनस्तावदाद्यौ द्वौ भेदौ - संभोगो विप्रलम्भश्च । संभोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः । विप्रलम्भस्याप्यभिलाषेर्ष्या विरहप्रवासविप्रलम्भादयः । तेषां च प्रत्येकं विभा १० वर्जनात् । सूचिता इति । न त्वेषां विषयविभागप्रदर्शनेनानित्यत्वं भिन्नवृत्तादिदोषेभ्यो विविक्तं प्रदर्शितम् । नापि गुणेभ्यो व्यतिरिक्तं दोषत्वम् । बीभत्सहास्य रौद्रादौ त्वेषामस्माभिरुपगमात् शृङ्गारादौ च वर्जनादनित्यत्वं समर्थितमेवेति भावः । वृत्त्यार्थं प्रकाशयति — अनित्या इति । इत्थमसंलक्ष्यक्रमव्यङ्गयं सामान्येन प्रदशर्योपसंहरन्नाह - एवमित्यादि । अङ्गानामित्यलंकाराणाम् । स्वगता इति । आत्मगताः संभोगविप्रलम्भाद्या आत्मीयविभावादिगतास्तेषां निष्ठा प्रकारेणाङ्गाङ्गिभावे का गणनेति भावः । वृत्त्यार्थ प्रकाशयति — अङ्गितयेत्यादिना । परस्परप्रेमदर्शनेति । परस्परं प्रेम्णा दर्श · १. ‘तेऽपि वाच्येऽर्थमात्रे' क- ख. २. 'ध्वन्यात्मभूते किं तर्हि' क-ख. ३. 'ये ते' क-ख. ४. ' तथाहि' ग. ५. 'अनित्यत्वदोषमेव' क ख ६. 'अयं' क-ख-पुस्त - कोर्नास्ति. ७. 'क्रमद्योतो' क- ख. ८. 'निरवयवा' ग. ९. 'शृङ्गारस्य तावदायौ " १०. 'द्वौ' क ख पुस्तकयोर्नास्ति ११. 'विरहणादि' ग. १२. ' प्रकारा लक्षणाः' क-ख. १३. ‘प्रत्येकं' ग-पुस्तके नास्ति. Page #93 -------------------------------------------------------------------------- ________________ काव्यमाला । वानुभावव्यभिचारिभेदाः । तेषां च देशकालाद्याश्रयावस्थाभेदा इति स्वगतभेदापेक्षयैव तस्यापरिमेयत्वम्, किं पुनरङ्गप्रभेदकॅल्पनया । ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गिप्रभेद संबन्धपरिकल्पने क्रियमाणे सत्यानन्त्यमेवोपयान्ति । ८४ 'दिमात्रं तूच्यते येन व्युत्पन्नानां सचेतसाम् । बुद्धिरासादितालोका सर्वत्रैव भविष्यति ॥ १४ ॥ दिङ्मात्रकेथनेन हि व्युत्पन्नानां सहृदयानामेकत्रापि रसभेदे कर्तव्ये - ऽलंकारेऽङ्गाङ्गिभावपरिज्ञानादासादितालोका बुद्धिः सर्वत्रैव भविष्यति । नमित्युपलक्षणं संभाषणादेरपि । सुरतं चातुःषष्टिकमालिङ्गनादि । विहरणमुद्यानगमनम् । आदिग्रहणेन जलक्रीडापानकचन्द्रोदयक्रीडादि । अभिलाषविप्रलम्भो द्वयोरप्यन्योन्यं जीवितं सर्वस्वाभिगमात्मिकायां रतात्पन्नायां कुतश्चिद्धेतोरप्राप्तसमागमत्वे मन्तव्यः । यथा सुखयतीति किमुत इत्यतः प्रभृति वत्सराजरत्नावल्योः, न तु पूर्वं रत्नावल्याः । तदा हि कामाभावे रत्यवस्थामात्रं तत् । ईर्ष्याविप्रलम्भः प्रणयखण्डनादिना खण्डितया सह । विरहविप्रलम्भः पुनः खण्डितायाः प्रसाद्यमानाया अपि प्रसादमगृह्णन्त्यास्ततः पश्चात्तापपरीतत्वेन विरहोत्कण्ठितया सह मन्तव्यः । प्रवास विप्रलम्भः प्रोषितभर्तृकया सहेति विभागः । प्रवासविप्रलम्भादीत्यादिशब्दग्रहणाच्छापादिकृतो विप्रलम्भ इव विप्रलम्भः । विडम्बनायां ह्यभिलाषितोऽपि विषयो न लभ्यते । एवमत्रेति । (मन्येऽपि ) । तेषां चेति । एकत्र संभोगादीनामपरत्र विभावादीनाम् । आश्रयो मलयादिमारुतादीनामिति यदुच्यते तद्देशशब्देन गतार्थम् । तस्मादाश्रयः कारणम् । यथा ममैव - 'दयितया प्रथिता स्रगियं मया हृदयधामनि नित्यनियोजिता । गलति शुष्कतयापि सुधारसं विरहृदाहरुजां परिहारकम् ॥' तस्येति शृङ्गारस्य । अङ्गिनां रसादीनां प्रमेदस्तत्संबन्धकल्पनेत्यर्थः । येनेति । दिङ्मात्रोक्तेनेत्यर्थः । सचेतसामिति । महाकवित्वं सहृदयत्वं च प्रेप्सूनामिति भावः । सर्वत्रेति । सर्वेषु रसादिष्वासादित आलोकोऽवगमः सम्यग्व्यु १. 'भेदः' ग. २. 'कालाश्रया' क-ख ३. ' मेद इति स्वगतापेक्षयैतस्य' ग. ४. ‘कल्पनायां’ ग. ५. 'कल्पनेन' ग. ६. 'रसमेदेऽङ्गाङ्गिभाव' ग. १. 'चतुष्षष्टिकां' क ख २. 'सर्वस्वामिगमनात्मिकायां' क ख ३. 'अनुत्पन्नायां' ४. 'भावादिकृतो' ग. ५. 'तदुद्देशेन' क- ख. ६. 'आश्रयकारणात् ' क-ख. ७. 'एकस्येति' ग. ८. ' रसादिना ' ग. ग. Page #94 -------------------------------------------------------------------------- ________________ २ उझ्योतः] ध्वन्यालोकः। तत्र'शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धनात् । सर्वेष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ॥१५॥ अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास्तेषु सर्वेष्वेकप्रकारानुबन्धितया प्रबन्धेन प्रवृत्तोऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्यनेनाङ्गभूतस्य शृङ्गारस्यैकरूपानुबन्ध्यनुप्रासनिबन्धने कामचारमाह । 'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥१६॥ नेरात्मभूतः शृङ्गारस्तात्पर्येण वाच्यवाचकाभ्यां प्रकाश्यमानस्तस्मिन्यमकादीनां यमकप्रकाराणां निबन्धनं दुष्करशब्दभङ्गश्लेषादीनां शक्तावपि प्रमादित्वम् । प्रमादित्वमित्यनेनैतीते-काकतालीयेन कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नालंकारान्तरवद्रसाङ्गत्वेन निबन्धो न कर्तव्य इति । विप्रलम्भे विशेषत इत्यनेन विलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन्धोत्ये यमकादेरङ्गस्य निबन्धो नियमान्न कर्तव्य 'इति । अत्र युक्तिरभिधीयते'रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् । अपृथग्यत्ननिर्वर्त्यः सोऽलंकारो ध्वनौ मतः ॥ १७ ॥ त्पत्तिर्ययेति संबन्धः । तत्रेति । वक्तव्ये दिङ्माने सतीत्यर्थः । यत्नादिति । यत्नतः क्रियमाणवादिति हेवर्थोऽभिप्रेतः । एकरूपत्वानुबन्धं त्यक्ता विचित्रानुप्रासोऽनुबध्यमानो न दोषाय । एकरूपग्रहणं वृत्त्या विवृणोति-अङ्गिन इंति । वृत्तिकारो वक्ष्यमाणकारिकाभिप्रायं दर्शयन्नाह-(अङ्गिन इति।) यमकादीत्यादिशब्दः प्रकारवाची । दुष्करेति मुरजचक्रबन्धादिः । शब्दभङ्गश्लेषेति । अर्थश्लेषो न दोषाय 'रक्तस्त्वं-' इत्यादौ । शब्दभङ्गोऽपि क्लिष्ट एव दुष्टः, न त्वंशोकसशोकादौ । युक्तिरिति । सर्वव्यापकं वस्वित्यर्थः । रसेति । रैससमवायेन विभावादिघटनामेव कुर्वस्तु नान्तरीयकतया १. 'सर्वेष्वेव प्रभेदेष्वेक' क-ख. २. 'प्रवृत्तानुप्रासो' ग. ३. 'अङ्गिरूपस्य शृङ्गारस्य' क-ख. ४. 'ध्वनेरात्मभूतः' ग-पुस्तके नास्ति. ५. 'दुष्टम् । शब्द'ग. ६. 'दृश्यते' ग. ७. 'कस्यचित्' ग-पुस्तके नास्ति. ८. 'विप्रलम्भशृङ्गारे' ग. ९. 'ख्याप्यते प्रकाश्यते' ग. १०. 'यमकस्याङ्गभूतस्य' ग. ११. 'इति' क-ख-पुस्तकयो स्ति. १२. 'तत्र' क. १. 'एकरूपं खनुबन्धं' क-ख. २. 'वशोकादौ' क-ख. ३. 'रससमाधानेन' क-ख. ४. 'कुर्वस्तेनान्तरीयक' क-ख. Page #95 -------------------------------------------------------------------------- ________________ काव्यमाला। निष्पत्तावाश्चर्यभूतोऽपि यस्यालंकारस्य रसाक्षिप्ततयैव बन्धः शक्यक्रियो भवेत्सोऽस्मिन्नलक्ष्यक्रमव्यङ्ग्ये ध्वनावलंकारो मतः । तस्यैव रसाङ्गत्वं मुख्यमित्यर्थः ।। यथा'कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृयोऽधररसः । मुहुः कण्ठे लमस्तरलयति बाष्पस्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ रैसाङ्गत्वे च तस्य लक्षणमक्षुण्णमपृथग्यत्नं निवर्त्यत इति रेसं बन्धुमध्यमसितस्य कवेरलंकारस्तां वासनामत्यूह्य यनान्तरमास्थितस्य निष्पद्यते नै रसाङ्गमिति । यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः । अलंकारान्तरेष्वपि तत्तुल्यमिति चेत् , नैवम् । अलंकारान्तराणि हि निरूप्यमाणदुर्घट यमासादयति स एवात्रालंकारो रंसमार्गे नान्यमतेन वीराद्भुतादि.........ति यमकादिकवेः प्रतिपत्तुश्च रसविघ्नकार्येव । सर्वत्र गड्डरिकाप्रवाहोपहतसहृदयधुराधिरोहणविहीनलोकावर्जनाभिप्रायेण तु मया शृङ्गारे विप्रलम्मे च विशेषत इत्युक्तमिति भावः । तथा च 'रसेऽङ्गत्वं तस्मादेषां न विद्यते' इति सामान्येन वक्ष्यति । निष्पत्ताविति । प्रतिभानुग्रहात्स्वयमेव संपत्तौ निष्पादनानपेक्षायामित्यर्थः । आश्चर्यभूत इति । कैथमेष निबद्ध इत्यद्भुतस्थानम् । उदाहरति-करकिसलयन्यस्तवदना श्वासतान्ता प्रवर्तमानबापभरनिरुद्धकण्ठी अविच्छिन्नरुदितचञ्चत्कुचतटा रोषमपरित्यजन्ती चाटूक्त्या यावत्प्रसाद्यते तावदाविप्रलम्भगतानुभावचर्वणावहितचेतस एव वक्तुः श्लेषरूपकव्यतिरेकाद्या अयत्ननिष्पन्नाश्चर्वयितुरपि न रसचर्वणाविघ्नमादधीति । अक्षुण्णमिति । व्यापकमित्यर्थः । प्रबन्धेन क्रियमाण इति संबन्धः । अत एव बुद्धिपूर्वकत्वमवश्यंभावीति बुद्धिपूर्वकशब्द उपात्तः । रससमवधानात् । अन्यो यत्नो यत्नान्तरम् । निरूप्यमाणानि सन्ति १. 'अपि' ग-पुस्तके नास्ति. २. 'साक्षितया' ख. ३. 'रसाञ्जनत्वे' क-ख. ४. 'अक्षुण्णं' ग-पुस्तके नास्ति. ५. 'रससंबन्धमध्य' ग. ६. 'कवेर्योऽलंकारः' क-ख. ७. 'स न' क-ख. ८. 'बुद्धिपूर्वके' क-ख. १. 'रसमार्गे-प्रतिपत्तुश्च' क-ख-पुस्तकयो स्ति. २. 'एषां निबन्धः' ग. ३. 'अद्भुतरसस्थानम्' क-ख. ४. 'उदाहरति' ग-पुस्तके नास्ति. ५. 'वेदनाश्वासा परिवर्त' क-ख. ६. 'चञ्चल' क-ख. Page #96 -------------------------------------------------------------------------- ________________ २ उझ्योतः ध्वन्यालोकः। नान्यपि रससमाहितचेतसः प्रतिभानवतः कवेरहंपूर्विकया परापतन्ति । यथा कादम्बया कादम्बरीदर्शनावसरे । यथा च मायारोमादिशिरोदर्शनविह्वलायां सीतादेव्यां सेतौ । युक्तं चैतत् । यतो रसा वाच्यविशेषैरेवाक्षेसव्याः । तत्प्रतिपादकैश्च शब्दस्तत्प्रकाशिनो वाच्यविशेषा एव रूपकादयोऽलंकाराः । तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौ । यमकदुष्करैमार्गेषु तु तैत्स्थितमेवं । यत्तु रसवन्ति कॉनिविद्यमकादीनि दृश्यन्ते तत्र (सादीनामङ्गता यमकादीनां त्वङ्गितैव । साभासे चाङ्गत्वमप्यविरुद्धम् । अङ्गिता तु व्यङ्ग्ये रसे नाङ्गत्वम् । पृथक्प्रयत्ननिर्वय॑त्वाद्यमकादेः। अस्यैवार्थस्य संग्रहश्लोकाः'रसवन्ति हि वस्तूनि सालंकाराणि कानिचित् । एकेनैव प्रयत्नेन निर्वयन्ते महाकवेः ॥' 'यमकादिनिबन्धे तु पृथग्यत्वोऽस्य जायते। . शक्तस्यापि रसेऽङ्गत्वं तस्मादेषां न विद्यते ॥' 'रसाभासाङ्गभावस्तु यमकादेने वार्यते । ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते ॥' दुर्घटनानि । बुद्धिपूर्व चिकीर्षितान्यपि कर्तुमशक्यानीत्यर्थः । तथा निरूप्यमाणत्वे दुर्घटनानि । कथमेतानि रचितानीत्येवं विस्मयावहानीत्यर्थः । अहं पूर्वे अग्रे । अहमादावहमादौ प्रैवर्त इत्यर्थः । अहंपूर्व इत्यस्य भावोऽहंपूर्विका । अहमिति निपातो विभक्तिप्रतिरूपकोऽस्मदर्थवृत्तिः । युक्तं चैतदिति । अहंपूर्विकया परापतनमित्यर्थः । कानिचिदिति । कालिदासादिकृतानीत्यर्थः । शक्तस्यापि पृथग्यत्नो जायत इति संबन्धः । एषामिति । यमकादीनां ध्वन्यात्मभूते शृङ्गारे...... । प्राधान्येनार्धश्लोकेन संगहीते-ध्वन्यात्मभूत इति । १. 'रामादि' क-ख-पुस्तकयो स्ति. २. 'इति' क-ख. सेतो सेतुबन्धकाव्य इत्यर्थः. ३. 'तस्मात्तेषां किं न बहि' ग. ४. 'मार्गे' क-ख. ५. 'तत्' ग-पुस्तके नास्ति. ६. 'एव बहिरङ्गलम्' क-ख. ७. 'कानिचिद्वस्तूनि यम' क-ख. ८. 'रसानां' क-ख. ९. 'रसाभावे' क-ख. १०. 'अतिया तु व्यङ्गयेन' क-ख. ११. 'निवर्तन्ते' क-ख. १२. 'यङ्गता' क-ख. १. 'दुर्घटानि विस्मया-' ग. २. पूर्व इति अग्य इत्यर्थः. ३. 'प्रवृत्त' क-ख. ४. 'युक्तं चैतत्' इत्यारभ्य चारुखहेतुतामित्यर्थः' इतिपर्यन्तं पाठः क-ख-पुस्तकयोस्त्रुटितः: Page #97 -------------------------------------------------------------------------- ________________ 4 काव्यमाला। इदानीं ध्वन्यात्मभूतस्य व्यञ्जकोऽलंकारवर्ग आख्यायते'ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः। रूपकादिरलंकारवर्ग एति यथार्थताम् ॥ १८॥ अलंकारो हि बाह्यालंकारसाम्यादङ्गिनश्चारुत्वहेतुरुच्यते । वाच्यालंकारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते चे कैश्चित् , अलंकाराणामनन्तत्वासर्वोऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेरङ्गिनः सर्व एव चारुत्वहेतुर्निष्पद्यते । ऍषा चास्य विनिवेशने समीक्षा'विवक्षातत्परत्वेन नाङ्गित्वेन कथंचन । काले च ग्रहणत्यागो नातिनिर्वहणैषिता ॥ १९ ॥ 'नियूँढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।। रूपकादेरलंकारवर्गस्याङ्गत्वसाधनम् ॥ २० ॥ इदानीमिति । हेयवर्ग उक्तः । उपादेयवर्गस्तु वक्तव्य इति भावः । व्यञ्जक इति । यश्च यथा चेत्यध्याहारः । यथार्थतामिति । चारुखहेतुतामित्यर्थः । उक्त इति । भामहादिभिरलंकारलक्षणकारैः । वक्ष्यते चेत्यत्र हेतुमाह-अलंकाराणामनन्तत्वादिति । प्रतिभानन्त्यात् । कैश्चिदिति । अन्यैरपि भाविभिरित्यर्थः । समीक्षा इत्यनेन शब्देन कारिकायामुक्तेति भावः । श्लोकपादेषु चतुर्पु श्लोकार्धे चाङ्गखसाधनमिदम् । रूपकादेरिति प्रत्येकं संबन्धः । यमलंकारं तदङ्गतया विवक्षति नाङ्गिखेन यमवसरे गृह्णाति यमवसरे त्यजति यं नात्यन्तं निर्वोढुमिच्छति यं यत्नादङ्गत्वेन प्रत्यवेक्षते स एवमुपनिबध्यमानो रसाभिव्यक्तिहेतुर्भवतीति वितंतं महावाक्यम् । तन्महावाक्यमध्ये चोदाहरणावकाशमुदाहरणस्वरूपं तद्योजनं तत्समर्थनं च निरूपयितुं ग्रन्थान्तर १. 'बाह्यालंकारस्याङ्गिनश्च' क-ख. २. 'वा' ग. ३. 'अपि' क-ख-पुस्तकयोर्नास्ति. ४. 'या चास्य' क, 'यस्य चास्य' ख. ५. 'समीक्षा सा चास्य प्रकाश्यते' क-ख. ६. 'कदाचन' ग.. १. 'लक्षण' ग-पुस्तके नास्ति. २. 'अनन्तलादलंकाराणामिति' क-ख. ३. 'यमकालंकारं प्रसङ्गतया' ग. ४. 'विततविततं' ग. Page #98 -------------------------------------------------------------------------- ________________ २ उयोतः] ध्वन्यालोका। रेसबन्धेष्वत्याहतमनाः कविर्वमलंकारं तदङ्गतमा विवक्षति । यथ'चलापाना दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव खनसि मृदु कर्णान्तिकर्गतः। करं व्याधुन्वन्त्याः पिबसि रतिसर्वखमधरं ___ वयं तत्त्वान्वेषान्मधुकर हत्तास्त्वं खलु कृती ॥' अत्र हि भ्रमरस्वभावोकिरलंकारो रसानुगुणः । नाङ्गित्वेनेति प्राधान्येन कदाचिद्रसादितात्पर्येण विवक्षितोऽपि ह्यलंकारः कश्चिदेङ्गित्वेन विबक्षितो दृश्यते । यथा 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोदामविलासर्वन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ।।' मिति वृत्तिग्रन्थस्य संबन्धः । उदाहरति-यथेति । चलेति । हे मधुकर, वयमेवंविधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषणाद्वस्तुवृत्तेऽन्विष्यमाणे हता आयासमात्रपात्रीभूता जाताः । त्वं खल्विति निपातेनायनसिद्धं तवैव चरितार्थत्वमिति शकुन्तलां प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्तिः । तथाहि कथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषामदभिप्रायव्यअकं रहोवचनमाकर्म्यात् , कथं तु हठादनिच्छन्त्या अपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमधिशेते तत्तवायनसिद्धम् । भ्रमरो हि नीलोत्पलधिया तदाशङ्काकातरां दृष्टिं पुनःपुनः स्पृशति । श्रवणावकाशपर्यन्तखाच नेत्रयोरुत्पलशङ्कानपगमात्तत्रैव ध्वन्यमान आस्ते । सहजसौकुमार्यत्रासकातरायाश्च रतिनिधानभूतं विकसितारविन्दकुवलयामोदमधुरमेधरं पिबतीति । भ्रमरखभावोक्तिरिति । खभावोक्तिरलंकारोऽसतामेव प्रकृतरसस्योपगतः । अन्ये तु भ्रमरखभावे उक्तिर्यस्येति भ्रमरखभावोचिरन रूपकव्यतिरेक इत्याहुः । चक्राभिघात एव प्रसभाज्ञा अलङ्घनीयो नियोगस्तया यो राहुदयितानां रतोत्सवं चुम्बनमात्रशेषं चकार । यत आलिङ्गनमुद्दाम प्रधानं येषु विलासेषु तैर्वन्ध्यः शून्योऽसौ रतोत्सवः । अत्राह कश्चित्-'पर्यायोलमेवान कवेः प्राधान्येन विवक्षितं न तु रसादि । तत्कथमुच्यते रसादितात्पर्ये सत्यपीति । मैवं, वासु १. 'रसबन्धे ध्वन्यध्वन्यादत' ग. २. 'चरः' ग. ३. 'इति' क-ख-पुस्तकयोर्नास्ति. ४. 'केनचित्' क-ख. ५. 'अङ्गित्वेन दृष्टः' क-ख. ६..'शून्य' क-ख. १. 'इति वस्तु' ग. २. 'तथाहि ग-पुस्तके नास्ति. ३. 'न' ग. ४. 'दृशं' ग. ५. 'मधुरं' ग-पुस्तके नास्ति. ६. 'वन्ध्यं शून्यं' क-ख. ७. 'तत्कथमुच्यते रसादि' क-ख-पुस्तकयोनास्ति. ९ ध्व. लो. Page #99 -------------------------------------------------------------------------- ________________ : काव्यमाला। .. अत्र हि,पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति । अङ्गित्वेनाविवक्षितमपि यमवसरे गृह्णाति नानवसरे। अवसरे गृहीतिर्यथा'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं ___ पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥' • इत्यत्र श्लेषस्य । गृहीतमपि च यमवसरे त्यजति तद्रसानुगुणतयालंकारान्तरापेक्षया । यथा'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । देवप्रतापो ह्यत्र विवक्षितः । स चात्र चारुखहेतुतया न चकास्ति, अपि तु पर्यायोक्तमेव । यद्यपि चात्र काव्ये न कदाचिद्दोषाशङ्का तथापि दृष्टं तावदेतत्-यत्प्रकृतस्य पोषणीयस्य स्वरूपतिरस्कारकोऽप्यङ्गभूतोऽलंकारः संपद्यते । ततश्च कश्चिदनौचित्यमागच्छतीत्ययं ग्रन्थकृत आशयः । तथा च ग्रन्थकार एवमग्रे दर्शयिष्यति । महात्मनां दूषणोद्घोषणमात्मन एव दूषणमिति नेदं दूषणोदाहरणं दत्तम् । उद्दामा उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिकाः । क्षणात्तस्मिन्नेवावसरे प्रारब्धा जृम्भा विकासो यया । जृम्भा च मन्मथकृतोऽङ्गमर्दः। श्वसनोद्गमैर्वसन्तमारुतोल्लासैरात्मनो लता. लक्षणस्यायासमायासनमान्दोलनयत्नमातन्वतीम् । निःश्वासपरम्परामिश्चात्मन आयासं हृदयस्थितमातापमातन्वतीं प्रकटीकुर्वाणाम् । सह मदनाख्येन वृक्षविशेषेण मदनेन कामेन च । अत्रोपमाश्लेष ईर्ष्याविप्रलम्भस्य भाविनो मार्गपरिशोधकत्वेन स्थितस्तच वर्णाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायां पुरःसरायमाणो गृहीत इति भावः । अमिनयोऽप्यत्र प्राकरणिके प्रतिपदम् । अप्राकरणिके तु वाक्यार्थाभिनयेनापाङ्गादिना। न तु सर्वथा नाभिनय इत्यलमवान्तरेण । ध्रुवशब्दश्च भावीावकाशप्रैदानजीवितम् । रको लोहितः। अहमपि रक्तः प्रवृद्धानुरागः। तत्र च प्रबोधको विभावस्वदीयपल्लवराग इति मन्तव्यम् । एवं प्रतिपादमाद्योऽर्थोऽङ्गिभावत्वेन व्याख्येयः । अत एव हेतु-. ... १. 'अङ्गित्वेना' ग-पुस्तके नास्ति. २. 'इयमवसरे' क-ख. ३. 'तथा' ग. - १. 'क्वचित्' क-ख. २. 'दोषोद्भावन' क-ख. ३. 'दोषोदा' क-ख. ४. 'संताप ग. ५. 'प्रधान' क-ख. Page #100 -------------------------------------------------------------------------- ________________ २ उड्योतः] ध्वन्यालोकः । : कान्तापादतंलाहतिस्तव मुदे तद्वन्ममाप्यावयोः .. . ___सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥'. __ अत्र हि प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो रसविशेष पुष्णाति । नात्रालंकारद्वयसंनिपातः । किं तर्हि, अलंकारान्तरमेव श्लेषव्यतिरेकलक्षणं नरसिंहवदिति चेत्, नं । तस्य प्रकारान्तरेण व्यवस्थापनात् । यत्र हिं श्लेषविषय एव शब्दे प्रकारान्तरेण व्यतिरेकप्रतीति यते स तस्य विषयः । यथा-'स हरिर्नाम्ना देवः सहरिर्वरतुरगनिवहेन' इत्यादौ । अत्र ह्यन्य एव शब्दश्लेषस्य विषयोऽन्यश्च व्यतिरेकस्य । यदि चैवंविधे विषयेऽलंकारान्तरत्वकल्पना क्रियते तत्संसृष्टेविषयापहार एव श्लेषोऽयम् । सहोत्युपमाहेत्वलंकाराणां हि भूयसा श्लेषानुग्राहकत्वम् । अनेनैवाभिप्रायेण भामहः-अन्यरूपं यत्तत्सहोक्त्युपमाहेतुनिर्देशान्त्रिविधम्' इत्युक्त्वा 'न त्वन्यालंकारानुग्रहनिराचिकीर्षया....... । रसविशेषमिति विप्रलम्भम् । सशोकशब्देन व्यतिरेकमानयतां शोकसहभूतानां निर्वेदचिन्तादीनां व्यभिचारिणां विप्रलम्भपरिपोषकाणामवकाशो दत्तः । किं तहीति । संकरालंकार एवायम् । तत्र किं त्यक्तं किं वा गृहीतमिति परस्याभिप्रायः । तस्येति संकरस्य । एकत्र हि विषयेऽलंकारद्वये प्रतिभोल्लासः संकरः । सहरिशब्द एको विषयः । संह हरिः सहरिः । यदि वा सह हरिमिः सहरिरिति । अत्र हीति । श्लेषोऽन्यो व्यतिरेकस्य । हिशब्दस्तुशब्दस्यार्थे । रक्तस्त्वमित्यत्रेत्यर्थः । अन्य इति रक्तेत्यादयः । अन्यश्चेत्यशोकसशोकादयः । नन्वेकं वाक्यात्मकं विषयमाश्रित्यैकविषयत्वादस्तु संकर इत्याशङ्कयाह-यदीति । एवंविधे वाक्यलक्षणे विषये विषय इत्येकत्वं विवक्षितं बोध्यम् । एकवाक्यापेक्षया यद्येकविषयत्वमुच्यते तत्र क्वचित्संसृष्टिः स्यात् । संकरेण व्याप्तत्वात् । नतूपमागर्भो व्यतिरेकः । उपमा च श्लेषमुखेनैवायातेति श्लेषोऽत्र व्यतिरेकस्यानुप्राहक इति संकरस्यैवैकविषयः । यत्र त्वनुग्राह्यानुग्राहकभवो नास्ति तत्रैकवाक्यगामित्वेऽपि संसृष्टिरेव । तदेतदाह... १. 'क्रियते' क-ख. २. 'शब्दः' क. ३. 'क्रियेत ततः संसृष्टेविषयापरभार 'एव' ग.. ... १. 'वकव्यं' क-ख. २. 'अलंकारान्तरद्वये' ग. ३. 'सह हरिः सहरिः' कखपुस्तकयो स्ति. ४. 'हीति श्लेषोऽन्यो व्यतिरेकस्य ग-पुस्तके नास्ति. ५. 'अन्यश्चेत्यशोकसशोकादयः' क-ख-पुस्तकयो स्ति. ६. 'बोद्धव्यम्' क-ख. ७. 'इष्टविषयः' ग. Page #101 -------------------------------------------------------------------------- ________________ काव्यमाला | स्यात् । श्लेषमुखेनैवात्र व्यतिरेकस्वात्मलाभ इति नायं संसृष्टेर्विषय इति चेत्, न । व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा'नो कल्पापायवाथोरदयरयदलक्ष्माधरस्यापि शम्या गाढोगीर्णोज्ज्वलश्रीरहनि न रहिता नो तमः कज्जलेन । प्रासोत्पतिः पतङ्गान पुनरुपमता मोषमुष्णत्विषो वो बर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ ' यत्र हि साम्यप्रपञ्चप्रेतिपादनं विनैव व्यतिरेको दर्शितः । नात्र श्लेषमात्राच्चारुत्वप्रतीतिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वम्, न खतोऽलंकारत्वेनेत्यपि न वाच्यम् । यत एवंविधे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव । यथा 'आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः । श्लेषेति । श्वेषबलानीतोपमामुखेनेत्यर्थः । एतत्परिहरति-नेति । अयं भावः - किं सर्वत्रोपमायाः स्वशब्देनाभिधाने व्यतिरेको भवत्युत गम्यमानत्वे । तत्राद्यं पक्षं दूषयति -- प्रकारान्तरेणेति । उपमाभिधानेन विनापीत्यर्थः । एतदेवोदाहरति( नो कल्पेति । ) शम्या शमयितुं शक्येत्यर्थः । दीपवर्तिस्तु वायुमात्रेण शमयितुं शक्यते । तम एव कज्जलं तेन नो रहिता अपि तु रहितैव । दीपवर्तिस्तु तमसापि युक्ता भवति । अन्ततः प्रकृष्टत्वात्कज्जलेनोपरिचरेण । पतङ्गादर्कात् । दीपवर्तिः पुनः शलभासते नोत्पद्यते । साम्येति । साम्यस्योपमायाः प्रपञ्चेन प्रबन्धेन यत्प्रतिपादनं खशब्देन तेन विनापीत्यर्थः । एतदुक्तं भवति — प्रतीयमानैवोपमा व्यतिरेकस्यानुग्राहिणी भवन्ती नाभिधानं स्वकण्ठेनापेक्षते तस्मान्न षोपमा व्यतिरेकानुग्राहित्वेनोपाता । ननु यद्यप्यत्र नैवं तथापीह तत्प्रावण्येनैत्र सोपात्ता । तदप्रावण्ये स्वयं चारुत्व - तुत्वाभावादिति । श्लेषोपमात्र पृथगलंकारभावमेव न भजते । तदाह - नात्रेति । एतदसिद्धं स्वसंवेदनबाधितत्वादिति हृदये गृहीत्वा स्वसंवेदनमपहुवानं परं श्लेषं विनोपमामात्रेण चारुत्वसंपन्नमुदाहरणान्तरं दर्शयन्निरुत्तरीकरोति-यत इत्यादिना । उदाहलोके तृतीयान्तपदेषु तुल्यशब्दोऽभिसंबन्धनीयः । अन्यत्सर्वं 'रक्तस्त्वं' इतिवद्यो - १. 'प्रतिपादनप्रपञ्चं' ग. २. 'विवक्षितत्वात्' ग. ३. 'अलंकारतेति' ग. १. 'अत्यन्तमप्रकटत्वात्' क ख २. 'मानोपमा' ग. ३. ' यद्यप्यत्रैव तथा' म. ४. 'श्लेषोपमामात्रेण' क-ख. Page #102 -------------------------------------------------------------------------- ________________ ध्वन्यालोकः । अन्तर्मे दलामुखं तव शशी वृतिः समैवायमोस्तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ' २ उयोतः इत्यादी रसनिर्वहणैकतानहृदयश्व । यो यं च नात्यन्तं निर्वोदुमिच्छति यथा'कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयान्रुदत्या हसन् ॥' अत्र हि रूपकमाक्षिप्तमेनिर्व्यूढं च । परं रसैपुष्टये निर्वोदुमिष्टमपि - चलादङ्गत्वेन प्रत्यवेक्ष्यते यथा 'श्यामाखङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्हन्तैकस्थं क्वचिदपि न ते भीरुं सादृश्यमस्ति ॥' --- ९६ --- ज्यम् । एवं महणत्यागौ समर्थ्य 'नातिनिर्वहणैषिता' इति भागं व्याचष्टे - रसेति । चकारः समीक्षाप्रकारसमुच्चयार्थः । बाहुलतिकायाः पाशत्वेन रूपणं यदि निर्वाहयेत् दयिता व्याधवधूः वासगृहं कारागारपञ्जरादीति परमनौचित्यं स्यात् । सखीनां पुर इति भवत्योऽनवरतं ब्रुवते नायमेवं करोतीति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला मधुरा गीर्यस्याः सा । कासौ गीरित्याह-भूयो नैवमित्येवंरूपा । एवमिति यदुक्तं तत्किमित्याह — दुश्चेष्टितं नखपदादिसंसूच्याङ्गुल्यादिनिर्देशेन । हन्यत एवेति न तु सौख्यादिकृतोऽनुनयोऽनुरुध्यते । यतोऽसौ हसनं निमित्तीकृत्य निहुतिपरः प्रियतमश्च । तदीयं व्यलीकं का सोढुं समर्थेति । निर्वोदुमिति । निःशेषेण परिसमापयितुमित्यर्थः। (श्यामास्त्रिति । ) ३यामासु सुगन्धिप्रियङ्गुलतासु । पाण्डिना तनिम्ना कण्टकितत्वेन च योगात् । शशिनीवि पाण्डुरत्वात् । उत्पश्यामीति यत्नेनोत्प्रेक्षे | जीवितसंधारणायेत्यर्थः । हन्तेति कष्टम् । एकस्य सादृश्याभावे हि दोलायमानोऽहं सर्वत्र १. ‘हृदयो यश्च नात्यन्तं' ग. २. 'अनिर्व्यूढः ' म. ३. 'संपरिपुष्टये' म. ४. यं यत्नात्' क-ख. ५. 'हरिण' क ख ६. 'वत्र' म. . ७. 'चण्डि' ग. १. ‘इत्यर्थः’ क- ख. २. ‘श्यामाखिति’ ग. ३. 'एकस्थ' क-ख. Page #103 -------------------------------------------------------------------------- ________________ काव्यमालाः। इत्यादौ स एवमुपनिबध्यमानोऽलंकारो रसाभिव्यक्तिहेतुः कवेर्भवति। उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः संपद्यते । लक्ष्यं च तथाविधमपिमहाकविप्रबन्धेषु दृश्यते बहुशः। तत्तु सूक्तिसहस्रद्योतितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेरलंकारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये लक्षणा दिग्दर्शिता तामनुस. रन्खयं चान्यल्लक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमपतितमनन्तरोक्तमेवं ध्वनेरात्मानमुपनिबध्नाति सुकविः समाहितचेतास्तदस्यात्मलाभो भवति महीयानिति । 'क्रमेण प्रतिभात्यात्मा योऽस्यानुस्खानसंनिमः।। शब्दार्थशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः ॥ २१॥ ___ अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः स क्रमव्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः । स्थितो न कुत्रचिदेकत्र धृतिं लभे इति भावः । भीर्विति । यो हि कातरहृदयो भवति नासौ सर्वखमे कस्थं धारयतीत्यर्थः । अत्र ह्युत्प्रेक्षायास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि विप्रलम्भरसपोषकमेव जातम् । तत्तु लक्ष्यं न प्रदर्शितमिति संबन्धः । प्रत्युदाहरणे ह्यदर्शितेऽप्युदाहरणानुशीलनदशाकृत......ति दर्शयति-किं त्विति । अन्यल्लक्षणमिति । परीक्षाप्रकारमित्यर्थः । तद्यथावसरे त्यक्तस्यापि पुनर्ग्रहणमित्यादि । यथा ममैव–'शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संप्लुष्यन्त्यस्य (थ) कालकूटपटलीसंवाससंदूषिताः । किं प्राणान हरन्त्युत प्रियतमासंजल्पमन्त्राक्षरै रक्षन्ते किमु मोहमेमि हहहा नो वेद्मि केयं गतिः ॥ इत्यत्र हि रूपकसंदेहनिदर्शनास्त्यक्त्वा पुनरुपात्ता रसपरिपोषायेत्यलम् । एवं विवक्षितान्यपरवाच्यध्वनेः प्रथमं भेदमलक्ष्यक्रमं विचार्य द्वितीयं भेदं विभक्तुमाह-क्रमेणेस्यादि। प्रथमपादोऽनुवादभागो हेतुत्वेनोपात्तः । घण्टाया अनुरणनमभिघातजशब्दापेक्षया क्रमेणैव भाति । सोऽपीति । न केवलं मूलतो ध्वनिर्द्विविधः । नापि ... १. 'महता' क-ख. २. 'व्यञ्जकत्वेन' क-ख. ३. 'क्रमं प्रति तम-' ख, 'क्रमप्रतिभम-' ग. ४. 'एनं' ग. ५. 'तस्यात्म' ग. १. 'वृत्तिं' क-ख. २. 'तद्वद्भावव्यापाररूपायाः' क-ख. ३. 'रसापेक्षकं' ग. ४. 'अत्युदा-किं त्विति' क-ख-पुस्तकयो स्ति. ५. 'संवादसंरूषिताः' ग. ६. 'उक्वा ' क-ख. ७. 'रणनमेवं' ग. ८. 'ध्वनेर्द्विभेदः' ग. ९. 'ध्वनिनापि केवलमविवक्षितवाच्यो द्विविधः' क-ख. .... Page #104 -------------------------------------------------------------------------- ________________ २ उयोतः] ध्वन्यालोकः। १५ । ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात् नापहृत इत्याह 'आक्षिप्त एवालंकारः शब्दशक्त्या प्रकाशते । . - यसिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ २२ ॥ ____यस्मादलंकारो न वस्तुमानं यस्मिन्काव्ये शब्दशक्त्या प्रकाशते स एवं शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितः । वस्तुद्वये च शब्दशक्त्या प्रकाश्यमाने श्लेषः । यथा-- . .... 'येन ध्वस्तमनोभवेन बलिजित्कायः पुराऽस्त्रीकृतो . यश्चोवृत्तभुजंगहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स खयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।।' केवलं विवक्षितान्यपरवाच्यो द्विविधः। अयमपि द्विविध एवेत्यपिशब्दार्थः । विवृणोतिअस्येत्यादिना। कारिकागतं हिशब्दं व्याचष्टे-यस्मादिति । अलंकारशब्दस्य व्यवच्छेद्यं देर्शयति-न वस्तुमात्रमिति । वस्तुद्वये चेति । चशब्दस्तुशब्दस्यार्थे । येनेति । येन ध्वस्तं बालक्रीडायामनः शकटम् । अभवेनाजेन सता । बलिनो दानवान्यो जयति तादृग्येन कायो वपुः पुराऽमृतहरणकाले स्त्रीत्वं प्रापितः । यश्चोद्वृत्तं समदं कालियाख्यं भुजंगं हतवन् । रवे शब्दे लयो यस्य । 'अकारो विष्णुः' इत्युक्तेः । यश्चागं गोवर्धनपर्वतं गां च भूमि पातालगतामधारयत् । यस्य च नाम स्तुत्यमृषय आहुः । किं तत् । शशिनं मनातीति क्विप् । राहुः । तस्य शिरोहरो मूर्धापहारकः । स लां माधवो विष्णुः सर्वदः पायात् । कीदृक् । अन्धकनाम्नां जनानां येनं क्षयो निवासो द्वारकायां कृतः । यदि वा मौसले इषीकामिस्तेषां क्षयो विनाशो येन कृतः । द्वितीयोऽर्थः-येन ध्वस्तकामेन सता बलिजितो विष्णोः संबन्धी कायः पुरा त्रिपुरनिर्दहनावसरेऽस्त्रीकृतः शरत्वं नीतः। उद्वृत्ता भुजंगा एव हारा वलयाश्च यस्य । मन्दाकिनी १. 'विवक्षितम्' ग. १. 'विवृणोति-अस्येत्यादिना' ग-पुस्तके नास्ति. २. 'दर्शयति' क-ख-पुस्तकयोर्नास्ति. ३. 'वस्तुद्वये चेति' क-ख-पुस्तकयो स्ति. ४. 'शशिमत् । शशिनं' ग. ५. 'येन खयं द्वारकाख्यः क्षयो निवासः कृतः' ग. ६. 'संमर्दनावसरे' ख. Page #105 -------------------------------------------------------------------------- ________________ ९६ काव्यमाला । नन्वलंकारान्तरप्रतिभायामपि षव्यपदेशो भवतीति दर्शितं भट्टोइटेन तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरैवकाश इत्याशयेदमुक्तं 'आक्षिप्तः ' इति । तदयमर्थः यत्र शब्दशक्त्या साक्षादलंकारं वाच्यं सत्प्रतिभासते स सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्ग्यमेवालंकारान्तरं प्रकाशते स ध्वनेर्विषयः । शब्दशक्त्या साक्षादलंकारान्तरप्रतिभा यथा 'तस्या बिनापि हारेण निसर्गादेव हारिणौ - जनयामासतुः कस्य विस्मयं न पयोधरौ ॥१ अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोषालंकारश्च प्रतिभासत इति विरोधच्छायानुमाहिणः श्लेषस्यायं विषयः, न त्वनुखानोपमव्ययस्य ध्वनेः । अलक्ष्यमव्यत्यप्रतिभासस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव । यथा ममैव - 'श्लाध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजितत्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः । च योऽधारयत् । यस्य च ऋषयः शशिमचन्द्रयुक्तं शिर आहुः । हरः इति च नाम स्तुत्यमाहुः । स भगवान्खयमेवान्धकासुरस्य विनाशकारी त्वां सर्वदा सर्वकालमुमाया धवो वल्लभः पायादिति । अत्र वस्तुमात्रं द्वितीयं प्रतीतं नालंकार इति श्लेषस्यैव विषयः । आक्षिप्तशब्दस्य कारिकागतस्य व्यवच्छेद्यं दर्शयितुं चोद्येनोपक्रमते — नन्वलंकारेत्यादिना । तस्या विनापीति । अपिशब्दोऽयं विरोधमाचक्षाणोऽर्थद्वयेऽप्यमिधाशक्तिं नियच्छति हरतो हृदयमैवश्यमिति हारिणौ । हारो विद्यते ययोस्तौ हारिणाविति । अत एव विस्मयशब्दस्येवार्थस्योपोद्बलकः । अपिशब्दाभावे तु तत्रैवार्थद्वयामिधा स्यात् । स्वसौन्दर्यादेव स्तनयोर्विस्मयहेतुत्वोपपत्तेः । विस्मयाख्यो भाव इति दृष्टान्ताभिप्रायेणोपात्तम् । यथा विस्मयः शब्देन प्रतिभाति । विस्मय इत्यनेन शब्देन तथा विरोधोऽपि प्रतिभात्यपीत्यनेन शब्देन । ननु किं सर्वथान ध्वनिर्नास्तीत्याशङ्कयाहअलक्ष्येति । विरोधेन वेति । वाग्रहणेन श्लेषविरोधसं करालंकारोऽयमिति दर्शयति । ३. 'श्लेषः ' १. 'श्लेषस्य व्यपदेश इति' क-ख. २. 'निरवकाशः' ग पुस्तके नास्ति क- ख. ४. 'अव्यङ्ग्यं' ग. ५. 'भातीति' क ख ६. 'क्रमप्रतिभस्य' ग. १. ‘च यस्य नामाहुः' ग. २. 'उमावल्लभः ' क-ख. ३. 'चोपक्रमते' क- ख. ४. 'अवश्यं' क· ख- पुस्तकयोर्नास्ति ५. 'न तत एव' क ख ६. 'शब्देन ' क-खपुस्तकयोर्नास्ति. Page #106 -------------------------------------------------------------------------- ________________ २ उयोतः] ध्वन्यालोकः। बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रारमन्चक्षुर्वक खाने यां खतनोरपश्यदधिकां सा रुक्मिणी कोऽवतात् ॥' अत्र वाच्यतयैव व्यतिरैकच्छायानुप्राही श्लेषः प्रतीयते । यथा च'भ्रमिमरतिमलसहृदयतां प्रलयं मूछो तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विकं वियोगिनीनाम् ।। यथा वा 'चैमहिअमाणसकञ्चणपङ्कअणिम्महिअपरिमला जस्स । अखण्डि अंदाणपसारा बाहुप्पलिहा विअ गइन्दा ॥" अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते । स चाक्षिप्तोऽलंकारो यत्र पुनः शब्दान्तरेणामिहितखरूपस्तत्र शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिव्यवहारः । तत्र कक्रोक्त्यादिवाच्यालंकारव्यवहार एव । यथा अनुग्रहयोगादेकतरत्यागग्रहणनिमित्ताभावो हि वाशब्देन सूच्यते । सुदर्शनं चक्रं करे यस्य । व्यतिरेकपक्षे सुदर्शनौ श्लाघ्यो करावेव यस्य चरणारविन्दस्य ललितं त्रिभुवनाक्रमणक्रीडा। चन्द्ररूपं चक्षुर्धारयन्। वाच्यतयैवेति । खतनोस्पश्यदधिकामिति शब्देन व्यतिरेकस्योक्तवात् । भुजगशब्दार्थर्यालोचनाबलादेव विषशब्दो जलमभिधायापि न विरन्तुमुत्सहते। अपि तु द्वितीयमर्थ हालाहललक्षणमाह । तदमिधानेन विनाभिधाया एवासमाप्तत्वात्। भ्रमिप्रभृतीनां तु मरणान्तानां साधारण एकार्थः। (चमहीति निराश्रीकृतत्वेन खण्डितानि यानि मानसानि शत्रुहृदयानि तान्येव काञ्चनपङ्कजानि । सुसारत्वात् । तैर्हेतुभूतैः । णिम्महिअपरिमला इति प्रसृतप्रतापसारा अखण्डितवितरणप्रसरा बाहुपरिषा एव यस्य । गजेन्द्रा इति । गजेन्द्रशब्दवशाचमहिअशब्दः परिमलशब्दो दानशब्दच नोटनसौरभमर्दलक्षणानर्थान्प्रतिपाद्यापि न परिसमाप्ताभिधाव्यापारा भवन्तीत्युक्तरूपं द्वितीयमप्यर्थमभिदधत्येव । एकामाक्षिप्तशब्दस्य व्यवच्छेद्यं प्रदश्वकारस्य व्यवच्छेद्यं दर्शयितुमाह-स चेति । उभयार्थप्रतिपादनशक्तशब्दप्रयोगे, यत्र सावदेकतरविषयनियमनकारणमभिधाया नास्ति यथा 'येन ध्वस्तमनोभवेन' इति । १. 'प्रतीयत एव' क-ख. २. 'सादं च करु. ३....... मानसकाञ्चनपङ्कजनिमंथितपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥' इति छाया. १. 'पदावलोचना' क-ख. २. 'विश्राणन' क-ख. - Page #107 -------------------------------------------------------------------------- ________________ काव्यमाला। 'दृष्ट्या केशव गोपरागहतया किंचिन्न दृष्टं मया - तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गति गोप्यैवं गदितः सलेशमवतागोष्ठे हरिर्वश्विरम् ॥' ... एवंजातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः । यत्र तु यत्र वा प्रत्युत द्वितीयाभिधाव्यापारसद्भावावेदकं प्रमाणमस्ति यथा 'तस्या विना-' इत्यादौ । 'चैमहिअ' इत्यत्र तावत्सोऽर्थोऽभिधेय एवेति स्फुटमध्यः । यत्राभिधाया एकत्र नियमहेतुः प्रकरणादिविद्यते तेन द्वितीयस्मिन्नर्थे नाभिधा संक्रामति तत्र द्वितीयोऽर्थोंऽसावाक्षिप्त इत्युच्यते । तत्रापि यदि पुनस्तादृक्शब्दो विद्यते येनासौ नियामकः प्रकरमादिरपहतशक्तिकः संपाद्यते । अत एव साऽभिधाशक्तिर्बाधितापि सती प्रतिप्रसूतैव तत्रापि न ध्वनेर्विषय इति तात्पर्यम् । चशब्दोऽपिशब्दार्थे भिन्नक्रमः। आक्षिप्तोऽप्याक्षिप्ततया झगिति संभावयितुमारब्धोऽपीत्यर्थः । न त्वसावाक्षिप्तः किं तु शब्दान्तरेणान्येनाभिधायाः प्रतिप्रसवनादभिहितस्वरूपः संपन्नः । पुनर्ग्रहणेन प्रतिप्रसवं व्याख्यातुं सूचयति । तेनैवकार आक्षिप्ताभासं निराकरोतीत्यर्थः । हे केशव, यतो गोधूलिहतया दृष्ट्या न किंचिदृष्टं मया तेन कारणेन स्खलितास्मि । मार्गे तां पतितां सती मां किं नाम .कः खलु हेतुर्यन्नालम्बसे हस्तेन । यतस्त्वमेवैकोऽतिशयेन बलवानिम्नोन्नतेषु सर्वेषामब.लानां बालवृद्धाङ्गनादीनां खिनमनसां गन्तुमशक्नुवतां गतिरालम्बनायुपाय इत्येवंविधेऽर्थे यद्यप्येते प्रकरणेन नियत्रिताभिधाशक्तयः शब्दास्तथापि द्वितीयेऽर्थे व्याख्यास्यमानेऽमिधाशक्तिर्निरद्धा सती सलेशमित्यनेन प्रत्युज्जीविता । अत्र सलेशं ससूचनमित्यर्थः । अल्पीभावनं हि सूचनमेव । हे केशवगोप स्वामिन् , रागहृतया दृष्ट्येति वा संबन्धः। .स्खलितास्मि खण्डितचरित्रा जातास्मि । पतितामिति भर्तृभावं मां प्रति । एक इत्य.साधारणसौभाग्यशाली त्वमेव । यतः सर्वासामबलानां मदनविधुरमनसामीाकालुव्यनिरासेन सेव्यमानः सन्गतिः । जीवितरक्षोपाय इत्यर्थः । एवं श्लेषालंकारस्य विषयमवस्थाप्य ध्वनेराह-यत्र त्विति । कुसुमसमयात्मकं ययुगं मासद्वयं तदुपसंहरन् । धवलानि हृद्यान्यधान्यापणा येन तादृक् फुल्लमल्लिकानां हासो विकसनमिति स यत्र । १. 'हतया' ग. . .. .. . .. १. 'यत्र च न' ग. २. ...मिन्द्रियेत्यन्तेन तत्सर्वथा सोर्थो' ग. ३. 'एकतरत्र' क-ख. ४. 'अपाहित-संपाद्यते' ग. ५. 'बाधिका नापि' ग. ६. 'प्रतिसूतवे' क-ख. ७. 'अक्षिप्तक्रमोऽपि' क-ख. ८. 'हतया' ग. ९. 'खिन्नमनसां' ग-पुस्तके नास्ति. १०. 'निरुध्यमानापि' क-ख..................... Page #108 -------------------------------------------------------------------------- ________________ २ उद्दयोतः] ध्वन्यालोक। सामर्थ्याक्षिप्तं सदलंकारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेर्विषयः । यथा---. ... .. - "अत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालः ।' यथा च 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥' . . यथा वा ......'दैवानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः । पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यहि संहारभाजः । फुल्लमल्लिका एव धवलाट्टहासोऽस्येति तु व्याख्याने 'जलदभुजगज' इत्येतत्तुल्यमेतत्स्यात् । महांश्चासौ दिनदैर्घ्यदुरतिवाहतया योगात्कालः समयः । अत्र ऋतुवर्णनप्रस्तावनियत्रिता अभिधाशक्तयः। अत एव 'अवयवप्रसिद्धः समुदायप्रसिद्धिर्बलीयसी' इति न्यायमपाकुर्वन्तो महाकालप्रभृतयः शब्दा एकमेवार्थमभिधाय कृतकृत्या एव । तदनन्तरमर्थावगति_ननव्यापारादेव शब्दशक्तिमूलात् । तत्र केचिन्मन्यन्ते-'यत एतेषां शब्दानां पूर्वमर्थान्तरेऽभिधान्तरं दृष्टं ततस्तथाविधेऽर्थान्तरे दृष्टतदभिधाशक्तरेव प्रतिपत्तुर्नियन्त्रिताभिधाशक्तिकेभ्य एतेभ्यः प्रतिपत्तिर्ध्वननव्यापारादेवेति शब्दशक्तिमूलत्वं व्यङ्ग्यात्मत्वं चेत्यविरुद्धम्' । अन्ये तु–'साभिधैव द्वितीयार्थसामग्यं ग्रीष्मस्य भीषणदेवताविशेषसादृश्यात्मकं सहकारित्वेन यतोऽवलम्बते ततो ध्वननव्यापाररूपोच्यते' इति । एके तु–'शब्दश्लेषे तावद्भेदे सति शब्दार्थश्लेषेऽपि शक्तिभेदाच्छब्दभेद इति दर्शने द्वितीयः शब्दस्तत्रानीयते । स च कदाचिदभिधाव्यापारात् यथोभयोत्तरदामार्य 'श्वेतो धावति' इति प्रश्नोत्तरादौ वा । तत्र शब्दान्तरबलादपि तदर्थान्तरं प्रतिपन्नं प्रतीयमानमूलत्वात्प्रतीयमानमेव युक्तम्' इति । इतरे तु–'द्वितीयपक्षव्याख्यातं यदर्थसामर्थ्य तेन द्वितीयाभिधैव प्रतिप्रसूयते ततश्च द्वितीयोऽर्थोऽभिधीयत एव न ध्वन्यते तदनन्तरं तु तस्य द्वितीयार्थश्च प्रतिपन्नस्य प्रथमार्थेन प्राकरणिकेन साकं या रूपणा १. हर्षचरिते द्वितीय उच्छ्वासे गद्यमेतत्. २. 'तस्याः' ग. ३. सूर्यशतकस्थं पद्यम्, १. 'समाकुर्वते' क-ख. २. 'व्यङ्ग्यत्वं' क-ख. Page #109 -------------------------------------------------------------------------- ________________ काव्यमाग। दीक्षांशोर्षिदुःखप्रयवभवभयोदन्वदुचारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।' एदाहरणेषु शब्दशक्त्या प्रकाशमाने सत्यपाकरणिकेऽर्थान्तरे वाक्यस्यासंबंद्धार्थाभिधायित्वं मा प्रसाडीदित्यप्राकरणिकपाकरणिकार्थयोरुपमानोपमेयभावः कल्पयितव्यः सामर्थ्यादित्याक्षिप्तोऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषादनुखानोपमव्यङ्ग्यस्य ध्वनेविषयः । अन्येऽपि चालंकाराः शब्दशक्तिमूलानुखानरूपव्यन्ये ध्वनौ संभवन्त्येव । तथाहि विरोधोऽपि शब्दशक्तिमूलानुखानरूपो दृश्यते । यथा स्थाण्वीश्वराख्यजनपदवर्णने भट्टबाणस्य 'यंत्र च मत्तमातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च (चन्द्रकान्तवपुषः शिरीषकोमलाङ्ग्यश्च अभुजंगगम्याः कञ्चुकिन्यश्च पृथुकलत्रश्रियो दरिद्रमध्यकलिताश्च लावण्यवत्यो मधुरभाषिण्यश्च अप्रमत्ताः प्रसन्नोज्वलरागाश्च अकौतुकाः प्रौढाश्च) प्रमदाः । तावद्भात्येव न चान्यतः शब्दादिति सा ध्वननव्यापारात् । तत्रामिधाशक्तः कस्याश्चिदप्यनाशङ्कनीयवात् । तस्यां च द्वितीया शब्दशक्तिमूलम् । तया विना तस्या रूपणाया अनुत्थानात् । अत एवालंकारध्वनिरयमिति युक्तम् । वक्ष्यते च 'असंबद्धार्थाभिधायित्वं मा प्रसासीत्' इत्यादि । पूर्वत्र तु सलेशपदेनैवासंबद्धता निराकृता । 'येन ध्वस्त-' इत्यजासंबद्धता नैव भाति । 'तस्या विनापि-' इत्यत्रापिशब्देन 'श्लाघ्या-' इत्यत्राधिकशब्देन 'भ्रमि-' इत्यादौ च रूपकेणासंबद्धता निराकृतेति तात्पर्यम् । पयोभिरिति पानीयैः क्षीरेश्च । संहारो ध्वंसः, एकत्र ढौकनं च । गावो रश्मयः सुरभय इव । असंबद्धार्थाभिधायित्वमिति । असंबध्यमानमेवेत्यर्थः । उपमानोपमेयभाव इति । तेनोपमारूपेण व्यतिरेचननिहवादयो व्यापारमात्ररूपा एवात्राखादप्रतीतेः प्रधानं विश्रान्तिस्थानं न तूपमेयादीति सर्वत्रालंकारध्वनौ मन्तव्यम् । सामर्थ्यादिति । ध्वननव्यापारादित्यर्थः । मत्तमातलेति । मत्तमातङ्गवद्गच्छन्ति तांश्च गच्छन्तीति विरोधः । १. 'एतेषु' क-ख. २. 'संबन्धा' म. ३. 'इत्याक्षिप्तोऽयं' क-ख. ४. 'दृश्यत एव', क-ख. ५. हर्षचरिते तृतीयोच्छासे गद्यमेतत्. १. 'मातङ्गं च' ग. Page #110 -------------------------------------------------------------------------- ________________ २ उद्योतः ] ध्वन्यालोकः । १०१ अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषोऽयमिति न शक्यं वक्तुम् । साक्षाच्छब्देन विरोधालंकारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्छन्दावेदितो विरोधालंकारस्तत्र हि श्लिष्टोक्तौ वाच्यालंकारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा हर्षचरिते 'समवाय इव विरोधिनां पदार्थानाम् । तथाहि - संनिहितवालान्धकारा भास्वन्मूर्तिश्च' । इत्यादौ । यथा वा ममैव 'सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम् । चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ॥' अत्र हि शब्दशक्तिमूलानुस्खानरूपो विरोधः स्फुटमेव प्रतीयते । एवंविधो व्यतिरेकोऽपि दृश्यते । यथा ममैव 'खं येऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये । विभवेषु रता विभवमहादेवस्थानेषु (1) स्थिताः । पद्मरागरत्नयुक्ताः पद्मसदृश लौहित्ययुक्ताश्च । धवलैर्द्विजैर्दन्तैः शुचि निर्मलं वदनं यासां धेवलद्विजवदुत्कृष्टविप्रवच्छुचि वदनं ...... । यत्र हीति । यस्यां श्लेषोक्तौ काव्यरूपायां तत्र यो विरोधः श्लेषो वेति संकरः । तस्य विषयत्वम् । स विषयोऽत्र भवतीत्यर्थः । तत्रैव विरोधश्लेषे वाच्यालंकारत्वं सुवचमिति यावत् । उदाहरति- ममेति । वालेषु केशेष्वन्धकारः कार्यं । बालः प्रत्यअश्चान्धकारस्तमः । ननु मातङ्गेत्यादावपि धर्मद्वये यश्चकारः स विरोधद्योतक एव । अन्यथा प्रतिधर्मं सर्वधर्मान्ते वा न क्वचिर्चेकारः स्यात् । यदि समुच्चयार्थः स्यादित्यसिप्रायेणोदाहरणान्तरमाह-यथेति । शरणं गृहमक्षयरूपमगृहं कथम् । यो न धीशः स कथं धियामीशः । यो हरिः कपिलः स कथं कृष्णः । चतुरः पराक्रमयुक्तो यस्यात्मा स कथं निष्क्रियः । अरीणामरयुक्तानां यो नाशयिता स कथं चक्रं बहुमानेन धारयति विरोध इति । विरोधनमित्यर्थः । प्रतीयत इति । स्फुटं नोच्यते केनचिदिवि भावः । नखैरुद्भास्यन्ते अवश्यं खे गगने उद्भासन्ते । उभये रश्म्यात्मानोऽङ्गुलीपा-प्रर्याद्यवयवरूपाश्चेत्यर्थः । एवं शब्दशक्त्युद्भवं ध्वनिमुक्लार्थशतयुद्भवं दर्शयति १. ‘विरोधच्छाया' क ख २. 'शब्दनिवेदितो' क-ख. ३. प्रथमोच्छ्वासे. ४. ' एवं विरोधव्यतिरेकेऽपि' क ख . १. 'धवल — हीति' क- ख. पुस्तकयोर्नास्ति. २. ' तस्य वाच्यालंकारस्य वाच्यालंकृतेस् ंकारत्वं' ग. ३. 'चमत्कारः ' क-ख. ४. 'चमत्कारो यदि' क- ख. ५. 'उद्भासन्ते* ग. ६. 'स्पष्टशब्द' क- ख. ७. 'व्याख्याय द्वितीयं निरूपयितुमाह--' ग. १० ध्व० लो० ) Page #111 -------------------------------------------------------------------------- ________________ १०२ काव्यमाला। ये मूर्धखवभासिनः क्षितिभृतां ये चामराणां शिरां स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वैः॥' एवमन्येऽपि शब्दशक्तिमूलानुस्खानरूंपव्यङ्गयध्वनिप्रकाराः सन्ति ते -सहृदयैः खयमनुसतव्याः । इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः । अर्थशक्त्युद्भवस्वन्यो यत्रार्थः संप्रकाशते । यस्तात्पर्येण वस्वन्यधनक्त्युक्तिं विना स्वतः ॥ २३ ॥ यथार्थः स्वसामर्थ्यादर्थान्तरमभिव्यनक्ति शब्दव्यापार विनैव सोऽर्थशक्त्युद्भवो नामानुस्खानोपमव्यङ्ग्यो ध्वनिः । यथा ‘एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' अत्र हि लीलाकमलपत्रगणनमुपसर्जनीकृतखरूपं शब्दव्यापार विनैवार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति । न चायमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेविषयः । यतो यत्र साक्षाच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचारिभ्यो रसादीनां प्रतीतिः स तस्य केवलस्य मार्गः । यथा कुमारसंभवे मधुप्रसने अर्थेति । अन्य इति शब्दशक्त्युद्भवात् । खतस्तात्पर्येणेत्यमिधाव्यापारनिराकरणपरमिदं ध्वननव्यापारमाह न तु तात्पर्यशक्तिम् । सा हि वाच्यार्थप्रतीतावेवोपक्षीणेत्युक्तं प्राक् । अनेनैवाशयेन वृत्तौ व्याचष्टे-यत्रार्थः स्वसामर्थ्यादिति । खत इति शब्द खशब्देन व्याख्यातः। उक्तिं विनेति व्याचष्टे-शब्दव्यापार विनैवेति । उदाहरति.यथा-एवमिति । अर्थान्तरमिति लज्जात्मकम् । साक्षादिति । व्यभिचारिणो यत्रालक्ष्यक्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिः संबन्धीत्येव . स्खविभावादिबलात्तत्र साक्षाच्छब्दनिवेदितत्वं विवक्षितमिति न पूर्वापरविरोधः । पूर्व ह्युकं व्यभिचारिणां विभावत्वान्न खशब्दतः प्रतिपत्तिरित्यादि विस्तरतः। एतदुक्तं भवति-यद्यपि रसभावादिरों ध्वन्यः १. 'मूर्धनि' ग. २. 'श्रियै' ग. ३. 'नः' क-ख. ४. 'रूपा ध्वनिप्रकाराः' क-ख. ५. 'संभवन्ति' क-ख. ६. 'तत्' क-ख-पुस्तकयो स्ति. ७. 'ध्वनति' ग. १. 'प्रतीतौ वोप-' क-ख. २. 'उदाहरति यथा-एवमिति' ग-पुस्तके नास्ति. ३. 'प्रतिपत्तिखभावादिबलात्' क-ख. ४. 'अभिभावलात्' क, 'अपि भावत्वात्' ख. ५. 'शब्दतः' क-ख.. Page #112 -------------------------------------------------------------------------- ________________ २ उयोतः] ध्वन्यालोकः । वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णनं मनोभवशरसंधानपर्यन्तं शंभोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादिसाक्षाच्छब्दनिवेदितम् । इह तु सामाक्षिप्तव्यभिचारिमुखेन रसप्रतीतिः । तस्मादयमन्यो ध्वनेः प्रकारः। यत्र च शब्दव्यापारसहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर्विषयः । यथा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापमं निमीलितम् ॥' अत्र लीलाकमलनिमीलनस्य व्यञ्जकत्वमुक्त्यैव निवेदितम् । मान एव भवति न वाच्यः कदाचिदपि तथापि न सर्वो लक्ष्यक्रमस्य विषयः। यत्र हि विभावानुभावेभ्यः स्थायिगतेभ्यो व्यभिचारिगतेभ्यश्च पूर्णेभ्यो झटित्येव रसव्यक्तिस्तत्रास्त्वलक्ष्यक्रमः। यथा-'निर्वाणभूयिष्ठमथास्य वीर्य संधुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवतामिरदृश्यत स्थावरराजकन्या ॥' इत्यादी संपूर्णालम्बनोद्दीपनविभावतायोग्यखभाववर्णनम् । 'प्रतिग्रहीतुं प्रणयिप्रियवात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥' इत्यनेन विभावतयोपयोग उक्तः। 'हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि॥' अत्र हि भगवत्याः प्रथममेव तत्प्रवणत्वात्तस्य चेदानीं तदुन्मुखीभूतत्वात्प्रणयिप्रियतया च पक्षपातस्य सूचितस्य गाढीभावाद्रत्यात्मनः स्थायिभावस्यौत्सुक्यावेगचापल्यहर्षादेश्व व्यभिचारिणः साधारणीभूतोऽनुभाववर्गः प्रकाशित इति विभावानुभावचर्वणैव व्यमिचारिचर्वणायां पर्यवस्यति । व्यभिचारिणां पारतन्यादेव सक्सूत्रकल्पस्थायिचर्वणाविश्रान्ते. रलक्ष्यक्रमत्वम् । इह तु पद्मदलगणनमधोमुखत्वं चान्यथापि कुमारीणां संभाव्यत इति झटिति न लज्जायां विश्रमयति हृदयमपि तु प्राग्वृत्ततपश्चार्यादिवृत्तान्तानुसरणेन तत्र प्रतिपत्तिं करोतीति क्रमव्यङ्ग्यतैव । रसस्त्वंत्रापि दूर एव व्यमिचारिखरूपे पर्यालोच्यमाने भातीति तदपेक्षया लक्ष्यक्रमतैव । लज्जापेक्षया तु तंत्र लक्ष्यक्रमत्वम् । अमुमेव भावमेवशब्दः केवलशब्दश्च सूचयति । उक्तिं विनेति यदुक्तं तद्यवच्छेद्यं दर्शयितुमुपकमते-यत्र चेति । चशब्दस्तुशब्दस्यार्थे । अस्येति । अलक्ष्यक्रमस्तु तत्रापि स्यादेवेति भावः । उदाहरति-संकेतेति । व्यञ्जकत्वमिति । प्रदोषसमयं प्रतीति शेषः । उक्त्यैवेति । आद्यपादत्रयेणेत्यर्थः। यद्यपि चात्र शब्दान्तरसंनिधानेऽपि प्रदोषार्थ - १. 'निवेशितेभ्यः' क-ख. १. भवति' ग-पुस्तके नास्ति. २. 'तथा न' क-ख. ३. 'पूर्व' ग. ४. 'पर्यवस्यन्ती' क-ख. ५. 'अत्रातिदूर' क-ख. ६. 'नालक्ष्यक्रमलम्' क-ख. ७. 'तदवच्छेदं' ग. ८. 'उदाहरति-संकेतेति' ग-पुस्तके नास्ति. Page #113 -------------------------------------------------------------------------- ________________ १०४ काव्यमाला। वेथा च शब्दार्थशक्त्या वाक्षिप्तो व्यङ्गयोऽर्थः कविना पुनः। यत्राविष्क्रियते स्त्रोक्त्या सान्यैवालंकृतिलनेः ॥ २४ ॥ शब्दशक्त्यार्थशक्त्या शब्दार्थशक्त्या वाक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनर्यत्र खोक्त्या प्रकाशीक्रियते सोऽस्मादनुस्खानोपमव्यङ्ग्याद्धनेरन्य एवालंकारः । अलक्ष्यक्रमव्यङ्गयस्य वा ध्वनेः । सति संभवे स ताहगन्योऽलंकारः । तत्र शब्दशक्त्या यथा'वत्से मा गा विषादं श्वसनमुरुजवं सत्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते भवतु बलभिदा जम्भितेनात्र याहि । प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमूढां पयोधिः ॥' प्रति न कस्यचिदमिधानशक्तिः पदस्येति व्यञ्जकत्वं न विघटितं तथापि शब्देनैवोक्तमयमर्थान्तरस्य व्यञ्जक इति । ततश्च ध्वनेयगोप्येमानतोदितचारुवात्मकत्वं प्राणितं तदपहस्तितम् । यथा कश्चिदाह-'गम्भीरोऽहं न मे कृत्यं कोऽपि वेद सुसूचितम् । किंचिद्रवीमि-' इति । तेन गाम्भीर्यसूचनार्थः प्रत्युत धिकृत एव । अत एवाह व्यञ्जकत्वमिति उक्त्यैवेति च । प्रक्रान्तप्रकारद्वयोपसंहारं तृतीयप्रैकारसूचनं चैकेनैव यत्नेन करोमीत्याशयेन साधारणमवतरणपदं प्रक्षिपति वृत्तिकृत्-तथा चेति। तेन चोक्तप्रकारद्वयेनायमपि तृतीयः प्रकारो मन्तव्य इत्यर्थः । शब्दश्चार्थश्च शब्दार्थावित्येकशेषः (१)। सान्यैवेति । न ध्वनिरसौ । अपि तु श्लेषादिरलंकार इत्यर्थः। अथवा ध्वनिशब्देन लक्ष्यक्रमः । तस्यालंकार्यस्याङ्गिनः स व्यङ्ग्योऽर्थोऽन्यो वाच्यमात्रालंकारापेक्षया द्वितीयो लोकोत्तरश्चालंकार इत्यर्थः । एवमेव वृत्तौ द्विधा व्याख्यास्यति शब्दशक्येत्यादिना। विषमत्तीति विषादः । ऊर्ध्वप्रवृत्तमग्निमित्यत्र चार्थो मन्तव्यः । कंपोऽपांपतिः को ब्रह्मा वा तव गुरुः । बलभिदा इन्द्रेण जृम्भितेन ऐश्वर्येणेत्यर्थः । जृम्भितं च गात्रसंमर्दनात्मक १. 'शक्त्यापि क्षिप्तो' ग. २. “एव क्रमः' कख. ३. 'संवृणूर्व' ग. ४. 'मन्थमुग्धः ' ग. १. 'उक्तसमर्थमर्थान्तरस्य' क-ख. २. 'मानं नोदित' क-ख. ३. 'अधिकृत एव' क-ख. ४. 'प्रमासूचनं' ग. ५. 'तथा चेति' क-ख-पुस्तकयो स्ति. ६. 'मन्थमुग्धः ' ग. ७. 'न' ग-पुस्तके नास्ति. ८. 'अलक्ष्यक्रमस्तस्यालंकारस्यालिङ्गिनः' क-ख. ९. 'अन्यो' क-ख-पुस्तकयो स्ति. १०. 'व्याचक्षते' क-ख. ११. 'शब्दशक्तयेत्यादिना' ग-पुस्तके नास्ति. १२. “ऐश्वर्येणेत्यर्थः' क-ख-पुस्खकयो स्ति. Page #114 -------------------------------------------------------------------------- ________________ २ उयोतः] कन्यालोकः । १०५ अर्थशक्त्या यथा'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' उभयशक्त्या यथा—'दृष्ट्या केशवगोपरागहृतया-' इत्यादौ । प्रौढोक्तिमात्रनिष्पनशरीरः संभवी स्वतः। अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥२५॥ अर्थशत्युद्भवानुरणनरूपव्यङ्गये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्यापि बलं भिनत्ति । आयासकारित्वात्। प्रत्याख्यानमिति । वचसैवात्र द्वितीयोऽर्थोऽमिधीयत इति निवेदितम् । कारयित्वेति । सा हि कमला पुण्डरीकाक्षमेव हृदये निधायोत्थितेति खयमेव देवान्तराणां प्रत्याख्यानं करोति । खभावसुकुमारतया तु मन्दरान्दोलितजलधितरङ्गभङ्गपर्याकुलीकृता तेन प्रतिबोधिता तत्समर्थाचरणमन्यत्र दोषोद्धाटनेनात्र याहीति चामिनयविशेषेण सकलगुणादरदर्शकेन कृतम् । अत एव मन्थमूढामित्याह । इत्युक्तप्रकारेण भयनिवारणव्याजेन सुराणां प्रत्याख्यानं मन्थमूढां लक्ष्मी कारयित्वा पयोधिर्यस्मै तामदात्स वो युष्माकं दुरितं दहत्विति संबन्धः । अत्रैकैकस्य पदस्य व्यञ्जकत्वं सहृदयैः सुकल्प्यमिति खकण्ठेन नोक्तम् । व्याजशब्दोऽत्र खोक्तिः । एवमुपसंहारव्याजेन प्रकारद्वयं सोदाहरणं निरूप्य तृतीयं प्रकारमाह-उभयेति । शब्दशक्तिस्तावद्गोपरागादि । शब्दश्लेषवशात् । अर्थशक्तिस्तु प्रकरणवशात् । यावदत्र राधारमणस्याखिलतरुणीजनच्छन्नानुरागगरिमास्पदत्वं न विदितं तावदर्थान्तरस्याप्रतीते: सलेशमिति खोक्तिः । एवमर्थशक्त्युद्भवस्य सामान्यलक्षणं कृतम् । श्लेषाद्यलंकारेभ्यश्चास्य विभक्तो विषय उक्तः । अधुनास्य प्रमेदनिरूपणं करोति-प्रौढोक्तीत्यादिना । योऽर्थान्तरस्य दीपको व्यञ्जकोऽर्थ उक्तः सोऽपि द्विविधः । न केवलमनुखानोपमो द्विविधः यावत्तद्देदो यो द्वितीयः सोऽपि व्यञ्जकार्थद्वैविध्यद्वारेण द्विविध इत्यपिशब्दस्यार्थः । प्रौढोक्तेरप्यवान्तरभेदमाह वृत्त्या-अर्थशक्तीत्यादिना । तेनैते त्रयो मेदा १. 'व्यङ्ग्यध्वनौ' क-ख. .. १. 'उक्तम्' ग. २. 'मन्थमूढां लक्ष्मी' ग-पुस्तके नास्ति. ३. 'उक्तम्' क-ख. ४. 'श्लेषाद्यलंकारश्चास्य' क-ख, 'श्लेषालंकारेभ्यश्चास्य' ग. ५. 'इत्युक्तः' क-ख. 5. 'अर्थ' ग-पुस्तके नास्ति. ७. 'द्वितीयः' क-ख. ८. 'यो यावत्तद्भेदो यो द्वितीयः' ग. ९. 'शब्दार्थः' क-ख. १०. 'आह-कवेरिति । तेनैते' ग. Page #115 -------------------------------------------------------------------------- ________________ १०६ काव्यमाला। द्वौ प्रकारौ । कवेः कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्नशरीर एकः खतः संभवी च द्वितीयः । कविप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा'सज्जेहि सुरहिमासो ण दाव अप्पेइ जुअइजणलक्खमुहे ।। अहिणवसहआरमुहे णवपल्लवपत्तले अणङ्गस्स शरे ॥' कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा-'शिखरिणि-' इत्यादौ । यथा वा'साअरविइण्णजोव्वणहत्थालम्बं समुण्णमन्तेहिम् । अब्भुट्ठाणं विअ मम्महस्स दिण्णं तुह थणेहिम् ॥' खतः संभवी य औचित्येन बहिरपि संभाव्यमानसद्भावो न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरः । यथोदाहृतम् ‘एवंवादिनि'-इत्यादि । भवन्ति प्रकर्षेण ऊढः संपादयितव्येन वस्तुना प्राप्तस्तत्कुशलः प्रौढः । उक्तिरपि समर्पयितव्यवस्त्वर्पणोचिता प्रौढत्युच्यते । 'सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् । अभिनवसहकारमुखान्नवपल्लवपेत्रलाननङ्गस्य शरान् ॥' अत्र वैसन्तोऽचेतनोऽनङ्गस्य सखा सजयति न केवलं तावदर्पयतीत्येवंविधया समर्पयितव्यवस्वर्पण. कुशलयोक्त्या सहकारोनेदिनी वसन्तदशा यत उक्ता अतो ध्वन्यमानं मन्मथोन्माथस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति । अन्यथा वसन्ते सपल्लवसहकारोद्गम इति वस्तुमात्रं न व्यञ्जकं स्यात् । एषा च कवेरेवोक्तिः प्रौढा । शिखरिणीति । अत्र लोहितं बिम्बफलं शुको दशतीति न व्यञ्जकता काचित् । यदा तु कविनिबद्धस्य साभिलाषस्य तरुणस्य वक्तुरित्थं प्रौढोक्तिस्तदा व्यञ्जकलम् । 'सादरवितीर्णयौवनहस्तालम्बं [कृत्वा] समुन्नमझ्याम् । अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥' स्तनौ तावदिह प्रधानभूतौ ततोऽपि गौरवितः कामस्ताभ्यामभ्युत्थानेनोपचर्यते । यौवनं चानयोः परिचारकभावेन स्थितमित्येवंविधेनोक्तिवैचित्र्येण तदीयस्तनावलोकनप्रवद्धमन्मथावस्थः को न भवतीति भन्या स्वामिप्रायध्वननं कृतम् । तव तारुण्येनोन्नती स्तनाविति हि वचनेन व्यञ्जकता न केवलमित्युक्तिवैचित्र्यं तावत्सर्वथोपयोगि भवतीति १. 'वस्तु' ग. २. 'स्कन्धकं नाम च्छन्दः'. ३. 'निष्पन्नो यथा' ग. ४. 'बहिरपि' ग-पुस्तके नास्ति. ५. 'अमि' क-ख-पुस्तकयो स्ति. १. 'संभवन्ति' क ख. २. 'यन्तलाननङ्गाय' ग. ३. 'वसन्तश्चेतनो' ग. ४. 'जयति' ग. ५. 'माथकस्य' क-ख. ६. 'प्रवृत्त' क-ख. Page #116 -------------------------------------------------------------------------- ________________ २ उयोतः] ध्वन्यालोकः । १०७ यथा वा_ 'सिहिपिच्छकण्णपूरा जाआ वाहस्स गलिवरी भमइ । मुत्ताफलरइअपसाहणाण मज्झे सवत्तीणम् ॥' अर्थशक्तेरलंकारो यत्राप्यन्यः प्रतीयते । अनुस्वानोपमव्यङ्गयः स प्रकारोऽपरो ध्वनेः ॥ २६ ॥ वाच्यालंकारव्यतिरिक्तो यत्रान्योऽलंकारोऽर्थसामर्थ्यात्प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुखानरूपव्यङ्गयोऽन्यो ध्वनिः । तस्य प्रविरलविषयत्वमाशङ्कथेदमुच्यते रूपकादिरलंकारवर्गो यो वाच्यतां श्रितः । स सर्वो गम्यमानत्वं बिभ्रद्धूम्ना प्रदर्शितः ॥ २७॥ भावः । 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गैर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥' शिखिमात्रमारणमेव तदासक्तस्य कृत्यम् । अन्यास्तु ला• सक्तो हस्तिनोऽप्यमारयदिति बहुवचनेनोक्तमुत्तमसौभाग्यम् । रचितानि विविधभङ्गीभिः प्रसाधनानीति तासां संभोगव्यग्रिमाभावाद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इदानीं प्रकाशितः । गर्वश्च बाल्याविवेकादिनापि भवतीति नात्र खोक्तिसद्भावः शयः । एँष चार्थो यथायथा वर्ण्यते आस्तां वा वर्णना बहिरपि यदि प्रत्यक्षादिनावेलोक्यते तथातथा सौभाग्यातिशयं व्याधवध्वा द्योतयति । एवमर्थशक्त्युद्भवो द्विभेदो वस्तुमात्रस्य व्यञ्जनीयत्वे वस्तुध्वनिरूपतया निरूपितः । इदानीं तस्यैवालंकाररूपे व्यञ्जनीयेऽलंकारध्वनित्वमपि भवतीत्याह-अर्थेत्यादि । [अर्थशक्तेः] न केवलं शब्दशक्तेरलंकारः प्रतीयते पूर्वोक्तनीत्या यावदर्थशक्तेरपि । यदि वा न केवलं यत्र वस्तुमात्रं प्रतीयते यावदलंकारोऽपीत्यपिशब्दार्थः। अन्यशब्दं व्याचष्टे-वाच्येति ।....... देवम् । आशयेति । शब्दशक्त्या श्लेषाद्यलंकारो भासत इति संभाव्यमेतत् । अर्थशक्त्या तु कोऽलंकारो भातीत्याशङ्काबीजम् । सर्व इति प्रदर्शित इति च पदेनासंभावनात्र मिथ्यैवेत्याह । 'उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुसै ससंदेहं विदुर्यथा ॥' इति । 'तस्याः पाणिरयं न मारुतचलत्पत्राङ्गुलिः पल्लवः' इत्यादावु १. 'बहुआ' ग. २. 'अनुरणनरूपो व्यङ्ग्यो' क-ख. ३. 'अन्यो' ग-पुस्तके नास्ति. ४. 'तत्र' क-ख. १. 'वधूः' ग. २. 'गर्वशीला' ग. ३. 'भावात्तद्धितरतिः प्रदर्शिता । गर्वश्च' क. ख. ४. ‘स एवार्थो' ग. ५. 'अलंक्रियते' क-ख. ६. 'यदि वा केवलं शब्दशक्तेरसंकारः प्रतीयते यावद्यत्रालंकारोऽपीति शब्दार्थः' क-ख. ७. 'शब्दार्थ वृत्त्या व्याचष्टे वाच्येति तत्रेति कोऽलंकारो भवतीत्याशङ्काबीजम्' क-ख. Page #117 -------------------------------------------------------------------------- ________________ काव्यमाला। अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलंकारः सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्रभवद्भिभट्टोद्भटादिभिः । तथा च ससंदेहादिधूपमारूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलंकारान्तरस्यालंकारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यम् । इयत्पुनरुच्यत एंव अलंकारान्तरस्यापि प्रतीतौ यत्र भासते । तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥ २८ ॥ अलंकारान्तरस्य रूपकादेरलंकारप्रतीतो सत्यामपि यत्र वाच्यस्य व्यनयप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर्मार्गः । तथा च दीपैकादावलंकारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यप्रदेशः। पमा रूपकं वा ध्वन्यते । अतिशयोक्तेश्च प्रायशः सर्वालंकारेषु ध्वन्यमानत्वम् । अलंकारान्तरस्येति । यत्रालंकारोऽप्यलंकारान्तरं ध्वनति तत्र वस्तुमात्रेणालंकारो ध्वन्यत इति कियदिदमसंभाव्यमिति तात्पर्येणालंकारान्तरशब्दो वृत्तिकृता प्रत्युक्तो.... कुतोपयोगि (१) । न ह्यलंकारेणालंकारो ध्वन्यत इति प्रकृतमदः । अर्थशक्त्युद्भवे ध्वनौ वस्त्विवालंकारोऽपि व्यङ्ग्य इत्येतावतः प्रकृतत्वात् । तथा चोपसंहारग्रन्थे 'तेऽलंकाराः परां छायां यान्ति ध्वन्यङ्गतां गताः' इत्यत्र श्लोके वृत्तिकृत् ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां' इत्युपक्रम्य 'तत्रेह प्रकरणाद्धन्यङ्गत्वेनेत्यवगन्तव्यम्' इति वक्ष्यति । अन्तरशब्दोऽत्रोभयत्रापि विशेषपर्यायः । वैषयिकीसप्तमी । न तु प्राग्व्याख्यायामिव निमित्तसप्तमी। तदयमर्थः-वाच्यालंकारविशेषविषयेऽप्यन्योऽलंकारविशेषो भातीत्युद्भटादिमिरुक्तमेवेत्यर्थशक्त्यालंकारो व्यज्यत इति तैरुपगतमेव । केवलं तेऽलंकारलक्षणकारखाद्वाच्यालंकारविशेषविषयत्वेनाहुरिति भावः । न तु पूर्वैरेव यदीदमुक्तं किमर्थं तव यत्न इत्याशझ्याह-इयदिति । अस्माभिरिति वाक्यशेषः । पुनःशब्दस्तदुक्ताद्विशेषद्यो १. 'अन्यवाच्यत्वेन' ग. २. 'संदेहादिषु' ग. ३. 'अलंकारान्तरत्वे' क-ख. ४. 'प्रतिपाद्यमिति' ग. ५. 'पुनरुक्तं' क-ख. ६. “एव' क-ख-पुस्तकयो स्ति. ७. 'काव्यस्य' क-ख. ८. 'ध्वनौ' क-ख. ९. 'अलंकारान्तरेषु तु अनुरणनरूपकालंकार' ग. १०. 'दीपकालंकारे' ग. ११. 'अप्यवस्थानात्' ग. १. 'संभाव्यं' ग. २. 'तात्पर्येणालंकारो ध्वन्यत इति' क-ख. ३. 'प्रस्तुतत्वात्' क-ख. ४. 'व्यङ्ग्यत्वेन' ग. ५. 'भावीत्युद्भटा' ग. ६. 'ते लक्षणकारखात्' क-ख. ७. 'विषयत्वेन तेनाहुः' क-ख. Page #118 -------------------------------------------------------------------------- ________________ २ उयोतः] ध्वन्यालोकः । यथा'चन्दमऊएहि णिसा णलिनी कमलेहि कुसुमगुच्छेहिँ लआ । हंसेहिं सरअसोहा कव्वकहा सज्जनेहिं करइ गरुई॥ इत्यादिषूपमागर्भत्वेऽपि सति वाच्यालंकारमुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालंकारतात्पर्येण । तस्मात्तत्र वाच्यालंकारमुखेनैव काव्यव्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्यपरत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्यमुखेनैव व्यपदेशो युक्तः। यथाप्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥' तकः । चन्दमऊ इति । चन्द्रमयूखादीनां ने निशादिना विना कोऽपि परभागलाभः । सज्जनानामपि काव्यकथां विना कीदृशी साधुजनता । चन्द्रमयूखैश्च निशाया गुरुकीकरणं भाखरत्वसेव्यत्वादि यत्क्रियते, कमलैनलिन्याः शोभा परिमललक्षम्यादि, कुसुमगुच्छैलेताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरखमनोहरत्वादि, तत्सर्वे काव्यकथायाः सजनैरित्येतावानयमों गुरुः क्रियत इति दीपकबलाचकास्ति । कथाशब्दमाह-आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः सजनैर्विना काव्यमित्येष शब्दोऽपि ध्वंसते । तेषु तु सत्स्वास्ते सुभगं काव्यं काव्यशब्दव्यपदेशभागपि शब्दसंदर्भमात्रं तथा तथा तैः क्रियते यथा यथादरणीयतां प्रतिपद्यत इति दीपकस्यैव प्राधान्यं नोपमायाः । एवं तु कारिकार्थमुदाहरणेन प्रदर्यास्या एव कारिकाया व्यवच्छेद्यबलेन योऽर्थोऽमिमतो यत्र तत्परत्वं स ध्वनेमार्ग इत्येवंरूपस्तं व्याचष्टे-यत्र त्विति । तत्र च वाच्यालंकारेण कदाचिद्व्यङ्ग्यमलंकारतां यदि वा वाच्यालंकारस्य सद्भावमात्रं न व्यञ्जक.......वाच्यालंकारस्याभाव एव वेति त्रिधा विकल्पः । एतच्च यथायोगमुदाहरणेषु योज्यम् । 'उँदाहरति-प्राप्तेति । कस्मिंश्चिदनन्तबलसमुदायवति नरपतौ समुद्रपरिसरव १. 'तथाहि' क-ख. २. 'चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छलता। हंसैः शारदशोभा काव्यकथा सजनैः क्रियते गुर्वी ॥' इति च्छाया. ३. 'उपमालंकारगर्भत्वे सत्यपि' ग. ४. 'काव्यस्य' क-ख. ५. 'काव्यस्य व्यवस्थापनं' क-ख. १. 'चन्दमऊ' इति ग-पुस्तके नास्ति'. २. 'अपि न' क-ख. ३. 'गुरुकी' क-ख. ५. 'तथाशब्द' ग. ५. 'आस्तां' ग. ६. 'व्यवच्छेद' ग. ७. 'वाच्यालंकारस्याभाव एव वेति' क-ख. ८. 'उदाहरति' ग-पुस्तके नास्ति. Page #119 -------------------------------------------------------------------------- ________________ काव्यमाला। यथा वा ममैव'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मि मेरेऽधुना तव मुखे तरलायताक्षि । .. क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः॥' इत्येवंविधे विषयेऽनुरणनरूपकाश्रयेण काव्यचारुत्वव्यवस्थानाद्रपकध्वनिरिति व्यपदेशो न्याय्यः। . तिनि पूर्णचन्द्रोदयतदीयबलावगाहनादिना निमित्तेन पयोधेस्तावत्कम्पो जातः। सोऽनेन संदेहेनोत्प्रेक्ष्यत इति ससंदेहोत्प्रेक्षयोः संकरात्संकरालंकारो वाच्यः । तेन च वासुदेवरूपता तस्य नृपतेव॑न्यते । यद्यपि चात्र व्यतिरेको भाति तथापि स पूर्ववासुदेवस्वरूपानद्यतनवादद्यतनत्वेन भगवतोऽपि प्राप्तश्रीकत्वं नालस्येन सकलद्वीपाधिपतिविजयित्वेन च वर्तमानलात् । न च संदेहोत्प्रेक्षानुपपत्तिबलाद्रूपकस्याक्षेपः, येन वाच्यालंकारोपस्कारकत्वं व्ययस्य भवेत् । यो यः संप्राप्तलक्ष्मीको निर्व्याजविजिगीषाक्रान्तः स स मां मनीयादित्याद्यर्थसंभावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः । पुनरर्थस्य भूयोर्थस्य च कर्तृमेदेऽपि सैमुद्रेक्यमात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनरपि जामदग्न्येनेति । पूर्वा च निद्रा राजपुत्राद्यवस्थायामपीति सिद्धं रूपकध्वनिरेवायमिति । शब्दव्यापार विनैवार्थसौन्दर्यबलाद्रूपणाप्रतिपत्तेः । यथा च"ज्योत्सापूरप्रसरधवले सैकतेऽस्मिन्सरय्वा वादद्यूतं सुचिरमभवत्सिद्धयूनोः कयोश्चित् । एकोऽवादीत्प्रथमनिहतं केशिनं कंसमन्यो मला (स त्वं) तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥' इति केचिदुदाहरणमैत्र पठन्ति तदसत् । भवतेत्यनेन बलेनात्र त्वं वासुदेव इत्यर्थस्य स्फुटीकृतत्वात् । लावण्यं संस्थानमुग्धिमा । कान्तिः प्रभा । ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि संपादितानि दिङ्मुखानि येन । अधुना कोपकालुष्यादनन्तरं प्रसादौन्मुख्येन स्मेरे ईषद्विहसनशीले । तरेलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणम् । अथ चौधुना न परिवृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकपायपाटलं सैरं च तवे मुखं संध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यम् । क्षोमेण चलचित्ततया सहृदयस्य न चैति तत्सुव्यक्तमन्वर्थतयायं जलराशिर्जाड्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युक्तम् । अत्र च क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखाव. १. 'द्वीपाधिपविजयत्वेन' क-ख. २. 'पुनरपीति' ग-पुस्तके नास्ति. ३. 'समुद्रमात्रेण' क-ख. ४. 'जयदेवेनेति' ग. ५. "सिद्धा' ग. ६. 'यथा च' ग-पुस्तके नास्ति. ७. 'अत्र' ग-पुस्तके नास्ति. ८. 'इत्यस्फुटी' ग. ९. 'ताभिः' क-ख. १०. 'तरले आयते आन्दोलन' क-ख. ११. 'वा' क-ख. १२. 'तन्मुखं' ग. १३. 'न चैति तत्' ग-पुस्तके नास्ति. १४. 'शब्दा अर्थप्रधानास्तदुक्तं प्राक्' क-ख. Page #120 -------------------------------------------------------------------------- ________________ २ उड्योतः] ध्वन्यालोकः। उपमाध्वनिर्यथा'वीराणं रमइ घुसिणरुणम्मि ण तदा पिआथणुच्छङ्गे । दिट्ठी रिउगअकुम्भत्थलम्मि जह बहलसिन्दूरे ॥' यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य "तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेकरसम् । बिम्बाहरे पिआणं णिवेसि कुसुमबाणेण ॥' आक्षेपध्वनिर्यथा'स वक्तुमखिलाशक्तो हयग्रीवाश्रितान्गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥' लोकनेन भवतीतीयत्यभिधाया विश्रान्ततया रूपकं ध्वन्यमानमेव । वाच्यालंकारश्चात्र श्लेषः । स च न व्यञ्जकः । अनुरणनरूपं यत्र यद्रूपकमर्थशक्तिव्यङ्ग्यं तदाश्रयेणेह का. व्यस्य चारुत्वं व्यवतिष्ठते । ततस्तेनैव व्यपदेश इति संबन्धः। तत्तुल्ययोग........."दुपमाध्वन्युदाहरण................"खकण्ठेन न योजितम् । 'वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥' प्रसादितप्रियतमाश्वासनपरतया समनन्तरीभूतयुद्धत्वरितमनस्कतया च दोलायमानदृष्टित्वेऽपि युद्धे खरातिशय इति व्यतिरेको वाच्यालंकारः । तत्र तु येयं धन्य मानोपमा प्रियाकुचकुझ्यलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मत्सरोद्यतेषु गजकुम्भस्थलेष्विष्टा तद्शेन रतिमयानामिव बहुमान इति सैव वीरतातिशयचमत्कारं घेत इत्युपमायाः प्राधान्यम् । असुरपराक्रम इति । त्रैलोक्यविजयो हि तत्रास्य वर्ण्यते । तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रपुरावमर्दनादि किं किं न कृतं तद्धृदयं येभ्यस्तेभ्योऽतिदुष्करेभ्योऽप्यकमनीयव्यवसायम् । तच्च श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः । तेषां रत्नानामा समन्ताद्धरणे एकरसं तत्परं यद्धृदयं तत्कुसुमबाणेन सुकुमा रतरोपकरणसंभारेण प्रियाणां बिम्बाधरे निवेशिंतम् तदवलोकनपरिचुम्बनदर्शनमात्र कृतकृत्यतामिमानयोगित्वेन कामदेवेन कृतम् । तेषां हृदयं यदत्यन्तं विजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् । अत्रातिशयोतिर्वाच्यालंकारः । प्रतीयमाना चोपमा । १. 'तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥' इति च्छाया. १. 'भवतीत्यभिधाया विश्रान्तवात् क-ख.'२. 'यद्रूपं' क-ख. ३. 'तत्तुल्ययोजितम्' क-ख-पुस्तकयो स्ति. ४. 'कुङ्कुमारुणे' ग. ५. 'प्रियायाः' ग. ६. 'यडष्टिः' ग. ७. 'मदनोदितेषु' क-ख. ८. 'धीरता' क-ख. ९. 'विधत्ते' क-ख. Page #121 -------------------------------------------------------------------------- ________________ ११२ काव्यमाला । अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादन रूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् । अर्थान्तरन्यासध्वनिः नुरणनरूपव्ययश्च संभवति । तत्राद्यस्योदाहरणम् - शब्दशक्तिमूलानुरणनरूपव्यङ्गयोऽर्थशक्तिमूला 'देव्वा एतम्मि फले किं कीरइ एत्तिअं पुणा भणिमो । कङ्किल्लपल्लवाः पल्लवाणं अण्णाण ण सरिच्छा ॥' पदप्रकाशकश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्येऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा -comm 'हि'अअट्ठाविअमण्णुं अवरुण्णमुहं हि मं पसाअन्त । अवरद्धस्स वि ण हु दे पहुजाणअ रोसिउं सक्कम् ॥' सकलरत्नसारतुल्यो बिम्बाधर इति हि तेषां बहुमानो वास्तव एव । अत एव न रूपकध्वनिः । रूपकस्यारोप्यमाणत्वेनावास्तवत्वात् । तेषामसुराणां वस्तुवृत्त्यैव सादृश्यं स्फुरति । तदेव च सादृश्यं चमत्कारहेतुः प्राधान्येन । गुणानामवर्णनीयताप्रतिपादनमेवाक्षेपस्य रूपमिष्टप्रतिषेधात्मकम् । तस्य प्राधान्यं विशेषद्वारेणाह – असाधारणेति । संभवतीत्यनेन प्रसङ्गाच्छब्दशक्तिमूलस्यात्र विचार इति दर्शयति । 'दैवायत्ते तु फले किं क्रियतामेतावत्पुनर्भणामः । रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः ॥' अशो कस्य फलमाम्रादिवन्नास्ति किं क्रियतां पल्लवास्त्वतीव हृद्या इतीयतामिधा समाप्तैव । अत्र फलशब्दस्य शक्तिबला समर्थकमस्य वस्तुनः पूर्वमेव प्रतीयते । लोकोत्तरजिगी - षातदुपायप्रवृत्तस्यापि हि फलं संपलक्षणं दैवायत्तं कदाचिन्न भवेदपीत्येवंरूपं सामान्यात्मकम् । नन्वत्र सर्ववाक्यस्याप्रस्तुतप्रशंसा प्राधान्येन व्यङ्ग्या तत्कथमर्थान्तरन्यासस्य । व्यङ्गयताद्वये युगपदेकत्र प्राधान्यायोगादित्याशङ्कयाह - पदप्रकाशेति । सर्वे हि ध्वनिप्रपञ्चः पदप्रकाशो वाक्यप्रकाशश्चेति र्वेक्ष्यते । तत्र फलपदेऽर्थान्तरन्यासध्वनिः प्राधान्येन । वाक्ये त्वप्रस...... "पि समर्थक भावप्राधान्यमेव भातीत्यर्था - न्तरन्यासध्वनिरेवायमिति भावः । हृदये स्थापितो न तु बहिः प्रकटितो मन्युर्यया अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् हे बहुज्ञ, अपराद्धस्यापि तव न खलु रोषकारणं १. ‘भणामि’ ख ग. २. 'हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥' इति च्छाया. १. 'रूपकस्योपचारेण वास्तवत्वात् कख २. 'स्फुरितमिति' क ख. ३. 'समर्थ - तमस्य' ग. ४. ‘वक्ष्यति' क ख ५. 'प्राधान्येन ध्वनिः' क ख पुस्तकयोर्नास्ति. 'स्थितो' ख. Page #122 -------------------------------------------------------------------------- ________________ २ उझ्योतः] ध्वन्यालोकः। ___ अत्र हि वाच्यविशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुमशक्य इति समर्थकमर्थसामान्यमन्वितमन्यत्तात्पर्येण प्रकाशते । व्यतिरेकध्वनिरप्युभयरूपः संभवति । तत्राद्यस्योदाहरणं प्राक्प्रदर्शितमेव । द्वितीयस्योदाहरणं यथा 'जाएज वणुद्देसे खुज विअ पाअवो घडिअवत्तो । मा माणुसम्मि लोए ताएकरसो दरिदो अ॥' अत्र हि त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं घटितपत्रकुजपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् । तथाविधादपि पादपात्तादृशस्य पुंस उपमानोपमेयत्वप्रतीतिपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति । उत्प्रेक्षाध्वनिर्यथा 'चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः । मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ॥' अत्र हि मधौ मलयमारुतस्य पथिकमूर्छाकारित्वं मन्मथोन्माथदायित्वे शक्यम् । अत्र बहुक्षेत्यामन्त्रणार्थो विशेष पर्यवसितः । अनन्तरं तु तदर्थपर्यालोचनाद्यत्सामर्थ्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । सा हि खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यसूयां दर्शयन्तीत्थमाह । यः कश्चिद्बहुज्ञो धूर्तः स एवं सापराधोऽपि खापराधावकाशमाच्छादयतीति मा समात्मनि बहुमानं मिथ्या ग्रहीरिति । अंन्वितमिति । विशेषसामान्यस्य संबन्धत्वादिति भावः । व्यतिरेकध्वनि........... । अपिशब्देनार्थान्तरन्यासवदेव द्विप्रेकारत्वमाह-प्रागिति । 'खं येऽत्युज्ज्वलयन्ति' इति । 'रक्तस्त्वं नवपल्लवैः' इति । जायेय वनोद्देश एव वनस्यैकान्ते गहने यत्र स्फुटतरबहुवृक्षसंपत्त्या प्रेक्षतेऽपि न कश्चित् । कुब्ज इति रूपकघटनादावनुपयोगी । घटितपत्र इति छायामपि न करोति । तस्य का पुष्पफलवत्तेत्यभिप्रायः । तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी भवेदुलूकादीनां वा निवासायेति भावः । मानुष इति । सुलभार्थिजन इति भावः । यत्रालोक्यते सोऽर्थिभिस्तेन......न किंचिच्छश्यते कर्तु तन्महद्वैशसम् । ... ... । अत्र वाच्यालंकारो न कश्चित् । अत्रेत्यस्मिञ्जाएजेत्युदाहरणे । उपमानेत्यनेन व्यतिरेकस्य मार्गपरिशुद्धिं करोति । आधिक्यमिति । व्यति १. 'जायेय वनोद्देशे कुब्ज इव पादपो घटितपत्रः । मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥' इति च्छाया. २. 'त्रुटित' क-ख. ३. 'उपमानोपमेयभाव' क-ख. ४. 'करणवं' क-ख. १. 'तेनेति' ग. २. 'द्विप्रकारवादित्याह' ग. . ११ ध्व. लो. Page #123 -------------------------------------------------------------------------- ________________ ११४ काव्यमाला । नैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूछितत्वेनोप्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते । न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबंद्धैवेति शैक्यं वक्तुम् । गमकत्वादन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा 'ईसीकलुसस्स वि तुह मुहस्स णं एस पुण्णिमाचन्दो । अज्ज सरिसत्तणं पाविऊण अङ्गे विअ ण माइ ॥' यथा वा 'त्रासाकुलः परिपतन्परितो निकेता___ नपुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाभि__राकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥' रेकमित्यर्थः । उत्प्रेक्षितमिति । विषवातेन हि मूछितो बृंहित उपचितो मोहं करोति । एकश्च मूर्च्छितः पथिकः पथिकमध्येऽन्येषामपि धैर्यच्युतिं विदधन्मूर्छा करोतीत्युभयथोत्प्रेक्षा । नन्वत्र विशेषणमधिकीभवद्धतुतयैव संगच्छते । ततः किमपि हेखतः परमार्थतः । तथापि तु हेतुत उत्प्रेक्ष्यत इति यत्किंचिदेतत् । तदिति । तस्ये. वादेरप्रयोगेऽपि तस्यार्थस्येत्युत्प्रेक्षारूपस्यावगतेः प्रतीतेर्दशनात् । एतदेवोदाहरतियथेति । ईर्ष्याकलुषस्यापीषदरुणच्छायाकस्य यदि खप्रसन्नस्य मुखस्य सादृश्यमुदहेत्सर्वदा वा तत्किं कुर्यात्त्वन्मुखं खेतद्भवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अङ्गे खदेहे न मात्येव दश दिशः पूरयति । यतोऽयेयता कालेनैकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशां पूरणं स्वरससिद्धमेवोत्प्रेक्ष्यते । ननुशब्देन वितत्प्रेिक्षारूपमाचक्षाणेनासंबद्धता निराकृतेति संभावयमान उदाहरणान्तरमाह-यथा वेति । परितः सर्वतो निकेतान्परिपतन्नाक्रमन कैश्चिदपि चापपाणिभिरसौ मृगोऽनुबद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते-अङ्गनाभिराकर्णपूर्णर्नेत्रशरैर्हता ईक्षणश्रीः सर्वस्वभूता यस्य यतोऽतो न तस्थौ । १. 'रूपव्यङ्ग्या' क-ख. २. 'संबन्धतैवेति' ग. ३. 'शक्यते' ग. ४. 'ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमा चन्द्रः । अद्य सदृशवं प्राप्याङ्ग इव न माति ॥' इति च्छाया. १. 'उपचरितो' ग. २. 'ततः किं न हि हेतुतः परमार्थेन तथापि' ग. ३. 'हेतुतापि' क-ख. ४. 'यदि' क-ख. ५. 'तस्योत्प्रेक्षा' क-ख. ६. 'दर्शनं तस्मात्' क-ख. ७. 'अत्र पराकृतेति' क-ख. ८. 'यस्याग्रतः कुतो न' ग. Page #124 -------------------------------------------------------------------------- ________________ २ उझ्योतः] ध्वन्यालोकः। शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् । श्लेषध्वनिर्यथा 'रम्या इति प्राप्तवतीः पताकाः कामं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः ॥' . अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीरेरनन्तरं वध्व इव वलभ्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन विवर्तते । यथासंख्यध्वनिर्यथा 'अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः। __ अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ॥' नन्वेतदप्यसंबद्धमस्वित्याशङ्कयाह-शब्दार्थेति । पताका ध्वजपटान्प्राप्तवती । रम्या इति हेतोः पताकाः प्रसिद्धीः प्राप्तवती । किमाकाराः प्रसिद्धीः । रम्या इत्येवमाकाराः। विविक्ता जनसंकुलवाभावादित्यतो हेतो रागं संभोगाभिलाषं वर्धयन्तीः । अतो हेतोः विविक्ता विभक्ताङ्गयो लटभाः । नमन्ति वलीकानि च्छदिपर्यन्तभागा यासु । नमन्त्यो वल्लयस्त्रिवलीलक्षणा यासाम् । सममिति सहेत्यर्थः । ननु समशब्दात्तुल्यार्थेऽपि प्रतीतिः । सत्यम् । सापि श्लेषबलात् । श्लेषश्च नाभिधावृत्तेराक्षिप्तोऽपि वर्थसौन्दर्यबलादेवेति. सर्वथा ध्वन्यमान एव श्लेषः । अत एव वध्व इव वलभ्य इत्यभिदधतापि वृत्तिकृतोपमाध्वनिरिति नोक्तम् । श्लेषस्यैवात्र मूलवात् । सममिति यदि स्पष्टं भवेत्तदोपमाया एव स्पष्टवाच्छेषस्तदाक्षिप्तः स्यात् । सममिति निपातोऽञ्जसा सहार्थवृत्तिर्व्यञ्जकलबलेनैव क्रियाविशेषणवेन शब्दश्लेषतामेति । न च तेन विनाभिधाया अपरिपुष्टता काचित् । अत एव समाप्तायामेवाभिधायां सहृदयैरेव स द्वितीयोऽर्थः पृथक्प्रयत्नेनीवगम्यते । यथोकं प्राक्-'शब्दार्थशासनज्ञानमात्रेणैव-' इत्यादि । एतच्च सर्वोदाहरणेम्वनुसतव्यम् । 'पीनश्चैत्रो दिवा नात्ति' इत्यत्राभिधैवापर्यवसितेति सैव खार्थनिर्वाहायार्थान्तरं शब्दान्तरं वाकर्षतीत्यनुमानस्य श्रुतार्थापत्तेर्वा तार्किकमीमांसकयोर्न ध्वनिप्रसङ्ग इत्यलं बहुना । तदाह-अशब्दापीति । एवमन्येऽपीति । सर्वेषामेवार्थालंका १. 'कुसुमितः' ग. १. 'सम इति' क-ख. २. “विशेषणतया' ग. ३. 'न परिदुष्टता' क-ख. ४. 'अवगम्यः' ग. ५. 'खात्म' क-ख. ६. 'भूतार्थापत्तेः' ग. ७. 'मीमांसकपक्षयोः' क-ख. ८. 'तदाह ग. Page #125 -------------------------------------------------------------------------- ________________ काव्यमाला। ___ अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं मदनविशेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमानमालक्ष्यते । एवमन्येऽप्यलंकारा यथायोगं योजनीयाः। राणां ध्वन्यमानता दृश्यते । यथा च दीपकध्वनिः-'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा खस्ति तेऽस्तु लतया सह वृक्षः ॥' इत्यत्र बाधिष्टति भोव्यमानादेव दीपकादत्यन्तस्नेहास्पदवप्रतिपत्त्या चारुत्वनिष्पत्तिः । अप्रस्तुतप्रशंसाध्वनिरपि-'दुण्दुल्लन्तो मरिहिसि कण्टअकलिआ केअइवणाई। मालइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ॥' प्रियतमेन साकमुद्याने विहरन्ती काचिनायिका भ्रमरमेवमाहेति भृङ्गस्याभिधायां प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुतप्रशंसा । समाप्तायां पुनरभिधायां वाच्यार्थबलादन्यापदेशता ध्वन्यते । यत्सौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी कुलवधूर्निर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्ध्यतिशयशम्भलीकण्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानीतश्चतश्चध्र्यमाणं प्रियतममुपालभते । अपहृतिध्वनिर्यथास्मदुपाध्यायभहन्दुराजस्य–'यः कालागुरुपत्रभङ्गरचनावासैकसारायते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं संतापं विनिनीपुरेष विनतैरङ्गै ताङ्गि स्मरः ॥' अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छविमन्मथाकारतयापह्नवो ध्वन्यते । अत्रैव ससंदेहध्वनिः-यतश्चन्द्रवर्तिनस्तस्य नामापि न गृहीतम् । अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्रभङ्गविच्छित्त्यास्पदलेन यः सारतामुत्कृष्टतामाचरति तन्न च जानीमः किमेतद्वस्विति ससंदेहोऽपि ध्वन्यते । पूर्वमनङ्गीकृतप्रणयामनूत्तप्तां विरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरलेन कृतप्रसाधनादिविधितया वासकसज्जीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामलकान्तिरेवमेव करोतीति प्रतिवस्तूपमाध्वनिरपि । सुधाधामनीति चन्द्रपर्यायतयोपात्तमपि पदं संतापं निनीषुरित्यत्र हेतुतामपि व्यनक्तीति हेवलंकारध्वनिरपि । वदीयकुचशोभा मृगाङ्कशोभा च सह मदनमुद्दीपयत इति सहोक्तिध्वनिरपि । 'खत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वत्कुचाभोगः' इत्यर्थप्रतीतेरु १. 'अनुद्देशे' क-ख. २. 'अनति' क-ख. १. 'तथा च' क-ख. २. 'गोप्यमानात्' क-ख. ३. 'अभिप्रायं' क-ख. ४. 'अप्रस्तुतत्वावगतिः प्रत्युतामन्त्रणं तस्य ......' ग. ५. 'चञ्चलमानसं' ग. ६. 'विलासोद्भवं' क, 'विकासोद्भवं' ख. ७. 'इति तजानीमः' क-ख. ८. 'उक्तं' क-ख. ९. 'शोभाभिः सह' क-ख. १०. 'चन्द्रमसः कुचा' क-ख. Page #126 -------------------------------------------------------------------------- ________________ २ उद्द्योतः ] ध्वन्यालोकः एवमलंकारध्वनिमार्ग व्युत्पाद्य तस्य प्रयोजनवत्तां मुच्यते ११७ ख्यापयितुमिद शरीरीकरणं येषां वाच्यत्वेन व्यवस्थितम् । dsलंकाराः परां छायां यान्ति ध्वन्यङ्गतां गताः ॥ २९ ॥ ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद्व्यङ्ग्यत्वेनेत्यवगन्तव्यम् । व्यङ्ग्यत्वेऽप्यलंकाराणां प्राधान्यविवक्षायामेव सत्यां ध्वनावन्तःपातः । इतरथा तु गुणीभूतव्यङ्ग्यत्वं प्रतिपादयिष्यते । अङ्गित्वेन व्यङ्ग्यतायामपि । पमेयोपमाध्वनिरपि । एवमन्येऽप्यत्र भेदाः शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात् । यतः— 'हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्तिरोमचलनं धरणीं धुनोति खात्संपतन्नपि लतां चलयेन्न भृङ्गः ॥' एषां तु भेदानां संसृष्टित्वं संकरत्वं च यथायोगं चिन्त्यम् । अतिशयोक्तिध्वनिर्यथा ममैव —— केलीकन्दलितस्य विभ्रममधोर्धुर्यं वपुस्ते दृशौ भङ्गीभर कामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्राम्बुजन्मासवः सत्यं सुन्दरि वेधसत्रिजगतीसारस्त्वमेकाकृतिः ॥ ' अत्र हि मधुमासमदनासवानां त्रैलोक्ये सुभगतान्योन्यं परिपोषकत्वेन । ते तु त्वयि लोकोत्तरेण वपुषा संभूय स्थिता इत्यतिशयोक्तिर्ध्वन्यते । आपातेऽपि विकारकारणमित्यास्वादनपरम्पराक्रिययापि विना विकारात्मनः फलस्य संपत्तिरिति विभावनाध्वनिरपि । विभ्रममधोर्धर्यमिति तुल्ययोगिताध्वनिरपि । एवं सर्वालंकाराणां ध्वन्यमानत्वमस्तीति मन्तव्यम् । न तु यथा कैश्चिन्नियतविषयीकृतम् । यथायोगमिति । क्वचिदलंकारः क्वचिद्वैस्तु व्यञ्जकमित्यर्थो योजनीयः । ननूक्तास्तावच्चिरंतनैरलंकारास्तेषां तु भवता यदि व्यङ्ग्यत्वं प्रदर्शितं किमियतेत्याशक्याह - एवमित्यादि । येषामलंकाराणां वाच्यत्वेन शरीरीकरणं शरीरभूतात्प्रस्तुतादर्थादर्थान्तरभूततया अशरीराणां कटकादिस्थानीयानां शरीरतापर्यन्तं न व्यवस्थितं सुकवीनामयत्नतः संपाद्यतया यदि वाच्यत्वेन शरीरीकरण..... सति येषां शरीरतापादनमपि न व्यवस्थितं दुर्घटमिति यावत् । तेऽलंकारा ध्वनेर्व्यापारस्य काव्यस्याङ्गतां व्यङ्ग्यरूपतया गताः सन्तः परां दुर्लभां छायामात्मरूपतां यान्ति । एतदुक्तं भवति — सुकविर्विदग्धपुरंध्रीवद्भूषणं यद्यपि ष्टिं योजयति तथापि शरीरतापत्तिरेवस्य १. 'व्यङ्ग्याङ्गत्वं प्रकाशिष्यते' ग. १. 'शाखी' ग. २. 'तेन' ग. ३. 'परम्परयापि' क-ख. ४. 'कथंचित्' क- ख. 'वस्तुमात्रं ' ग. ६. 'योजनीयाः ' क-ख. ७. 'शरीरतापादनमपि' क-ख. ८. 'अतिक्लिष्टं' ग. ९. ' तावदस्य काव्यस्य कष्टसाध्या' क- ख. ५. Page #127 -------------------------------------------------------------------------- ________________ ११८ काव्यमाला अलंकाराणां द्वयी गतिः कदाचिद्वस्तुमात्रेण व्यज्यन्ते कदाचिदलंकारेण । तत्र व्यज्यन्ते वस्तुमात्रेण येदालंकृतयस्तदा । '' 'ध्रुवं ध्वन्यङ्गता तासां .. अत्र हेतु: . काव्यवृत्तेस्तदाश्रयात् ॥ ३०॥ यस्मात्तत्र तथाविधव्यङ्ग्यालंकारपरत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्वाक्यमात्रमेव स्यात् । तासामेवालंकृतीनाम् अलंकारान्तरव्यङ्ग्यभावे पुनः, ध्वन्यङ्गता भवेत् । चारुत्वोत्कर्षतो व्यङ्गयप्राधान्यं यदि लक्ष्यते ॥३१॥ उक्तं ह्येतत्—'चारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्गययोः प्राधान्यविवक्षा' इति । वस्तुमात्रव्यङ्गयत्वे चालंकाराणामनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तदेवमर्थमात्रेणालंकारविशेषरूपेण वार्थेनॉर्थान्त कष्टसंपाद्या । कुङ्कुमपीतिकाया इव । आत्मतायास्तु का संभावनापि । एवंभूता चेयं व्यङ्ग्यता यदप्रधानभूतापि वाच्यमात्रालंकारेभ्य उत्कर्षमलंकाराणां वितरति । बालक्रीडायामपि राजत्वमिवेत्यमुमर्थ मनसि कृत्वाह-तत्रेति । द्वय्यां गतौ सत्याम् । अत्र हेतुरित्ययं वृत्तिग्रन्थः । काव्यस्य कविव्यापारस्य वृत्तिस्तदाश्रयालंकारप्रेवणा । अन्यथेति । यदि तत्परत्वमित्यर्थः । तेन तत्र गुणीभूतव्यङ्ग्यता नैव शयेति तात्पर्यम् । तासामेवालंकृतीनामित्ययं पठिष्यमाणकारिकोपस्कारः । पुनरिति कारिकामध्य उपस्कारः। ध्वन्यङ्गतेति । ध्वनिभेदकत्वमित्यर्थः। व्यङ्ग्यप्राधान्यमिति । अत्र हेतुः-चारुत्वोत्कर्षत इति । यदीति । तदप्राधान्ये तु वाच्यालंकारा एव प्रधानमिति गुणीभूतव्यङ्ग्यतेति भावः । नन्वलंकारो वस्तुना व्यज्यते अलंकारा.........त...... इत्यत्रोदाहरणानि किमिति न दर्शितानीत्याशङ्कयाह-वस्त्विति । एतत्संक्षिप्योपसंहरति-तदेवमिति । व्यङ्ग्यस्य व्यञ्जकस्य च प्रत्येकं वस्त्रलंकाररूपतया १. 'अलंकारान्तरेण' क-ख. २. 'यत्र' क-ख. ३. 'पुनः' क-ख-पुस्तकयोर्नास्ति. ४. 'उन्नतव्यः' ग. ५. 'वस्वन्तरस्य' क-ख. १. 'तथाश्रया' क. २. 'प्रणयतः' ग. ३. 'अलंकारा......त......' क-ख. पुस्तकयो स्ति. Page #128 -------------------------------------------------------------------------- ________________ २ उड्योतः] ध्वन्यालोकः। रस्यालंकारस्य वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्येऽर्थशक्त्युद्भवानुरणनरूपव्यङ्गयो ध्वनिरवगन्तव्यः । एवं ध्वनेः प्रभेदान्प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते- . यत्र प्रतीयमानोऽर्थः प्रक्लिष्टत्वेन भासते । .. वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः॥ ३२ ॥ द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश्च । तत्र य एव स्फुटः शब्दशक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः । स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्यानुरणनरूपव्यङ्ग्यस्य ध्वनेरगोचरः। यथा 'कमलाअरा ] मलिआ हंसा उड्डाविआ ण अ पिउच्छा। केण वि गामतडाए अब्भं उत्ताणअं फेलिहम् ॥' अत्र हि प्रतीयमानस्य मुग्धवध्वा जलधरप्रतिबिम्बदर्शनस्य वाच्याङ्गत्वमेव । एवंविधे विषयेऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोस्कर्षप्रतीत्या प्राधान्यमवसीयते तत्र व्यङ्गस्याङ्गत्वेन प्रतीते नेरविषयत्वम् । द्विप्रकारलाच्चतुर्विधोऽयमर्थशक्त्युद्भव इति तात्पर्यम् । एवमिति । अविवक्षितवाच्यो विवक्षितान्यपरवाच्य इति द्वौ मूलभेदौ । औद्यस्य द्वौ भेदौ-अत्यन्ततिरस्कृतवाच्योऽर्थान्तरसंक्रमितवाच्यश्च । द्वितीयस्य द्वौ मेदौ-अलक्ष्यक्रमोऽनुरणनरूपश्च । प्रथमोऽनन्तभेदः । द्वितीयो द्विविधः-शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । पश्चिमस्त्रिविधः-कविप्रोढोक्तिकृतशरीरः कविनिबद्धवक्तृप्रौढोक्तिकृतशरीरः स्वतःसंभवी च । ते च प्रत्येक व्यङ्ग्यव्यञ्जकयोरुक्तभेदनयेन चतुर्धति द्वादशविधोऽशक्तिमूलः । आद्यस्य चत्वारो भेदा इति षोडश मुख्यभेदाः । ते च पदवाक्यकारवेन प्रत्येकं द्विविधा वक्ष्यन्ते । अलक्ष्यक्रमस्य तु वर्णपदवाक्यसंघटनाप्रबन्धप्रकाश्यत्वेन पञ्चत्रिंशद्भेदाः । तदाभासेभ्यो ध्वन्याभासेभ्यो विवेको विभागः । अस्येत्यात्मभूतस्य ध्वनेरसौ काव्यविशेषो न गोचरः । 'कमलाकरा न मलिता हंसा उड्डायिता न च (सहसा) पितृष्वसः । केनापि ग्रामतडागेऽभ्रमुत्तानितं क्षिप्तम् ॥' [इति च्छाया।] अन्येहो (2) पिउच्छा पितृध्वसा इत्थमामन्यते । केनाप्यतिनिपुणेन । वाच्याङ्गत्वमेवेति । वाच्येनैव हि विस्मयविभावरूपेण मुग्धिमातिशयः प्रतीयत इति वाच्यादेव चारुखसंपत् । वाच्यं १. 'प्रश्लिष्टलेन' क, 'प्रम्लिष्टलेन' ख. २. 'व्बूढं' इति गाथासप्तशतीधृतः पाठः. १. 'इत्थं' क-ख. २. 'प्रथमस्य' ग. ३. 'प्रकाशकवेन' क-ख. ४. 'अलक्ष्यक्रमात्तु' क-ख. Page #129 -------------------------------------------------------------------------- ________________ १२० . काव्यमाला। यथा 'वाणीरकुडङ्गोड्डीणसउणिकोलाहलं सुणन्तीए । __ घरकम्मवावडाए वहुए सीअन्ति अगाइं ॥' एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्गयस्योदाहरणत्वेन निर्देक्ष्यते । यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारितविशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवावभासते सोऽस्यैवानुरणनरूपव्यङ्गयस्य ध्वनेर्मार्गः । यथा 'उचिणसु पडिअ कुसुमं मा धुण सेहालिअं हलिअसुढे । अह दे विसमविरावो ससुरेण सुओ वलअसद्दो ॥' तु खात्मोपपत्तयेऽर्थान्तरं खोपस्कारवाञ्छया व्यनक्ति । 'वेतसलतागहनोड्डीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥' [इति च्छाया।] अत्र दत्तसंकेतचौर्यकामुकरतसमुचितस्थानप्राप्तिर्वन्यमाना वाच्यमेवोपस्कुरुते । तथा हि गृहकर्मव्यापृताया इत्यन्यपराया अपि, वध्वाः इति सातिशयलजापारतन्त्र्यबद्धाया अपि, अङ्गानीत्येकमपि न तादृगङ्गं यद्गाम्भीर्यावहित्थवशेन संवरीतुं पारितम् , सीदन्तीत्यास्तां गृहकर्मसंपादनं खात्मानमपि धर्तुं न प्रभवतीति । गृहकर्मयोगेनै स्फुटं तथा लक्ष्यमाणानीति । अस्मादेव वाच्यात्सातिशयमदनपरवशताप्रतीतेश्चारुत्वसंपत्तिः । यत्र त्विति । प्रकरणमादिर्यस्य शब्दान्तरसंनिधानसामर्थ्यलिङ्गोदेस्तदपगमादेव यत्रार्थों निश्चितसमस्तभावः पुनर्वाच्यः पुनरपि स्वशब्देनोक्तोऽत एव खात्मावगतेः संपन्नपूर्वखादेव तावन्मात्रपर्यवसायी न भवति तथाविधश्च प्रतीयमानस्याङ्गतामेति सोऽस्य ध्वनेविषय इत्यनेन व्यङ्ग्यतात्पर्यनिबन्धनं स्फुटं वदता व्यङ्ग्यगुणीभावे खेतद्विपरीतमेव निबन्धनं मन्तव्यमित्युक्तं भवति । 'उच्चिनु पतितानि कुसुमानि मा धुनीः शेफालिका हालिकानुषे । एष ते विषमविरावः श्वशुरेण श्रुतो वलयशब्दः ॥ [इति च्छाया।] यतः श्वशुरः शेफालिकालतिकां प्रयत्नै रक्षंस्तस्या आकर्षणधूननादिना कुप्यति तेनात्र विषमपरिपाकलं मन्तव्यम् । अन्यथा वोक्त्यैव व्यङ्ग्याक्षेपः स्यात् । अत्र च 'कस्स वा ण होइ रोसो-' इत्येतदनुसारेण व्याख्या कर्तव्या । वाच्यार्थस्य प्रतिपत्तये लाभाय एतयङ्ग्यमपेक्षणीयम् । अन्यथा वाच्योऽर्थो न लभ्यते । खतःसि १. 'हि' क-पुस्तके नास्ति. २. 'व्यङ्ग्यत्वस्य' ग. १. 'खोपकार' ख. २. 'ध्वन्यमानवाच्यस्येव' ग. ३. 'योगे. च' ग. ४. 'मदनावसरवशता' क-ख. ५. 'लिङ्गादेव यत्र' क-ख. ६. 'पूर्णखादेव' क-ख. ७. 'तात्पर्येतिबन्धनं स्फुटं दधता' क-ख. Page #130 -------------------------------------------------------------------------- ________________ २ उद्द्योतः ] ध्वन्यालोकः । अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया सख्या प्रतिबोध्यते । एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये । प्रतिपन्ने च वाच्ये तस्याविनयप्रच्छादनतात्पर्येणाभिधीयमानत्वात्पुनेर्व्यञ्ज्याङ्गत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्गयध्वनावन्तर्भावः । एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके प्रस्तुते सत्यविवक्षितवाच्यस्यापि तं कर्तुमाह १२१ अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः । शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥ ३३ ॥ स्खलद्गतेरुपचरितस्य शब्दस्यान्युत्पतेरशक्तेर्वा निबन्धो यः स च न ध्वनेर्विषयः । यैतश्च I 1 द्धतया अवचनीय एव सोऽर्थः स्यादिति यावत् । नन्वेवं व्यङ्ग्यस्योपस्कारता प्रत्युक्ता भवेदित्याशङ्क्याह—प्रतिपन्ने चेति । शब्दे दत्त इति यावत् । तदाभासविवेके प्रस्तुत इति । सप्तमी हेतौ । तदाभासविवेकप्रस्तावलक्षणात्प्रसङ्गादिति यावत् । कस्य तदाभास इत्यपेक्षायामाह - विवक्षितवाच्यस्येति । स्पष्टे तु व्याख्याने प्रस्तुत इत्यसंगतम् । परिसमाप्तौ हि विवेक्षिताभिधेयस्य तदाभासविवेकः । न त्वधुना प्रस्तुत................मनुबध्नाति । स्खलद्गतेरिति । गौणस्य लाक्षणिकस्य वा शब्दस्येत्यर्थः । अव्युत्पत्तिरनुप्रासादिनिबन्धनतात्पर्य प्रवृत्तिः । यथा – 'प्रेङ्खत्प्रेमप्रबन्धप्रचुरपरिचयप्रौढसीमन्तिनीनां चित्ताकाशावकाशे विहरति सततं यः स सौभाग्यभूमिः । ' अत्रानुप्रासरसिकतया प्रेङ्खदिति लाक्षणिकः, चित्तमाकाश इति गौणः प्रयोगः कविना कृतोऽपि न ध्वन्यमानरूपसुन्दर प्रयोजनांशपर्यवसायी । अशक्तेर्वृत्तपरिपूरणाद्यसामर्थ्यात् । यथा- —'विषमकाण्डकुटुम्बकसंचयप्रवर वारिनिधौ पतता वया । जलतरङ्गविघूर्णितभाजने विचलितात्मनि कुड्यमये कृताः ॥' अत्र प्रवरान्तमाद्यपदं चन्द्रमस्युपचरितम् । भाजनमित्याशये कुड्यमय इत्यविचले कामपि कान्ति न पुष्यति । ऋते वृत्तभरणात् । स चेति । प्रथमोद्द्योते यः प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवय इत्यत्र 'वदति बिसिनीपत्रशयनम्' इत्यादि भाक्तम् । स न केवलं ध्वनेर्विषयो यावदयमन्योऽपीति चश १. 'वाच्यार्थे' क-ख. २. ‘व्यङ्ग्यत्वमेव' क- ख. ३. 'एवंविधवाच्यस्य ग. ४. 'तत्कर्तुं' क- ख. ५. 'अशक्तेरव्युत्पत्तेः' क- ख. ६. 'यतः' ग. १. 'शब्दोऽर्थ इति' क-ख. २. ‘विवक्षितवाच्येत्यर्थः ' क- ख. ३. 'प्रभृतिः ' क. ख. ४. 'अशक्य — द्यसमर्थम्' क-ख. ५. 'आद्यं कृतं पादं ' ग. ६. ' इत्यादिरक्ततिक्तः' क-ख. Page #131 -------------------------------------------------------------------------- ________________ १२२ काव्यमाला। सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् । यद्वयङ्गयस्याङ्गिभूतस्य तत्पूर्ण ध्वनिलक्षणम् ॥ ३४॥ तच्चोदाहृतविषयमेव । इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः । . तृतीय उद्दयोतः। एवं व्यङ्गयमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेन तत्प्रकाश्यते ब्दस्यार्थः । उक्तमेव ध्वनिखरूपं तदाभासविवेकहेतुतया कारिकाकारोऽनुवदतीत्यभिप्रायेण वृत्तिकृदुपस्कारं ददाति-यतश्चेति । अवभासनमिति । भावानयने द्रव्यानयनमिति न्यायादवभासनं व्यङ्ग्यम् । ध्वनिलक्षणं ध्वनेः स्वरूपम् । पूर्ण भासनं तद्धनेर्लक्षणं प्रमाणम् । तच पूर्ण पूर्णध्वनिखरूपनिवेदकत्वात् । अथ वा ज्ञानमेव ध्वनिलक्षणम् । लक्षणस्य ज्ञानपरिच्छेद्यत्वात् । वृत्तावेवकारेण ततोऽन्यस्य चाभासरूपत्वमेवेति सूचयता तदाभासविवेकहेतुभावो यः प्रक्रान्तः स एव निर्वाहित इति शिवम् । प्राच्यं प्रोल्लासमात्रं स्याद्भेदेनामन्यते यया । वन्देऽभिनवगुप्तोऽहं पश्यन्ती तामिदं जगत् ॥ इति श्रीमहामाहेश्वराचार्यवैर्याभिनवगुप्तोन्मीलिते सहृदयलोक (ध्वन्यालोक)लोचने ध्वनिसंकेते द्वितीय उद्दयोतः। स्मरामि स्मरसंहारलीलापाटवशालिनः । प्रसह्य शंभोर्दैहाध हरन्तीं परमेश्वरीम् ॥ उद्योतान्तरसंगतिं कर्तुमाह वृत्तिकारः–एवमित्यादि । तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः । वाच्यं च यद्यपि व्यञ्जकमेव । यथोक्तम्-'यत्रार्थः शब्दो वा-' इति । ततश्च ..... मुखेनापि भेद उक्तः । तथापि स वाच्योऽर्थो व्यङ्ग्यमुखेनैव भिद्यते । तथा ह्यविवक्षितवाच्यो व्यङ्गयो न्यग्भावितः । विवक्षितान्यपरवाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते । इत्येवं मूलभेदयोरेव यथाखमवान्तरभेदसहितयोर्व्यञ्जकरूपोऽर्थः स व्यङ्ग्यमुखे प्रेक्षिताशरणतयैव भेदमासादयति । अत एवाह-व्यङ्ग्यमुखे १. 'श्रीमदानन्द' क-ख. २. 'काव्यालोके' क-ख. 'सहृदयालोके' ग. ३. 'एतप्रकाशते' ग. १. 'सर्व शिवम्' ग. २. 'प्राज्यं' ग. ३. 'अभिनवगुप्तविरचिते काव्यालोकलोचने' ग. ४. 'अत्र' क-ख. ५. 'ततश्च...-भिद्यते' क-ख-पुस्तकयोनास्ति. ६. 'तथाप्यविवक्षितो वाच्ये व्यङ्गयेन' क-ख. ७. 'विवक्षितोऽन्यपरो' क-ख. .. . Page #132 -------------------------------------------------------------------------- ________________ ३ उड्योतः] ध्वन्यालोकः। अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । . तदन्यस्यानुरणनरूपव्यङ्गयस्य च ध्वनेः ॥१॥ अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये खंप्रभेदे पदप्रकाशता यथा महर्षासस्य–'सप्तैताः समिधः श्रियः' । यथा वा कालिदासस्य-'कः नेति । किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्योऽप्यसौ भवतीति । शब्दस्तु न कदाचिद्यङ्ग्यः । अपि.तु व्यञ्जक एवेति । तदाह-व्यञ्जकमुखेनेति । न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव व्यञ्जकमुखवं नास्तीति पुनःशब्देनाह । व्यञ्जकमुखेनापि भेदः सर्वथैव न न प्रकाशितोऽधुना पुनः शुद्धव्यञ्जकमुखेन । तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः संघटना महावाक्यमिति खरूपत एव व्यञ्जकानां भेदः न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता संभवतीति व्यञ्जकैकनियतं खरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् । यस्तु व्याचष्टे-'व्यङ्ग्यानां वस्त्रलंकाररसानां मुखेन' इति स एवं प्रष्टव्यः-एतत्तावत्रिभेदलं न कारिकाकारेण कृतम् । 'वृत्तिकारेण तु दर्शितम् । न चेदानी वृत्तिकारो मेदप्रकटनं करोति । ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का संगतिः । न चैतावता सकलप्राक्तनग्रन्थसंगतिः कृता भवति । अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितवादित्यलं निजपूर्वजसगोत्रैः साकं विवादेन । चकारः कारिकायां यथासंख्यशङ्कानिवृत्त्यर्थः । तेनाविवक्षितवाच्यो द्विप्रभेदोऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा । तदन्यस्य विवक्षिताभिधेयस्य संबन्धी यो द्वितीयो भेदः क्रमद्योत्यो नाम खभेदसहितः सोऽपि प्रत्येकं द्विधैव । अनुरणनेन रूपाणां सादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्यत्यर्थः । महर्षरित्यनेन तदनुसंधत्ते यत्प्रागुक्तम् । अथ च रामायणमहाभारतप्रभृतिनि लक्ष्य दृश्यत ईति। 'धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा । मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥' समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारोऽसंभवात् । समिच्छब्देन च व्यङ्गथेनानन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् । यद्यपि 'निःश्वासान्ध इवादर्शः-' इत्याद्युदाहरणादप्ययमर्थो लभ्यते तथापि प्रसङ्गाबहुलक्ष्यव्यापिवं दर्शयितुमुदाहरणान्तराण्युक्तानि । अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य योजिनीयः किं पुनरुक्तेन । संनद्धपदेन चात्रासंभवात्स्वार्थेनोद्धतलं लक्षयता वऋभिप्रेता निष्कारुणिकलाप्रतिकार्यखाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते । तथैव मधुरशब्देन सर्व विषयिरञ्जकत्वदर्पकवादिकं लक्षयता सातिशयाभिलाषविषयत्वमिति वऋभिप्रेतं १. 'प्रभेदे' ग. १. 'अपि तस्य' ग. २. 'व्यञ्जकलमुखं' क-ख. ३. 'संभाव्यते' क-ख. ४. 'प्रतिपादितत्वात्' ग. ५. 'रूपेण' ग. ६. 'यत्र' क-ख. ७. 'संबध्यते' क-ख. ८. 'इति वृत्तिः क्षमा दानं तपः शौचं' क-ख. ९. 'उदाहरणानां' क-ख. १०. 'व्यञ्जकल' क-ख. Page #133 -------------------------------------------------------------------------- ________________ १२४ काव्यमाला संनद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्' । यथा वा तस्यैव-'किमिव हि मधुराणां मण्डनं नाकृतीनाम्' । एतेषूदाहरणेषु समिध इति संनद्ध इति मधुराणामिति च पदानि व्यञ्जकाभिप्रायेणैव कृतानि । तत्यैवार्थान्तरसंक्रमितवाच्ये यथा-'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्' । अत्र रामेणेत्येतत्पदं साहसैकरसत्वादि व्यङ्गयाभिसंक्रमितवाच्यं व्यञ्जकम् । यथा वा'एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दो विअ वराओ ।' ध्यन्यते । तस्यैवेति । अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः । 'प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा खया कुलजनो धत्ते यथोच्चैः शिरः । व्यर्थं संप्रति बिभ्रता धनुरिदं त्वद्यापदः साक्षिणा' इति । रक्षःखभावादेव यः क्रूरोऽनतिलङ्घयशासनलादुर्मदतया च प्रसह्य निराक्रियमाणः क्रोधस्तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्ठापकलं नाम । मान्योऽपि कश्चिन्ममाज्ञां लङ्घयिष्यति । त इति । यया तादृगपि तथा न गणितस्तस्यास्तवेत्यर्थः । तदपि तथा अविकारेणोत्सवापत्तिबुद्ध्या नेत्रविस्तारिकामुखप्रसादादिलक्ष्यमाणया सोढं यथा येन प्रकारेणेदानींतनकुलवधूजन इति यः कश्चित्पामरप्रायोऽपि कुलवधूशब्दवाच्य उच्चैः शिरो धत्ते । एवंविधाः किल वयं कुलवध्वो भवाम इति । अथ च शिरःकर्तनावसरे त्वया शीघ्रं कृन्त्यतामिति तथा सोढं तथोचैः शिरो धृतं यथान्योऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नित्यप्रवृत्ततया । एवं रावणस्य तव च समुचितकारिखं नियूंढम् । मम पुनः सर्वमेवानुचितं पर्यवसितम् । तथाहि राज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तत्संप्रति त्वय्यरक्षितायामेव निष्प्रयोजनम् । तथापि च तद्धारयामि । तन्नूनं निजजीवितरक्षवास्य संभाव्यते । तद्युक्तं रामेणेत्यसमसाहसत्वसत्यसंधत्वानुचितकारिखादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः । 'कापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्' इति यद्याख्यातं तदसत् । कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् । प्रिय इति शब्दमात्रमेवैतदिदानी संवृत्तम् । प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्यनौचित्यकलङ्कितमिति शोकालम्बनोद्दीपनविभागयोगात्करुणरसो रामस्य स्फुटीकृत इति । एमेअ १. 'यथा वा तस्यैव' ग-पुस्तके नास्ति. २. 'व्यञ्जकत्व' क-ख. ३. 'व्यङ्ग्यार्थसंक्रमित' क-ख. १. “विस्तारिता' क-ख. २. 'लक्षणया' क-ख. ३. 'अरक्षितव्यापन्नायामेव' ग. ४. 'न चैतद्युक्तं' क-ख. Page #134 -------------------------------------------------------------------------- ________________ ३ उझ्योतः] ध्वन्यालोकः। १२५ अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसंक्रमितवाच्यः । अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा'या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' अनेन हि वाक्येन निशार्थो न जागरणार्थः कश्चिद्विवक्षितः । किं तर्हि तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् । इति । एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ॥ [इति च्छाया।] एवमेवेति स्वयमविवेकान्धतया जन इति लोकप्रसिद्धगतानुगतिकमात्रशरणः तस्या इत्यसाधारणगुणगणमहाघवपुषः । कपोलोपमायामिति निर्व्याजलावण्यसर्ववभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्योपमायां प्रत्युत तदधिकवस्तुकर्तव्यं ततो दूरनिकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतम् । एवं यद्यपि गड्डरिकाप्रवाहपतितमभितः पतितो लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमैलिनवधर्मान्तरसंक्रान्तो युक्तः । अत्र च यथा व्यङ्ग्यधर्मान्तरसंक्रान्तिस्तथा पूर्वोक्तमनुसंधेयम् । एवमुत्तरत्रापि । एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकलेनोदाहृत्य वाक्यप्रकाशकलेनोदोहरति-या निशेति । विवक्षित इति । तेन ह्युक्तेन न किंचिदुपदेश्यं प्रत्युपदेशः सिद्ध्यति । निशायां जागरितव्यमॅन्यत्रान्धवदासितव्यमिति किमनेनोक्तेन । तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ च 'पैराङ्मुखवं ध्वनति । सर्वशब्दार्थस्य चापेक्षिततयाप्युपपद्यमानतेति न सर्वशब्दार्थान्यथानुपपत्त्यायमर्थ आक्षिप्तो मन्तव्यः । सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशाख्या मोहजननी तत्त्वदृष्टिस्तस्यां संयमी जागर्ति कथं प्राप्यतेति । न तु विषयवर्जनमात्रादेव संयमीति यावत् । यदिवा सर्वभूतनिशायामेव मोहिन्यां जागर्ति कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः । तस्यां हि चेष्टायां नासौ प्रबुद्धः । एवमेव लोकोत्तरव्यवस्थितिः पश्यति मन्यते च । तस्यैवान्तर्बहिष्करणवृत्तिश्चरितार्था । अन्यस्तु न पश्यति न च मन्यत इति तत्त्वदृष्टिपरेण भाव्यमिति १. 'वाक्यार्थेन' ग. १. 'तदधिकरणगुणं वस्तु' क-ख. २. 'जिह्मितम्' ग. ३. 'गलितत्व' ग. ४. 'योऽर्थः' ग. ५. 'उदाहरति-अविवक्षितेत्यादि' क-ख. ६. 'संभवति' क-ख. ७. 'इत्यत्र रात्रिवदासितव्यं' क-ख. ८. 'पराधीनवं ध्वनितं' क-ख. ९. 'लोकोक्ति' क-ख. १२ ध्व० लो. Page #135 -------------------------------------------------------------------------- ________________ १२६ काव्यमाला | तस्यैवार्थान्तरसंक्रमितवाच्यस्य वाक्यप्रकाशता यथा'विसंमइओ चिअ काण वि काण वि वालेइ अमिअमओ । काण वि विसामिअमओ काण वि अविसामओ कालो || अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसंक्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसंक्रमितवाच्यस्यास्य व्यञ्जकत्वम् । विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्र काशता यथा 'प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथदा किं न जडः कृतोऽहम् ॥' - तात्पर्यम् । एवं च पश्यत इति वचनं न स्वार्थमात्रविश्रान्तम् । अपि तु व्यङ्ग्य एव विश्राम्यति । यत्तच्छब्दयोश्च न खतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः । तदाह – अनेन हि वाक्येनेति । प्रतिपाद्यत इति । ध्वन्यत इत्यर्थः । तथा विषमयो विषमयतां प्राप्तः । केषांचिद्दुष्कृतिनामतिविवेकिनां वा । केषांचित्सुकृतिनामत्यन्तविवेकिनां वातिक्रामत्यमृतमयनिर्वाणः । केषांचिन्मिश्रकर्मणां विवेकाविवेकवतां वा विषामृतमयः । केषामपि मूढप्रायाणां धाराप्राप्तयोग भूमिकारूढानां वा अविषामृतमयः कालोऽतिक्रामतीति संबन्धः । विषामृतपदे च लावण्यादिशब्दवन्निरूढलक्षणरूपतया सुखदुःखसाधनयोर्वर्तेते । विषं निम्बममृतं कपित्थमिति (वत्) । न चात्र सुखदुःखसाधने तन्मात्रविश्रान्ते । अपि तु स्वकर्तव्य सुखदुःखपर्यवसितेन च ते साधनेन सर्वथा विवक्षिते । निःसाधनयोस्तयोरत्राभावात् । तदाह – संक्रमितवा - च्याभ्यामिति । केषांचिदिति वाच्यविशेषसंक्रान्तिः । अतिक्रामतीत्यस्य च.................. - मात्र संक्रान्तिः । काल इत्यस्य च सर्वव्यवहारसंक्रान्तिः । उपलक्षणार्थं तु विषमृतलक्ष`णमात्र संक्रान्तिरिति वृत्तिकृता व्याख्यातम् । तदाह - वाक्यमिति । एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान्षडन्यान्प्रकारान्क्रमेणोदाहरति—विवक्षिताभिधेयस्येत्यादिना । प्रातुमिति पूरयितुम् । धनैरिति बहुवचनं यो यो येनार्थी तस्य तेनेति सूचनार्थम् । अतएवार्थिग्रहणम् । जनस्येति बाहुल्येन १. 'विषमय इव केषामपि केषामपि प्रयात्यमृतमयः । केषामपि विषामृतमयः केषामप्यविषामृतः कालः ॥ इति च्छाया. २. 'संक्रान्त' क ख. ३. 'त्रातुं' क-ख. १. 'एवं पश्यत इति मुनेरिति च न स्वार्थ' क ख २. 'व्यापारः' ख. ३. 'मूर्खलम्भप्रायाणां’ ग. ४. ‘अति - व्यवहारसंक्रान्तिः ' क ख - पुस्तकयोर्नास्ति. ५. 'विषामृतग्रहणमात्र संक्रमणमात्रं ' क-ख. ६. ' त्रातुमिति' क-ख. Page #136 -------------------------------------------------------------------------- ________________ ३ उच्योतः ] ध्वन्यालोकः । १२७ अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां वशक्त्या प्रतिपद्यते । तस्यैव वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु — 'वृतेऽस्मि - न्महाप्रलये धरणीधारणायाधुना त्वं शेषः । एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति । अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पदप्रका - शता यथा हरिविजये— 'चूअङ्कुरावअंसं छणपसरमहं घणमहुरामोअम् । असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम् ॥' अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसम - - र्पितमित्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति । 1 हि लोको धनार्थी । न तु गुणैरुपकारार्थी । दैवेनेति । अशक्यपर्यनुयोगेनेत्यर्थः । जडः किंकर्तव्यतामूढ इत्यर्थः । अथ कूपो जडो योऽर्थिता कस्य कीदृशीत्यसंभवद्विवेक इति । अत एव जडः शीतलो निर्वेदसंतापरहितः । तथा जडः सततजलयोगितया परोपकारा-समर्थोऽस्मीति । अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः । प्रसन्नं लोकोपयोगि अम्बु धारयतीति । कूपोऽथवेति । लोकैरप्यलक्ष्यमाण इत्यर्थः । आत्मसमानाधिकरणतयेति । अनेन तृतीयार्थे नायं जडशब्दस्तटाकार्थेन पुनरुक्तार्थं संबन्ध इत्यभिप्रायेणाह - कूप समानाधिकरणतामिति । खशक्त्येति शब्दशक्त्युद्भवलं द्योतयति । महाप्रलय इति । महानासमन्तान्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः । इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षम एको नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्था -- न्तरम् । 'चूताङ्कुरावतंसं क्षणप्रसरमहद्धनमधुरामोदम् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मी मुखम् ॥' अत्र महच्छब्दस्य परनिपातः प्राकृते नियमाभावात् । क्षण उत्सवः । ( महोत्सव प्रसरेणेत्यर्थः ) । मुखं प्रारम्भो वक्रं च । तच्च सुरामोदयुक्तं भवति । मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः संपादितः । अत्र कविनिबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यैप्रकाशतायामुदाहरणद्वयं न दत्तम् । 'प्रौढोक्तिमात्रनिष्पन्नशरीरः संभवी स्वतः । ' इति प्राच्यकारि -- काया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेणेति । तेत्र पदप्रकाशता यथा - 'सत्यं मनोरमाः 1 १. ' इत्येतत्' क-ख. २. 'अपणामअं वि' क-ख. ३. 'लक्षयति' क- ख. १. 'प्रकाशतया ' ग. २. 'अत्र' ग. Page #137 -------------------------------------------------------------------------- ________________ १२८ काव्यमाला। अत्रैव प्रभेदे वाक्यप्रकाशता । यथोदाहृतं प्राक् 'सज्जेहि सुरहिमासो' इत्यादि । अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्मादकतापादनावस्थानं वसन्तसमयस्य सूचयति । खेतःसंभविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा'वाणिअअ हत्तिदन्ता कुत्तो अमाण वाघकित्ती अ। जाव लुलिआलअमुही घरम्मि परिसक्कए सुला ।' अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः खतःसंभावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसंभोगक्षामतां प्रकाशयति । तस्यैव वाक्यप्रकाशता यथा. 'सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमइ । मुत्ताफलरइअपसाहणाण मज्झे सवत्तीणम् ॥' अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्संभोगकाले स एव व्याधः करिवरवधव्यापारसमथे आसीदित्यथेप्रकाशनात् । कामाः सत्यं रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥' इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दोऽर्थशक्तिमूलतयेदं ध्वनयति-सर्व एवामी कामा विभूतयश्च जीवितमात्रोपयोगिनः । तदभावे हि सद्भिरपि तैरसद्रूपताप्यते । तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्घोषणदौजन्येन । निजमेव जीवितमुपालभ्यम् । तदपि वा निसर्गचञ्चलमिति न सापराधमित्येतद्गाढं वैराग्यमिति । वाक्यप्रकाशता यथा-'शिखरिणि-' इत्यादौ । 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥' [इति च्छाया। ] अत्र लुलितेति स्वरूपमात्रेण विशेषणमविलुप्ततया च हस्तिदन्ताद्यपहरणं संभाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः । सिहिपिच्छेति । पूर्वमेव योजिता गाथा । नन्विति । समुदाय एव १. 'वस्थानात्' क-ख. २. 'संभावितार्थ' ग. ३. 'सूचयति तदीयस्य' ग. ४. 'अपि' क-ख-पुस्तकयो स्ति. ५. 'प्रख्याप्यते' ग. ६. 'प्रदर्शनात्' ग. १. 'इत्येतावत्' ग. २. 'इत्यादि' ग. ३. 'परिष्वक्ते सविभ्रमं चंक्रम्यते' ग. ४. 'अवलिप्ततया' ग. ५. 'वाच्यार्थस्य' ग. Page #138 -------------------------------------------------------------------------- ________________ ३ उद्द्योतः ] ध्वन्यालोकः। ननु ध्वनिः काव्यविशेष इत्युक्तं तत्कथं तस्य पदप्रकाशता । काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसंदर्भविशेषः । तद्भावश्च पदप्र- . काशत्वेनोपपद्यते । पदानां स्मारकत्वेनावाचकत्वात् । उच्यते-स्यादेष दोषः यदि वाचकत्वं प्रयोजकं न ध्वनिव्यवहारे स्यात् । न त्वेवम् । तस्य व्यञ्जकत्वेन व्यवस्थानात्। किं च काव्यानां शरीरिणामिव संस्थानविशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि । 'अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् । श्रुतिदुष्टादिषु व्यक्तं तद्वदिष्टस्मृतिर्गुणम् ॥ पदानां स्मारकत्वेऽपि पदमात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वेष्वेवास्ति रम्यता ॥ ध्वनिरित्यत्र पक्षे चोद्यमेतत् । तद्भावश्चेति । काव्यविशेषत्वमित्यर्थः । अवाचकवादिति यदुक्तं सोऽयमप्रयोजको हेतुरिति च्छलेन तावद्दर्शयति-स्यादेष दोष इति । एवं छलेन परिहृत्य वस्तुवृत्तेन परिहरति-किं चेति । यद्यपरो ब्रूयात्-न मया अवाचकलं ध्वन्यभावे हेतूकृतं किं' तूक्तं काव्यध्वनिः । काव्यं च नोकालाप्रतिपत्तिचारिवाक्यं न पदमिति तत्राह-सत्यमेवं तथापि तु पदं न ध्वनिरित्यस्माभिरुतम् । अपि तु समुदाय एव । तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम् । ननु पदस्य तत्र तथाविधं सामर्थ्यमिति कुतोऽखण्ड एव प्रतीतिक्रम इत्याशङ्कयाह-काव्यानामिति । उक्तं हि प्राग्विवेककाले व्यपदेश इति । ननु भागेषु पदरूपेषु कथं सा चारुलप्रतीतिरारोपयितुं शक्या । तानि हि स्मारकाण्येव । ततः किम् । मनोहारिव्यङ्ग्यार्थस्मारकवाद्धि चारुखप्रतीतिनिबन्धनवं केन वार्यते । तथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थ प्रति न वाचकत्वम् । अपि तु स्मारकत्वम् । तद्वशाचाचारुखरूपं काव्यं श्रुतिदुष्टम् । तच्च श्रुतिदुष्टसमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृतेऽपीति तदाह-अनिष्टस्येति । अनिष्टार्थस्मारकस्येत्यर्थः । दुष्टतामित्यचारुखम् । गुणमिति चारुखम् । एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दान्तिकार्थ उक्तः । अधुनोपसंहरति-पदानामिति । यत एवमिष्टस्मृतिश्चारुखमावहति तेन हेतुना सर्वेषु प्रकारेषु १. 'संस्थिति' ग. २. 'श्रुतिः' क-ख. ३. 'गुणः' ग. १. 'किंतु कुकाव्यं च नाकाङ्क्षा' क-ख. २. 'नाकालिपतिवृत्तिकारिकावाक्यं नरं पदमिति' ग. ३. 'सत्यमेतत्तथापि पदं ध्वनिरस्माभिरुक्तं' क-ख. ४. 'व्यङ्ग्यार्थाः' क-ख. ५. 'यथा' क-ख. Page #139 -------------------------------------------------------------------------- ________________ १३० काव्यमाला | विच्छित्तिशोभिनैकेन मूषणेनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिना भाति भारती ॥' इति परिकर श्लोकाः । यस्त्वलक्ष्यक्रमव्यङ्गयो ध्वनिर्वर्णपदादिषु । वाक्ये संघटनायां च स बन्धेऽपि दीप्यते ॥ २ ॥ तत्र वर्णानामनर्थकत्वाद्द्योतकत्व संभवीत्याशङ्कयेदमुच्यते— शौ सरेफसंयोगौ ढकारश्चापि भूयसा । विरोधिनः स्युः शृङ्गारे तेन वर्णा रेसच्युतः ॥ ३ ॥ तएव तु निवेश्यन्ते बीभत्सादौ रसे यदा । तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः ॥ ४ ॥ श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति । 'ध्वनिनिरूपितस्य पदमात्रावभासिनोऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति । स्मारक - वेऽपि पदानामिति समन्वयः । अपिशब्दः काकाक्षिन्यायेनोभयत्रापि संबध्यते । अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयति - विच्छित्तीति । एवं कारिकां व्याख्याय तदसंगृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाह-यस्त्विति । तुशब्दः पूर्वभेदेभ्योऽस्य विशेषद्योतकः । वर्णसमुदायश्च पदम् । तत्समुदायो वाक्यम् | संघटना पदगता वाक्यगता च । संघटितवाक्यसमुदायः प्रबन्ध इत्यभिप्रायेण वर्णादीनां यथाक्रममुपादानम् । आदिशब्देन पदैकदेशपदद्वितीयादीनां ग्रहणम् । सप्तम्या निमित्तत्वमुक्तम् । दीप्यतेऽवभासते सकलकाव्यावभासतयेति पूर्ववत्काव्यविशेषलं समर्थितम् । भूयसेति प्रत्येकमभिसंबध्यते । विरोधिन इति । परुषा वृत्तिविरोधिनी शृङ्गारस्य । यतस्ते -वर्णा भूयसा प्रयुज्यमाना न रेसांश्योतन्ति स्रवन्ति । यदि वा तेन शृङ्गारविरोधित्वेन हेतुना वर्णाः शषादयो रसाच्छृङ्गाराच्यैवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः । अन्वयमाह -त एव विति शादयः । तमिति बीभत्सादिकं रसं दीपयन्ति । कारिकाद्वयं तात्पर्येण व्याचष्टे - श्लोकद्वयेनेति । यथासंख्यप्रसङ्गपरिहारार्थं श्लोकभ्यामिि कृतम् । पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः । अस्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्तव्य इत्येवं फलत्वादुपदेशस्य कारिकाकारेण पूर्व व्यतिरेक उक्तः । न च सर्वथा न कर्तव्योऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः । १. ‘प्रबन्धोऽभिधीयते' क ख २. 'न संभवति' ग. ३. 'रसश्युतः' ग. १. ' रसादीन् ' ग. २. 'विरोधहेतुना' ग. ३. ‘प्रच्यवन्ते' क-ख. द्वयाभ्यां ग. ४. श्लोक Page #140 -------------------------------------------------------------------------- ________________ ३ उड्योतः] ध्वन्यालोकः। १३१ पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतकत्वं यथा'उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥' अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । वृत्तिकारेण खन्वयपूर्वको व्यतिरेक इति शैलीमनुसत॒मन्वयः पूर्वमुपात्तः । एतदुक्तं भवति-यद्यपि विभावानुभावव्यभिचारिप्रतीतिसंपदेव रसास्वादे निबन्धनम्, तथापि विशिष्टश्रुतिकटुशब्दसमर्प्यमाणास्ते विभावादयस्तथा भवन्तीति खसंवित्सिद्धमदः । तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणोऽर्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुपरुषात्मखभावो रसाखादे सहकार्येव । अत एव च सहकारितामेवाभिधातुं निमित्तसप्तमी कृता वर्णादिविति । न तु वगैरेव रसाभिव्यक्तिः । विभावादिसंयोगाद्धि रसनिष्पत्तिरित्युक्तं बहुशः। श्रोत्रैकग्राह्योऽपि च स्वभावो रसनिस्यन्दे व्याप्रियत एव । आपद्गीतवत् । पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राणाद्यनुकरणशब्दवच्च । पदे चेति । पदे च सतीत्यर्थः । तेन रसप्रतीतिर्विभावादेरेव । तेन विभावादयो यदा विशिष्टेन केनापि पदेनाय॑माणरसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासी महिमा समर्प्यत इति भावः । अत्र हीति । वासवदत्तादाहाकर्णनप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं परिदेवितवचनम् । तत्र च शोको नामेष्टजनविनाशप्रभव इति । तस्य जनस्य ये भ्रूक्षेपकटाक्षप्रभृतयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करणमुद्दीपयन्तीति स्थिते ते लोचने इति तच्छब्दस्तल्लोचनगतखसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणकारी द्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव । तथाहि चोद्यम्-प्रक्रान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्य मिति । उत्तरं च-रसाविष्टोऽत्र पॅरामृष्टेति (2)। तदुभयमनुत्थानोपहतम् । यत्र य॑नूद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगिवं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाह्यते । यत्रोच्यते-'यत्तदोर्नित्यसंबन्धात्' इति तत्र पूर्व प्रक्रान्तपरामर्शकतच्छब्दस्य । यत्र पुनर्निमित्तोपस्मरणविशेषाकारसूचकलं तच्छब्दस्य सघट इत्यादौ यथा तत्र का प[रामर्श ]कथेत्यास्तामलीकपरामर्शकैः पण्डितंमन्यैः सह विवादेन । उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणम् । मया निर्वाहितप्रतीकारमिति शोकावेगस्य विभावतेति । सातिशयविभ्रमैकायतनरूपे १. 'धूमान्वितेन' क-ख. २. 'सहृदयानाम्' क-ख-पुस्तकयो स्ति. १. 'लक्ष्यमाणानर्था' क-ख. २. 'करणप्रभावाद्यनुहारशब्दवत्' ग. ३. 'अनपेक्षखभावल' ग. ४. 'स्मरणाकारद्योतको रसस्तस्यासाधारण' क-ख. ५. 'पतनपुष्टेति' क-ख. ६. 'अनुनेष्यमाण'. ग. ७. 'नित्याभि' ग. ८. 'मिथ्याविवादेन' ग. Page #141 -------------------------------------------------------------------------- ________________ २३२ काव्यमाला । यथा वा 'झगिति कनकचित्रे तत्र दृष्टे कुरङ्गे __ रभसविकसितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पेलाश __ प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥' पदावयवेन द्योतनं यथा 'ब्रीडायोगान्नतवदनया संनिधाने गुरूणां __ बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥' इत्यत्र त्रिभागशब्दः। वाक्यरूपश्चालक्ष्यक्रमव्यङ्गयो ध्वनिः शुद्धोऽलंकारसंकीर्णश्चेति द्विधा अपि लोचने विधुरे कांदिशीकतया नि..'क्षिपन्ती कस्त्राता वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम् । क्रूरेणेति । तस्यायं स्वभाव एवेति । किं कुरुतां तथापि धूमेनान्धीकृतो द्रष्टमसमर्थ इति । न तु सविवेकस्येदृशानुचितकारिलं संभाव्यते इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति । शब्दे सति सर्वोऽयमों निरूढ एवेति तत्र तत्र व्याख्यातव्यम् । त्रिभाग इति गुरुजनमवधीर्यापि सा मां यथा तथापि साभिलाषमन्यदैन्यगर्भमधुरं विलोकितवतीत्येवं स्मरणेन परस्परहेतुकलप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसंनिधौ स्फुटं भातीति । वाक्यरूपश्चेति । प्रथमानिर्देशेनाव्यतिरेकनिर्देशस्यायमभिप्रायः । वर्णपदतद्भागादिषु सत्खेवालक्ष्यक्रमो व्यङ्ग्यो निर्भासमानोऽपि समस्तकाव्यव्यापक एव निर्भासते । विभावादिसंयोगप्राणत्वात् । तेन वर्णादीनां निमित्तलमात्रमेव । वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि । किं तु समग्रविभावादिप्रतिपत्तिव्यामृतत्ववद्रसादिनियममेव तन्निर्भासत इति । वाक्य इत्येतत्कारिकायां न निमित्तसप्तमीमात्रम् । अपि खन्यत्र भावविषयार्थमपीति । शुद्ध इत्यर्थालंकारेण केनाप्यसंमिश्रः । 'कृतककुपितेर्बाष्पाम्भोभिः सदैन्यविलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः पश्यन्दिशो भवती विना कठिनहृदयो जीवत्येवे प्रिये स तव प्रियः ॥' अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशतेन गुरुवचनोल्लङ्घनमपि खया कृतमिति । प्रिये इति परस्परजीवितसर्वखाभिमानात्मको रतिस्थायिभाव उक्तः । १. 'च' क-ख. २. 'पलाशैः' क-ख. ३. क-ख-पुस्तकयोश्चतुर्थचरण एवास्य श्लोकस्यास्ति. १. 'निर्लज्जे' क-ख. २. 'सत्सु नालक्ष्य' क-ख ३. 'एष' ग. Page #142 -------------------------------------------------------------------------- ________________ ३ उद्द्योतः ] ध्वन्यालोकः । १३३ मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये - ' कृतककुपितैः' इत्यादि श्लोकः । एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति । अलंकारान्तरसंकीर्णो यथा - 'स्मरनवनदीपूरे णोढाः' इत्यादि श्लोकः । अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते । अलक्ष्यक्रमव्यङ्ग्यः संघटनाया भासते ध्वनिरित्युक्तं तत्र संघटनाखरूपमेव तावन्निरूप्यते असमासा समासेन मध्यमेन च भूषिता । तथा दीर्घसमासेति त्रिधा संघटनोदिता ॥ ५ ॥ नवजलधरेत्यसोढपूर्वं प्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभाववेनोक्तम् । जीवत्येवेति सोपेक्षभावता एवकारेण करुणावकाशनिरोकरणतयोक्ता । सर्वत एवेति । नात्रान्यतमस्य पदस्याधिकं किंचिद्रसव्यक्तिहेतुत्वमित्यर्थः । रसतत्त्वमिति विप्रलम्भटङ्गारात्मतत्त्वम् । ‘स्मैरनवनदी पूरेणोढाः पुनर्गुरुसेतुभिर्यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनानौलानीतं पिबन्ति रसं प्रियाः ॥' रूपकेणेति । स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः । सरभसमेव प्रवृद्धत्वात् । तेनोढाः परस्परसांमुख्य मबुद्धिपूर्वमेव नीताः । अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः । इच्छाप्रसररोधकत्वात् । अथ च गुरवोऽलङ्घयाः सेतवस्तैः प्रतिहतेच्छाः । अत एवापूर्णमनोरथास्तिष्ठन्ति । तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वे देहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमाखादयन्ति । परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति । ननु नात्र रूपकं निर्व्यूढम् । हंसचक्रवाकादिरूपेण नायकर्युंगलस्यारूपितत्वात् । ते हि हंसाद्या एकनलिनीनालानीतसलिल पाँनादिषूचिता इत्याशङ्कयाहयथोक्तव्यञ्जकेति । उक्तं हि पूर्वम्— 'विवशातत्परत्वेन' इत्यादौ 'नातिनिर्वहणेषिता' इति । प्रसाधित इति । विभावादिरूपभूषणद्वारेण रसोऽपि प्रसाधित इत्यर्थः । संघटनायामिति भावे प्रत्ययः । वर्णादिवच्च निमित्तमात्रे सप्तमी । उक्तमिति कारिकायाम् । निरूप्यत इति । गुणेभ्यो विविक्ततया विचार्यत इति यावत् । रसान १. ‘परस्परानुबद्धपरिपोषकतया प्राप्तं' क ख २. ' प्रसादितः ' क- ख. १. 'साक्षेपतैवोक्ता' क ख २. ' निराकरणायोक्तम्' ग. ३. 'स्मररस' क- ख. ४. • 'परस्परसंमुखं' क- ख. ५. 'नालाकृष्टं' ग. ६. 'युगलानां' क- ख. क्रीडादिसूचिता' क-ख. ८. ' इत्युक्तः ' ग. ७. प Page #143 -------------------------------------------------------------------------- ________________ १३४ काव्यमाला। कैश्चित्तां केवलमनूबेदमुच्यते गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन्व्यनक्ति सा । रसस्तनियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ ६॥ __संघटना रसादीन्व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यं गुणानां संघटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयी गतिर्बोद्धव्यागुणाश्रया संघटना, संघटनाश्रया वा गुणा इति । तत्रैक्यपक्षे संघटनाश्रयगुणपक्षे च गुणानात्मभूतानाधेयभूतान्वाश्रित्य तिष्ठन्ती संघटना रसादीन्व्यनक्तीत्ययमर्थः । यदा तु नानात्वपक्षो गुणाश्रयः संघटनापक्षश्च तदा गुणानाश्रित्य तिष्ठन्तीति गुणपरतत्रस्वभावा न तु गुणरूपैवेत्यर्थः । किं पुनरेवं विकल्पनस्य प्रयोजनमित्यभिधीयते । यदि गुणाः संघटना चेत्येक तत्त्वं संघटनाश्रया वा गुणास्तदा संघटनाया इव गुणानामनियतविषयत्वप्रसङ्गः । गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव । रौद्राद्भुतादिविषयमोजः । माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो व्यवस्थितः संघटनायास्तु से विघटते । तथा हि शृङ्गारेऽपि दीर्घसमासा दृश्यन्ते रौद्रादिष्वसमासाश्चेति । कारिकायां द्वितीयार्धस्याद्यं पदम् । 'रसास्तनियमे हेतूनौचित्यं वक्तृवाच्ययोः' इति कारिकार्धम् । बहुवचनेनायमर्थः संगृहीत इति दर्शयति-रसादीनिति । अत्र चेति । अस्मिन्नैव कारिकार्धे । विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यम् 'किं तदि. मिति त्रयः पक्षा ये संभाव्यन्ते व्याख्यातुं शक्याः कथमित्याह-तत्रैक्यपक्ष इति । आत्मभूतानिति । खभावस्य कल्पनया प्रतिपादनार्थं प्रदर्शितभेदस्याश्रयवाचोयुक्तिर्दयते । शिशपाश्रयं वृक्षवमित्याधेयभूतानिति । संघटनाया धर्मा गुणा इति भट्टोद्भटादयः । धमोश्च धम्याश्रिता इति प्रसिद्धो मार्गः । गुणपरतन्त्रेति । अत्र नाधाराधेयभाव आश्रयार्थः । नहि गुणेषु संघटना तिष्ठतीति । तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्यादिप्रकृतय इत्ययमर्थ एवं गुणेषु परतन्त्रखभावा तदायत्ता तन्मुखप्रेक्षिणी संघटनेत्ययमों लभ्यत इति भावः । भवत्वनियतविषयतेत्याशङ्कयाह-गुणानां हीति । हिशब्दस्तुशब्दार्थे । न..."खेवमुपपद्यते । स 'इति । योऽयं गुणेषु नियम उक्तोऽसावित्यर्थः । तथालेन लक्ष्यदर्शनमेव हेतुलेनाहतथा हीति । दृश्यत इत्युक्तं तत्र दर्शनस्थानमुदाहरणं सूत्रयति-तत्रेति । नात्र १. 'चैकं' ग. २. 'असौ' क-ख. १. 'रसास्तान्नियमे हेतुः' ग. २. 'किं तदि-शक्याः ' क-ख-पुस्तकयो स्ति. ३. 'दृश्यते' ख. ४. 'इत्येवमयं' ग. Page #144 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः] ध्वन्यालोकः। तत्र शृङ्गारे दीर्घसमासा यथा-'मन्दारकुसुमरेणुपिञ्जरितालका'। इति । यथा वा 'अनवरतनयनजललवनिपतनपरिमुषितपत्रलेखान्तम् । करतलनिषण्णमबले वदनमिदं कं न तापयति ॥' इत्यादौ । तथा रौद्रादिष्वप्यसमासो दृश्यते यथा-'यो यः शस्त्रं बिभर्ति खभुजगुरुमदः-' इत्यादौ । तस्मान्न गुणाः संघटनाखरूपाः । न च संघटनाश्रया गुणाः । ननु यदि संघटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्ते । उच्यते-प्रतिपादितमेवैषामालम्बनम् । 'तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटकादिवत् ॥' इति । अथवा भवन्तु शब्दाश्रया एव गुणाः । न चैषामनुप्रासादितुल्यत्वम् । यस्मादनुप्रासादयोऽनपेक्षितार्थविस्ताराः शब्दधर्मा एव । शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनाम् । शृङ्गारः कश्चिदित्याशक्य द्वितीयमुदाहरणमाह-यथा वेति । एषा हि प्रणयकुपितनायिकाप्रसादनायोक्ति यकस्येति । तस्मादिति । नैतद्याख्यानद्वयं कारिकायां युक्तमिति यावत् । किमालम्बना इति । शब्दार्थालम्बनले हि तदलंकारेभ्यः को विशेष इत्युक्तं चिरंतनैरिति भावः । प्रतिपादितमेवेति । अस्मन्मूलग्रन्थकृतेत्यर्थः। अथवेति । नयकाश्रितत्वेनैक्यम् । ऐक्य]रूपस्य संयोगस्य चैक्यप्रसङ्गात् । संयोगे द्वितीयमपेक्ष्यमिति चेत् । इहापि व्यङ्ग्योपकारकवाच्यानपेक्षास्त्येवेति समानम् । न चायं समवस्थितः पक्षः । अपि तु भववेषामविवेकिनामभिप्रायेणापि शब्दधर्मलं शौर्यादीनामिव शरीरधर्मलम् । अविवेकी हि उपचारकल विभागं विवेत्तुमसमर्थः । तथापि न कश्चिद्दोष इत्येवंपरमेतदुक्तं भवति । एतदाह-शब्दधर्मत्वमिति । अन्याश्रयलेऽपीति आत्मनिष्ठलेऽपीत्यर्थः । शब्दाश्रया इति । उपचारेण यदि शब्देषु गुणास्तत्रेदं तात्पर्यम्-शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यम् । तच्च शब्दगतं विशिष्टंघटनयैव लभ्यते । अर्थसंघटना नव्यतिरिक्ता काचित् । अपि तु संघटिता एव १. 'परिकल्पन्ताम्' ग. १. 'एकाश्रितलादेवैक्यं' क-ख. २. 'अनपेक्षस्यैवेति' क-ख. ३. 'अविवेकजना- . भिप्रायेण' क-ख. ४. 'अविवेके' क-ख. ५. 'तथापि तु न कश्चिद्दोषाश्रयः' ग. ६. 'विशिष्टैच घटना' क-ख. Page #145 -------------------------------------------------------------------------- ________________ १३६ काव्यमाला। ननु यदि शब्दाश्रया गुणास्तत्संघटनारूपत्वं तैदाश्रयत्वं वा तेषां प्राप्तमेव । नह्यसंघटिताः शब्दा अर्थविशेष प्रतिपाद्य रसाद्याश्रितानां गुणाना. मवाचकत्वादाश्रया भवन्ति । नैवम् । वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रति प्रतिपादितत्वात् । अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्संघटना तेषामाश्रयत्वं प्रतिपद्यते इत्यनियतसंघटनाः शब्दा एव गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः । ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् । ओजसः पुनः कथमनियतसंघटनशब्दाश्रयत्वम् । नह्यसमासा संघटना कदाचिदोजस आश्रयतां प्रतिपद्यते । उच्यते-यदि न प्रसिद्धि शब्दाः । तदा शब्दाश्रितं तत्सामर्थ्यमिति संघटनाश्रितमेवेत्युक्तं भवतीति तात्पर्यम् । ननु शब्दधर्मवं शब्दैकात्मकवं वा तावतास्तु किमयं मध्ये संघटनानुप्रवेश इत्याशय स एव पूर्वपक्षवाद्याह-नहीति । अर्थविशेषैर्न तु पदान्तरनिरपेक्षशुद्धपदवाच्यैः समान्यैः प्रतिपाद्या व्यङ्ग्या ये रसभावतदाभासतत्प्रशमास्तदाश्रितानां मुख्यतया तन्निष्ठानां गुणानामसंघटिताः शब्दा आश्रया न भवन्त्युपचारेणापीति भावः । अत्र हेतुः-अवाचकत्वादिति । न ह्यसंघटितव्यङ्गयोपयोगिनिराकाङ्क्षरूपं वाच्यमाहुरित्यर्थः । एतत्परिहरति-नैवमिति । व्यङ्ग्यो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन खसौभाग्येन वर्णवदेव यद्रसाभिव्यक्तिहेतुत्वं स्फुटमेव लभ्यत इति तदेव माधुर्यादीति किं संघटनया। तथा च पदव्यङ्गयो याववनिरुक्तस्तावच्छुद्धस्यापि पदस्य खार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थावभासकलमेव माधुर्यादीति तत्रापि कः संघटनाया उपयोगः । ननु वाक्यव्यङ्ग्ये ध्वनौ ह्यवश्यं प्रवेष्टव्यं संघटनया । स्वसौन्दर्य वाच्यसौन्दर्य वा तया विना कुत इत्याशङ्कयाह-अभ्युपगत इति । वाशब्दोऽपिशब्दार्थे वाक्यव्यझ्यत्वेऽपीत्यत्र योज्यः । एतदुक्तं भवति-अनुप्रविशतु तत्र संघटना। नहि तस्याः संनिधानं प्रत्याचक्ष्महे । किं तु माधुर्यस्य न नियता संघटना । आश्रयो वा खरूपं वा तया विना कुत इत्याशङ्कयाह..."वर्णपदव्यङ्ग्ये न रसादौ भावान्माधुर्यादेः वाक्यव्यङ्ग्योऽपि तादृशी संघटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्संघटना संनिहितापि रसव्यक्तावयोजिकेति । तस्मादौपचारिकत्वेऽपि शब्दाश्रया एव गुणा इत्युपसंहरति-शब्दा एवेति । नन्विति । वाक्यव्यङ्ग्यध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् । वयं तु ब्रूमः-वर्णपदव्यङ्ग्येऽप्यौजसि रौद्रादिखभावे वर्णपदानामेकाकिनां स्वसौन्दर्यमपि न तादृगुन्मीलति तावद्यावत्तानि समाससंघटनाङ्कितानि न कृतानीति सामान्येवैवायं पूर्वपक्ष १. 'तदाश्रितत्वं' क-ख. २. 'नामैतदुच्यते' ग. ३. 'प्रतिपाद्यते' ग.४. 'उच्यते च' ग. १. 'गुणानां' ग-पुस्तके नास्ति. २. 'शब्दाश्च' क-ख. ३. 'समर्थकत्वेन' क-ख. ४. 'प्रत्याचक्षते' क; 'प्रत्याचक्ष्यते' ख. Page #146 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] ध्वन्यालोकः । १३७ मात्र ग्रहदूषितं चेतस्तदत्रापि न ब्रूमः । ओजसः कथमसमासा संघटना नाश्रयः । येतो रौद्रादीन्हि प्रकाशयतः काव्यस्य दीप्तिरोर्जे इति प्राक्प्रतिपादितम् । तच्चौजो यद्यसमासायामपि घटनायां स्यात्तत्को दोषो भवेत् । 1 न चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति । तस्मादनियतसंघटनशब्दाश्रयत्वे मुणानां न काचित्क्षतिः । तेषां तु चक्षुरादीनामिव यथाखं विषयनियमितस्य स्वरूपस्य न कदाचिद्व्यभिचारः । तस्मादन्ये गुणा अन्या च संघटना । न च संघटनामाश्रिता गुणा इत्येकं दर्शनम् । अथवा संघटनारूपा एव गुणाः । यत्तूक्तम् —' संघटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात्' इति । तत्राप्येतदुच्यते —— यत्र लक्ष्ये परिकल्पितविषयव्यभिचारस्तद्विरूपमेवास्तु । कथमचारुत्वं तादृशविषये सहृदयानां प्रतिभातीति चेत्, कविशक्तितिरोहितत्वात् । द्विविधो हि दोषः कवेव्युत्पत्तिकृतोऽशक्तिकृतश्च । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः स झटिति प्रतीयते । परिकर - श्लोकश्चात्र - 'अव्युत्पत्तिकृतो दोषः शक्त्या संवियते कवेः । यस्त्वशक्तिकृतेस्तस्य स झटित्यवभासते ।' - तथा हि- महाकवीनामप्युत्तमदेवताविषयप्रसिद्ध संभोगशृङ्गारनिबन्धनाद्यंनौचित्यं शक्तितिरस्कृतं ग्राम्यत्वेन न प्रतिभासते । थथा कुमारसं इति । प्रकाशयत इति ‘लक्षणहेत्वोः -' इति शतृप्रत्ययः । रौद्रादिप्रकाशनालक्षणमोज इति भावः । न चेति । चशब्दों हेतौ । यस्मात् 'यो यः शस्त्रं -' इत्यादौ न चारुःवं प्रतिभाति तस्मादित्यर्थः । तेषां द्वित्रगुणानाम् । यथास्वमिति । 'शार एक परमो मनःप्रह्लादनो रसः' इत्यादिना च विषयनियम उक्त एव । यत्त्विति । रखाभिव्यक्कावेतदेव सामर्थ्य शब्दानां यत्तथा संघटमानत्वमिति भावः । शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेख शालित्वम् । व्युत्पत्तिस्तदुपयोगि समस्तवस्तुपौर्वापर्यपरामर्शकौशलम् । तस्येति कवेः । अनौचित्यमिति । आखादयितॄणां हि यंत्र चमत्कारा १. ‘असमाससंघटनाश्रयः' कख २. 'यतः ' क ख पुस्तकयोर्नास्ति. ३. 'ओजो'गुण' क-ख. ४. 'अप्यविषयत्वं' क ख ५. 'तादृशेऽपि' ग. ६. 'कृतो दोषः' ग. ७. 'अनौचित्यमुत्तमदेवविषयं' क ख ८. 'तिरस्कृतत्वाद्धाम्यत्वेन न' ग. १. 'व्यक्तये तदेव' ग. २ 'नियत' ग. १३ ध्व० लो० Page #147 -------------------------------------------------------------------------- ________________ १३८ काव्यमाला। भवे देवीसंभोगवर्णनम् । एवमादौ च विषये यथौचित्यत्यागस्तथा दर्शितमेवाग्रे । शक्तितिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथा हि शक्तिरहितेन कविना एवंविधे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतिभासते । नन्वस्सिन्पक्षे–'यो यः शस्त्रं बिभर्ति-' इत्यादौ किमचारुत्वमेप्रतीयमानमेवारोपयामः । तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च संघटनाया अन्यः कश्चिनियमहेतुर्वक्तव्य इत्युच्यते । 'तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः । तत्र वक्ता कविः कविनिबद्धो वा कश्चित् । कविनिबद्धश्चापि रसभावरहितो रसभावसमन्वितो वा । रसोऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा । कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः। वाच्यं च ध्वन्यात्मरसाङ्गं रसाभासाङ्गं वा, अभि. विघातस्तदेव रससर्वखं खादायत्तत्वात् । उत्तमदेवतासंभोगपरिमर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः । शक्तितिरस्कृतत्वमिति । संभोगोऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा । तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्श कर्तुं न ददाति । यथा नियाजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्यपरामर्श तथात्रापीति भावः । दर्शितमेवेति कारिकाकारेणेति भूतप्रत्ययः । वक्ष्यते हि-'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम्' इत्यादि । अप्रतीयमानमेवेति । पूर्वापरशास्त्रपरामर्शविवेकशालिमिरित्यर्थः । व्यतिरेकपक्षे हि संघटनाया नियमहेतुरेव नास्ति । ऐक्यपक्षेऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः । तन्नियम इति कारिकावशेषः । कथां नयति खकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी । धीरोदात्तादीति। धर्मयुद्धवीरप्रधानो धीरोदात्तः । वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गारप्रधानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः। पूर्वः कथानायकस्तदनन्तर उपनायकः । विकल्पा इति । वक्तृभेदा इत्यर्थः । वाच्यमिति । ध्वन्यात्मा ध्वनिखभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः । अभिनेयो वागङ्गसत्त्वैराभिमुख्यं साक्षात्कारप्रायं नेयोऽर्थो व्यङ्ग्यरूपो ध्वनिखभावो यस्य तदमिनेयार्थ वाच्यं स एव हि काव्यार्थ इत्युच्यते । तस्यैव चाभिनयनयोगः । यदाह मुनिः'वागङ्गसँत्त्वोपेतात्काव्यार्थाद्भवति' इत्यादि । तत्र तद्रसाभिनयनान्तरीयकतया तु तद्वि.. १. 'अवभासते' ग. २. 'प्रतीयमानं' ग. ३. 'संघटनायां' क-ख. ४. 'चेति' ग. . १. 'आखादयितृत्वात्' क-ख. २. 'संभोगे ह्यसौ' क-ख. ३. 'प्रतिनायक' क-ख. ४. 'सत्त्वोपेतान्काव्यार्थान्भावयन्ति' क-ख. ५. 'तत्र तत्र' क-ख. . Page #148 -------------------------------------------------------------------------- ________________ ३ उयोतः] ध्वन्यालोकः। १३९ नेयार्थमनभिनेयाथै वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् । तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः कामचारः । यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव । यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानभूतत्वावन्यात्मभूतस्तदापि नियमेनैव तत्रासमासामध्यमसमासे एव संघटने । करुणविप्रलम्भशृङ्गारयोस्त्वस-. मासैव संघटना । कथमिति चेत् , उच्यते । रसो यदा प्राधान्येन प्रतिपायस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासा संघटना समासानामनेकप्रकारसंभावनया कदाचिद्रसप्रतीति व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः शोभते । विशेषतोऽभिनेयार्थे काव्ये ततोऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः । तयोहि सुकुमार भावादिरूपतया वाच्योऽर्थोऽमिनीयत इति वाच्यममिनेयमर्थमित्येषैव युक्ततरा वाचोयुक्तिः । न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः । तदितरेति । मध्यमप्रकृत्याश्रयमधमप्रकृत्याश्रयं चेत्यर्थः । एवं वैतृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाह-तत्रेति । रचनाया इति संघटनायाः। रसभावहीनोऽसाविष्टस्तापसादिरुदासीनोऽपीति वृत्ताङ्गतया यद्यपि प्रधानरसानुयाय्येव तथापि तावपि तावति रसादिहीन इत्युक्तम् । स एवेति कामचारः। एवं शुद्धवक्रौचित्यं विचार्य वाच्यौचित्येन सह तदेवाहयदा त्विति । कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः । अन्यथा 'स एव वीतरागश्चेत्' इति स्थित्या नीरसमेव काव्यं स्यात् । तथापि यदा यमकादिचित्रप्रदर्शनप्रधानो. ऽसौ भवति तदा 'रसादिहीने' इत्युक्तम् । नियमेन रसभावसमन्क्तिो वक्ता न तु कथंचिदपि तटस्थः । रसश्च ध्वन्यात्मभूत एव । न तु रसवदलंकारप्रायः । तदासमासमध्यसमासे एव संघटते । अन्यथा तु दीर्घसमासापीत्येवं योज्यम् । तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशयम् । कथमिति चेदिति । किं धर्मसूत्रकारवचनमेतदिति भावः । उच्यत इति ।न्यायोपपत्त्येत्यर्थः। तत्प्रतीताविति। तदाखादीये व्यवधायका विरोधिनश्च तद्विपरीताखादमया इत्यर्थः । संभावनयेति । अनेकप्रकारः संभाव्यते संघटना तु संभावनायां प्रयोक्रीति द्वौ णिचौ। विशेषतोऽभिनेयार्थेति । अत्रुटितेन यङ्गेन तावत्समासाभिनयो नो शक्यः कर्तुम् । काकादयोऽन्तरप्रसादगानादयश्च । तत्र दुष्प्रयोज्यबहुतरसंदेहसूचनाय प्रतिपत्तिर्न नाट्यरूपा स्यात् । प्रत्यक्षरूपत्वात्तस्या इति भावः । अन्यत्र चेति । अभिनेयार्थेऽपि मन्थरीभवतीत्या १. 'तदापि' क-ख. २. 'प्रधानाश्रितत्वात्' क-ख. ३. 'कथं चेत्' ग. ४. 'परिभाव्याः ' ग. ५. 'तत्रान्यत्र' ग.. .. १. 'वस्तुभेदाद्वाच्यं चाभिधाय' ग. २. 'हीनः कविस्तापसादिः' क-ख. ३. 'व्यङ्ग्येन' ग. Page #149 -------------------------------------------------------------------------- ________________ १४० काव्यमाला। तरत्वात्सल्पायामप्यखच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा संघटना कदाचिद्धीरोद्धतनायकसंबन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनामाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च संघटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्वरससाधारणः सर्वसंघटनासाधारणश्चेत्युक्तम् । प्रसादातिक्रमे ह्यसमासापि संघटना करुणविप्रलम्भशझारौ न व्यनक्ति । तदपरित्यागे च मध्यमसमासापि प्रकाशयति । तस्मासर्वत्र प्रसादोऽनुसतव्यः । अत एव च 'यो यः शस्त्रं बिभर्ति-' इत्यादौ यद्योजसः स्थितिर्नेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् । अभिप्रेतरसप्रकाशनात् । तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा संघटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् । तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् । खादो विनितत्वात्प्रतिहन्यत इत्यर्थः । तस्यां दीर्घसमाससंघटनायां य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यखस्य यासावपेक्षा दीर्घसमाससंघटनां प्रति साद्गुण्ये हेतुः । नायकस्याक्षेपो व्यापार इति यद्याख्यातं तन श्लिष्यतीवेत्यलम् । व्यापीति। या काचित्संघटना सा तथा कर्तव्या यथा वाच्ये झटिति प्रभवति प्रतीतिरिति यावत् । उक्तमिति । 'समर्पकत्वं काव्यस्य यत्तु' इत्यादिना । न व्यनक्तीति । व्यजकस्य खवाच्यस्यैवाप्रत्यायनादिति भावः । तदिति । प्रसादस्यापरित्यागेऽभीष्टवात् । अत्रार्थे खकण्ठेनान्वयव्यतिरेकावुक्तौ । न माधुर्यमिति । ओजोमाधुर्ययोद्यन्योन्याभावरूपत्वं प्राडिरूपितमिति तयोः संकरोऽत्यन्तं नीतिबाह्य इति भावः । न चेति । प्रसादेनैव स रसः प्रकाशितेन प्रकावित इत्यर्थः। तस्मादिति । यदि गुणाः संघटनैकरूपास्तथापि गुणनियम एव संघटनाया नियमः । गुणाधीनसंघटनापक्षेऽप्येवम् । संघटनाश्रयगुणपक्षेऽपि संघटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं हेतुत्वेनोकं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्विप्लव १. 'खेच्छतायां' क-ख. २. 'व्यापारक्षये' ख. ३. 'समासाश्रयापि वा' क-ख. ४. 'न प्रकाशयति' क-ग. ५. 'गुणातिरिक्तत्वे' ग. ६. 'व्यतिरेकत्वे' क-ख. १. 'ह्यहेतुः' ग. २. 'श्रुतिबाह्यः' ग. Page #150 -------------------------------------------------------------------------- ________________ ३ उयोतः] . विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति । काव्यप्रमेदाश्रयतः स्थिता भेदवती हि सा ॥७॥ __क्तृवाच्यमतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं संघटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम् । संदानितकविशेषककालापककुलकानि पर्यायबन्धः परिकथा सकलकथा खण्डकथा सर्गबन्धोऽभिनेयार्थमाख्यायिका कथेत्येवमादयः । तदाश्रयेणापि संघटना विशेषवती भवति । तत्र मुक्तकेषु रसबन्धाभिनिवेशिनः कवेस्तदाश्रयमौचित्यम् । तच्च दर्शितमेव । अन्यत्र कामचारः । मुक्तकेषु हि इति तात्पर्यम् । वियामकान्तरमप्यस्तीत्साह-विषयाश्रयमिति । विषयशब्देन संघातविशेष उक्तः । यथा हि सेनाद्यात्मकसंघातनिवेशी पुरुषः कातरादिभिरपि तदौचित्यादनुगुणतयैवास्ते तथा काव्यवाक्यमपि संघातविशेषात्मकसदानितकादिमध्यनिविष्टं तदौचित्येन वर्तते । मुक्तकं तु विषयशब्देन यदुक्तं तत्संघाताभावे तत्वातत्र्यमात्रं प्रदर्शयितुं खप्रतिष्ठितमाकाशमिवेति । अपिशब्देनेदमाह-सत्यपि वक्तृवाच्योचित्ये विषयौचित्यं केवलं तारतम्यमेदमात्रव्यावृत्तम् । न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति । मुक्तकमिति । मुकमन्येन नालिङ्गितम् । तस्य संज्ञायां कन् । तेन वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्तिमुक्तकमित्युच्यते । मुक्तकस्यैव विशेषणं संस्कृतेत्यादि । क्रममाविलात्तथैव निर्देशः । द्वाभ्यां क्रियासमाप्तौ संदा. नितकम् । त्रिमिर्विशेषकम् । चतुर्मिः कलापकम् । पञ्चप्रभृतिभिः कुलकम् । इति क्रियासमाप्तिकृता मिद इति द्वन्द्वेन निर्दिष्टाः । अवान्तरक्रियासमाप्तावपि वसन्तवर्णनाघेवर्णनीयोद्देशेन प्रवृत्तः पर्यायबन्धः । एकं च धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणा• गन्तवेत्तान्तवर्णनप्रकारा परिकथा । एकदेशवर्णना खण्डकथा । समस्त्रफलान्तेतिवृत्तवर्णबा सकलकथा । द्वयोरपि प्राकृतप्रसिद्धखाद्वन्द्वेन निर्देशः । पूर्वेषां तु मुक्तकादीनां भाषायामनियमः । महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव । भमिनेयार्थ दशरूपकं नाटिकात्रोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्चसहितमनेकभाषाव्यामिश्ररूपम् । आख्यायिकोच्छ्वासादिना वनापरवादिना च युक्ता । कथा तद्विरहिता । उभयोरपि गद्यबन्धखरूपतया द्वन्देन निर्देशः । आदिग्रहणाचम्पूः। यथाह दण्डी-'गद्यपद्यमयी चम्पूः' इति । अन्यत्रेति । रसबन्धाभिनिवेशे । ननु मुक्तके विभावादिसंघटना कथं येन तदायत्तो रसः स्यादित्याशमाह-मुककेष्विति । १. विषयाश्रयगतमनौचित्यं' ग. २. 'अन्यत्र तु' क-ख. - १. 'क्रमप्रभावात्' क-ख. २. 'निर्देशः' क-ख. ३. 'वृत्तान्तप्रधाना' क-ख. ४. 'प्रसर ग. Page #151 -------------------------------------------------------------------------- ________________ १४२ 5 काव्यमाला । प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेमुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । संदानितकादिषु तु विकटनिर्बन्धनौचित्यान्मध्यम समासादीर्घसमासे एव संघटने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् । पर्यायबन्धे पुनरसमासामध्यमसमासे एव संघटने । कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि संघटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः । तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तं रसबन्धाभिनिवेशात् । खण्डकथा सकलकथयोः प्राकृतप्रसिद्धयोः कुलकादि निबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः । वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् । सर्गबन्धे तु सतात्पर्येण यथारसमौचित्यमन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रुसतात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रसबन्धेऽभिनिवेशः कार्यः । आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्ये च च्छन्दोबन्धभिन्नंप्रस्थानवादिनियमे हेतुरकृतपूर्वोऽपि मना क्रियते । 1 अमरुकस्येति । 'कथमपि कृतप्रत्यासत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् । असहनसखी श्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समु`च्छ्वसितं ततः ॥' इत्यत्र हि श्लोके स्फुटैव विभावादिसंपत्प्रतीतिः । संदानितकेति । असमासायां हि संघटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरचर्त्यनुधावति । वाच्यप्रतीतावेव विश्रान्ता सती न रेसत्वचर्वणायोग्या स्यादिति भावः । प्रबन्धाश्रयेष्विति । संदानितकादिषु कुलकान्तेषु । यदि वा प्रबन्धेष्वपि मुक्तकस्या - स्ति सद्भावः । पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् । यथा‘त्वामालिख्य प्रणयकुपितां-' इत्यादि श्लोकः । कदाचिदिति रौद्रादिविषये । नात्यन्तमिति । रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति संगतिः । वृत्त्यौचित्यमिति । परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च । अन्यथेति । कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः । द्वयोरपीति सप्तमी । कथातात्पर्ये सैर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारम् । रसतात्पर्यं यथा रघुवंशादि । अन्ये १. ‘बन्धौचित्यात्' ग. २. 'रचने' ग. ३. 'पद्यप्रबन्धाश्रितेषु' क ख ४. 'पद्य - बन्धेषु’ क-ख. ५. ‘कथायां तु' क ख ६. 'रस' क- ख- पुस्तकयोर्नास्ति ७. 'का'चारात्' ग. ८. 'बन्धाभिधायिनां ' ग. ९. ' विभिन्नप्रस्थाने निबन्धनात्वात्' क-ख. १. 'रसतत्त्व' क-ख. २. 'संबन्धो यथा' ग. Page #152 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] * ध्वन्यालोकः । एतद्यथोक्तमौचित्यमेव तस्या नियामकम् । सर्वत्र गद्यबन्धेऽपि च्छन्दोनियमवर्जिते ॥ ८ ॥ यदेतदौचित्यं वक्तवाच्वगतं संघटनाया नियामकमुक्तमेतदेव गधे छन्दो - नियमवर्जितेऽपि विषयापेक्षं नियमहेतुः । तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः । रसभावसमन्विते तु वक्तरि पूर्वोक्तमेवानुसर्तव्यम् । तत्रापि वा विषयौचित्यमेवें । आख्यायि - । कायां तु भूम्ना मध्यमसमासादीर्घसमासे एव संघटने । गद्यस्य विकटनिबन्वाश्रयेण च्छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकटबन्धप्राचुर्येऽपि गद्यस्य रसबन्धोक्त मौचित्यमनुसर्तव्यम् । रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता । 1 रचना विषयापेक्षं तत्तु किंचिद्विभेदवत् ॥ ९ ॥ अथ वा पद्मवद्गद्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना भौति । तत्तु विषयापेक्षं किंचिद्विशेषवद्भवति । न तु सर्वाकारम् । तथा हि गद्यबन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते । नाटकादावप्यसमासैव घटना । रौद्रवीरादिवर्णने विषयापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते प्रकृष्यते च । तथा ह्याख्यायि १४३ तु संस्कृतप्राकृतयोर्द्वयोरिति व्याचक्षते । तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्कि - मपेक्षयेति नेयार्थं स्यात् । विषयापेक्षमिति । गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः। स्थितिपक्षं दर्शयति-रसबन्धोक्तमिति । वृत्तौ च वाशब्दोऽस्यैव पक्षस्य स्थितिद्योतकः । यथा—‘स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितम् । स्वार्थाय यदि वा दुःखसंभारायैव केवलम् ॥' इति । रचना संघटना । तर्हि विषयौचित्यं सर्वथैव त्यक्त, नेत्याहतदेव रसौचित्यं विषयसहकारितयापेक्ष्य किंचिद्विभेदोऽवान्तरवैचित्र्यं विद्यते यस्य संपाद्यत्वेन तादृशं भवति । एतद्याचष्टे - तत्त्विति । सर्वाकारमिति क्रियाविशेषणम् । असमासैवेति । सर्वत्रेति शेषः । तथा हि वाक्याभिनयलक्षणे 'चूर्णपादैः प्रसन्नैः' इत्यादि मुनिरभ्यधात् । अत्रापवादमाह - तथेति । नाटकादाविति । खविषयेऽपीति १. ‘तस्मात्' क-ख. २. 'यथा तच्चात्रापि' ग. ३. 'अत्रापि' क- ख. ४. 'एतत्' क- ख. ५. 'भवति' क-ख. १. 'अनुसर्तव्याः' क-ख. Page #153 -------------------------------------------------------------------------- ________________ १४४ काव्यमालाः । कायां नात्यन्तमसमासा स्वविषयेऽपि नाटकादौ नातिदीर्घसमासा चेति संघटना या दिगनुसर्तव्या । ' इति काव्यार्थ विवेको योऽयं चेतश्चमत्कृतिविधायी । सूरिभिरनुसृतसारैरस्मदुपज्ञो न विस्मार्यः ॥' इति । इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायण महाभारतादौ प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते - विभावभावानुभावसंचार्यौचित्यचारुणः । विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ १० ॥ इति वृत्तर्वेशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्योऽप्यन्तराभीष्टर सोचितकथोन्नयः ॥ ११ ॥ संधिसंध्यङ्गघटनं रसामिव्यक्त्यपेक्षया । न तु केवलया शास्त्रस्थितिसंपादनेच्छया ।। १२ ॥ उद्दीपन प्रशमने यथावसरमन्तरा । रसस्यारब्धविश्रान्तेरनुसंधानमङ्गिनः ॥ १३ ॥ अलंकृतीनां शक्तावप्यानुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ १४ ॥ प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावद्विभावभावानुभावसंचार्यौचित्यचारुणः कथाशरीरस्य विधिर्य - थायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः संबन्धः । एवं संघटनायां च लक्ष्यक्रमो दीप्यत इति निर्णीतम् । प्रबन्धे दीप्यत इति तु निर्विवादसिद्धोऽयमर्थं इति नात्र वक्तव्यं किंचिदस्ति । केवलं कविसहृदयान्व्युत्पादयितुं रसव्यञ्जनयेतिकर्तव्यताप्रबन्धस्य सा निरूप्येत्याशयेनाह - इदानीमिति । इदानीं तत्प्रकारजातं प्रतिपाद्यत इति संबन्धः । प्रथमं तावदिति (ह) प्रबन्धस्य व्यञ्जकत्वे ये प्रका रास्ते क्रमेणैवोपयोगिनः । पूर्वं हि कथापरीक्षा । तत्राधिकावापः फलपर्यन्तानयनम् । रसं प्रति जागरणम् । तदुचितविभावादिवर्णनेऽलंकारौचित्यमिति । क्रमेण व्याचष्टे - विभाषेत्यादिना । तदौचित्येति । शृङ्गारवर्णनेच्छुना तादृशी कथा १. इयमार्या क-ख-पुस्तकयोर्नाति २. 'ध्वनिप्रबंन्धो रामायण' ग. ३. ' तथा ' ग. ४. ‘वशायत्तां’ ख. ५. 'यथा वा रसमन्तरा' क ख ६. 'प्रतिपिपादयिष्यते' ख. १. 'सहृदयान्यप्युत्पादयितुं' ग. २. ' तथा ' क- ख. Page #154 -------------------------------------------------------------------------- ________________ ३ उयोतः] ध्वन्यालोकः। १४५ संचारी वा तदौचित्यचारुणः कथाशरीरस्य विधिळञ्जकत्वे निबन्धनमेकम् । तत्र विभावौचित्यं तावत्प्रसिद्धम् । भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिर्युत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभेदिनी । तां यथायथमनुसृत्यासंकीर्णः स्थायी भाव उपनिबध्यमान औचित्यवान्भवति । अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य केवलदिव्याश्रयेण वा मानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य राजादे. वर्णने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमानाः सौष्ठवभृतोऽपि नीरसा एव नियमेन भान्ति । तत्र त्वनौचित्यमेव हेतुः । ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते । तदलोकसामान्यप्रभावादतिशयवर्णने किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुजामिति नैतदस्ति । न वयं ब्रूमो यत्प्रभावातिशयवर्णनमनुचितं राज्ञाम्, किं तु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यमौचित्यं न योजनीयम् । दिव्यमानुषायां तु कथायामुभयमौचित्ययोजनमविरुद्धमेव । यथा पाण्डादिकथायाम् । सातवाहनादिषु तु येषु यावर्दैपदानं श्रूयते तेषु तावन्मात्रमनुगम्यमानमनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषामेवोपनिबध्यमानमनुचितम् । तदयमत्र परमार्थः 'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।' यस्यामृतुमाल्यादेविभावस्य लीलादेरनुभावस्य हर्षवृत्त्यादेः संचारिणः स्फुटमेव संभव इत्यर्थः । प्रसिद्धमिति लोके भरतशास्त्रे च । व्यापार इति । तद्विषयोत्साहोपलक्षणमेतत् । स्थाय्यौचित्यं हि व्याख्येयत्वेनोपक्रान्तं नानुभावौचित्यम् । सौष्ठवभृतो. ऽपीति । वर्णनामहिनेत्यर्थः । तत्र विति नीरसत्वे । व्यतिरिक्तं त्विति । अधिकमित्यर्थः । एतदुक्तं भवति यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयम् । तत्र केवलमानुष एकपदे सप्तार्णवलइनमसंभाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य च...पा." स्याप्यलोकतां बुद्धौ निवेशयति । रामादेस्तु तथाविधमपि चरितं ...१. 'ह्युत्तमाधमभावेन' ग. २. 'दिव्यस्योत्तम' ग. ३. 'मनुष्यस्य' ख, 'केवलमनुष्यस्य' ग. ४. 'आपादनं' ग. ५. 'तदेव' क-ख. . .. १. 'यथा' क-ख. २. 'सद्भावः' क-ख. ३. 'स्फुरदुपदेशस्य चतुर्वर्गोपचरितसंप्रत्ययोपारूढ' क-ख. - - Page #155 -------------------------------------------------------------------------- ________________ 'काव्यमाला। अत एव च भरते प्रबन्धप्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्यविषये कर्तव्ये कविन विमुंह्यति । यस्तूत्पाद्यवस्तु नाटकादिकुर्यात्तस्याप्रसिद्धानुचितनायकखभाववर्णने महान्प्रमादः । ननु यद्युत्साहादिभाववर्णने कथंचिदिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तक्रियताम्, रत्यादौ तु किं तया प्रयोजनम् । रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । नैवम् । तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्यता । विविध प्रकृत्यौचित्यं भारते वर्षेऽप्यस्ति शृङ्गारविषयम् । यत्त्वन्यदिव्यमौचित्यं त [द]त्रानुपकारकमेवेति चेत् , न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत्किंचिद्रूमः । किं तर्हि भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्ध नाटकादौ । तथैव देवेषु तत्परिहर्तव्यम् । नाटकादेरभिनेयत्वादभि पू...."पि न संप्रत्ययोपारूढमसत्यतया चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव न त्वसंभावनास्पदं वर्णनीयमिति । तेन हीति । प्रख्यातो. दात्तनायकवस्तुत्वेन न व्यामुह्यतीति किं वर्णनीयमिति । यस्त्विति कविः । महान्प्रमाद इति तेनोत्पाद्यवस्तु नाटकादि निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यम् । आदिशब्दः प्रकारे त्वित्येवमादेः (१) प्रसिद्धदेवचरितस्य न संग्रहोऽर्थः । अन्यस्तु–'उपलक्षणमुको बहुव्रीहिरिति प्रकरणमात्रोक्तम् , इत्याह । 'नाटकादि' इति वा पाठः । तेदादिग्रहणं प्रकारसूचकम् । तेन मुनिनिरूपिते नाटिकालक्षणे प्रकरणनाटकायोगादुत्पाद्यं वस्तु । 'नायको नृपतिः' इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायकत्वं बोर्द्धव्यमिति भावः । कथं तर्हि संभोगशृङ्गारः कविना निबध्यतामित्याशक्याह-नन्विति । तथैवेति । मुनिनापि स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतं 'स्थैर्येणोत्तममध्यमाश्रमाणां नीचानां संभ्रमण' इत्यादिवदता इयत्त्विति । लक्षणज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितखप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः । १. 'कर्तव्ये' ग-पुस्तके नास्ति. २. 'व्यामुह्यति' ग. ३. 'यत्त दिव्यं' ग. ४. 'शझार उपनिबद्धः' क-ख. ५. 'अप्रसिद्धग्राम्यसंभोगशृङ्गार' क-ख. ६. 'परिहातव्यम् क. ७. 'अमिनेयार्थत्वात्तत्र परिहारः' ग. - १. 'नाटिकादि' क-ख. २. 'अत्रादि' क-ख. ३. 'नाट्ययोगात्' क-ख. ४. 'बोध्यम्' ग. ५. 'इयं त्वित्यादिना' क-ख. ६. 'चानुमन्तव्यम्' क-ख. Page #156 -------------------------------------------------------------------------- ________________ ३ उझ्योतः] ध्वन्यालोकः। १४७ नेयस्य च संभोगशृङ्गाराविषयत्वाचन परिहार इति चेत् , न । यद्यभिनयस्यैवंविषयस्यासह्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते । तस्मादभिनेयार्थे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसंभोगवर्णनं तत्पित्रोः संभोगवर्णनमिव सुतरामसह्यम् । तथैवोत्तमदेवताविषयम् । न च संभोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्येऽपि प्रभेदाः परस्परप्रेमदर्शनादयः संभवन्ति । ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते । तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसतव्यम् । तथैव विस्मयादिषु । यत्त्वेवंविधे विषये महाकवीनामप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव । अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव । इयत्तूच्यते-भरतादिस्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता खप्रतिभां चानुसरता कविनावहितचेतसा भूत्वा विभावाद्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथाशरीरस्य वृतस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति-यदितिहासादिषु रसवतीषु कथासु विविधासु सतीष्वपि यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यं नेतरत् । वृत्तादपि च कथाशरीरादुनेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र बनवधानास्खलतः कवेरव्युत्पत्तिसंभावना महती भवति । परिकरश्लोकश्चात्र 'कथार्शरीरमुत्पाद्यवस्तु कार्य तथातथा । __ यथा रसमयं सर्वमेवैतत्प्रतिभासते ॥' रसवतीष्वित्यनादरे सप्तमी । रसवत्त्वं चाविवेचकजनाभिप्रायेण च मन्तव्यम् । विभावाद्यौचित्येन हि विना का रसवत्ता कवेरिति । तस्माद्विभावाद्यौचित्यमेव रसवत्ताप्रयोजक नान्यदिति भावः । नहि तत्रेति । [इतिहासवशादेवं मया निबद्धमिति जात्यन्तर १. 'असत्यता' क-ख. २. 'उत्तमस्त्रीमिः सह' ग. ३. 'वर्णनवत्सुतरामसभ्यम्' क-ख. ४. 'यावदन्ये च परस्परप्रेमदर्शनादयः प्रभेदाः सन्ति' ५. 'तस्मात्' ग. ६. 'औचित्यवता' क-ख. ७. 'तां स्थिति वानुवर्तमानेन वृत्तादपि कथा' क-ख. ८. शरीरात्' क-ख. १. 'चाविवेकेनामिमानाभि' ग. Page #157 -------------------------------------------------------------------------- ________________ १४८ काव्यमाला। . तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् । तच्च दर्शितमेव । किंच, 'सन्ति सिद्धरसप्रख्या ये च रामायणादयः । कथाश्रया न तैर्योज्या खेच्छा रसविरोधिनी ।' तेषु कथाश्रयेषु तावखेच्छैव न योज्या । यदुक्तम्- 'कथामार्गे न चातिक्रमः' । खेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या । इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्तवशायातां कथंचिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यथा कालिदासप्रबन्धेषु । यथा च सर्वसेनविरचिते हरिविजये । यथा च मदीय एवार्जुनचरिते महाकाव्ये । कविना प्रबन्धमुपनिबध्नता सर्वात्मना रसपरतत्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसाननुगुणां स्थिति पश्येचां भङ्क्त्वापि खतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् । न हि कवेरितिवृत्तमात्रनिर्वहणेन किंचित्प्रयोजनम् । इतिहासादेव तत्सिद्धेः । रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं यत्संधीनां मुखप्रति मपि संभवति । तत्र चेति । रसमयत्वसंपादने । सिद्धेति । सिद्ध आखादमात्रशेषो न तु भावनीयो रसो येषु । कथानामाश्रया इतिहासास्तैरितिहासाथैः सह खेच्छा न योज्या । कथंचिद्वा यदि योज्यते तत्तत्प्रसिद्धिविरुद्धा न योज्या । यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कुर्यादिति त्वत्यन्तासमञ्जसम् । यदुक्तमिति । रामाभ्युदये यशोवर्मणा-'स्थितमिति यथा शय्यां-' । कालिदासेति । रघुवंशेऽजादीनां राज्ञां विवाहादिवर्णनं नेतिहासेषु निरूपितम् । हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादि निरूपितमितिहासेषु दृष्टमपि । तथार्जुनचरितेऽर्जुनस्य पातालविजयादिवर्णितम्मतिहासप्रसिद्धम् । एतदेव युक्तमित्याह-कविनेति । संधी. नामिति । इह प्रभुसंमितेभ्यः श्रुतिस्मृतिप्रमृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येतं युक्तियुक्तकमैफलसंबन्धप्रकटनकारिभ्यो मित्रसंमितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथवावश्यव्युत्पाद्याः प्रजार्थसंपादनयोग्यताक्रान्तराजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुवर्गोपायव्युत्पत्तिर्धारया (?) । हृदयानुप्रवेशश्च रसाखादमय एव । स च रसश्चतुर्वर्गो १. 'कथाश्रयात्तु' क-ख. २. 'निदर्शनम्' क-ख. १. 'इतिहासादिष्वनिरूपितम्' क-ख. Page #158 -------------------------------------------------------------------------- ________________ ३ उड्योतः] ध्वन्यालोकः। १४९ पायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभवाद्यनुबद्धरसाखादवैवश्यमेव खरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेवे व्युत्पत्तेः प्रयोजिका । प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्य एव च वेद इत्यस्मदुपाध्यायः । न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव । द्वयोरप्येकविषयत्वात् । विभावाद्यौचित्यमेव हि सद्यः प्रीतेर्निदानमित्यसकृदवोचाम । विभावादीनां तद्रसोचितानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते । फलं च नाम यददृष्टवशाद्देवताप्रसादादन्यतो वा जायते । न च तदुपदेश्यम् । तत उपायो व्युत्पत्तियोगात् । तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकवेनार्थानर्थोपायव्युत्पत्तिः कार्या । उपायश्च कर्ताश्रीयमाणः पञ्चावस्था भजते । तद्यथा-खरूपं, खरूपात्किंचिदुच्छासतां, कार्यसंपादनयोग्यता, प्रतिबन्धोपनिपातेन शश्यमानतां, निवृत्तिप्रतिपक्षतायां बाधकबाधनेन सुदृढ फलपर्यन्तताम् । एवमार्तिसहिष्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानम् । ता एवंविधाः पञ्चावस्थाः कारणगता मुनिनोक्ताः-'संसाध्ये फलयोगे तु व्यापारः कारणस्य यः । तस्यानुपूर्व्या विज्ञेयाः पञ्चावस्थाः प्रयोक्तृभिः ॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥' इति । एवं या एताः कारणस्यावस्थास्तत्संपादकलकर्तुरितिवृत्तं पञ्चधा विभक्तम् । त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्चसंधय इतिवृत्तखण्डाः। संधीयन्त इति कृला तेषामपि संधीनां खनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतिवृत्तभागाः संध्यङ्गानि 'उपक्षेपः परिकरः परिन्यासो विलोभनम्' इत्यादीनि । अर्थप्रकृतयो नैवान्तर्भूताः । तथा हि स्वायत्तसिद्धर्बीजं बिन्दुः कार्यमिति तिस्रः । बीजेन सर्वव्यापारहेतुना बिन्दुनानुसंधानात्मना कार्येण निर्वाहरूपेण संदर्शनाध्यवसायरूपा ह्येतास्तिस्रोऽर्थे संपाये कर्तुः प्रकृतयः स्वभावविशेषाः । सचिवायत्तसिद्धिवे तु सचिवस्य तदर्थमेव वा स्वार्थमपि वा प्रवृत्तखेन प्रकीर्णत्वप्रसिद्धखाभ्यां प्रकरीपताकाव्यपदेशतयोभयसंबन्धी व्यापारविशेषः प्रकरीपताकाशब्दाभ्यामुक्त इति । एवं प्रस्तुतफलनिर्वाहणम् । तस्याधिकारिकस्य वृत्तस्य पञ्चसंधिवं पूर्णसंध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया । प्रासङ्गिके खितिवृत्ते नायं नियम इत्युक्तं 'प्रासङ्गिके परार्थखान्न ह्येष नियमो भवेत्' इति मुनिना । एवंस्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसंभोगसेवायामनौचित्याभावात्प्रत्युत न निःसुखः स्यादिति श्लाघ्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन प्रस्तावनोपक्रमे पञ्चापि संधयोऽवस्थापञ्चकसहिताः समुचितसंध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव । 'प्रारम्भे(ब्धे)ऽस्मिन्वामिनो वृद्धिहेती-' इति हि बीजादेव प्रभृति १. "विभावाद्युपनिबन्धे' क-ख. २. 'प्रतीतिरेव' क. ३. 'एवमास्तिकसहिष्णूनां' ग. ४. 'सर्वव्यापनात्' क-ख. ५. 'संधानात्' क-ख. ६. 'निर्वाहासंदर्शन' क-ख. ७. 'व्यवसाय' ग. १४ ध्व. लो. Page #159 -------------------------------------------------------------------------- ________________ १५० काव्यमाला। मुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्यपेक्षया । यथा रत्नावल्याम् । न तु केवलं शास्त्रस्थितिसंपादनेच्छया । यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसंध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् । इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरं....."रसस्य । यथा रत्नावल्यामेव । पुनरारब्धविश्रान्ते रसस्याङ्गिनोऽनुसंधिश्च । यथा 'विश्रान्तविग्रहकथः-' इति 'राज्यं निर्जितशत्रु-' इति च वचोभिः 'उपभोगसेवावसरोऽयम्' इत्युपक्षेपात्प्रभृति हि निरूपितम् । एतत्तु समस्तसंध्यङ्गखैरूपं तत्पाठपृष्ठं(?). प्रदर्यमानमतितमां ग्रन्थगौरवमावहति । प्रत्येकेन तु प्रदर्यमानं पूर्वापरानुसंधानवन्ध्यतया केवलं संमोहदायि भवतीति न विततम् । अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्वकण्ठेन यो व्यतिरेक उक्तो 'न तु केवलया' इति तस्योदाहरणमाह-न त्विति । केवलशब्दमिच्छाशब्दं च प्रयुञानस्यायमाशयः-भरतमुनिना संध्यङ्गानां रसाङ्गभूतमिति वृत्तप्रशस्त्युपादानमेव प्रयोजनमुक्तम् । न तु पूर्वरङ्गवददृष्टसंपादनं विघ्नवारणम् । यथोक्तम्-'इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गृहनम् ॥ आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । अङ्गानां षडिधं ह्येतदृष्टं शास्त्रे प्रयोजनम् ॥' इति । ततश्च, 'समीहा रतिभोगार्थो विलासः परिकीर्तितः।' इति, प्रेतिमुखसंध्यङ्गविलासलक्षणे रतिभोगशब्द आधिकारिकरसोचितस्थौयिभावोपव्यञ्जकविभावाद्युपलक्षणार्थवेन प्रयुक्तः । यथा-'तत्त्वं नाधिगतार्थः-' इति । प्रकृतो ह्यत्र वीररसः । उद्दीपन इति । उद्दीपनं विभावादिपरिपूरणम् । यथा-'अयं स राआ उदयणो त्ति' इत्यादि सागरिकायाः प्रशमनं वासवदत्तातः पलायने पुनरुद्दीपनं चित्रफलकोल्लेखे प्रशमनं सुसंगताप्रवेशे...... इत्यादि । गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकुसुमवज्झटित्येव ग्लानिमवलम्बते । विशेषतस्तु शृङ्गारः । यदाह मुनिः'यद्वाम्याभिनिवेशिलं यतश्च विनिवार्यते । दुर्लभवं यतो नार्याः कामिनः सा परा रतिः॥' इति । वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विनापि झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एव स्यात् । पुनरिति । इति वृत्तवशादारब्धाशयमानप्राया न तु सर्वथैवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा । रसस्येति । रसाङ्गभूतस्य कस्यापीति यावत् । तापसवत्सराजे हि वासवदत्ताविषयो १. 'यथावसर..... रहस्य' क-ख-पुस्तकयो स्ति. १. 'स्वरूपतत्परं पृष्ठे प्रदर्श्यमान' ग. २. 'प्रमुख' क. ३. 'स्थायिभावोपपत्तिक' क. ४. 'पूरणया' क-ख. ५. 'सुमनलता' क, 'सुसंगतातः' ग. ६. 'ह्यनुवासरमृदितसुकुमार' क-ख. ७. 'फुल्लकल्पो मध्ये' क-ख. Page #160 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः ध्वन्यालोकः। १५१ तापसवत्सराजे । प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चावगन्तव्यं यदलंकृतीनां शक्तावप्यानुरूप्येण योजनम् । शक्तो हि कविः कदाचिदलंकारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् । दृश्यन्ते च कवयोऽलंकारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु । - किं च । अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः। ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् ॥ १५॥ जीवितसर्वखाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिकां गृह्णन्समस्तेतिवृत्तव्यापी । राज्यप्रत्यायिवृत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपद्मावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलम् । निर्वहणे हि 'प्राप्ता देवी भूतधात्री च भूयः संबन्धोऽभूद्दर्शकेन' इत्येवं देवीलाभप्राधान्यं निर्वाहितम् । इयति चेतिवृत्तवैचित्र्ये चित्रे भित्तिस्थानीयो वासवदताप्रेमबन्धः प्रथममत्रारम्भात्प्रभृति पद्मावती विवाहश्चेति तस्यैव व्यापारात् । तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशयमानविच्छेदोऽपि प्रबन्धसहितः। तथाहि-प्रथमे तावदके स्फुटं स एवोपनिबद्धः 'तद्ववेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव-' इत्यादिना, 'बद्धोत्कण्ठमिदं मनः किमथवा प्रेमा समाप्तोत्सवम् .इत्यन्तेन । द्वितीयेऽपि 'दृष्टि मृतर्षिणी स्मितमधुप्रस्यन्दि वकं नु किम्' इत्यादिना स एव विच्छिन्नविच्छिन्नोऽप्यनुसंहितः । तृतीयेऽपि 'सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तया । हा नादेति मुहुः प्रलापपरया दुग्धं वराक्या तथा शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥' इत्यादिना । चतुर्थेऽपि 'देवीखीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् । इत्थं यन्त्रणया कथंकथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा खप्नेऽपि नासादिता ॥' इत्यादिना । पञ्चमेऽपि समागमप्रत्याशया करणे निवृत्ते विप्रलम्भेऽङ्कुरिते 'तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयाणेऽन्तगूढां रुषमुपगता मे प्रियतमा। प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिविधुरं समुद्भिन्ना पीतैनयनसलिलैः स्थास्यति पुनः ॥' इत्यादिना । षष्ठेऽपि 'वत्संप्राप्तिविलोभितेन मनसा प्राणा मया धारिताः' इत्यादिना । अलंकृतीनामिति योजनापेक्षया कर्मणि षष्ठी । दृश्यन्ते १. 'परमवगन्तव्यम्' ग. २. 'रसानपेक्षाः' क-ख. १. 'रागानु' ग. २. 'इतिवव्यापारात्' क-ख. ३. 'विच्छेदबन्ध' ख. ४. 'धर्मिणी' ग. ५. 'पुरः' क-ख. ६. 'चलितैः' ग. Page #161 -------------------------------------------------------------------------- ________________ १५२ अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्गयोऽपि यः प्रमेद उदाहृतो द्विप्रकारः सोऽपि प्रबन्धेषु केषुचिद्द्योतते । तद्यथा मधुमथनविजये पाञ्चजन्योक्तिषु । तथा वा ममैव कामदेवस्य सहचरसमागमे विषमबाणलीलायाम् । यथा च गृध्रगोमायुसंवादादौ महाभारते । काव्यमाला | चेति । यथा स्वप्नवासवदत्ताख्ये नाटके – 'संजितपक्ष्म कपाटं नयनद्वारं स्वरूपतडनेन (?) । उद्घाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥' इति । न केवलं प्रबन्धेन साक्षाद्यङ्गयो रसो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमते - किं चेति । अनुखानोपमः शब्दशक्तिमूलोऽर्थशक्तिमूलश्च यो ध्वनेः प्रभेद उदाहृतः स केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्जकेषु सत्सु व्यङ्ग्यतया स्थितः सन् अस्येति रसादिध्वनेः प्रकृतस्य भासते । व्यञ्जकतयेति शेषः । वृत्तिग्रन्थोऽप्येवमेव योज्यः । अथ चानुखानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापि 'द्योत्यो लक्ष्यक्रमः क्वचित्' इत्युत्तरश्लोकेन कारिकावृत्त्योः संगतिः । एतदुक्तं भवति — प्रबन्धेन कदाचिदनुरणनरूपव्यङ्ग्यो ध्वनिः साक्षाद्यज्यते स तु रसादिध्वनौ पर्यवस्यतीति । यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्थस्य पूर्वोत्तरस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थोऽयमसंगतः स्यात्, नीरसत्वं च पाञ्चजन्योक्त्यादीनामुक्तं स्यादित्यलम् । 'लीलादाढा शुध्यूड्डासअलमहिमण्डलसचिअ अज्ज । कीस्मसुणालाहरतुज्जआइ अङ्गमि ॥' इत्यादयः पाञ्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जयन्ति । सोऽभिव्यक्तः प्रकृतरसखरूप - पर्यवसायी । सहचरा वसन्तयौवनमलयानिलादयस्तैः सह समागमे । 'मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि । सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पुंमुसिम्मि इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्जिकाः । स्वभावः प्रकृतरसपर्यवसायी । यथा चेति । श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह । 'अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुर्सकुले । कङ्कालबहले घोरे सर्वप्राणिभयंकरे ॥ न चेह जीवितः कश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥' इत्याद्यवोचत् । गोमायुस्तु निशोदयावधि अमी तिष्ठन्त्विति ततो गृध्रादपहृत्याहं र्भक्षयिष्यामीत्यभिप्रायेणावोचत् । 'आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् गृध्रवाक्यात्कथं बालास्त्यक्ष्यध्वमविशङ्किताः ॥ इत्यादि । स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठिततां प्राप्तः । एवमलक्ष्यक्रमव्यजयस्य रसादिध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपितेन निरू १. ‘अद्यापि’ क-ख. २. 'इलोदाढं गुंधरि अस... ... इमहिमंधतुं सविअअं ज । की... रणानि तुंझगरुआ ... इअङ्गम् ॥' ग. सर्वेषु पुस्तकेष्वेतदग्रिमं च प्राकृतमत्यशुद्धमस्ति . ३. ‘नियम’ ग. ४. ‘इत्याद्यनेकमवोचत्' क- ख. ५. 'जम्बुकस्तु' ग. ६. ' भक्षयामि' ग. Page #162 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः ध्वन्यालोकः १५३ सुप्तिवचनसंबन्धैस्तथा कारकशक्तिमिः । . . कृत्तद्धिससमासैश्च द्योत्योऽलक्ष्यक्रमः कचित् ॥ १६॥ . अलक्ष्यक्रमो ध्वनेरात्मा रसादिभिः सुब्विशेषैस्तिविशेषैर्वचन निशेषैः संबन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति । चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तेरभिव्यज्यमानो दृश्यते । यथा'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः . सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा ___वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥' अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते । तत्र 'मे यदरयः' इत्यनेन सुप्संबन्धवचनानामभिव्यञ्जकत्वम् । 'तत्राप्यसौ पणीयान्तरमवशिष्यते तथापि कविसहृदयानां शिक्षां दातुं पुनरपि सूक्ष्मदृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह-सुप्तिडित्यादि । वयं वित्थमेव तदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे । सुबाघभिनेयोऽनुस्खानोपमो भासते वैऋभिप्रायरूपः । सुबादिभिर्व्यक्तस्यानुखानोपमस्यालक्ष्यक्रमव्यङ्गयो द्योत्यः । क्वचिदिति पूर्वकारिकया सह संमील्य संगतिरिति । सर्वत्र हि सुबादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव । उदाहरणेनाभिव्यक्तोऽभिप्रायो यथाखं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति । एतदुक्तं भवति । वर्णादिभिः प्रबन्धान्तैः साक्षाद्वा रसोऽभिव्यज्यते विभावादिप्रतिपादनद्वारेण यदिवा विभावादिव्यअनद्वारेण परम्परयेति । तत्र प्रबन्धस्यैतत्परम्परया व्यञ्जकलं प्रसङ्गादुक्तम् । अधुना तु वर्णपदादीनामुच्यत इति । तेन वृत्तावपि 'अभिव्यज्यमानो दृश्यते' इति । णादौ च वाक्यशेषोऽध्याहार्यः विभावादिव्यञ्जकद्वारतया पारम्पर्येणेत्येवंरूपः । ममारय इति । मम शत्रुसैद्भावो नोचित इति संबन्धाद्यौचित्यं क्रोधविभावं व्यनक्ति अरय इति बहुवचनम् । तपो विद्यते यस्येति पौरुषकथाहीनवं तद्धितेन मवर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेनात्यन्तासंभावनीयत्वम् । मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता । तस्यां सत्कर्तापिशब्देन मैनुष्यमात्रवाचकः (१) । अत्रैवेति मद १. 'अमीषां' ग. - १. 'वयं..........तत्सोदरस्य रसादिध्वनेः सवृत्तिकमेतद्वाक्यमिति बुध्यामहे' ग. २. 'वक्रभिप्रायादिरूपः' क-ख. ३. 'प्रसङ्गादावुक्तम्' ग. ४. 'व्यञ्जन' ग. ५. 'संभवः' क-ख. ६. 'संबन्धेनौचित्यं' क-ख. ७. 'संभाव्यमानलम्' क-ख. ८. 'हननक्षमतानुचिता' क-ख. ९. 'मानुषमात्रक' ग. Page #163 -------------------------------------------------------------------------- ________________ १५४ काव्यमाला । तापसः इत्यत्र तद्धितनिपातयोः । 'सोऽप्यत्रैव निहन्तिं राक्षसकुलं जीवत्यहो रावणः' इत्यत्र तिङ्कारकशक्तीनाम् । 'विग्धिक्छऋजितं-' इत्यादौ श्लोकार्पे कृत्तद्धितसमासोपसर्गाणाम् । एवंविधस्य व्यञ्जकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत विभावस्तत्राप का यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदितश्लोके । अत्र हि रावण इत्यस्मिन्पदेऽर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालंकृतेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् । दृश्यन्ते च महात्मनां प्रतिभाविशेष. माजां बाहुल्येनैवंविधा बन्धप्रकाराः । धिष्ठितो देशोऽधिकरणम् । निःशेषेण हन्यमानतया राक्षसबलं च कर्मेति । तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासंपत्तिव॑न्यत इति । कारकशक्तिप्रतिपादकैश्च शब्दैः सवण इति वर्थान्तरसंक्रमितवाच्यवं पूर्वमेव व्याख्यातम् । धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति.... तद्धितप्रयोगस्य प्रत्ययसहितस्याबहुमानास्पदवम् । विलुण्ठनशब्देन ......... निर्दयावस्कन..... व्यञ्जकत्वम् । वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दां प्रति व्यञ्जकता । भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते। तेन तिलशस्तिलशोऽपि विभज्यमानेऽत्र श्लोके सर्व एवांशो व्यञ्जकलेन भातीति किमन्यत् । एतदर्थप्रदर्शनस्य फलं दर्शयति-ऐवसिति । एकस्य पदस्येति यदुक्तं तदुदाहरति-यथात्रेति । अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति सर्व एव । न तु सुखं प्रति वर्तमानो नाम कोऽपि काललेश इत्यर्थः। प्रतीपान्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते । दुःखं बहुप्रकारमेव प्रति वर्तमानरूपाः सर्वे कालांशा इत्यनेन कालस्य तावनिर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वम् । देशस्याप्याह-पृथिवी श्वः श्वः प्रातः प्रातर्दिनाद्दिनं पापीयदिवसा पापीयानां संबन्धिनः पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता । खभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनखामिका पृथिवी ।........" १. ‘एवंविधं' क. २. 'बन्धर्द्धिः' क-ख. ३. 'यथात्रैवानन्तरोदाहृते' क-ख. १. 'प्रति' इत्यस्मादनन्तरं 'व्यञ्जकलम्' अस्मात्पूर्व क-ख-पुस्तकयो स्ति. २. 'एवंविधमिति' क-ख. ३. 'यथा चात्रैवेति' क-ख. ४. 'प्रतिपादस्थितानि प्र....... नि...."प्रत्यावर्तमानानि । तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया' ग. ५. 'वर्तमानाः' ग. ६. 'पापानां' क-ख. Page #164 -------------------------------------------------------------------------- ________________ ३ उच्योतः ] ध्वन्यालोकः । यथा महर्षेर्व्यासस्य 'अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसा पृथिवी गतयौवना ॥' अत्र हि कृतद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः, 'पृथिवी गतयौवना' इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः । ऐषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेणान्यत्रापि दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा'तालैः शिखद्वयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥' तिङन्तस्य यथा— 'अवसर रोउं चिअ णिम्मिआइँ मा पुंस मे हअच्छीइं । दंसंणमेत्तुम्मत्तेहिं जेहि ँ हिअअं तुह ण णाअम् ॥' यथा वा १५५ ' मा पन्थं रुन्धीओ अवेहि बालअ अहोसि अहिरीओ । अम्हेअ णिरिच्छाओ सुण्णधरं रक्खिदव्वं णो ॥' ...... ....... लक्षणदेशदौरात्म्याद्विशेषतो दुःखमय इत्यर्थः । तथा हि श्वः श्व इति दिनाद्दिनं गतयौ - वना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवना हि । यो यो दिवस आगच्छति स पूर्वपूर्वापेक्षया पापीयान् निकृष्टत्वात् । ......चे' " शब्दो ...... एवंप्रयुक्तो जन्तो | अत्यन्तेति । सोऽपि प्रकरस्यैवाङ्गतामेतीति भावः । सुबन्तस्येति । समुदितले तूदाहरणं दत्तं व्यस्तत्वे चोच्यत इति भावः । तालैरिति बहुवचनमनेकविधं वैदग्ध्यं ध्वनि (?) र्विप्रलम्भोद्दीपकतामेति । 'अपसर रोदितुमेव निर्मिते मा उत्पुंसय हते अक्षिणी मे | दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् ॥' उन्मत्तो हि न किंचिज्जानातीति न कस्याप्यत्रापराधः दैवेनेत्थमेव निर्माणं कृतमिति । अपसर मां वृथा प्रयासं कार्षीः दैवस्य विपरिवर्तयितुमशक्यत्वादिति । तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः । 'मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्नीकः । वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते ॥' इत्यत्रापेहीति तिङन्त १. 'च पदेनात्यन्त' क- ख. २. 'तेषां' क - ख. १. ‘निकृष्टत्वात्’ इत्यस्मादनन्तरं 'अत्यन्तेति' अस्मात्प्राक् क-ग-पुस्तकयोर्नास्ति. Page #165 -------------------------------------------------------------------------- ________________ १५६ संबन्धस्य यथा 'अण्णत्त वच्च बालअ अह्ना अन्ति किसमले हसिए अम् (?) । हो जाआभीरुआण तु विअणु होई ॥' (?) कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव । समासानां च वृत्त्यौचित्येन विनियोजने निपातानां व्यञ्जकत्वं यथा'अयमेकपदे तथा वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥' इत्यत्र चशब्दः । यथा वा काव्यमाल | ——— *** 'मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लेवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ अत्र तुशब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा 'नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामघः प्रस्निग्धाः कचिदिङ्गुदी फलभिदः सूच्यन्त एवोपलाः । - मिदं ध्वनति-त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि । अस्ति तु संकेतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति । अन्यत्र व्रज बालक अप्रौढ प्रकर्षेणालोकयस्येतत् । भो इति सोल्लुण्ठमाह्वानम् । जायाभीरुकाणां संबन्धमेव (?) न भवति । अत्र जायातो ये भीरवस्तेषामेतत्स्थानमिति दूरापेतः संबन्ध इत्यनेन संबन्धेनैवेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । कृतकेति कग्रहणमिति तद्धितोपलक्षणार्थम् । कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति । ये हि रसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः । समासानां येति । केवलानामेव व्यञ्जकत्वमावेद्यत इति संबन्धः । चशब्द इति जातावेकवचनम् । द्वौ हि चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगवद्वर्षा - समयश्च समुपनतः एतदलं प्राणहरणाय । अत एव रम्यपदेन सुतरामुद्दीपन विभावत्वमुक्तम् । तुशब्द इति पश्चात्तापसूचकः संस्तावन्मात्रपरिचुम्बनला मेनापि कृतकृत्यता स्यादिति ध्वनतीति भावः । प्रसिद्धमपीति । वैयाकरणादिग्रहणेषु हि वाक्प्रयोगखातन्त्र्यप्रयोगाभावात्षष्ठ्या (?) श्रवणाल्लिङ्गसंख्याविरहाच्च वाचकवैलक्षण्येन द्यो १. ‘अवज्ञातिशये..................समासानां' ग. २. 'अतिदुःसहः ' ग. ३. 'वारिधरोदयैः ग. ४. 'विक्लवाभिधानम्' ग. १. 'भीरूणां' ग. २. 'तत्र ज्ञायते ये भीरवः' ग. Page #166 -------------------------------------------------------------------------- ________________ ३ उद्द्योतः ] ध्वन्यालोक विश्वासोपगमादभिन्नगतयः शब्दं सहस्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्देलेखादिताः ॥2 'मदमुखरकपोतमुन्मयूरं प्रविरलवामनवृक्षसंनिवेशम् । वनमिदमवगाहमानभीमं व्यसनमिवोपरि दारुणत्वमेति ॥ इत्यादौ प्रशब्दस्यौ पच्छन्दसिकस्य च व्यञ्जकत्वमधिकं द्योतते । द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यनुगुणतयैव निर्दोषः । यथा - ' प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून् -' इत्यादौ । यथा वा – 'मनुष्यवृत्त्या समुपाचरन्तं ' इत्यादौ । 'यैः स्वप्ने सदुपानतस्य -' इत्यादौ च । निपातानामपि तथैव । यथा - 'अहो बतासि स्पृहणीयवीर्यः' इत्यादौ । यथा वा 'ये जीवन्ति न मान्ति ये स्ववपुषि प्रीत्या प्रनृत्यन्ति ये प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते । हा धिक्कष्टमहोक यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शैठेन विधिना साँधुद्विषः पुष्पता ॥' १५५ इत्यादौ । तका निपाता इत्युदोष्यत एवेति भावः । प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयनिङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनयति । ' तापसस्य फलविषयोऽभिलाषातिरेको ध्वन्यते' इति त्वसत् । अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलम् । द्वित्राणामित्यनेनाधिक्यं निरस्यति । सम्यगुच्चैर्विशेषेणेक्षितले हि भगवतः कृपातिशयोऽभिव्यक्तः । 'मनुष्यवृत्त्या सेमुपाचरन्तं स्वबुद्धिसामान्यकृतीतुमानाः । योगीश्वरैरप्यसुबोधमीशं वां बोद्धुमिच्छन्त्यबुधाः खतकैः ॥' सम्यग्भूतमुपां - शुकृता आ समन्ताच्चरन्तमित्यनेन लोकनुजिघृक्षातिशयस्तथा चरतः परमेश्वरस्य ध्वनितः । तथैवेति । रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्दोष इत्यर्थः । हा धिगिति ... १. ‘यथा वा’ क-ख-पुस्तकयोर्नास्ति २. 'यः खमे -' नस्ति. ३. 'च' ग. ४. 'पुलकिनः ' ग. ५. 'शनैश्च' ग. इत्यादि क-ख- पुस्तकयो६. 'सा विद्विषा' ग. १. 'समुदा' ग. २. ' कृताभिमानाः ' ग. ३. 'द्रष्टुं' ग. ४. 'लोकातिशयजिघृक्षातिशय' ग. Page #167 -------------------------------------------------------------------------- ________________ १५८ काव्यमाला। ___ पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहति । यथा 'यद्वञ्चनाहितमतिर्बहुंचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किं तु कर्तुं वृथाप्रणयमस्य न पारयन्ति ॥' इत्यादौ । कालस्य व्यञ्जकत्वं यथा'समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा । अइरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ॥' अत्र बचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन्पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते । अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस्तथा कचित्प्रकृत्यंशोऽपि दृश्यते । यथा'तद्गुहं नतभित्ति मन्दिरमिदं लब्धावगाहं दिवः सा धेनुर्जरती चरन्ति करिणामेता घनाभा घटाः। तिशयो निर्वेदातिशयश्च ध्वन्यते । प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह-पदपौनरुक्त्यमिति । पदग्रहणं वाक्यादेरपि यथासंभवमुपलक्षणम् । विदन्तीति । त एव हि सर्व विदन्ति सुतरामिति ध्वन्यते । वाक्यपौनरुक्यं यथा-'पश्य-द्वीपादन्यस्मादपि-' इति वचनानन्तरं 'कः संदेहः । द्वीपादन्यस्मादपि-' इत्यनेनेप्सितप्राप्तिरविनेतैव ध्वन्यते । 'किं ख......' इत्यनेनामर्षातिशयः । 'सर्वक्षितिभृतां नाथ दृष्टा सर्वासुन्दरी' इत्युन्मादातिशयः । कालस्येति । तिङन्तपदानुप्रविष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्येऽन्वयव्यतिरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकलं विचार्यमिति भावः । रसपरिपोषेति । उत्प्रेक्ष्यमाणो वर्षासमयः कामकारी किमिति (8) वर्तमान इति ध्वन्यते । अंशांशिकप्रसङ्गादेवाह-यथात्रेति । दिव. १. 'भुवि' ग. २. 'समविषमनिर्विशेषाः समन्ततो मन्दमन्दसंचाराः । अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लक्ष्याः ॥' इति च्छाया. Page #168 -------------------------------------------------------------------------- ________________ ३ उद्द्योतः ] ध्वन्यालोकः । स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषितामाश्चर्यं दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ॥' अत्र श्लोके दिवसैरित्यम्मिन्पदे प्रकृत्यंशोऽपि द्योतकः । सर्वनाम्नां च व्यञ्जकत्वं यथात्रैवानन्तरोक्त श्लोके । अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना केत्यादिशब्दप्रयोगो न कृतः । अनया दिशा सहृदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः । एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम्, न तु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम् । तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव । उक्तमत्र पदानां व्यञ्जकत्वोक्त्यवसरे । किंचार्थविशेषाक्षेप्यत्वेऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकखरूपपरिज्ञानं विभज्योपयुज्यत एव । शब्दविशेषाणां तत्रा १५९ सार्थो ह्यत्रात्यन्तासंभाव्यमानतामस्यार्थस्य ध्वनति । सर्वनाम्नां चेति । प्रकृत्यंशस्य चेत्यर्थः । तेन प्रकृत्यंशेन संभूय सर्वनामव्यञ्जकत्वं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यम् । तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यंशसहायं समस्तामङ्गलनिधानभूतमूषकाद्याकीर्णतां ध्वनति । तदिति हि केवलमुच्यमाने समुत्कर्षातिशयोऽपि संभाव्येत । न च नतभित्तिशब्देनापि । एते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः । एवं सा धेनुरित्यादावपि योज्यम् । एवंविधे च विषये स्मरणाकारद्योतकता तच्छब्दस्य । ननु यच्छब्दसंबन्धतेत्युक्तं प्राक् अत्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धाविषय-ता सूचनेनाश्चर्यविभावता योजिता । तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यादिति दि'दमादेरेव प्राणत्वं योज्यम् । एतच्च द्विशैः सामस्त्यं त्रिशः सामस्त्यमिति व्यञ्जकमित्युपलक्षणपरम् । तेन लोष्टप्रस्तारन्यायेनानन्तवैचित्र्यमुक्तम् । दाह – अन्येऽपीति । अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षिपति -- एतच्चेति । वितत्याभिधानेऽपि प्रयोजनं स्मारयति — वैचित्रयेणेति । पूर्वं निर्णीतमप्येतदविंस्मरणार्थमधिकाभिधानार्थं वा विक्षिप्तम् । उक्तमत्रेति । न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यात् । इति प्रागेवोक्तम् । नन गीतादिवद्रसाभिव्यञ्जकत्वेऽपि शब्दस्य तत्र व्यापारोऽस्त्येव । स च व्यञ्जनात्मैवेति भावः । एतच्चास्माभिः प्रथमोद्द्योते निर्णीतचरम् । न चेदमस्माभिरपूर्वमुक्तमित्याह - शब्द विशेषाणां चेति । अन्यत्रेति । भामहविवरणे । विभा १. 'अत एवात्र' क ख २. 'शब्दादीनां' ग. ३. 'विरुद्धताविषयः' ग. ४. 'तदि'दमसंशयो वै प्राणत्वं' ग. ५. 'यंशसामस्त्यं त्र्यंश' क- ख. ६. ‘यद्वक्ष्यति' ग. Page #169 -------------------------------------------------------------------------- ________________ १६० काव्यमाला। न्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् । यत्रापि न तत्संप्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यदृष्टं सौष्ठवं तेषों प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यवभासते इत्यवस्थातव्यम् । कोऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यात् । अन्य एवासौ सहृदयसंवेद्य इति चेत् , किमिदं सहृदयत्वं नाम । किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम् , उत रसभावादिमयकाव्यखरूपपरिज्ञाननैपुण्यम् । पूर्वस्मिन्पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापनसंभवात् । द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति । तथाविधैः सहृ. दयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय एव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयस्तु प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्था(न?)पेक्षायां त्वनुप्रासादिरेव । गेनेति । स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से खचारव इति रसकृत एव विभागः । रसं प्रति च शब्दस्य व्यञ्जकलमेवेत्युक्तं प्राक् । स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकलाभावेऽपि व्यञ्जकत्वशक्तेर्भूयसा दर्शनात्तदधिवाससुन्दरीभूतमर्थ प्रतिपादयितुं सामर्थ्यमस्ति । तथा हि-'तटी तारं ताम्यति-' इत्यत्र तटशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीवमेवाश्रितं सहृदयैः । 'स्त्रीति नामापि मधुरं' इति कृत्वा । यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भद्देन्दुराजस्य–'इन्दीवरद्युति यदा बिभ्यां न लक्ष्म स्युर्विस्मयैकसुहृदोऽस्य यदा विलासाः । स्यान्नाम पुण्यपरिणामवशात्तदानी कीरीकपोलतलकोमलकान्तिरिन्दुः ॥' अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयोऽत्र परं सौन्दर्यमावहन्ति । अवश्यं चैतदभ्युपगन्तव्यमित्याह-कोऽन्यथेति । असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह-अन्येति । पुनरप्यनियन्त्रितपुरुषेच्छायत्तोऽपि समयः कथं नियतः स्यात् । मुख्यं चारुत्वमिति । विशेष इति पूर्वेण संबन्धः । अर्थापेक्षायामिति । वाच्यापेक्षायामित्यर्थः । अनुप्रासादिरेवेति । शब्दान्तरेण सह या रचना तदपेक्षोऽसौ विशेष इत्यर्थः । आदिशब्दादर्थगुणानां संग्रहः । अत एव रचनायाः प्रसादेन चारुत्वेनोपबृं १. 'तत्संप्रति न भासते' ग. २. 'तेषां तेषां' ग. ३. 'वाचकखांश्रयाणां तु सोऽस्तु' ग. १. 'संपादयितुं' क-ख. २. 'आदिग्रहणाच्छब्दगुणालंकाराणां' ग. . Page #170 -------------------------------------------------------------------------- ________________ ३ उद्द्योतः] ध्वन्यालोकः । एवं रसादीनां व्यञ्जकखरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते प्रबन्धे मुक्तके वापि रसादीबन्दुमिच्छता । यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ १७ ॥ प्रबन्धे मुक्तके वापि रसाभावनिबन्धनं प्रत्यातमनाः कविर्विरोधिपरिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एकोऽपि सम्यङ्ग संपद्यते। कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यतेविरोधिरससंबन्धिविभावादिपरिग्रहः। विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ १८ ॥ अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् । परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याद्विरोधाय वृत्यनौचित्यमेव च ॥ १९ ॥ प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य संबन्धिनां विभावानुभावव्यभिचारिणां परिग्रहो रसविरोधहेतुरेकः संभवनीयः । तत्र विरोधिरसविभाव हिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् । रसादीनां यद्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य खरूपमभिधायेति संबन्धः । उपक्रम्यत इति । विरोधिनामपि लक्षणकारणे प्रयोजनमुच्यते शक्यभानत्वं नाम अनया कारिकया लक्षणं तु विरोधरससंबन्धीत्यादिना भविष्यतीत्यर्थः । ननु 'विभावभावानुभावसंचा?चित्यचारुणः' इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवर्गस्यते । मैवम् । व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् । तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् । पथ्यानुपयोगो हि न तथा व्याधिं जनयति यद्वदपथ्योपयोगः । तदाह-कानीति । विभावेत्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्यश्लोकेनाह । इतिवृत्तेत्यादिना श्लोकद्वयेन यदुक्तं तद्विरुद्धं विस्तरेणेत्यर्धश्लोकेनाह । उद्दीपनेत्यर्धश्लोकोक्तस्य विरुद्धमकाण्ड इत्यर्धश्लोकेन । रसस्येत्यर्धश्लोकोक्तस्य विरुद्ध परिपोषं गतस्येत्यर्धश्लोकेन । अलंकृतीनामित्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्त्यनौचित्यमित्यनेन । एतत्क्रमेण व्याचष्टे-प्रस्तुतर १. 'लक्षयितुमुपक्रमते' क-ख. ... १. 'उपक्रमते' क-ख. २. 'हानत्वं' क-ख. ३. 'कामिकया' ग. ४. 'गतार्थः' ग. ५. 'इत्यादि' क-ख. ६. 'अपि गम्यते' क-ख. ७. 'गम्यते' क-ख. १५ ध्व. लो. Page #171 -------------------------------------------------------------------------- ________________ १६२ काव्यमाला | परिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिवर्णने । विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये । विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने । अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथंचिदन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमुपक्रान्तस्य कवेर्यमकाद्यलंकार निबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने । अयं चापरो रसभ हेतुरवगन्तव्यो यदकाण्ड एव विच्छित्तिः रसस्याकाण्डे च प्रथनम् । तत्रानवसरे विरोमो यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने । अनवसरे च प्रकाशनं यथा प्र सापेक्षयेत्यादिना । हास्यशृङ्गारयोवींराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ । प्रशमगर्वयोर्विरोधात् । विरोधिनि रसस्य यो भावो व्यभिचारी तस्य परिग्रहः । विरोधिनस्तु यः स्थायी तस्य तया तावत्परिग्रहोsसंभवनीय एव । तदनुत्थानप्रसङ्गात् । व्यभिचारितया तु परिग्रहो भवत्येव । अत एव सामान्येन भावग्रहणम् । वैराग्यकथाभिरिति वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः। यथा—‘प्रसादे वर्तख प्रकटय मुदं संत्यज रुषं' इत्याद्युपक्रम्यार्थान्तरन्यास 'न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इति । मनागपि निर्वेदानुप्रवेशे सति रतेविच्छेदात् । ज्ञातविषयस्तत्त्वो हि जीवितसर्वस्वाभिमानात्कथं भजेत । नहि ज्ञातशुक्तिरजततत्त्वस्तदुपादेयधियं भजते । ऋते संवृत्तिमात्रात् । कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो वृत्तिं मतिप्रभृति संगृह्णाति । नैन्वन्यदनुन्मत्तः कथं वर्णयेत् किमुत विस्तरत इत्याह-कथंचिदन्वितस्येति । व्यापारान्तरेति । यथा वत्सराजचरिते चतुर्थेऽङ्के – रत्नावलीनामधेयमप्यगृह्णतो विजयवर्मवृत्तान्तवर्णने । अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दूरापास्तमिति । वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन १. 'रसाद्यपेक्षया' ग. २. 'अनुक्रान्ते' ग. ३. 'भङ्गहेतुमावहति' ग. ४. 'अकाण्ड एव प्रकाशनम्' ग. ५. 'विरामो रसस्य' क-ख. ६. 'सह' क-ख. ७. 'चिन्तितोचितं ' क- ख. ८. 'प्रकाशनं रसस्य' क- ख. १. 'अनुभाव' क-ख. २. ' उपात्तस्य' ग. ३. 'नुवेधे' ग. ४. 'न त्वन्यदनुमन्तव्यः कथं' क-ख. ५. ‘अग्रहणतो' ग. ६. 'वृत्तान्ताकर्णने' ग. ७. 'काचिदिति' ग. Page #172 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] ध्वन्यालोकः । १६३ वृत्ते प्रवृद्धविविधवीरसंक्षये कल्पसंक्षयकल्पे सङ्ग्रामे देवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने । न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन स्वप्रवृत्तिनिबन्धनं युक्तम् । इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् 'आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः ' इत्यादिना । अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यन्नयतात्पर्यमेवैषां युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन । पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः खसामग्री लब्धपरिपोषः पुनः पुनरामृष्यमाणः परिम्लानकुसुमकल्पः कल्पते । तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्याश्चिदुचिताङ्गभङ्गिमन्तरेण स्वयं संभोगाभिलाषकथने । यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालंकारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभहेतुः । एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् । परिकरश्लोकाश्चात्र -- 1 ध्वनति । अत एव वक्ष्यति — दैवव्यामोहितत्वमिति । पूर्वं तु संध्यङ्गाभिप्रायेण प्रत्युदाहेरणमुक्तम् । कथापुरुषस्येति । प्रतिनायकस्येति यावत् । अत एव चेति । यतो रसबन्ध एव मुख्यः कविव्यापारविषयः । इतिवृत्तमात्रवर्णनप्राधान्ये सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः। न ध्वनिप्रतिपादनमात्रेति । व्यङ्गयोऽर्थे भवतु मा वा भूत् कस्तत्राभिनिवेशः । काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः । वृत्त्यनौचित्यमेव चेति बहुधा व्याचष्टे - तदपीत्यनेन । चशब्दं कारिकागतं व्याचष्टे रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य मिन्नक्रमत्वमुक्तम् । रसस्य विरोधायेत्यर्थः । नायकं प्रतीति । नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुप्रेबन्धेन भवितव्यमिति । तं प्रि कापुरुषोचितमधैर्ययोजनं दुष्टमेव । परिकर श्लोका इति । तेषामिति रसादीनाम् । १. 'रामदेव' ग. २. 'चाङ्गाङ्गि' ३ ' पुनः परामृष्य' क.ख. १. 'हरणतोक्ता तथा पुरुषस्येति ग. २. 'प्रवेधेन' ग. Page #173 -------------------------------------------------------------------------- ________________ १६४ काव्यमाला। 'मुख्या व्यापारविषयाः सुकवीनां रसादयः । तेषां निबन्धने भाव्यं तैः सदैवाप्रमादिभिः ॥ नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान्कवेः । स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥ पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः । तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ॥ वाल्मीकिव्यासमुख्याश्च ये प्रख्याता कवीश्वराः । तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः ॥' इति । विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥ २० ॥ खसामग्रीलब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तानां सतामुक्तिरदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तेषामुक्तिः प्रस्तुतरसपरिपोषायैव संप. द्यते । अङ्गभावं प्राप्तानां च तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भशृङ्गारे (तदङ्गानां) व्याध्यादीनां तदङ्गानामेवादोषो नातदङ्गानाम् । तदङ्गत्वे च संभवत्यपि मरणस्योपन्यासो न न्याय्यः । आश्रयविच्छेदे रसस्या तैरिति सुकविभिः । सोऽपशब्द इति दुर्यश इत्यर्थः । ननु कालिदासः परिपोषं गत. स्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत्, तत्कोऽयं रसविरोधिनां परिहारनिबन्ध इत्याशङ्याह-पूर्व इति । नहि वसिष्ठादिभिः कथंचिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः । अचिन्त्यहेतुत्वं मुनिचरितानामिति भावः । इतिशब्देन परिकरश्लोकसमाप्ति सूचयति । एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं नियंतविषयमाह-विवक्षित इति । बाध्यानामिति । बाध्यखामिप्रायेणाशवामिप्रायेणेति चेत्यर्थः । अच्छला निर्दोषेत्यर्थः । बाध्यवाभिप्रायं व्याचष्टे (वाध्यत्वं...... वाभिप्रायमुभयथा व्याचष्टे) तत्र प्रथमं खाभाविकप्रकारं निरूपयति-तदङ्गानामिति । निरपेक्षभावतया सापेक्षभावविप्रलम्भशृङ्गारविरोधिन्यपि करुणे भवन्त्येव त एव च भवन्तीति । शृङ्गारे तु भवन्त्येव नापि त एवेति । अतदङ्गानामिति । यथालस्यौग्रजुगुप्सानामित्यर्थः। तदङ्गत्वे चेति । सर्व एव शृङ्गारे व्यभिचारिण इत्युक्तवादिति १. "हि निबन्धो यः' ग. २. 'सामय्या' क-ख. ३. 'निर्दोषा' ग.४. 'ज्यायान्' ग. १. 'यदङ्गाङ्गिनामिति' ग. Page #174 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] ध्वन्यालोकः । १६५ त्यन्तविच्छेदप्राप्तेः । करुणस्य तु तथाविधे विषये परिपोषो भविष्यतीति चेत् । न । तस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु कैरुणस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापतिसंभवे कदाचिदुपनिबन्धो नात्यन्तविरोधी । दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाह विच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना परिहर्तव्यम् । तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्तावदोषो यथा 'क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । - - भावः । आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत । तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् । प्रस्तुतस्येति । विप्रलम्भस्येत्यर्थः । काव्यार्थत्वमिति । प्रस्तुतत्वमित्यर्थः । नन्वेवं सर्व एव व्यभिचारिण इति विघटितमि - त्याशङ्कयाह — शृङ्गारे वेति । अदीर्घकाले यत्र मरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्याव्यभिचारित्वम् । कदाचिदिति । यदि तादृशीं भ िघटयितुं सुकवेः कौशलं भवति । यथा— 'तीर्थे तोयव्यतिकरभवे जहुकन्यासरय्वोर्देहन्यासादमरगणनालेख्यमासाद्य सद्यः । पूँर्वाकाराधिकचतुरया संगतः कान्तयासौ लीलागारेष्वरमत पुनर्न - `न्दमाभ्यन्तरेषु ॥' अत्र स्फुटैव रत्यङ्गता मरणस्य । अत एव सुकविना मरणपदमात्रं न कृतम् । अनूद्यमानत्वेनैवोपनिबन्धनात् । पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिपरिमितकालप्रत्यापत्तिलामेऽपि । अथ दूरपरामर्शकसहृदय सामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतोच्यते हन्त । तापसवत्सराजेऽपि यौगन्धरायणादिनीतिमागकर्णनसंस्कृतमतीनां वासवदत्तामरणबुद्धेरेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना । तस्माद्दीर्घकालतात्र पदबन्धलाभ एवेति मन्तव्यम् । एवं नैसर्गिकागता व्याख्याताः । समारोपितात्वे तद्विपरीतेत्यर्थ लब्धत्वात्खकण्ठेन न व्याख्याताः । एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरति — तत्रेत्यादिना । क्वाकार्यमिति । वितर्क औत्सुक्येन मतिः स्मृत्या ( औत्सुक्ये ) धृतिश्चेतनयैव बाध्यते । एतच्च द्वितीयो - १. 'करुणरसस्यैव' ग. १. ‘अपायैरिति विच्छिद्यते' क ख २. 'प्रस्तुतशृङ्गारे । अस्येति' ग. ३. 'अतिदीर्घ' क ख ४. 'ईदृशीं' ग. ५. 'त्यागात्' क ख ६. 'पूर्वाकारादधिगतरुचा' क-ख. ७. 'निबन्धात्' ग. ८. 'निवेशेषु तु सर्वदा' ग. ९. 'कालमत्र' ग. Page #175 -------------------------------------------------------------------------- ________________ १६६ काव्यमाला | किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥' यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने । स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा'भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥' इत्यादौ । समारोपितायामप्यविरोधो यथा - 'पाण्डुक्षामं -' इत्यादौ । -- यथा वा—‘कोपात्कोमललोलबाहुलतिकापाशेन' इत्यादौ । इयं चाङ्गभावप्राप्तिरन्या यदधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः । यथोक्तं ' क्षिप्तो हस्तावलन:-' इत्यादौ । कथं तंत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थापनात् । अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते—विधौ विरुद्धसमावेशस्य दुष्टत्वं वानुवादे । यथा'एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः || -- द्दयोतारम्भ एवोक्तमस्माभिः । द्वितीयेति । विपक्षीभूतवैराग्य विभावाद्यवधारणेऽपि ह्यशक्यविच्छेदत्वेन दार्श्वमेवानुरागस्योक्तं भवतीति भावः । समारोपितायामिति । अङ्गभावप्राप्ताविति शेषः । ' पाण्डुक्षामं वक्रं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रिय रोगं सखि हृदन्तः ॥' अत्र करुणोचितो व्याधिः श्लेषभङ्गया स्थापितः । कोपादिति बध्वेति हन्यत इति च रौद्रानुभावानां रूपकवलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । तच्च पूर्वमेवोक्तम् । 'नातिनिर्वहणैषिता' इत्यत्रान्तरे । अन्येति । चतुर्थोऽयं प्रकार इत्यर्थः । पूर्वं हि विरोधिनः प्रस्तुतरसान्तरेऽङ्गतोक्ता अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरेऽङ्गभाव इति शेषः । क्षिप्त इति । व्याख्यातमेतत् 'प्रधानेऽन्यत्र वाक्यार्थे' इत्यत्र । नन्वन्यपरत्वेऽपि स्वभावो न निवर्तते स्वभावकृत एव विरोध इत्यभिप्रायेगाह - अन्यपरत्वेऽपीति । विरोधिनोरिति । तत्स्वभावयोरिति हेतुत्वाभिप्रायेण विशेषणम् । उच्यते इत्यस्यायं भावः - सामग्री विशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनेन । शीतोष्णयोरपि विरोधाभावात् । विधाविति । तदेव १. 'चात्र' क - ख. १. ‘रोपितः’ क-ख. २. 'विरोधः ' क- ख. ३. 'विरोधाविति' ग. Page #176 -------------------------------------------------------------------------- ________________ ३ उड्योतः ] वग्यालोकः । ___ इत्यादौ । अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति । श्लोके ह्यमिन्नीग्रॅविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधीयमानत्वम् । त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् । न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यो विध्यनुवादौ तौ तदाक्षिप्तानां रसानां केन वार्यते । यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते तैस्तेषां तन्निमित्तता तावदवश्यमभ्युपगन्तव्या । तथाप्यत्र श्लोके न विरोधः । यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो कुरु मा कार्षीरिति यथा विधिशब्देनात्रैकप्राधान्यमुच्यते । अत एवातिरात्रे षोडशिनं गृह्णन्ति न गृह्णन्तीति विरुद्धविधिविकल्पपर्यवसायीति वाक्यविदः । अनुवाद इत्यन्याङ्गतायामित्यर्थः । नपत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिता (१)। तत्रापि विरुद्ध न्यायेन विरुद्धानामन्यमुखप्रेक्षितापरतत्रीभूतानां श्रौतेन क्रमेण स्वात्मपरामर्शेऽप्यविश्राम्यतां का कथा परस्पररूपचिन्तायां येन विरोधः स्यात् । केवलमपि विरुद्धवादरुणाधिकरणस्थित्या यो वाक्यो (१) य एषां पाश्चात्यः संबन्धः संभाव्यते स विघटताम् । न तु प्रधानतया यद्वाच्यं तद्विधिः । अप्रधानत्वेन तु वाच्येऽनुवादः । न च रसस्य वाच्यत्वं वयैव सोढमित्याशङ्कमानः परिहरति-न चेति । प्रधानाप्रधानमात्रकृतौ विध्यनुवादौ तौ च व्यङ्ग्यतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यानामर्थ इत्युक्तम् । तेन मुख्यतया यत्र सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् । यदिवानूद्यमानविभावादिसमाक्षिप्तवाद्रसस्यानूद्यमानखात्तदाह-वाक्यार्थस्येति । यदि वा मा भूदनूद्यमानतया विरुद्धयो रसयोः समावेशः सहकारितया तु भविव्यतीति सर्वथाविरुद्धयोर्युक्तोऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयति-यैर्वेति । तनिमित्ततेति । काव्यार्थी विभावादिनिमित्तं येषां रसादीनां ते तथा तेषां भावस्वत्ता । अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारितस्य विधीयमानं यस्य शाम्भवशरवह्निजनितदुरितदाहलक्षणस्य तस्माद्भावविशेषप्रेयोलंकारविशेषयोर्भगवत्प्रभावातिशयलक्षणे प्रतीतिरिति संगतिः । विरुद्धं यद्वारितेजोगतं शीतोष्णं तत्सहकारितस्य तण्डुलादेः कारणं तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिदृश्यते । सर्वत्र हीत्थमेव १. 'स्थापनात्' क-ख. २. 'गमनीया' क-ख. ३. 'मानोऽ' ग. १. 'एकदा' ग. २. 'उतापि' क-ख. ३. 'कृतानां' ग. ४. 'विहन्यताम्' क-ख. ५. 'युक्तियुक्तः' क-ख. ६. 'कण' क-ख. Page #177 -------------------------------------------------------------------------- ________________ १६८ काव्यमाला। विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः । दृश्यते हि विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः । विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धत्वं न तु विरुद्धोभयसहकारित्वम् । ऎवं विरुद्धपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत् , अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति । एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः । किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लयमादधाति । प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यते । कार्यकारणभावो बीजाङ्कुरादौ नान्यथा । ननु विरोधस्तर्हि सर्वत्राकिंचित्करः स्यादित्याशङ्कयाह-विरुद्धफलेति । तथा चाहुः–'नोपादानं विरुद्धस्य' इति । नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदमिनयः कर्तुं शक्य इत्याशयेनाशङ्कमान आह-एवमिति । एतत्परिहरति-अनूद्यमानेति । अनूद्यमानमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयः ‘एहि गच्छ पतोत्तिष्ट' इत्यादिस्तत्र या वार्ता सात्रापीति । एतदुक्तं भवतिक्षिप्तो हस्तावलग्न इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्टयुपपादनक्रमेण प्राकरणिकस्तावदर्थः प्रदर्शयितव्यः । यद्यप्यत्र करुणोऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वम् । महेश्वरप्रभावं प्रति सोपयोगिलात् । विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपैमाबलेन यातस्य दूरत्वात् । एवं च सास्रनेत्रोत्पलाभिरित्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृश्यात्मतां कृत्वा कामीवेत्यत्र यद्यपि प्रणयकोपोन्वितोऽभिनयः कृतस्तथापि ततः प्रतीयमानोऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटोपाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः । एतं विरोधपरिहारमुपसंहरति-एवमिति । विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाह-किं चेति । परीक्षकाणामिति सामाजिकानां विवेकशालिनां वा । न वैक्तव्यमिति । न तादृशे विषये चित्तद्रुतिरुत्पद्यते । करुणाखादविश्रान्त्यभावात् । किं तु वीरस्य योऽसौ क्रोधो व्यभिचारितां प्रतिपद्यते तत्फलरूपोऽसौ करुणरसः स्वकारणाभिव्यञ्जनद्वारेण वीराखादातिशय एव पर्यवस्यति । यथोक्तम्-'रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसः' इति । तदाह-प्रीत्यतिशयेति । अत्रोदाहरणम्-'कुरबक कुचाघातक्रीडासुखेन वियुज्यसे बकुलविटपिन्स्मर्तव्यं ते मुखासवसेवनम् । चरणघटनाशून्यो यास्यस्यशोक सशोकता १. 'कश्चन' क-ख. २. 'फलोपादान' क-ख. ३. 'विरुद्धम्' ग. ४. 'एवंविधं' ग. १. 'स्यात्' क-ख. २. 'उपमाञ्चलेन' ग. ३. 'कोपोचितः' ग. Page #178 -------------------------------------------------------------------------- ________________ ३ उड्योतः ] ध्वन्यालोकः । इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः । तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी यो रसः स रसविरोधीति वक्तुं न्याय्यः । नत्वङ्गभूतस्य कस्यचित् । अथवा वाक्यार्थीभूतस्यापि कस्यचिकरुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजन रसपरिपोषायैव जायते । यतः प्रकृतिमधुराः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेगमुपजनयन्ति । यथा—'अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविसंसनः करः ॥' इत्यादौ । तदत्र त्रिपुरयुवतीनां शांभवः शराग्निराःपराधः कामी यथा व्यवहरति तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् । तस्माद्यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च । 'क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः ___पादैः पातितयावकैरिव पतद्वाष्पाम्बुधौताननाः । भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्योऽधुना दावामिं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥' इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् । मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥' भावस्य वेति । तस्मिन्रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणां वा । यथा विप्रलम्भशृङ्गार औत्सुक्यस्य । अधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरति-अथवेति। अयं चात्र भावःपूर्व विप्रलम्भकरुणयोरन्यत्राङ्गताभावागमनानिर्विरोधखमुक्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यते-तथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादीयुक्तम् । इष्टता च नाम रमणीयतामूला । ततश्च कामीवार्द्रापराध इत्युत्प्रेक्षयेदयुक्तम्-शांभवशरवह्निवेष्टितावलोकनेन प्राक्तनप्रणयकलहवृत्तान्तः स्मर्यमाण इदानीं विश्वस्ततया शोकविभावतां प्रतिपद्यते । तदाह-भङ्गिविशेषेति । अग्राम्यतया विभावानुभावादिरूपताप्रापणया। ग्राम्योतिरहितयेत्यर्थः । अत्रैव दृष्टान्तमाह-यथा-अयमिति। अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् । रशनां मेखलां संभोगावसरेपूवं कर्षतीति रसनोत्कर्षी । अधुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह-इत्थं चेति । १. 'अकुण्ठ' ग. २. 'दायिनः' क-ख. ३. "विशेषस्य' क-ख. ४. 'परिपोषमावहति' ग. ५. 'रमणीयाः' क-ख. ६. 'शोकावेशं' ग. १. 'मुखा' ग. २. 'इत्येतत्प्रेक्ष्येदं' ग. ३. 'विध्वस्त' ग. Page #179 -------------------------------------------------------------------------- ________________ १७० काव्यमाला। एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः । इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते- . प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने । एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥ २१ ॥ प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन वा बहवो रसा उपनिबध्यन्ते इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशयमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसोऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः।। ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्कयेदमुच्यते रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः। नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावमासिनः ॥२२॥ प्रबन्धेषु प्रथमतरं प्रस्तुतः सन्पुनःपुनरनुसंघीयमानत्वेन स्थायी यो रसस्तस्य सकलरेसव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः स नाङ्गितामुपहन्ति । होमानिधूमकृतं बाष्पाम्बु यदि वा बन्धुगृहत्यागोद्भवम् । भयं कुमारीजनोचितः साध्वसः। एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकामागोपयोगिनिरूपितमित्युपसंहरतिएवमिति । तावद्रहणेन वक्तव्यान्तरमप्यस्तीति सूचयति । तदेवावतारयति-इदानी. मित्यादिना । तेषां रसानां क्रम इति योजना । प्रसिद्धेऽपीति । भरतमुनिप्रभृतिमिर्निरूपितेऽपीत्यर्थः । तेषामिति प्रबन्धानाम् । महाकाव्यादिष्वित्यादिशब्दः प्रकारेणामिनेयान्भेदानाह द्वितीयस्त्वभिनयान् । विप्रकीर्णतयेति । नायकप्रतिनायकप्रकरीनायिकादिनिष्ठतयेत्यर्थः । अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन । युक्ततर इति । यद्यपि समानाकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथा न युक्तता तथाप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा यदुत्कृष्टतरमिति तरशब्दस्यार्थः । स्वयं लब्धपरिपोषत्वे वा कथं रसत्वमिति रसवमङ्गत्वं चान्योन्यविरुद्धम् । तेषां चाङ्गलायोगे कथमेकस्याङ्गिलमुक्तमिति भावः । रसान्तरेति । प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत १. 'छायायोग' ग. २. 'संधिव्यापिनः' क-ख. १. 'क्रमं सूचयति' ग. २. 'तथापि च ननु युक्तिता' ग. Page #180 -------------------------------------------------------------------------- ________________ १७१ ३ उयोतः] ध्वन्यालोकः । एतदेवोपपादयितुमुच्यते कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ २३ ॥ संध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्पते न च तत्कार्यान्तरैर्न संकीर्यते न च तैः संकीर्यमाणस्यापि तस्य प्राधान्यमपचीयते तथैव रसस्याप्येकस्य संनिवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसंधानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते । एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्याप्तिभिर्यः समावेशः समुपबृंहणं तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नागितामुपहन्ति । अङ्गितां पोषयत्येवेत्यर्थः । एतदुक्तं भवति-अङ्गिभूतान्यपि रसान्तराणि खभावादिसामय्या खावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति । सर्वत्रैव ह्यङ्गाङ्गिभावेऽयमेवोदन्तः । यथाह तत्रभवान्–'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारो हि तथा भूयसि वर्तते ॥' इति । उपपादयितुमिति । दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः । न्यायेन चैतदेवोपपद्यते । कार्य हि तावदेकमेवाधिकारिक व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यम् । तत्पृष्टवर्तिनीनां नायकचित्तवृत्तीनां तद्बालादेवाङ्गाङ्गिभावः प्रवाहपतित इति किमत्रापूर्वमिति तात्पर्यम् । तथेति व्यापितया । यदि वा एवकारो मिन्नक्रमः । तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः । तथा च वृत्तौ वक्ष्यति तथैवेति । कार्यमिति । 'खल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति' इति लक्षितं बीजम् । बीजात्प्रभृति, 'प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिः प्रबन्धस्य स तु बिन्दुः' इति बिन्दुस्वरूपतयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाहअनुयायीति । अनेन बीजं बिन्दुश्चेत्यर्थः । प्रकृते संगृहीते । कार्यान्तरैरिति । 'आगर्भादाविमर्शाद्वा पताका विनिवर्तते' इति । प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्य यानि च ततो न व्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्त इति । तथाविध इति । यथा तापसवत्सराजे । एवमनेन श्लोकेना..........ता.... यां दृष्टान्तनिरूपणमिति वृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितम् । वृत्तिग्रन्थोऽप्युभयाभिप्रायेणैव नेयः । शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ । हास्यस्य तु स्पष्टमेव तदङ्गत्वम् । १. 'तच्च कार्यान्तरैः' क-ख. २. 'अपनीयते' ग. १. 'व्याप्तं' ग. २. 'काव्यान्तर' ग. ३. 'श्लोकेनाङ्गाङ्गिभावस्येति' क-ख. Page #181 -------------------------------------------------------------------------- ________________ १७२ काव्यमाला । ननु येषां रेसानां परस्पर विरोधः यथा – वीरशृङ्गारयोः शृङ्गारहास्ययो रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतयोर्वा तत्र भवत्वङ्गाङ्गिभावः । तेषां तु स कथं भवेद्येषां परस्परं बाध्यबा - धकभावः । यथा— शृङ्गारवीभत्सयोवीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयोर्वा इत्याशङ्कयेदमुच्यते - अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ २४ ॥ अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः । तैत्राविरोधिरसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न तत ... हास्यस्यापुरुषार्थस्वभावत्वेऽपि समधिकतररञ्जनोत्पादनेन शृङ्गाराङ्गतयैव तेथाम् । रौद्रस्यापि तेन कथंचिदविरोधः । यथोक्तम् —' शृङ्गारश्च तैः प्रसभं सेव्यते । तैरिति रौद्रप्रभृतिभिः । रक्षोदानवोद्धतमनुष्यैरित्यर्थः । केवलं नायिकाविषयमौम्यं तत्र परिहर्तव्यम् । असंभाव्यपृथिवीसंमार्जनादिजनित विस्मयतया तु वीराद्भुतयोः समावेशः । यथाह मुनिः — 'वीरस्य चैव यत्कर्म सोऽद्भुतः' इति । वीरद्धते भीमसेनादौ समावेशः । क्रोधोत्साहयोरविरोधात् । रौद्रकरुणयोरपि मुनिनैवोक्तः— ‘रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः' इति । शृङ्गाराद्भुतयोरिर्ति । यथा रत्ना वल्यामैन्द्रजालिकदर्शने । शृङ्गारवीभत्सयोरिति । ययोर्हि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र कोऽङ्गाङ्गिभावः । आलम्बन निमग्नरूपतया च .......क्तिरुत्तिष्ठति । ............. तया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंभवोन्मूलकत्वम् । भयोत्साहेऽप्येवमेव विरुद्धौ वाच्यौ । शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्त संसारवियनिर्वेदप्राणत्वेन सर्वतो निरीहखभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव । अविरोधी विरोधी वेति । वाग्रहणस्यायमभिप्रायः - अङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षो निबध्यते तदाऽविरुद्धोऽपि रसो निबद्धश्चोद्यावहः । अथ तु युक्ताङ्गिनि रसेऽङ्गभावतयान्योपपत्तिर्घटते तद्विरुद्धोऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधाव किंचित्करौ । ..... विनिवेशनप्रकार एवेत्यवधातव्यमिति । अङ्गिनीति सप्तम्यनादरे । अङ्गिनं रसविशेषमनादृत्य न्यक्कृयाङ्गभूतो न पोषयितव्य इत्यर्थः । अविरोधितेति । निर्दोषतेत्यर्थः । परिपोषपरिहारे त्रीन्प्रकारानाह — तत्रेति । ननु न्यूनत्वं कर्तव्यमिति वाध्येऽधिकस्य का संभावना १. 'रसादीनां क ख २. 'भाव एव' क - ख. ३. ' तत्राह - विरोधिनो रसस्य' ग. १. ‘हास्यस्य स्वयं पुरुषार्थस्वभावत्वे' ग. २. 'तथात्वात् ' क-ख. ३. 'यथाह' इत्यारभ्य ‘समावेशः' इत्यन्तं कख - पुस्तकयोर्नास्ति. ४. 'अपि' ग. Page #182 -------------------------------------------------------------------------- ________________ ३ उझ्योतः] ध्वन्यालोकः। १७३ कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः । उत्कर्षसाम्येऽपि तयोर्विरोधासंभवात् । यथा 'एकन्तो रुअइ पिआ अण्णन्तो समरतूरणिग्धोसो । णेहेण रणरसेण अ भडस्स दोलाइ हिअअम् ।' यथा वा'कण्ठाच्छित्त्वाक्षमालावलयमिव करे हारमावर्तयन्ती कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन । मिथ्यामन्त्राभिजापस्फुरदधरपुटव्यञ्जिताव्यक्तहासा देवी संध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् ॥' इत्यत्र । ___ अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येण निवेशनम् निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः । अङ्गत्वेन पुनःपुनः प्रत्य येनोक्तमाधिक्यं न कर्तव्यमित्याशङ्कयाह-उत्कर्षसाम्य इति । 'एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः । स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥' [इति च्छाया।] रोदिति प्रियेत्यतो रत्युत्कर्षः । समरतूर्येति भटस्येति चोत्साहोत्कर्षः । दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तम् । एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत् । आधिकारिकेऽपीतिवृत्ते त्रिवर्गफले समप्राधान्यस्य संभवात् । तथाहि रत्नावल्यां सचिवायत्तसिद्धिवाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं नायिकाभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्ध्येकत्वात्फलमिति नीत्या एकीक्रियमाणया समप्राधान्यमेव पर्यवस्यति । यथोक्तम्-'कवेः प्रयत्नान्नेतृणां युक्तानाम्' इत्यलमवान्तरेण बहुना । एवं प्रथमं प्रकारं निरूप्य द्वितीयमाह-अङ्गीति । निवेशनमिति । अङ्गभूते रसे इति शेषः । नन्वेवं नासो परितुष्टो भवेदित्याशय मतान्तरमाहनिवेशने वेति । अत एव वाग्रहणमुत्तरपक्षदायं सूचयति न विकल्पम् । तथा चैक एवायं प्रकारः । अन्यथा तु द्वौ स्याताम् । अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरनुसंधानम् । यथा-'कोपात्कोमललोल-' इति श्लोकेऽङ्गिभूतायां रतावद्भिवेन यः क्रोध उपनिबद्धस्तत्र बवा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेष्यौत्सुक्यहर्षानुसंधानम् । तृतीयं प्रकारमाहअङ्गत्वेनेति । अत्र च तापसवत्सराजे वत्सराजस्य पद्मावतीविषयः संभोगशृङ्गार १. कण्ठं छित्त्वाक्षमालेल्यादिश्लोके' क-ख. २. 'प्राचुर्येणानिवेशनम्' क-ख. १. 'द्वितीयं प्रकारं' ग. १६ ध्व० लो. Page #183 -------------------------------------------------------------------------- ________________ १७४ काव्यमाला। वेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्यूनता न संपादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोषरहितस्य कथं रसत्वमिति चेत् , उक्तमत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान्परिपोषस्तावांस्तस्य न कर्तव्यः । खगतस्तु संभविपरिपोषः केन वार्यते । एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य । बहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशे प्रबन्धेषु स्यादविरोधः । एतच्च सर्वं येषां रसो रसान्तरस्य व्यभि उदाहरणीकर्तव्यः । अन्येऽपीति । विभावानुभावानां चाधिक उत्कर्षो न कर्तव्योऽङ्गिरसविरोधिनां निमेषणमेव वा न कार्यम् । कृतमपि चाङ्गिरसविभावानुभावैरुपबृंहणीयम् । परिपोषितापि चाविरुद्धरसविभावानुभावा अनिलेन प्रतिजागरयितव्या इत्यादि खयं शक्यमुत्प्रेक्षितुम् । एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषयसाधारणदोषपरिहारप्रकारगतलेनैव विशेषान्तरमप्याह-विरोधिन इति । संभवतीति प्रधानाविरोधिवेनेति शेषः । एतच्चेति । उपकार्योपकारकभावो रसानां नास्ति । खचमत्कारविश्रान्तवात् । अन्यथा रसखायोगात् । तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टवं भूयः प्रबन्धस्य व्यापकत्वमन्येषां चाल्पप्रबन्धगामित्वमभ्युपगन्तव्यमिति वृत्तसंघटनाया एवान्यथानुपपत्तेः । भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्संगतिस्तदितिवृत्तस्यापि न स्यात्संगतिश्चेदयमुपकार्योपकारकभावेन चमत्कारविश्रान्तेविरोधः कश्चिदिति समनन्तरमेवोक्तम् । तदाह-अनभ्युपगच्छतेति । अकाम इवाभ्युपगमयितव्य इति भावः । अन्यस्तु व्याचष्टेएतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गिवमिति । एतच्चासत् । एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः, मतान्तरेऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सोऽतीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन । उपसंहरति-येषामिति । हावाध्यायसमाप्तावस्ति श्लोकः-'बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः ॥' इति । तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारि १. 'अपि खङ्ग' ग. २. 'रसस्यैवेति' क-ख. ३. 'एतच्चापेक्षित' ग. ४. 'अविरोधिता' क-ख. १. 'विरोधात्' क-ख. २. 'भावैकरूपं बृंहणीयम्' ग. ३. 'पूर्वोक्तेन' क-ख. ४. 'भाव' क-ख. Page #184 -------------------------------------------------------------------------- ________________ ३ उयोतः] ध्वन्यालोकः। १७५ चारीभवति' इति निदर्शनं तन्मतेनोच्यते । मतान्तरेऽपि रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गित्वे निर्विरोधित्वमेव । ___ एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपायेदानीं विरोधिविषये तं प्रतिपादयितुमिदैमुच्यते । विरोधैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ २५ ॥ ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी । तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये संनिवेशयितव्यः । तथा सति च तस्य विरोधिनोऽपि यः पोषः स निर्दोषः । विपक्षविषये हि भयातिशयवर्णने नायकस्य तयेति रेस्यमानतायामपि स्थायिव्यभिचारिभावस्य न कश्चि........ इति केचिद्याचचक्षिरे । तथा च भागुरिरपि(१) किं रसानामपि स्थायिसंचारितास्तीत्याक्षिप्याभ्युपगमेनैवोत्तरमवोचद्बाढमस्तीति । अन्ये तु स्थायितया पतितस्यापि स्थायित्वमेव । यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थेऽङ्के । इतीयन्तमर्थमवबोधयितुमयं श्लोकः । बहूनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः । स च रसो रसीकरणयोग्यः शेषास्तु संचौरिण इति व्याचक्षते । न तु रसानां स्थायिसंचारिभावेनाङ्गाङ्गिता युक्ता । अत एवान्यो रसः स्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु गम्यादीनामिति समासं पठन्ति । तदाह-मतान्तरेऽपीति । रसशदेनेति । 'रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः' इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः । अथ साधारणप्रकारमुपसंहरन् .........रणमासूत्रयति-एपमिति । तमित्यविरोधोपायम् । विरुद्धति विशेषणं हेतुगर्भम् । यस्तु स्थायी स्थाय्यन्तरेण संभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयखेन नायकतद्विपक्षादिगामिलेन कार्यः । तस्येति । तस्य विरोधिनोऽपि तथाकृतस्य तथानिबद्धस्य परिपुष्टतायाः प्रत्युत निर्दोषता नायकोत्कर्षाधानात् । अपरिपोषस्तु दोष एवेति यावत् । अपिशब्दो भिन्नक्रमः । एवमेव वृत्तावपि व्याख्यानात् । ऐकाधिकरण्यमेकाश्रयेण संबन्धमात्रम् । १. 'तु' ग. २. 'विषयमेव' क-ख. ३. 'इदं' ग-पुस्तके नास्ति. ४. 'द्विधा' ग. ५. 'वा' ग. ६. 'कथने' ग. १. 'रसस्य समानतायामपि स्थायिसंचारितास्तीत्याक्षिप्य' क-ख. २. 'व्यभिचारिणः' ग. ३. 'रसान्तरानिविष्टेनेत्यर्थः' क-ख. ४. 'उपसंहरन्नयमाह' क-ख. ५. 'अपरिपोषणं' क-ख. ६. 'व्याख्यातम्' क-ख. Page #185 -------------------------------------------------------------------------- ________________ १७६ काव्यमाला । नयपराक्रमादिसंपत्सुतरामुद्द्योतिता भवति । एतच्च मदीयेऽर्जुनचरितेऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् । एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन स्थायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितम् । द्वितीयस्य तु तत्प्रतिपादयितुमुच्यतेएकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधेवान् । रसान्तरव्यवधिना रसो व्यजयः (न्यस्यः) सुमेधसा ॥ २६ ॥ यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तरव्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्तशृङ्गारौ नौगानन्दने निवेशितौ । शान्तश्च तृष्णाक्षयसुखस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव । तथा चोक्तम्— 'यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥' तेन विरोधी यथा - - भयेनोत्साह ऐकाश्रयत्वेऽपि संभवति । कश्चिन्निरन्तरत्वेन निर्व्यवधानत्वेन विरोधी । यथा रत्यादिनिर्वेदः । प्रदर्शितमिति । 'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुपलवोऽभवत्पुरे पुरंदरद्विषाम्' इत्यादिना । द्वितीयस्येति । नैरन्तर्यविरोधिनः । तदिति निर्विरोधित्वम् । एकाश्रयत्वेन निमित्तेन यो निर्दोषेण न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधे सति स तथाविधविरुद्धसत्तया विरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः । प्रबन्ध इति बाहुल्यापेक्षम् । मुक्तकेऽपि कदाचिदेवं भवेदपि । यद्वक्ष्यति – 'एकवाक्यस्थयोरपि' इति । यथेति । तत्र हि — 'रागस्यास्पदमित्यवैमि नहि मे ध्वंसीति न प्रत्ययः' इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वाहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकृत्य क्रमप्रसरसंभावनाभिप्रायेण यः कविना निबद्धः 'अहो. गीतमहो वादित्रम्' इति । एतदर्थमेव 'व्यक्तिर्व्यञ्जनधातुना -' इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसतावहमिति 'निर्दोषदर्शनाः कन्यकाः' इति च क्रमप्रसरो निबद्धः । यदाहुः - 'चित्तवृत्तिप्रसरप्रसंख्यानाधानः संख्याः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेनेति । अनन्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गारस्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकले - वरास्थिजालावलोकनादिवृत्तान्तः स मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणः ‘संसर्पद्भिः समन्तात्-' इत्यादि काव्य उपनिबद्धः क्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः । ननु नास्त्येव शान्तो रसः । तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशक्याह — शान्तश्चेति । तृष्णानां विषयाणां यः क्षयः सर्वतो निवृत्तिरूपो निरोधस्तदेव १. 'प्रबन्धे' क-ख. २. ' विरोधिनाम्' क-ख. ३. 'नागानन्दे' ग. त्यारभ्य कलामित्यन्तं क-ख-पुस्तकयोर्नास्ति. ४. 'तथे १. 'एकाश्रयत्वम्' ग. Page #186 -------------------------------------------------------------------------- ________________ १७७ ३ उड्योतः] ध्वन्यालोकः । यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषवत्प्रतिक्षेप्तुं शक्यः । वीरे च तस्यान्तर्भावः कर्तुं युक्तः । तस्याभिमानमयत्वेन व्यवस्थापनात् । अस्य चाहंकारप्रशमैकरूपतया स्थितेः । तयोश्चैवंविधविशेषसद्भावेऽपि यद्यैक्यं परिकल्प्यते तद्वीर सुखं तस्य यः स्थायीभूतस्य परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः । प्रतीयत एवेति । स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले संभाव्यत एव । अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते । तृष्णासद्भावस्य प्रसज्यप्रतिषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् । पैयुदासे खस्मत्पक्ष एवायम् । अन्ये तु 'खं खं निमित्तमासाद्य शान्तादुत्पद्यते रसः । पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥' इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वभावं शान्तमाचक्षाणा अनुपजातविशेषान्तरं चित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते । एतच्च नातीवास्मत्पक्षाद्दरम् । प्रागभावप्रध्वंसाभावकृतस्तु विशेषः । युक्तश्च प्रध्वंस एव तृष्णानाम् । यथोक्तम्-'वीतरागजन्मादर्शनात्' इति । प्रतीयत एवेति मुनिनाप्यङ्गीक्रियत एव "क्वचिच्छमः' इत्यादि वदता । न च तदीयापर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभवाभावेनाप्रतीयमानता स्यात् । 'शृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु प्रशान्तवाहिता,' 'संस्कृतान्तश्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' इति सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधरोद्वहनादिलक्षणा वा शान्तस्यापि जनकादेर्दुष्टैवेत्यनुभवसद्भावाद्यमनियमादिमध्यासंभाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव । ननु न प्रतीयते । नास्य विभावादयः सन्तीति चेत्, न । प्रतीयत एव तावदसौ । तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहादध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव व्यभिचारिसद्भावः स्थायी च दर्शितः । ननु तत्र हृदयसंवादाभावादस्यमानतैव नोपपन्ना । क एवमाह नास्तीति । यतः प्रतीयत एवेत्युक्तम् । ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति । तर्हि वीतरागाणां शृङ्गारो न श्लाघ्य इति सोऽपि रसत्वाच्यवतामिति तदाह-यदि नामेति । ननु धर्मप्रधानोऽसौ वीर एवेति संभावयमान आह-वीरे चेति । तस्येति वीरस्य । अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः । अस्य चेति शान्तस्य । तयोश्चेति । उत्साहमयत्वनिरीहखेनात्यन्तविरुद्धयोरपीति च शब्दार्थः । वीररौद्रयोस्त्वत्यन्तविरोधोऽपि नास्ति । समानरूपं च धर्मार्थोपयोगिलम् । नन्वेवं दयावीरो धर्मवीरो दानवीरो १. 'सर्वलोक' ग. २. 'न च वीरेतरस्यान्तर्भावः' ग. १. 'तच्चा' क-ख. २. 'पर्युदासोऽपि सत्पक्ष एव' क-ख. ३. 'मध्यसद्भावमान' क-ख. ४. 'घनस्य' क-ख. Page #187 -------------------------------------------------------------------------- ________________ १७८ काव्यमाला। रौद्रयोरपि तथा प्रसङ्गः । दयावीरादीनां च चित्तवृत्तिविशेषाणां सर्वाकारमहंकाररहितत्वेन शान्तरसप्रभेदत्वम् , इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवमस्ति शान्तो रसः । तस्य चाविरुद्धरसव्यवधानेन प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये । एतदेव स्थिरीकर्तुमिदमुच्यते रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ २७॥ रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरुद्धयोर्विरोधिता निवर्तत इत्यत्र न काचिद्धान्तिः । यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा 'भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः खदेहान्पतितानपश्यन् ।' वा नासौ कश्चित् । शान्तस्यैवेदं नामान्तरकरणम् । तथा च मुनिः–'दानवीरं धर्मवीरं युद्धवीरं तथैव च । दयावीरमपि प्राह ब्रह्मा त्रिविधसंमतम् ॥' इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् । तदाह-दयावीरादीनामिति । आदिग्रहणेन विषयजुगुप्सारूपत्वाद्वीभत्सेऽन्तर्भावः शक्यते । सा वस्य व्यभिचारिणी भवति न तु स्थायितामेति । पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् । आधिकारिकलेन तु शान्तो रसो निबद्धव्य इति चन्द्रिकाकारः। तचेहास्माभिर्न पर्यालोचितम् । प्रसङ्गान्तरात् । मोक्षफलखेन चायं परमपुरुषार्थनिष्ठितत्वात्सर्वरसेभ्यः प्रधानतमः । से चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयः पूर्वपक्षसिद्धान्त इत्सलं बहुना । स्थिरीकर्तुमिति । शिष्यबुद्धावित्यर्थः । अपिशब्देन प्रबन्धविषयतया सिद्धोऽयमर्थ इति दर्शयति-भूरेण्विति । विशेषणैरतीव दूरापेतत्वमसंभावनास्पदलमुक्तम् । स्वदेहानां.........न । देहवाभिमानादेव तादात्म्यसंभावनानिष्पत्तरेकाश्रयत्वमस्ति । अन्यथा विभिन्न विषयलात्को विरोधः । ननु वीर एवात्र रसो न शृङ्गारो १. 'यदा' ग. २. 'स चायं शान्तो रसः' ग. ३. 'निर्वहणः' ग. ४. 'प्रबन्धेषु यत्नसिद्धः' क-ख. ५. 'दूरापेतवसंभावनानिवृत्तेरेकाश्रयत्वमस्ति' क-ख. Page #188 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः] ध्वन्यालोकः । १७९ इत्यादौ । अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी। विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतरो ह्यसौ ॥२८॥ यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः । विशेषतस्तु शृङ्गारे । स हि रतिपरिपोषात्मकत्वाद्रतेश्व खल्पेनापि निमित्तेन भङ्गसंभवात्सुकुमारतरः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते । अवधानातिशयवान्रसे तत्रैव सत्कविः । भवेत्तस्मिन्प्रमादो हि झगित्येवोपलक्ष्यते ॥ २९ ॥ तत्रैव च रसे सर्वेभ्योऽपि रसेभ्यः सौकुमार्यातिशययोगिनि कविरवधानवान्प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति । शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः । एवं च सति विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा। तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ ३० ॥ न बीभत्सः । किं तु रतिजुगुप्से हि वीरं प्रति व्यभिचारीभूते । भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना । तदाह-तदनयोति । तयोरङ्गे तत्स्थायिभावावि. त्यर्थः । वीरो रस इति । 'वीराः खदेहान्' इत्यादिना तदीयोत्साहायवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति । मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकतेति भावः । अन्यत्र चेति मुक्तकादौ । स हि शृङ्गारः सुकुमारतम इति संबन्धः । सुकुमारस्तावद्रससजातीयः ततोऽपि करुणस्ततोऽपि शृङ्गार इति । एवं चेति । यतो. ऽसौ सर्वसंवादीत्यर्थः । तदित्थं शृङ्गारस्य विरुद्धा ये शान्तादयस्तष्वपि तदङ्गानां शृङ्गाराङ्गाणां संबन्धी स्पर्शी न दुष्टः । तया भङ्ग्या रसान्तरगता अपि विभावानुभावाद्या वर्णनीया ययोः शृङ्गारोऽङ्गभावमुपागमत् । यथा ममैव स्तोत्रे-खां चन्द्रचूडं सहसा स्पृशन्ती प्राणेश्वरं गाढवियोगतप्ता । सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि १. 'तमः' क-ख. २. 'झटिति' ग. ३. 'प्रयतः' क-ख. ४. 'भविष्यति' क-ख. ५. 'सर्वसंसारिणां' क-ख. १. 'वीररसस्य' क-ख. २. 'दैवस्तोत्रे' ग. . Page #189 -------------------------------------------------------------------------- ________________ १८० काव्यमाला। शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गाणां यः स न केवलमविरोधलक्षणयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति । शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशं गृह्णन्ति । सदाचारोपदेशरूपा हि नाटकादिगोष्ठी विनेयजनहितार्थमेव मुनिभिरवतारिता । किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्यशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिरसे शृङ्गाराङ्गसमावेशो न विरोधी । ततश्च । 'सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥' इत्यादिषु नास्ति रसविरोधदोषः । विलीयते मे ॥' इत्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्ग्या निरूपणं विनेयानुन्मुखीकर्तु या काव्यशोभा तदर्थ नैव दुष्यतीति संबन्धः । वाग्रहणेन पक्षान्तरमुच्यते । तदेव व्याचष्टे-न केवलमिति । वाशब्दस्यैतद्याख्यानम् । अविरोधलक्षणं परिपोषपरिहारादिपूर्वोक्तम् । तदर्थमपि वा विरुद्धसमावेशः । न केवलं पूर्वोक्तैः प्रकारैः काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते । व्यवधानाव्यवधाने अपि केचिल्लभ्येते यथान्याख्याते। सुखमिति । रञ्जनापुरःसरमित्यर्थः । न तु काव्यं क्रीडारूपं क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्कयाह-सदाचारेति । मुनिभिरिति । भरतादिभिरित्यर्थः । एतच्च प्रभुमित्रसंमितेभ्यः शास्त्रेतिहासेभ्यः प्रीतिपूर्वकं जायासंमितले नाट्यकाव्यगतं व्युत्पत्तिकारिवं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितम् । ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनेयोन्मुखीकारः । नैतदस्ति प्रकारान्तरमिति तदाह-किं चेति । शोभातिशयमिति । अलंकारविशेषमुपमाप्रभृतिं पुष्यति सुन्दरीकरोतीत्यर्थः । यथोक्तम्-'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकारा इति ।' मत्ताङ्गनेति । अत्र हि शान्तविभावे सर्वस्यानित्यवे वक्ष्यमाणे न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः । किं तु सत्यमिति परहृदयानुप्रवेशेनोक्तम् । न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति । तत्र १. 'मनोभिरामवात्' ग. २. 'काव्ये' ग. ३. 'शृङ्गारविरोधिनि रसे' क-ख. १. तदेतत्' क-ख.२. 'केनचित्' क-ख. ३. व्याख्यायते' क-ख. ४. 'उक्तिःक-ख. Page #190 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः] ध्वन्यालोकः। १८१ विज्ञायेत्थं रसादीनामविरोधविरोधयोः। . विषयं सुकविः काव्यं कुर्वन्मुह्यति न कचित् ॥ ३१॥ इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वन्न कचिन्मुह्यति । एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते वाच्यानां वाचकानां च यदौचित्येन योजनम् । रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ ३२ ॥ वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन यद्योजनमेतन्महाकवेर्मुख्यं कर्म । अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्व्यक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् । ___एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह मत्ताङ्गनापाङ्गभङ्गस्य लोलशृङ्गारं प्रति संभाव्यमानविभावानुभावलेनाङ्गस्य लोलतायामुपमानतोक्तेति प्रियतमाकटाक्षा हि सर्वस्याभिलषणीया इति तत्प्रतीत्या प्रवृत्तिमान् गुडजिबिकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः । तदेतदुपसंहरन्नस्योक्तस्य प्रेकरणस्य फलमाह-विज्ञायेत्थमिति । स्पष्टम् ।.......... रसादिविषयव्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यनिरूपणं तस्येति । तद्विषयस्येति रसादिविषयस्य । तदिति उपयोगिवं मुख्यमिति । 'आलोकार्थी-' इत्यत्र यदुक्तं तदेवोपसंहृतम् । महाकवेरिति सिद्धवत्फलनिरूपणम् । एवं हि महाकविलं नान्यथेत्यर्थः । इतिवृत्तविशेषाणामिति । इतिवृतं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः “विभावभावानुभावसंचायौचित्यचारुणः । विधिः कथाशरीरस्य -' इत्यादिना । काव्या कृत्येति । अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यस्य विशेषः । एतच्च निर्णीतमाद्योझ्योते 'काव्यस्यात्मा स एवार्थः-' इत्यत्रान्तरे । एतच्चेति । यदस्माभिरुक्तमित्यर्थः । भरता १. 'परिज्ञाय' ग. २. 'वाचकानां च रसादिविशेषेण' ग. १. 'सेव्यमानं' क-ख. २. 'प्रकारस्य' क-ख. ३. 'तदेवैतदुप-' क-ख. Page #191 -------------------------------------------------------------------------- ________________ १८२ काव्यमाला। रसाधनुगुणत्वेन व्यवहारोऽर्थशब्दयोः । औचित्यवान्यस्ता एता वृत्तयो विविधाः स्मृताः ॥ ३३ ॥ व्यवहारो हि वृत्तिरित्युच्यते । तत्र रसानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः । वाचकाश्रयाश्चोपनागरिकाद्याः । वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपि नाट्यस्य काव्यस्य चें च्छायामावहन्ति । रसादयो हि द्वयोरपि तयोर्जीवभूताः । इतिवृत्तादि तु शरीरभूतमेव । अत्र केचिदाहुः—'गुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह न तु जीवशरीरव्यवहारः । रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्' इति । अत्रोच्यते-यदि रसादिमयमेव वाच्यं यथा गौरत्वमयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयोऽपि सहदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम् । तथा चैतत्प्रतिपादितमेव प्रथमोहयोते स्यान्मतम् । रत्नानामिव जात्यत्वं प्रतिपत्तविशेष(तः) संवेद्यं वाच्यानां रसादिरूपत्वमिति । नैवम् । यतो यथा जात्यत्वेन प्रतिभासमाने दावित्यादिग्रहणादलंकारशास्त्रेषु परुषाया वृत्तय इत्युक्तं भवति । द्वयोरपि तयोरिति । वृत्तिलक्षणयोर्व्यवहारयोरित्यर्थः । जीवभूता इति । 'वृत्तयः काव्यमातृकाः' इति ब्रुवाणेन मुनिना रसोचितेतिवृत्तसमाश्रयेणोपदेशेन रसस्यैव जीवितत्वमुकम् । भामहादिभिश्च-स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते । प्रथमालीढमधवः पिबन्ति कटुभेषजम् ॥' इत्यादिना रसोपयोगिजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः । • शरीरभूतमिति । 'इतिवृत्तं हि नाट्यस्य शरीरं-' इति मुनिः । नाट्यं च रस एवेत्युक्तप्रायम् । गुणगुणिव्यवहार इति । अत्यन्तसंमिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः । न त्विति । क्रमस्यासंवेदनादिति भावः । प्रथमेति । 'शब्दार्थ. शासनज्ञानमात्रेणैव न वेद्यते।' इत्यादिना प्रतिपादितमदः । ननु यद्यस्य धर्मरूपं तत्त तिभाने सत्यस्य नियमेन मातीत्यनैकान्तिकमेतत् । माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो नेत्याशङ्कते-स्यादिति । एतत्परिहरति-नैवमिति । एतदुक्तं भवति-अत्यन्तोन्मिश्रस्वभावले सति तद्धर्मवादिति विशेषणमस्माभिः कृतम् । उन्ममरूपता च १. 'द्विविधाः स्थिताः' क-ख. २. 'वृत्तिरुच्यते' ग. ३. 'कैशिक्यादयः' ग. ४. 'वा' क-ख. ५. 'तत्रैवम्' क, 'तन्नैवम्' ख. १. 'दिप्रभृतयः' क-ख. २. 'युञ्जते' ग. ३. 'प्रतिभासे सर्वस्य' क-ख. ४. 'अत्यन्तोन्मम' क-ख. Page #192 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः] ध्वन्यालोकः। १८३ रत्ने रत्नखरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तया रसानां विभावानुभावादिरूपांच्यव्यतिरिक्तत्वमेव लक्ष्यते । न चैवम् । नहि विभावानुभावव्यभिचारिण एव रसा इति कस्यचिदवगमः । अतएव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानाक्रमोऽवश्यंभावी । स तु लाघवान्न प्रकाश्यते 'इत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयः' इत्युक्तम् । ननु शब्द एव प्रकरणाद्यवच्छिन्नो वाच्यव्यङ्गययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया । न हि शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादिशब्देभ्योऽपि रसाधभिव्यक्तिरस्ति । न च तेषामन्तरा वाच्यपरामर्शः । न रूपवज्जात्यत्वस्य । अत्यन्तलीनस्वभावत्वात् । रसादीनां चोन्ममतास्येवेत्येवं केचिदेतं ग्रन्थमनैषुः । अस्मद्गुरवस्वाहुः-अत्रोच्यत इत्यनेनेदमुच्यते-यदि रसादयो वाच्यानां धर्मास्तथापि द्वौ पक्षौ । रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा । न तावप्रथमः पक्षः । सर्वान्प्रति तथानवभासात् । नापि द्वितीयः । जात्यत्ववदनतिरिक्तवेनाप्रकाशनात् । एष च हेतुरायेऽपि पक्षे संगच्छत एव । तदाह-स्यान्मतमित्यादिना न चैवमित्यन्तेन । एतदेव समर्थयति-नहीति । अतएव चेति । यतो न वाच्यधर्मखेन रसादीनां प्रतीतिः । यतश्च यत्प्रतीतौ वाच्यप्रतीतिः । सर्वथानुपयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यम् । सहभूतयोरुपकारयोगात् । स तु सहृदयभावनाभ्यासान लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् । यस्यापि प्रतीति विशेषात्मैव रस इत्युक्तिः । प्राक्तनस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतिरित्येवमन्यत्र । ननु भवन्तु वाच्या दतिरिक्ता रसादयस्तत्रापि क्रमो लक्ष्यत इति तावत्त्वयैवोक्तम् । तत्कल्पने च प्रमाणं नास्ति । अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युभयस्य पदविरहितस्वराला-. पगीतादौ शब्दमात्रोपयोगकृतस्य दर्शनात् । ततश्चैकयैव सामग्र्या सहव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किंचिदिति तदाह-नन्विति । यत्रापि गीतशब्दानामर्थोऽस्ति तत्रापि तत्प्रंतीतिरुपयोगिनी । ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् । न चापि स सर्वस्य भवतीति १. 'रसादीनामपि' ग. २. 'वाच्यानति' ग. ३. 'व्यवस्थापनात्' क-ख. १. 'एवेति केचिदन्थं' क-ख. २. क-ख-पुस्तकयोः “अस्मद्गुरवः' इत्यारभ्य 'स्यादिति' इत्यन्तः पाठः 'प्रथमम्' इत्यारभ्य 'ग्रन्थमनैषुः' इत्यन्तः पाठश्चानन्तरं वर्तते. ३. 'तथा सति' ग. ४. 'स्यादिति' क-ख. ५. 'प्राक्तन-त्वयैवोक्तम्' इति पाठो ग-पुस्तके नास्ति. ६. 'पदविग्रहखरालापानां शब्द' क-ख. ७. 'प्रतीतिस्तदनुपयोगिनी' क-ख. ८. 'सर्वत्र भवन्तीति' ग. Page #193 -------------------------------------------------------------------------- ________________ १८४ काव्यमाला। अत्रापि ब्रूमः-प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् । किं तु तव्यञ्जकत्वं तेषां कदाचित्खरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनम् । तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव खरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिशक्तिनिबन्धनम् । अथ तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव । स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते । यदि च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यवच्छिन्नशब्दमात्रसाध्या रसादिप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च खयमव्युत्पन्नानां प्रतिपत्तॄणां काव्यमात्रश्रवणादेवासौ भवेत् । सहभावे च वाच्यप्रतीतेरनुपयोगः उपयोगे वा न सहभावः । येषामपि खरूपविशेषप्रती दृश्यते तदेतदाह-न चेति । तेषामिति गीतादिशब्दानाम् । आदिशब्देनास्य वाद्यविलपितशब्दादयो निर्दिष्टाः । अनुमतमिति । 'यत्रार्थः शब्दो वा-' इति ह्यवोचामेति भावः । न तहीति । तत्तद्गीतपदे चार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तथापेक्षणीया । सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् । तदाह-अथेति । तदिति वाचकशक्तिः । वाच्यवाचकभावेति । सैव वाचकशक्तिरित्युच्यते । एतदुक्तं भवति-मा भूद्वाच्यं रसादिव्यञ्जकम् , अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्ययं वाच्यप्रतीतेः पूर्वभावित्वमिति । ननु गीतशब्दवदेव वाचकशक्तिरित्यत्राप्यनुपयोगिनी । यत्तु क्वचिच्छृतेऽपि काव्ये रसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्ख्याह-यदि चेति । प्रकरणावगमो हि क उच्यते किं वाक्यान्तरसहायत्वम् , अथ वाक्यान्तराणां संबन्धिवाच्यम् । उभयपरिज्ञानेऽपि न भवति प्रकृतवाक्यार्थभेदेन रसोदयः । स्वयमिति । प्रकरणमात्रमेव परेण केनचियेषां व्याख्यातमिति भावः । न चान्वयव्यतिरेकवती वाच्यप्रतीतिमपहृत्यादृष्टसद्भावाभावी शरणत्वेनाश्रितौ मात्सर्यादधिकं किंचित्पुष्णीत इत्यभिप्रायः । नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम् , सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षण इत्याशङ्कयाह-सहेति । एवं ह्युपयोग इति संज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः । उपकारिणो हि पूर्वभावितेति त्वयाप्यङ्गीकृतमित्याह—येषामिति । त्वदृष्टान्तेनैव वयं वाच्यप्रतीतेरपि प्रतिपादयिष्याम १. 'कारणाद्यव' ख. २. “विषय' क-ख. ३. 'प्रतीत्यनुनिष्पन्नं' क-ख. ४. 'प्रकाराद्यवच्छिन्नमात्र' क-ख. ५ 'प्रकाराणां' क-ख. १. 'ततश्च गीतवादे' क-ख. २. 'सैव हि वाचकशक्तिरित्युच्यते' क-ख. ३. 'समर्थयिष्यामहे' क-ख. Page #194 -------------------------------------------------------------------------- ________________ ३ उध्योतः] ध्वन्यालोकः । १८५ तिनिमित्तं व्यञ्जकत्वं यथा गीतशब्दानां तेषामपि खरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावक्रमः । तत्र तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनाखाशुभाविनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते । कचित्तु लक्ष्यत एव । यथानुरणनरूपव्यङ्ग्यप्रतीतिषु । तत्रापि कथमिइति भावः । ननु स चेत्क्रमः किं न लक्ष्यत इत्याशङ्कयाह-तत्र विति । क्रियापौर्वापर्यमित्यनेन क्रमस्य खरूपमाह-क्रियेति । क्रिये वाच्यव्यङ्ग्यप्रतीती । यदिवामिधाव्यापारो व्यञ्जनापरपयोयो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते । क्वेत्याह-रसादौ विषये । कीशि । अभिधेयान्तरादभिधेयविशेषाद्विलक्षणे । सर्वथैवानभिधेयेनानेन भवितव्यं तावत्क्रमेणेत्युक्तम् । तथा वाच्येनाविरोधिनि । विरोधिनि तु लक्ष्यत एवेत्यर्थः । कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेवन्तरगर्भ हेतुमाहआशुभाविनीष्विति । अन्यसाध्यतत्फलघटनासु । घटनाः पूर्व माधुर्यादिलक्षणाः प्रतिपादिता गुणनिरूपणावसरे। ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम् , तथा नान्यत्तदेव साध्यं यासाम् । नह्योजोघटनायाः करुणादि प्रतीतिः साध्या । एतदुक्कं भवति-यतो गुणवति काव्ये संकीर्ण विषयतया संघटना प्रयुक्ता ततः क्रमो न लक्ष्यते। ननु भवत्वेवं संघटनायां स्थितिः क्रमस्तु किं न लक्ष्यते तदा आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव रसादीन्भावयन्ति । तदाखादं विदधतीत्यर्थः । एतदुक्तं भवति-संघटना व्यङ्ग्यवाद्रसादीनामनुपयुक्तेऽप्यर्थविज्ञाने पूर्वमेवोचिता संघटनाश्रयण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटाखादयुक्तोऽपि पश्चादुत्पन्नत्वेन भाति । अभ्यस्ते हि विषये विभावप्रतीतिक्रम इत्थमेव न लक्ष्यते । अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारबलवत्त्वात्सदैव प्रबुभुत्सुतया स्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितवायाप्तेः पक्षधमज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति । झटित्युत्पन्नेऽपि धूमज्ञाने तद्याप्तिस्मृत्युपकृतेस्तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेश विरहादाशुभाविन्यामनिप्रतीतौ क्रमो न लक्ष्यते तद्वदिहापि । यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तलक्ष्येतैव क्रम इति । चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे-तस्य तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतोऽनन्यसाध्या शब्दव्यापारैकजन्येति । नचात्रार्थसतत्त्वं व्याख्यानेन किंचिदुत्पश्याम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना । यत्र तु संघटनाव्यङ्ग्यत्वं नास्ति तत्र वक्ष्यत एवेत्याह-क्वचित्त्विति । तुल्ये व्यङ्ग्यत्वे कुतो मेद इत्याशझ्याह १. 'व्यङ्ग्यप्रतीतेश्च' ग-पुस्तके नास्ति. २. 'भावी' क-ख. ३. 'तत्तु शब्दक्रिया' क-ख. ४. 'वाच्याविरोधिनि' क-ख. १. "क्रियते इति क्रिया वाच्य' काख. २. 'यथा चान्येन' क-ख. ३. 'भवति' क-ख. ४. 'अभ्यस्तं हि विषयं विनाभावप्रतीति' क-ख. ५. 'व्यङ्ग्यवादि' कख. ६. 'लक्ष्यते' क-ख.. १७ ध्व. लो. Page #195 -------------------------------------------------------------------------- ________________ १८६ ति चेदुच्यते - अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यं ध्वनौ तावदभिधेयस्य तत्सा - मर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तर विलक्षणतयात्यन्तविलक्षणे ये प्रतीती तयोरशक्यनिद्दवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् । यथा प्रथमोक्ष्यते प्रतीयमानार्थसिद्ध्यर्थमुदाहृतासु गाथासु । तथाविधे च विषये वाच्यव्यङ्ग्ययोरत्यन्त विलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तम् । शब्दशक्तिमूलानुरणनरूपव्यन्ये तु ध्वनौ 'गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु' इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमावाचकपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति । तत्रापि सुलक्ष्यमभिधेयव्यनघालंकारप्रतीत्योः पौर्वापर्यम् । काव्यमाला । पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्ययेऽपि ध्वनौ विशेषणपदस्योभयार्थसंबन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्ववदभिधेयतत्सामर्थ्याक्षिप्तालंकारमात्र प्रतीत्योः सुस्थितमेव पौर्वा - पर्यम् । आर्थ्यापि च प्रतिपत्तिस्तथाविधे विषये उभयार्थ संबन्धयोगा शब्दसामर्थ्य प्रतिप्रसवभूतेति शब्दशक्तिमूला कल्प्यते । अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धखविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियम I 1 — नत्रापीति । स्फुटमेवेति । 'अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥' इति हि पूर्वं वर्णसंघटनादिकं नास्य व्यजकत्वेनोक्तमिति भावः । गाथास्खिति । 'भम धम्मिअ--' इत्यादिकासु । ताश्च तथैव व्याख्याताः । शाब्द्यामिति । शाब्द्यामपीत्यर्थः । उपमावाचको यथैवादिः । अर्थसामर्थ्यादिति । वाक्यार्थसामर्थ्यादिति यावत् । एवं वाक्यप्रकाशमात्रशक्तिमूलं विचार्य पदप्रकाशं विचारयति - पदप्रकाशेति । विशेषणपदस्येति जड इत्यस्य । योजकमिति यथेवादिकम् । योजनमिति कुप इति (?) अहमिति चोभयसमानाधिकरणतया योजनम् । अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलंकारमात्रयोः प्रतीतयोः पौर्वापर्यं क्रमः । सुस्थितं सुलक्षितमित्यर्थः । मात्रग्रहणेन रसप्रतीतिस्तत्राप्यलक्ष्यक्रमैवेति दर्शयति । नैन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेद्विरुद्धमित्याशङ्कयाह – आर्ध्यपीति । नात्र विरोधः कश्चिदिति भावः । एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते । स्वविषयेति । अन्धशब्दादेरुपहतचक्षुष्कादिः खो विषयः । तत्र यद्वैमुख्यमनादर 1 · १. ‘विलक्षणस्य ये प्रतीती' क ख २. 'अपि ध्वनौ' ग-पुस्तके नास्ति. ३. 'प्रतिपत्त्योः' ग. ४. 'शब्दमूला' ग. १. ‘व्यञ्जनादिकं’ ग. २. 'संवलनम्' ग. ३. 'नन्वेकं' ग. Page #196 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] ध्वन्यालोकः । १८७ भावी क्रमः । तत्रापि विवक्षितवाच्यत्वादेव वाच्येन सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्यव्यमय प्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तर्युक्त्या कचिल्लक्ष्यते क्वचिन्न लक्ष्यते । तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कबिडूयात् — किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम् । नहि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्यापि व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यत्वम् । व्यङ्ग्यापेक्षया च व्यञ्जकत्वसिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् । ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य सिद्धिः प्रागेव प्रतिपादिता तत्सिद्ध्यधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः । सत्यमेवैतत् । प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः इत्यर्थः । विचारो न कृत इति । नामधेयनिरूपणद्वारेणेति शेषः । सहभावस्य शङ्कितुमप्यत्रायुक्तत्वादिति भावः । एवं रसादयः कैशिक्यादीनामिति वृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनिय - त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति — तस्मादिति । अभिधानस्य शब्दरूपस्य पूर्वं प्रतीतिस्ततोऽभिधेयस्य । यदाह तत्रभवान् – 'विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते' इत्यादि । 'अतो निर्णीतरूपत्वात्किँमाख्येत्यभिधीयते' । अत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वाकमो न लक्ष्येतापि । उयोतारम्भे यदुक्तं व्यञ्जकमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोयोते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाह—तदेवमिति । कश्चिदिति मीमांसकादिः । किमिदमिति वक्ष्यमाणचोदकस्याभिप्रायः । प्रागेवेति प्रथमोध्यो अभाववादनिराकरणे । अतश्च व्यञ्जकसिद्ध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्कयत अपि तु हेत्वन्तरैस्तस्य बाधितत्वादिवि भावः । तदाह – तत्सिद्धीति । स त्विति । अस्त्वसौ द्वितीयोऽर्थस्तस्य यदि व्यय इति नाम कृतम् वाच्य इत्यपि कस्मान्न क्रियते । अवगम्यमानत्वेन हि शब्दार्थवं तदेव वाचकत्वम् । अभिधा हि यत्पर्यन्ता तत्रैवामिधायकत्वमुचितम् । तत्पर्यन्तता (मं)मिधानभूते तस्मिन्नर्थं इति मूर्धाभिषिक्तत्वं ध्वनेर्निरूपितम् । तत्रैवाभिधाव्यापारेण १. ‘तत्र त्वविवक्षित' क ख २. 'युक्तेः' ग. १. 'सर्वस्याभिधेयवृत्ति' क- ख. ४. व्यङ्ग्य इति नाकूतं वाच्यमित्यपि • २. 'निर्ज्ञात' ग. ३. 'किमाहेत्यमि' क्र- ख. • भिमतस्यापि कस्मात् 'ग. ५. 'सर्वा' क ख. Page #197 -------------------------------------------------------------------------- ________________ १८८ काव्यमाला । सिद्धिः कृता स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते । यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः । तत्परत्वाद्वाचकत्वस्य । अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः । किं तस्य व्यापारान्तरकल्पनया । तस्मात्तात्पर्यविषयो योऽर्थः स तावन्मुख्यतया वाच्यः । या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः । सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः । अत्रोच्यते — यत्र शब्दः स्वार्थमभिदधानोऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा । न तावदविशेषः । यस्मात्तौ द्वौ व्यापारौ भिन्नवियौ भिन्नरूपौ च प्रतीयेते एव । तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः । ततः खपरव्यवहारो वाच्यगम्ययोरपह्नोतुमशक्यः । एकस्य संबन्धित्वेन प्रतीतेरपरस्य संबन्धिसंबन्धित्वेन । वाच्यो ह्यर्थः साक्षाच्छब्दस्य संबन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः संबन्धिसंबन्धी । यदि च स्वसंबन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तरव्यवहार एव न स्यात् । तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः । रूपभेदोऽपि प्रसिद्ध एव । नहि यैवाभिधानशक्तिः सैवावगमनशक्तिः । अवाच 1 भवितुं युक्तम् । तदाह – यत्र चेति । तत्प्रकाशिन इति । तद्यन्याभिमतं प्रकाशयत्यवश्यं यद्वाच्यं तस्येति । उपायमात्रमित्यनेन साधारणयोक्ता भाहं प्राभाकरं वैयाक - रणं च पक्षं सूचयति । भाट्टमते हि - ' वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्टानां पदार्थप्रतिपादनम् ॥' इति शब्दावगतैः पदार्थैस्तात्पर्येण योऽर्थ उत्थाप्यते स एव वाक्यार्थः स एव च वाच्य इति । प्राभाकरदर्शनेऽपि दीर्घदीर्घो व्यापारो निमित्तिनि वाक्यार्थे । पदार्थानां तु निमित्तभावः पारमार्थिक एव । वैयाकरणानां तुं सोऽपि पारमार्थिक इति विशेषः । एतच्चास्माभिः प्रथमोध्योत एव वितत्य निर्णीत'मिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते । तदेतन्मतत्रयं पूर्वपक्षे योज्यम् । अत्रेति पूर्वपक्षे । उच्यत इति सिद्धान्तः । वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थोऽर्थान्तरेण च क्रमेणेति विषयतः । ( नेनु तस्माच्चेदसौ गम्यतेऽर्थः कथं तर्ह्यच्य..... ....... । नो चेत्स तस्य न कश्चिदिति को विषयार्थः । शङ्कयाह - न चेदिति । तस्मादिति ) । व्यवहार एवेति । एवकारो भिन्नक्रमः । नैव स्यादित्यर्थः । तावता न साक्षादात्म संबन्धित्वं तैरयुक्तार्थस्यैक एवामिधालक्षणो व्यापार इत्याशङ्कयाह - रूपभेद इति । तंत्र भिन्नेऽपि विषये............क्षशब्दादेर्बह्वर्थोऽपीति प्रसिद्धमेव दर्शयति-नहीति । विप्र १. ‘त्वसौ न' क-ख. २. कोष्ठकान्तर्गतः पाठः क ख पुस्तकयोर्नास्ति. ३. 'यावता' क्र. ४. 'ननु' ग. Page #198 -------------------------------------------------------------------------- ________________ ३ उयोतः ध्वन्यालोकः। कस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् । अशब्दस्यापि चेष्टादेरर्थाविशेषप्रकाशनप्रसिद्धेः । तथाहि 'वीडायोगान्नतवदनया-' इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव । तमाद्भिनविषयत्वाद्भिन्नरूपत्वाच्च खार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य । यत्तयोः स्पष्ट एव भेदः । विशेषश्चेन्न तहीदानीमवगमनस्याभिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगोचरत्वं तु तस्यामाभिरिष्यत एव । ततु व्यङ्गयत्वेनैव न वाच्यत्वेन । प्रसिद्धाभिधानान्तरसंबन्धयोग्यत्वेन च तस्यार्थान्तरस्य च प्रतीतेः । शब्दान्तरेण खार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता । न च पदार्थवाक्यार्थ तिषिद्धमनु प्रतिहेतुमाह-अवाचकस्यापीति । यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्यापि गमकत्वमपि न स्यात् गमकत्वेनैव वाचकत्वमपि न स्यात् । न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिके चाधोवक्रवकुचकम्पनबाष्पावेशादौ तस्यावाचकस्याप्यवगमकारिखदर्शनादवगमकारिणोऽपि वाचकत्वेन प्रसिद्धलादिति तात्पर्यम् । एतदुपसंहरति-तस्माद्भिन्नेति । न तहीति । वाच्यत्वे ह्यमिधाव्यापारविषयता न तु व्यापारमात्रविषयता । तथात्वे तु सिद्धसाधनमित्येतदाह-शब्दव्यापारेति । ननु गीतादौ मा भूद्वाचकवमिह बर्थान्तरेऽपि..........पकत्वमेवोच्यते । किं हि तद्वाचकत्वं स........ शङ्कोच्यते इत्याह-प्रसिद्धति । (शब्दान्तरेण) तस्यार्थान्तरस्य यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता । वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं यथा तस्यैव शब्दस्य खार्थे । तदाह-वार्थाभिधायिनेति । वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति तदाह-प्रसिद्धति । प्रसि द्धेन वाचकतयाभिधानान्तरेण यः संबन्धो वाच्यत्वं तदेव यत्र तद्योग्यत्वं तेनोपलक्षितस्य । न चैवंविधं वाचकसमर्थं प्रति शब्दस्येहास्ति नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपत्वम् । वाच्यत्वं यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशक्ष्याह-प्रतीतेरिति । अथ च प्रतीयते सोऽर्थो न च वाच्यवाचकव्यापारेणेति विलक्षण एवासौ व्यापार इति यावत् । नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशझ्याह-न चेति । कैश्चिदिति वैयाकरणैः । थैरपीति भट्टप्रमृ १. 'अवगमनीयस्य' क-ख. २. 'विषयत्वं' क-ख. ३. 'श्लेषान्तरेण' क. १. 'तदवगमकमिन्नोऽपि' ग. २. 'वाच्ये क. ३. 'इत्याशझ्याह' क-ख अत्र टीकायां त्रिष्वपि पुस्तकेष्वतीव पौर्वापर्यमस्ति. अस्माभिस्तु बहुपुस्तकानुरोधात्तथैव स्थापितम्. Page #199 -------------------------------------------------------------------------- ________________ १९० काव्यमाला। न्यायो वाच्यव्यङ्गययोः । यतः पदार्थप्रतीतिरस्त्येवेति कैश्चिद्विद्वद्भिरास्थितम् । यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । न त्वेष वाच्यव्यङ्गययोायः । न हि व्यङ्गये प्रतीयमाने वाच्यबुद्धिदूरीभवति । वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्धटप्रदीपन्यायस्तयोः । यथैव हि प्रदीपद्वारेण घटप्रती. तावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वयङ्ग्यप्रतीतौ वाच्यावभासः । यत्तु प्रथमोहयोते 'यथा पदार्थद्वारेण-' इत्याद्युक्तं तदुपायत्वसाम्यमात्रस्य विवक्षया । नन्वेवं युगपदर्थद्वययोगिलं वाक्यस्य प्राप्तम् । तद्भावे च तस्य वाक्यतैव विघटते । तस्या ऐकार्यलक्षणत्वात् । नैष दोषः । गुणप्रधानभावेन तयोर्व्यवस्थानात् । व्यङ्गयस्य हि कचित्प्राधान्यं वाच्यस्योपसर्जनभावः तिमिः । तमेव न्यायं व्याचष्टे तथाहीति । तदुपादानकारणानामिति । समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि । सौगतकापिलमते तु यधुपादातव्यघटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथगुक्ततया नास्त्युपलम्भ इतीयत्यंशे दृष्टान्तो दूरीभवेदिति अर्थैकत्वस्याभावादिति भावः । एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्तिं साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह-तस्मा. दिति । यतोऽसौ पदार्थवाक्यार्थन्यायेनेह युक्तस्तस्मात्प्रकृतं न्यायं व्याकरणपूर्वकं दार्टी. न्तिके योजयति-यथैव हीति । ननु पूर्वमुक्तम्-'यथा पदार्थद्वारेण वाक्यार्थः संप्रतीयते । वाक्यार्थपूर्विका तद्वत्प्रतिपन्नस्य वस्तुनः ॥' इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशझ्याह-यत्त्विति । तदिति । न तु सर्वथा साम्येनेत्यर्थः । एवमिति । प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः । तस्या इति वाक्यतायाः। ऐकार्थ्यलक्षणमर्थैकलाद्धि वाक्यमेकमुक्तं सकृद्गतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितं तद्विरम्य व्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगातकोऽर्थभेदस्यावसरः । पुनः श्रुतस्तु स्मृतो नासाविति भावः । तयोरिति वाच्यव्यङ्ग्ययोः । १. 'वाक्यवाक्यार्थ' क-ख. २. 'व्यङ्ग्यवाच्ययोः' क-ख. ३. 'वाक्यतयैव घटते' क-ख. ४. 'स्थापनात्' क-ख. ५. 'सर्जनी' क-ख. १. 'पृथगुपादानस्योपलम्भः ' क-ख. २. 'यथाहीति' क-ख. ३. 'कथं भेदस्य' क-ख. Page #200 -------------------------------------------------------------------------- ________________ ३ उध्योतः] ध्वन्यालोका क्वचिद्वाच्यस्य प्राधान्यमपरस्य च गुणभावः । तत्र व्ययप्राधान्ये ध्वनिरित्युक्तमेव । वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मस्थितमेतत् -- व्यङ्ग्यपरत्वेऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वमपि तु व्यङ्गयत्वमेव । किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छब्दस्य । तदस्ति तावद्यङ्गयः शब्दानां कश्चिद्विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य खरूपमैपडूयते । एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम् । इतश्च वाचकत्वाद्यञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च । शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् । गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति । किंतु ततोऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते । रूपभेदस्तावदयम्-यदमुख्यतया व्यापारो गुणवृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यत तत्रेति । उभयोः प्रकारयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः । प्रकारान्तरमिति गुणीभूतव्यङ्ग्यसंज्ञितम् । व्यङ्ग्यत्वमेवेति प्रकाशत्वमेवेत्यर्थः । ननु यत्परः स शब्दार्थ इति व्यङ्ग्यस्याप्राधान्ये वाच्यत्वमेव न्याय्यम् , तस्य प्राधान्ये किं युक्तं व्यङ्ग्यत्वमिति चेत्सिद्धो नः पक्षः । एतदाह-किं चेति । ननु प्राधान्ये मा भूयङ्ग्यत्वमित्याशमाह-यत्रापीति । अर्थान्तरत्वं संबन्धिसंबन्धत्वमनुपयुक्तं समयत्वमिति व्यङ्ग्यतायां निबन्धनम् , तच्च प्राधान्येऽपि विद्यत इति खरूपमहेयमेवेति भावः । एतदुपसंहरति-पवमिति । विषयमेदेन स्वरूपभेदेन चेयर्थः । तावदिति वक्तव्यान्तरमासूत्रयति । तदेवाह-इतश्चेति । अनेन सामग्रीमेदात्कारणमेदोऽप्यस्तीति दर्शयति । एतच्च वितत्य ध्वनिलक्षणे 'यत्रार्थः शब्दो वा-' इति वाग्रहणं, 'व्यङ्कः' इति द्विर्वचनं च व्याचसाणैरस्माभिः प्रथमोड्योत एव दर्शितमिति पुनर्न विस्तार्यते । एवं विषयभेदात्खरूपमेदात्कारणमेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयसाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशयामुख्यादपि प्रतिपादयितुमाह-गुणवृत्तिरिति । उभयाश्रयापीतिशब्दार्था)श्रया । उपचारलक्षणयोः प्रथमोध्योत एव विभज्य निर्णीतं खरूपमिति न पुनर्लिख्यते । मुख्यतयैवेति । अस्खलद्गतित्वेनेत्यर्थः । ____१. 'गुणीभावः' क-ख. २. 'वाक्यस्य' ग. ३. 'एतस्य' क-ख. ४. 'अपहियते' य. ५. 'व्यजकत्वसामान्यत्वं' क-ख. १. 'तर्थप्राधान्ये' क. २. 'विचार्यते' क-ख. ३. 'मेदप्रतीतिं विप्रतिपाद्य' ग. ४. 'स्खलद्गति' ग. Page #201 -------------------------------------------------------------------------- ________________ १९२ काव्यमाला । 1 यैव शब्दस्य व्यापारः । न ह्यर्थाद्व्यङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते । अयं चान्यः खरूपभेदः — यद्गुणवृत्तिरमुख्यत्वेन व्यवहितं वाचकत्वमेवोच्यते । व्यञ्जकत्वं तु वाचकादत्यन्तं विभिन्नमेव । एतच्च प्रतिपादितम् । अयं चापरो रूपभेदो यद्गुणवृत्तौ पदार्थोऽर्थान्तरमुपलक्षयति । तदोपलक्षणीयार्थात्मना परिणत एवासौ संपद्यते । यथा 'गङ्गायां घोषः ' इत्यादौ । व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा खरूपं प्रकाशय. नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा - ' लीलाकमलपत्राणि गणयामास पार्वती' इत्यादौ । यदि च यत्रातिरस्कृतखैरूपप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते । तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् । यस्मात्प्रायेणैव वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् । ननु त्वत्पक्षेऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः । उच्यते — प्रकरणाद्यवच्छिन्न शब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपहूयते । विषयभेदोSपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलंकारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः । 'अस्खलद्गतित्वं सम व्यङ्ग्यत्रयमिति । वस्त्वलंकाररसात्मकम् । वाचकत्वमेवेति । तत्रापि हि तथैव समयोपयोगोऽस्त्येव । प्रतिपादितमिति । इदानीमेव परिणत. पेणासिर्भासमान (?) इत्यर्थः । कीदृश इति मुख्या वा न वा प्रकारान्तराभावात् । मुख्य वाचकत्वमन्यथा गुणवृत्तिः । गुणो निमित्तं सादृश्यादि तद्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः । मुख्य एवासौ व्यापारः सामग्रीभेदाच्च वाचकत्वाद्व्यतिरिच्यत इत्यभिप्रायेणाह - उच्यत इति । एवमस्खलद्गतित्वात् ( कथं ) समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयाच्च गुणवृत्तेः स्वरूपं भेदं व्याख्याय विषयभेदमाह - विषभेदोऽपीति । वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयति — व्यङ्ग्यरूपावच्छिन्नमिति । व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः । अन्यथा तस्या विषयभेदो योज्यः । तत्र प्रथमं प्रकार - १. 'व्यवस्थितं' क ख २. 'लक्षणीयात्परिणत' क.ख. ३. 'बोधयति' ख. ४. 'यत्रातितिरस्कृत' ख. ५. 'खप्रतीति' ग. ६. 'स्फुट: ' ग. १. 'मुख्येन वा' क- ख. २. ' अन्यश्च' क- ख. Page #202 -------------------------------------------------------------------------- ________________ ३ उध्योतः] ध्वन्यालोकः। यानुपयोगित्वं पृथगवभासित्वं चेति त्रयम् । तत्र रसादिप्रतीतिर्गुणवृत्तिरिति न केनचिदुच्यते न च शक्यते वक्तुम् । व्यायालंकारप्रतीतिरपि । तथैव वस्तु चारुत्वप्रतीतये खशब्दानभिधेयत्वेन यत्प्रतिपादयितुमिष्यते तयङ्ग्यम् । तच्च न सर्व गुणवृत्तेविषयः । प्रसिद्ध्यनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तं प्राक् । यदपि च विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् । वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् । व्यञ्जकत्वं हि कचिद्वाचकत्वाश्रयेण व्यवतिष्ठते । यथा विवक्षितान्यपरवाच्ये ध्वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ । तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् । यस्मान्न तद्वाचकत्वैकरूपमेव । कचिल्लक्षणाश्रयेण वृत्तेः । न च लक्षणैकरूपमेवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति । माह-तत्रेति । न च शक्यत इति । लक्षणासामय्यास्तत्राविद्यमानवादिति हि पूर्वमेवोक्तम् । तथैवेति । न तत्र गुणवृत्तियुक्तत्यर्थः । वस्तुनो यत्पूर्व विशेषणं कृतं तद्याचष्टे -चारुत्वप्रतीतय इति । न सर्वमिति । किंचित्तु भवति । यथा'निःश्वासान्ध इवादर्शः' । इति यदुक्तम्-'कस्यचिद्भवनिभेदस्य सा तु स्यादुपलक्षणम्' इति प्रसिद्धितो लावण्यादयः शब्दा वृत्तानुरोधव्यवहारानुरोधादेवेति । यथा-'वदति बिसिनीपत्रशयनम्' इत्येवमादयः। प्रागिति प्रथमोहयोते 'रूढा ये विषयेऽन्यत्र' इत्यत्रान्तरे। (न सर्वमिति ।) यथास्माभिर्व्याख्यातं तथा स्फुटयति-यदपि चेति । गुणवृत्तेरिति पञ्चमी । अधुनेतररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकाद्गुणवृत्तेश्च द्वितीयादपि मिन्नं व्यञ्जकत्वमित्युपपादयति-वाचकत्वेति । चोऽवधारणे मिन्नक्रमः। अपिशब्दोऽपि । न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् । तेनायं तात्पर्यार्थःयदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति । एतदेव विभजते-व्यञ्जकत्वं हीति।प्रथमतरमिति प्रथमोड्योते ‘स च-' इत्यादिना प्रन्थेन। हेत्वन्तरमपि सूचयतिन. चेति । वाचकवगौणत्वोभयवृत्तान्तवैलक्षण्य ......तो हेतुः । तमेव प्रकाश १. 'यथास्मिन्' क-ख. २. 'तदुभयाश्रयत्वाच' क-ख. ३. 'शक्यं ग. . . १. 'व्यवहारानुरोधैः' क-ख. २. 'वाचकत्वगुणवृत्तिविलक्षणैवेति' क-ख. ३. 'व्यवस्थानं' क-ख. Page #203 -------------------------------------------------------------------------- ________________ १९४ काव्यमाला। यावद्वाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेनापि । तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयम् । न च तेषां वाचकत्वं लक्षणा वा कथंचिल्लक्ष्यते । शब्दादन्यत्रापि च विषये व्यञ्जकत्वस्यापि दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् । यदि वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते । तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः-वाचकत्वं गुणवृत्तिर्व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यायप्राधान्यं तदा ध्वनेस्तस्य चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्वेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ । ___ अन्यो ब्रूयात्-ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता नास्तीति यदुच्यते तद्युक्तम् । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः । नहि गुणवृत्तौ यदा निमित्तेन केनचि यति-तेषामिति । गीतादिशब्दानाम् । (हेत्वन्तरमपि सूचयति-) शब्दाद. न्यत्रेति । वाचकत्वगौणत्वाभ्यामन्ययञ्जकत्वं शब्दादन्यत्रापि वर्तमानत्वात्प्रमेयत्वादिवदिति हेतुः सूचितः। नन्वन्यत्रावाचके ययञ्जकं तद्भवतु वाचकत्वादेविलक्षणं तद्यअकत्वं तदपि विलक्षणमेवास्त्वित्याशङ्कयाह-यदीति । आदिपदेन गौणं गृह्यते । शब्दस्यैवेति । व्यञ्जकत्वं वाचकत्वमिति हि पर्यायौ कल्प्येते तर्हि व्यञ्जकत्वं शब्द इत्यपि पर्यायता कस्मान्न गृह्यते इच्छाया अव्याहतत्वात् । व्यञ्जकस्य तु विविक्तं खरूपं तद्विषयान्तरे कथं विपर्यस्यताम् । एवं हि पर्वतगतो धूमोऽनग्निजोऽपि स्यादिति भावः । अधुनोपपादितं विभागमुपसंहरति-तदेवमिति । व्यवहारग्रहणेन समुद्रघोषादीन्व्युदस्यति । ननु वाचकत्वरूपोपजीवकत्वाद्गुणवृत्त्यनुजीवकत्वादिति च हेतुद्वयं । यदुक्तं तदविवक्षितवाच्यभागे सिद्धं न भवति तस्य लक्षणैकशरीरत्वादित्यभिप्रायेणोपक्रमते-अन्य इति । अन्यो ब्रूयादिति । यद्यपि च तस्य तदुभयाश्रयत्वेन व्यवस्थानादिति ब्रुवता निर्णीतचरमेवैतत् तथापि गुणवृत्तेरविवक्षितवाच्यस्य च दुर्निरूप्यं वैलक्षण्यं यः पश्यति तं प्रत्याशङ्कानिवारणार्थोऽयमुपक्रमः । अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः। विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य खाङ्गीकारो दर्श्यते । गुणवृत्तिव्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्तावद्वृत्तान्तं दर्शयति-नहीति । गुणतया वृत्तिापारो गुणवृत्तिः । गुणेन निमित्तेन सादृश्यादिना च वृत्तिः । अर्थान्तरविषयेऽपि शब्दस्य सामानाधिकरण्यमिति गौणं दर्शयति । यदा वा खार्थमिति लक्षणां दर्शयति । अनेनैक १. 'शब्दाधिकत्वेन' ग. २. 'अशक्यं' ग. Page #204 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] ध्वन्यालोकः । १९५ " द्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतखार्थः यथा 'अनिर्माणवकः' इत्यादौ यदा वा स्वार्थ मंशेनापरित्यजंस्तत्संबन्धद्वारेण विषयान्तरमाका - मति यथा— 'गङ्गायां घोषः' इत्यादौ तदा विवक्षितवाच्यत्वमुपपद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोर्द्वयोरपि खरूपप्रतीतिस्र्थावगमनं च दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोघी । स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इत्युच्यते । तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारे नियमेनैव न शक्यते वक्तुम् । अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव । यतोऽयमपि न दोषः । यस्मादविवक्षितवाच्यो ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव । गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं व्ययं विना न व्यवतिष्ठते । गुणवृतिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमा मेदद्वयेन च स्वीकृतमविवक्षितवाच्यं भेदद्वयात्मकमिति सूचयति । अत एवात्यन्ततिर - स्कृत ... विषयान्तरमाश्रय (काम) ति चेत्यनेन शब्देन तदेव मेदद्वयं दर्शयति — अत एव चेति । यत्तु एव तत्रोक्तहेतुबलाद्गुणवृत्तिव्यवहारो न्याय्यस्तत इत्यर्थः । युक्तिं लोकप्रसिद्धिरूपामबाधितां दर्शयति-स्वरूपमिति । उच्यत इति प्रदीपादिरिन्द्रि यादेस्तु कारणत्वं न व्यञ्जकत्वं प्रतीत्युत्पत्तौ । एवमभ्युपगमं प्रदशर्याक्षेपं दर्शयतिअविवक्षितेति । तुशब्दः पूर्वस्माद्विशेषं द्योतयति । तस्येति । अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन्गौणलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भासत इत्यर्थः । एतत्परिहरति — अयमपीति । गुणवृत्तेर्यो मार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राकक्ष्यानिवेशी यस्येत्यर्थः । एतच्च पूर्वमेव निर्णीतम् । ताद्रूप्याभावे हेतुमाह – गुणवृत्तिरिति । गौणलाक्षणिक रूपोभयी अपीत्यर्थः । ननु व्यञ्जकत्वे कैथं शून्या गुणवृत्तिर्भवति । यतः पूर्वमेवोक्तम् — 'मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥' इति । नहि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्यधायीत्याशयाभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह — व्यञ्जकत्वं चेति । वाच्यधर्मेति । वाच्यविषयो यो धर्मोऽभिधा १. ‘संशयेन परित्यजन्' ख. २. 'एव हि परावभासमानो' क-ख. ३. 'नियमेन वै शक्यते' क-ख. ४. 'कर्तुम्' क-ख. ५. 'हेतुकं' क-ख. १. 'स्वार्थशब्देन ' क- ख. २. 'सूचयति' कख. ३. 'यतो न' क-ख. ४. 'मेदद्वयं' क-ख. ५. 'न' ग. Page #205 -------------------------------------------------------------------------- ________________ १९६ काव्यमाला त्राश्रयेण चाभेदोपचाररूपा संभवति । यथा तीक्ष्णत्वादग्निर्माणवकः । आह्लादकत्वाचन्द्र एवास्या मुखमित्यादौ । यथा च 'प्रिये जने नास्ति पुनरुक्तम्' इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंबन्धमात्राश्रयेण चारुरूपव्यङ्गयप्रतीति विनापि संभवत्येव । यथा मञ्चाः क्रोशन्तीत्यादौ विषये । यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असंभविना चार्थेन यत्र व्यवहारः यथा 'सुवर्णपुष्पां पृथिवीं' इत्यादौ तत्र चारुरूपव्यङ्गयप्रतीतिरेव प्रयोजिकेति तथाविधेऽपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी । तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुणवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्नादिनी प्रतीयमाना । व्यापारस्तस्याश्रयेण तदुपबृंहणायेत्यर्थः । श्रुतार्थापत्तिविधा)र्थान्तरस्याभिधेयार्थोपा. दान एव पर्यवसानादिति भावः । तत्र गौणस्योदाहरणमाह-यथेति । द्वितीयमपि प्रकारं व्यजकत्वशून्यं निदर्शयितुमुपक्रमते यापीति । चारुरूपं विश्रान्तिस्थानं तदभावे स व्यजकत्वव्यापारो नैवोन्मीलति । प्रत्यावृत्त्य वाच्यरूप एव विश्रान्तेः । क्षणदृष्टनष्टदिव्यविभवप्राकृतपुरुषवत् । ननु यत्र व्यङ्ग्येऽर्थे विश्रान्तिस्तत्र किं कर्तव्यमित्याशझ्याह-यत्र स्विति । अस्ति तत्रापरो व्यञ्जनव्यापारः परिस्फुट एवेत्यर्थः । दृष्टान्तं परागीकृतमेवाह-व्यञ्जक(वाचक)त्ववदिति । वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेदं मन्या(मत्वा ?) इति भावः । किं च वस्त्वन्तरे मुख्ये संभवति संभवदेव वस्त्वन्तरं मुख्यमेवारोप्यते । विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितः(2) विचारस्य सुवर्णपुष्पाणां मूलत एवासंभवस्तदुच्चयनस्य तत्र क आरोपव्यवहारः । 'सुवर्णपुष्पां पृथिवीं' इति हि स्यादारोपः । तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः । स परं व्यञ्जनव्यापारानुरोधितयोत्तिष्ठति । तदाह-असंभविनेति। प्रयोजिकेति । व्यङ्ग्यमेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थानमारोपिते त्वसंभवति प्रतीतिविश्रान्तिराशङ्कनीयापि न भवति । सत्यामपीति । व्यञ्जनव्यापारसंपत्तये लक्षणमात्रवृत्त्यामवलम्बितायामिति भावः। तस्मादिति । व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः । व्यञ्जकत्वं न तस्या भेद इत्यर्थः । यदि वा व्यञ्जकत्वलक्षणेन व्यापारविशेषेणावि(शि)ष्टान्यकृतखभावा आसमन्ताघ्याप्ता । तदेकेति । तेन व्यञ्जकत्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भ १. 'आह्लादहेतुत्वात्' ग. २. 'प्रयोजने' क-ख. ३. 'विशेषणाविष्टा' क-ख. १. 'यथातीक्ष्णत्वादि' क-ख. २. 'असंभाविनेति' क-ख. ३. 'विश्रान्ति' ग... Page #206 -------------------------------------------------------------------------- ________________ ३ उयोतः] ध्वन्यालोकः। १९७ तीतिहेतुत्वाद्विषयान्तरे तद्रूपशून्यायाश्च दर्शनात् । एतच्च सर्व प्राक्सूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् । अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोधर्मः स प्रसिद्धसंबन्धानुरोधीति न कस्यचिद्विमतिविषयतामर्हति । शब्दार्थयोर्हि प्रसिद्धो यः संबन्धो वाच्यवाचकभावाख्यस्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्र्यन्तरसंबन्धादौपाधिकः प्रवर्तते । अत एव वाचकत्वात्तस्य विशेषः । वाचकत्वं हि शब्दविशेषस्य नियत आत्मा संबन्धी । व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् । स त्वनियतः । औपाधिकत्वात् । प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः । ननु यद्यनियतस्तत्कि तस्य स्वरूपपरीक्षया । नैष दोषः । यतः शब्दात्मनि तस्यानियतत्वं न तु खे विषये व्यङ्ग्यलक्षणे । लिङ्गत्वन्यायश्चास्य व्यञ्जकमावस्य लक्ष्यते । तथाहि लिङ्गत्वमाश्रयेषु नियतावभासम् इच्छाधीनत्वात्स्व विषयाव्यभिचारि च तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मनि नियतत्वादेव च तस्य वति । अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात् । विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत् । नहि गुणवत्तेश्चारुप्रतीतिहेतुखमस्तीति दर्शयति-विषयान्तर इति । अग्निर्वटुरित्यादौ । प्रागिति प्रथमोड्योते । नियतखभाववाच्यवाचकत्वादौपाधिकत्वेन नियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयति-अपि चेति । औपाधिक इति । व्यञ्जकवैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः । अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् । एतदेव स्फुटयति-अत एवेति । औपाधिकत्वं दर्शयति-प्रकरणादीति । किं तस्येति । अनियतत्वाद्यथारुचि कल्प्येत । पारमार्थिकं रूपं नास्ति । न चावस्तुनः परीक्षोपपद्यत इति भावः । शब्दात्मनीति । संकेतास्पदे घटस्वरूपमात्र इत्यर्थः । आश्रयेष्विति । नहि धूमे वह्निगमकत्वं सेदातनम् । अन्यगमकत्वस्य च दर्शनात् । इच्छाधीनत्वादिति । इच्छामात्र पक्षधर्मवजिज्ञासाव्याप्तिः खमूर्षाप्रभृतिः (१) । स्वविषयेति । खस्मिन्विषये च गृहीते त्रैव १. 'संबन्धव्युत्पत्ति' क-ख. २. 'व्यञ्जक' क. ३. 'इच्छाविषयत्वात्' ग. १. 'उपपन्ना' ग. २. 'सदातनं' ग. ३. 'अन्य.."स्य वह्वयगमकत्वस्य' ग. ४. इच्छात्र व्यापकधर्मताजिज्ञासा' ग. ५. 'संमूर्षा' ख, 'सुस्यूषा' ग. ६. 'गृह्यते त्रैरूप्यादौ' क-ख. १८ ध्व० लो. Page #207 -------------------------------------------------------------------------- ________________ १९८ काव्यमाला । वाचकत्वप्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् । स च तथाविध औपाधिको धर्मः शब्दानामौत्पत्तिकशब्दार्थ संबन्धवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषममिदधता नियमेनाभ्युपगन्तव्यः । तदनभ्युपगमे हि तस्य शब्दार्थसंबन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने निर्विशेषत्वं स्यात् । तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपेधिकव्यापारान्तराणां सत्यपि खाभिधेयसंबन्धापरित्यागे मिथ्यार्थतापि भवेत् । दृश्यते हि भावानामपरित्यक्तखखभावानामपि सामभ्यन्तरसंपात संपादितौपाधिकव्यापारान्तराणां विरुद्ध क्रियत्वम् । तथा हि हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदद्यमानमानसैर्जनैरालोक्यमानानां सतां संतापकारित्वं प्रसि द्धमेव । तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिकेऽर्थसंबन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किंचिद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् । तच्च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति स च व्यङ्ग्य एव न त्वभिधेयः । तेन सहाभिधानस्य वा रूप्यादौ न व्यभिचरति । न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयति — स चेति । व्यञ्जकत्वलक्षण इत्यर्थः । औत्पत्तिकेति । जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लक्ष्यते । विपरीतलक्षणातो वा उत्पत्तिः रूढ्या वा औत्पत्तिकशब्दो नित्यपययः । तेन नित्ययोः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः । निर्विशेषत्वमिति । ततश्च पुरुषदोषानुप्रवेशस्या किंचित्करत्वात्तन्निबन्धनं पौरुषेयेषु वाक्येषु पदप्रामाण्यान्न सिध्येत् । प्रतिपत्तुरेव हि यदि तथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् । अपौरुषेये हि वाक्ये प्रतिपत्ति (तृ) दौरात्म्यात्तथा स्यात् । ननु धर्मान्तराभ्युपगमेऽपि कथं मिथ्यार्थता । नहि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याह-दृश्यत इति । प्राधान्येनेति । यदाह - एवमयं पुरुषो वेदेति भवति प्रत्ययः न त्वेवमर्थ इति । तथा प्रमाणान्तरदर्शनमत्र बाध्यते । ननु शब्दोऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् । तेन १. 'वाचकत्वाप्रकारता' ग. २. 'रोपितोपाधिव्यापार' ग. १. 'वातूत्पत्तिः रूढा वा' क, 'पर उत्पत्तिकशब्दो' ग. २. 'पौरुष' क- ख. ३. ‘प्रमाणान्तं' क, 'प्रामाण्यं' ग. ४. 'अङ्गुल्यर्पणवाक्यादौ' क-ख. Page #208 -------------------------------------------------------------------------- ________________ ३ उड्योतः] ध्वन्यालोकः। १९९ च्यवाचकतालक्षणसंबन्धाभावात् । नन्वनेन न्यायेन सर्वेषामेवालौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः । सर्वेषामेवानेन न्यायेन व्यञ्जकत्वात् । सत्यमेतत् । किं तु वैऋभिप्रायप्रकाशनेन यदि व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् । ननु वाचकत्वान्न भिद्यते, व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन व्यङ्गयस्य व्यवस्थितिः । तद्व्यञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् । यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं यत् । किंतु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य न प्रयोजकम् । व्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषध्वनिलक्षणे नातिव्याप्तिने चाव्याप्तिः । तस्माद्वाक्यतत्त्वविदां मते न तावयञ्जकलक्षणः शाब्दो व्यापारः (न) विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते । सहेति । अनियततया नैसर्गिकवाभावादिति भावः । नान्तरीयकतयेति । गामानयेति श्रुतेऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टोऽर्थ एवाभिप्रेत आनयनादिक्रियायोग्यो न खमिप्रायमात्रेण किंचित्कृत्यमिति भावः । विवक्षितत्वेनेति । प्राधान्येनेत्यर्थः । यत्त्विति । ध्वन्युदाहरणेष्विति भावः । काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते अपि तु प्रतीतिविश्रान्तिकारिणी। सा चाभिप्रायनिष्ठवे नाभिप्रेतवस्तुपर्यवसाना । नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह । एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति-परिनिश्चितेति । परिनिश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया निरुपपत्यंशं विद्यार्थसंस्काररहितं शब्दाख्यं प्रकाशपरामर्शनखभावं ब्रह्म व्यापकत्वेन बृहद्विशेष. शक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् । यै (ते) रिति । एत. दुक्तं भवति–वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किंचिदिच्छन्ति तत्र का कथा वाचकत्वव्य'. १. 'वभिप्रायविस्पष्टार्थप्रतिपादनेन' ख. २. 'यदिदं' ख. ३. 'तत्तु वाचक' क, 'यत्तु वाचक' ख. ४. 'न विवक्षितत्वेन यस्य तु' क-ख. ५. 'शब्दार्थाभ्यामेव' क-ख. ६. 'प्रकाशमानं सत्' क-ख. ७. 'तत्तु यथादर्शितं' क-ख. १. 'नयनानुयानाद्यु' क, 'न नयनाद्यु' ग. २. 'निष्ठतयैव' क, 'निष्ठतैब' ग. ३. 'इत्याशङ्कयाह' क-ख. ४. 'गलितप्रपञ्चतया विद्यारहितं शब्दार्थ ग. 'बृहद्विश्वनिर्भर' क-ख. Page #209 -------------------------------------------------------------------------- ________________ काव्यमाला । कृत्रिमशब्दार्थसंबन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिव निर्विरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति । वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम् किमिदं स्वाभाविकं शब्दानामाहोखित्सामयिकमित्याद्याः । व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरासाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः । अलौकिके ह्यर्थे तार्किकाणामभिनिवेशाः प्रवर्तन्ते न तु लौकिके । न हि नीलमधुरादिष्वशेषलो केन्द्रियगोचरे बाधारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । नहि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां यत्सर्वेषामनुभवसिद्धं तत्केनाभिश्रूयते (पहूयते ? ) । अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा २०० ञ्जकत्वयोः । अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव । एतच्च प्रथमोद्दयोते वितत्य निरूपितम् । एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य प्रमाणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह- कृत्रिमेति । कृत्रिमः संकेत - मात्रस्वभावः परिकल्पितः शब्दार्थयोः संबन्ध इति ये वदन्ति नैयायिक सौगतादयः । यथोक्तम्—न सामवायिकत्वाच्छब्दार्थप्रत्ययस्येति तथा शब्दार्थसंकेतितं प्राहुरिति । अर्थान्तराणामिति दीपादीनाम् । नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तेच विमतिपदमित्याशक्याह - निर्विरोधश्चेति । अविद्यमानो विरोधो यस्य विरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य । तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः । अनुभवसिद्धं च न प्रतिक्षेप्यं यथा वाचकत्वम् । ननु तत्राप्येषां विमतिः । नैतत् । नहि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह – वाचकत्वे हीति । नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्कयाह - व्यञ्जकत्वे त्विति । भावान्तरेति । अक्षिनिकोचादेः सांकेतिकत्वं चक्षुरादि तैस्यायोग्यतेति दृष्टा काममस्तु संशयः शब्द्स्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृतेऽपीति निश्चितैकरूपे कः संशयस्यावकाश इत्यर्थः । नैतन्नीलमिति नीले हि न विप्रतिपत्तिः । अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदमतितुच्छ मिति तत्सृष्टौ लौकिक्य एव विप्रतिपत्तयः । वाचकानामिति । ध्वन्युदाहरणेष्विति भावः । अश ब्दमिति । अभिधाव्यापारेणास्पष्टमित्यर्थः । रमणीयमिति । यगोप्यमानतयैव सु १. ‘हि’ ग. २. ‘निवेशः प्रवर्तते' ग. ३. 'द्रूयते' ग. ४. 'व्यवहारास्तथा व्यवहारानिबद्धाश्चानिबद्धाश्च' क-ख. १. ‘शब्दः संकेतितानां' क ख २. 'न च विमत्यापादनं' क-ख. ३. 'वा बोधात्मको' क-ख. ४. ‘च प्रक्षेप्यं' क ख ५. 'कस्यानादिर्योग्यतेति' क- ख. Page #210 -------------------------------------------------------------------------- ________________ ३ उयोतः] ध्वन्यालोकः। २०१ व्यापारनिबन्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते । तामुपहास्यतामास्मनः परिहरन्कथमभिसंदधीत सचेताः (ब्रूयात्) अस्त्यभिसंधानावसरे व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गलिङ्गिभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यम् । यस्माद्वऋभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितम् । वऋभिप्रायश्चानुमेयरूप एव । नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् । वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतम् । तस्य चैवमपि न काचित्क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं च तस्यास्तीति नास्त्येवावयोर्विवादः । न पुनरयं परमार्थो यव्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति । यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितं त्वया वऋभिप्रायस्य व्यङ्गय. त्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्य प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानाम्-अनुमेयः न्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तम् । निबद्धाः प्रसिद्धाः । तानिति व्यवहारान् कः सचेता अभिसंदधीत । नाद्रियेतेत्यर्थः । लक्षणे शत्रादेशः । आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणोपलक्षितास्ताः परीजिहीर्षुरित्यर्थः । अस्तीति । व्यञ्जकत्वं नापहृते तत्त्वव्यतिरिक्तं न भवति । अपि तु लिङ्गलिङ्गिभाव एवायम् । इदानीमेवेति । जैमिनीयमतोपक्षेपे । यदि नाम स्यादिति । प्रौढवादितयाभ्युपगमेऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति-शब्देति । शब्दस्य व्यापारः संधिविषयः शब्दव्यापारविषयः । अन्ये तु शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः । न पुनरिति । प्रदीपालोकादौ लिङ्गलिङ्गिभावे शून्योऽपि..... व्यङ्ग्यव्यञ्जकभावोऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गलीङ्गिभावो व्यापक इति कथं तादात्म्यम् । विषय इति । शब्द उच्चरिते यावति प्रतिपत्तिस्तावान्विषय इत्युक्तः । तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् । यस्तु प्रतिपिपाद १. 'इति संदधीत' ग. २. 'अतिसंधान' ग. ३. 'भाविनः परः' क-ख. ४. 'अ. त्रोच्यते । नन्वेवमपि' ग. ५. 'व्यञ्जकल' ख. १. 'प्रयुक्तप्रतिपिपाद' ग. Page #211 -------------------------------------------------------------------------- ________________ २०२ काव्यमाला। प्रतिपाद्यश्च । तत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्दखरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा । तत्राद्या न शाब्दव्यवहाराङ्गम् । सा हि प्राणित्वमात्रप्रतिपत्तिफला । द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकारणव्यवहारनिर्बन्धनम् । ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतोऽर्थः । स च द्विविधः वाच्यो व्यङ्ग्यश्च । प्रयोक्ता हि कदाचित्वशब्देनार्थ प्रकाशयितुं समीहते कदाचित्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया खरूपेण प्रकाशते अपि तु कृत्रिमेणाकृत्रिमेण वा संबन्धान्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्दर्लिङ्गतया प्रतीयते न तु खरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यवहारः स्यात्तच्छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् । धूमादिलिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश्वार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य संबन्धी भवत्येव । साक्षादसाक्षाद्भावो हि संबन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रागेव दर्शितम् । तस्माद्वक्राभिप्रायरूपव्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्नभिप्रायरूपे च वाचकत्वेनैव व्यापारः संबन्धान्तरेण वा । न तावद्वाचकत्वेन । यथोक्तं प्राक् । संबन्धान्तरेण व्यञ्जकत्वमेव । न च व्यञ्जकत्वं यिषायां कर्मभूतोऽर्थस्तत्र शब्दः कारणत्वेन विवक्षितः न वसावनुमेयः । तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते । न च तत्र शब्दस्य कैरणत्वेनैव लिङ्गस्येतिकर्तव्यता पक्षधर्मग्रहणवादिका नास्ति अपि खन्यैव संकेतस्फुरणादिका । तन्न । तत्र शब्दो लिङ्गमितिकर्तव्यता च द्विधा । एकयामिधाव्यापारं करोति द्वितीयया व्यञ्जनाव्यापारम् । तदाह-तत्रेत्यादिना। कयाचिदिति । गोपनकृतसौन्दर्यादिलाभाभिसंधानादिकयेत्यर्थः । शब्दार्थ इति । अनुमानं हि निश्चयखरूपमेवेति भावः । औपाधि १. 'सिताव्यवहितमपि' क-ख. २. 'निबन्धनी' क-ख. ३. 'शब्दात्' ग. ४. 'व्यापारः' क-ख. ५. 'व्यङ्ग्यव्यञ्जकत्वस्य' क-ख. ६. 'रूप एव व्यङ्ग्यो' क-ख. ७. 'अभिप्रायरूपेऽनमिप्रायरूपे वा' क-ख. १. 'यिषायाः'क-ख. २. 'कारणखयो।' क; 'करणत्वयैव' ग.३. 'स्मरणादिका'क-ख. Page #212 -------------------------------------------------------------------------- ________________ २०३ ३ उद्द्योतः ] ध्वन्यालोकः । लिङ्गत्वरूपमेव । आलोकादिष्वन्यथा दृष्टत्वात् । तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गत्वेन संबन्धी वाच्यवत् । यो हि लिङ्गत्वेन 'संबन्धी यथा दर्शितो विषयः से न वाच्यत्वेन प्रतीयते अपि त्वौपाधिकत्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकानां लौकिकैरेव क्रियमाणानामभावः प्रसज्येतेति । एतच्चोक्तमेव । यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचित्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे सत्यपि न शब्दव्यापारविषयताहानिस्तद्वयङ्ग्यस्यापि । काव्यविषये च व्यङ्ग्यप्रतीतीनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव संपद्यते । तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुम् । यत्त्वनुमेयरूपं व्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्धवनिव्यवहारस्याप्रयोजकम् । अपि तु व्यञ्जकत्वल कत्वेनेति । वक्रिच्छा हि वाच्यादेरर्थस्य विशेषणत्वेन भाति । प्रतिपाद्यस्येति । अर्थाव्यङ्ग्यस्य । लिङ्गित्व इति । अनुमेयत्व इत्यर्थः । लौकिकैरेवेति । इच्छायां लोको न विप्रतिपद्यतेऽर्थे तु विप्रतिपत्तिमानेव । ननु यदा व्यङ्ग्योऽर्थः प्रतिपन्नस्तदा सत्यत्वनिश्चयोऽस्यानुमानादेव क्रियत इति पुनरप्यनुमेय एवासौ । मैवम् । वाच्यस्यापि हि सत्यखनिश्चयोऽनुमानादेव । यदाहुः-'आप्तवादाविसंवादसामान्यादनुमानता' इति । न चैतावता वाच्यस्य प्रतीतिरानुमानिकी किं तु तद्गतस्य ततोऽधिकस्य सत्यत्वस्य तद्यङ्ग्यत्वेऽपि भविष्यति । एतदाह-यथा चेत्यादिना । एतच्चाभ्युपगम्योक्तं न त्वनेन प्रयोजनमिति। काव्यविषये चेति । अप्रयोजकमिति । नहि तेषां वाक्यानामग्निटोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकवाय प्रामाण्यमन्विष्यते । प्रतीतिमात्रपर्यवसायित्वात् । प्रतीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् । एतच्चोतं वितत्य प्राक् । उपहासायैवेति । नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीति परामष्टुं नालमित्येष उपहासः । नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानलम् , यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपर्यत इत्याशङ्याह-यत्त्व. नुमेयेति । तद्यञ्जकं न ध्वनिलक्षणम् । अमिप्रायव्यतिरिक्तविषयव्यापारादिति भावः । नन्वभिप्रायविषयं यद्यञ्जकत्वमनुमानैकयोगक्षेमं तच्चेन्न प्रयोजनं ध्वनिव्यवहारस्य तत्किमर्थं तत्पूर्वमुपक्षिप्तमित्याशङ्कयाह-अपि विति । एतदेव संक्षिप्य निरूपयति १. 'तेषां संबन्धी ' क-ख. २. 'असौ' ग. ३. 'गमनेन' क-ख. ४. 'कार्य' ग. ५. 'वाच्यव्यङ्गय' क-ख. ६. 'सत्यत्वासत्यत्वनिरूपणाप्रयोजक' ग. ७. शक्यं' क-ख. १. 'हीत्यस्य सत्यनिश्चयो' ग. २. 'इत्याह-' क-ख. Page #213 -------------------------------------------------------------------------- ________________ २०४ काव्यमाला। क्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसंबन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् । तद्धि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आरब्धः । तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् । तदन्तःपातित्वेनापि तस्य न ग्रहादभिधीयमानमेतद्विशेष्यस्य ध्वनेर्यप्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तक्रियमाणमेनतिसंधेयमेव । न हि सामान्यमावलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौरुनक्त्यप्रसङ्गः । तदेवम्विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः । ध्वनिसंज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् ॥ ३४ ॥ तद्भीति । यत्र हि क्वचिदनुमानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणेन गीतध्वन्यादौ क्वचिदभिधया विवक्षितान्यपरवाच्यादौ क्वचिद्गुणवृत्त्या विवक्षितवाच्येऽनुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं (न) सिध्यति । तदाह-रूपान्तरेणेति । ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते । अभिधाव्यापारगुणवृत्त्यादेस्तस्यैव सामय्यन्तरोपनिपाताद्यविशिष्टं रूपं तदेव व्यक्तमुच्यतामित्याशक्ष्याह-तदन्तरिति । (तदन्तःपातित्वेऽपीति) न वयं संज्ञाविशेषान्निषेत्स्याम इति भावः । विप्रतिपत्तिस्तादृग्विशेषो नास्तीति । व्युत्पत्तिः संशयाज्ञाननिरासः । न हीति । गुणवृत्तिवाचकादयः सामान्यलक्षणम् उपयोगिषु विशेषेषु यानि लक्षणानि तेषाम् । उपयोगपदेन काकदन्तादीनां व्युदासः। एवं हीति । सामान्यत्रिपदार्थसङ्केतितसत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वेदधनुर्वेदप्रभृतीनां सकललोकयात्रोपयोगिनामनारम्भः स्यादिति भावः । विमतिविषयत्वे हेतुरविदितसतत्त्व इति । अतएवावमर्श नादत्र न कस्यचिद्विमतिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुमासीदित्युक्तम् । एवं यत्किंचिछनेरात्मीयरूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्व प्रतिपाद्य प्राणभूतं व्यङ्ग्यव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जकवादस्थानं रचितमिति ध्वनि प्रतियद्वक्तव्यं तदुक्तमेव । अधुना तु गुणीभूतोऽप्ययं व्यङ्ग्यः कविवाचः पवित्रयतीत्यमुना द्वारेण १. 'पातित्वेऽपि तस्य ग्रहादभिधेयमानं तद्विशेषस्य ध्वनेः' क-ख. २. 'अभिसंधेयमेव' क-ख. ३. 'अभिप्रायविषय' क-ख. १. 'तदपीति' ग. २. 'क्वचिदभिधेयादो क्वचिद्विवक्षितान्य' क-ख. ३. 'व्यञ्जकत्वं' क-ख. ४. 'ज्ञान' क-ख. ५. 'अत एवाधुनात्र' क-ख. ६. 'शिष्यबुद्धिषु निवे' क-ख. Page #214 -------------------------------------------------------------------------- ________________ ३ उड्योतः ] ध्वन्यालोकः। २०५ प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते । यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥ ३५ ॥ व्यङ्ग्योऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् । तस्यैव तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूतव्यङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते । तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः शब्देभ्यः प्रतीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्गयता । यथा 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥' अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्गयस्य कदाचिद्वाच्यप्राधान्येन चारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता । यथो तस्यैवात्मत्वं समर्थयितुमाह-प्रकार इति । व्यङ्ग्येनान्वयो वाच्यस्योपकार इत्यर्थः । प्रतिपादित इति । 'प्रतीयमानं पुनरन्यदेव' इत्यत्रोक्तमिति । 'यत्रार्थः शब्दो वा' इत्यत्रान्तरे वाच्यं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयति-तत्रेति । एतदुदाहरति यथेति । अभिलाषगर्भेयं कस्यचित्तरुणस्योक्तिः । अत्र सिन्धुशब्देन परिपूर्णता उत्पलशब्देन कटाक्षच्छटाःशशिशब्देन वदनंद्विरदकुम्भतटीशब्देन स्तनयुगलं कदलिकाण्डशब्देनोरुयुगलं मृणालदण्डशब्देन दोर्युग्ममिति ध्वन्यते । तत्र चैषां खार्थस्य सर्वथानुपपत्तेरैन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वम् । स च प्रतीयमानोऽप्यर्थविशेषः 'अपरैव हि केयं' इत्युक्तिगीकृते वाच्येऽशे चारुत्वच्छायां विधत्ते । वाच्यस्यैव खात्मोन्मजनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनाभासमानत्वात् । सुन्दरत्वे चास्यासंभाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्य सुभगैकाधिकरणविश्रान्तलक्षणशब्दसमुच्चयरूपतया विस्मयविभावप्राप्तिपुरस्कारेण व्यङ्ग्यर्थोपस्मृतस्य तथाविध...... वाच्यरूपतामजनेनाभिलाषादिविभावत्वात् । अत एवेयं........... । यद्यपि वाच्यस्य प्राधान्येऽपि रसध्वनौ तस्य गुणतेति सर्वत्र गुणीभूतव्यङ्ग्यप्रकारो मन्तव्यः । अंत एव ध्वनेरात्मत्वमित्युक्तचरं बहुशः । अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्द १. 'तस्य च' ग. २. 'काव्यचारुत्वा' क-ख. -- १. 'उपसर्पयितुं' क-ख. २. 'तत्र चेष्टार्थस्य सर्वथा' क-ख. ३. 'अन्य' ग.४ कख-पुस्तकयोः 'सारभूत' इत्यारभ्य 'अत एवेयं ...'इत्यन्तः पाठो नास्ति. ५. 'ततः' क-ख. Page #215 -------------------------------------------------------------------------- ________________ २०६ काव्यमाला। दाहृतम् 'अनुरागवती संध्या' इत्येवमादि । तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणभावः । यथोदाहृतम्—'संकेतकालमनसं' इत्यादि । रसादिरूपव्यङ्गयस्य गुणीभावे रसवदलंकारो दर्शितः । तंत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवाहप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्ग्यालंकारस्य गुणीभावे दीपकादिर्विषयः । तथा प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः। ये च तेषु प्रकारोऽयमेवं योज्यः सुमेधसा ॥ ३६॥ ये चैते परिमितखरूपा अपि प्रकाशमानास्तथा रमणीयाः सन्तो विवे रीकृतनदी विषयेयमुक्तिरीति सहृदयाः । तत्रापि चोक्तप्रकारेणैव योजना। यदि वा नदीसंनिधौ नानावतीर्णयुवतिविषया । सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणता व्यङ्ग्यस्य । उदाहृतमिति । एतच्च प्रथमोध्योत एव निरूपितम्। अनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणात्यन्ततिरस्कृतवाच्यत्वमुक्तम् । तस्यैवेति वस्तुमात्रस्य । रसादीति । आदिशब्देन भावादयः रसवच्छब्देन प्रेयखिप्रभृतयोऽलंकारा उपलक्षिताः । नन्वत्यर्थं प्रधानभूतस्य रसादेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्कय प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति-तत्र चेति । रसवदाद्यलंकारविषये । एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्यालंकारात्मनोऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति-व्यङ्गयालंकारस्येति । उपमादेः । एवं प्रकारत्रयस्यापि गुणीभाव........ बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह-तथेति । प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थापेक्षकत्वत्पदानि येषु । सुखावहा इति चारुत्वहेतुः । तत्रायमेव प्रकार इति भावः । सुमेधसेति । यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः । लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता । जामाता हरिः । यः समस्तभोगापवर्गदानसततोद्यमीः । तथा गृहिणी गङ्गा । यस्याः सममिलषणीये सर्वस्मिन्वस्तुन्यनपहत उपायभावः । अमृतमृगाङ्कौ च सुतौ । अमृतमिह वारुणी । तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठथुपभोगलक्षणं मुख्यं फलमिति त्रैलोक्यसारभूतता प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमभ्येति एवं निरैलंकारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालंकारस्याप्यनेनैव १. 'रसवदलंकारविषयः प्राक्प्रदर्शितः' क-ख. २. 'तत्र च रसानामाधि' क-ख. ३. 'प्रकाशमानविततार्थ' क-ख. १. क-ख-पुस्तकयोः 'अलंकारात्मनो' इत्यारभ्य 'गुणीभाव...' इत्यन्तं पाठस्युटितः. २. 'अनुभवति' क-ख. ३. 'निरलंकारं' क-ख.. Page #216 -------------------------------------------------------------------------- ________________ ३ उड्योतः] ध्वन्यालोकः । २०५ किनां सुखावहाः काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्गयो नाम योजनीयः । यथा 'लच्छी दुहिदा जामाउओ हरी तंस घरिणिआ गङ्गा । आमिअमिअङ्का अ सुआ अहो कुडम्बं महोअहिणो ।' वाच्यालंकारवर्गोऽयं व्यङ्गयांशानुगमे सति । प्रायेणैव परां छायां बिभ्रल्लक्ष्य निरीक्ष्यते ॥ ३७॥ वाच्यालंकारवर्गोऽयं व्यङ्गयांशस्यालंकारस्य वस्तुमात्रस्य यथायोगमनुगमे सति च्छायातिशयं बिभ्रल्लक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि दीपकसमासोक्त्यादिवदन्येऽप्यलंकाराः प्रायेण व्यङ्ग्यालंकारवस्त्वन्तरसंस्पशिनो दृश्यन्ते । यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालंकारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कामपि काव्यच्छविं पुष्यतीति कथं ह्यतिशययोगिता खविषयौचित्येन क्रियमाणा सती काव्ये नोकर्षमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम् च रम्यत्वमिति दर्शयति-वाच्येति । अंशत्वं गुणत्वमत्र । एकदेशेनेति । एकदेशविवर्तिरूपकमनेन दर्शितम् । एकदेशविवर्तिरूपके 'राजहंसैरवीज्यन्त शरदीव सरोनृपाः' इत्यत्र हंसानां यच्चारुत्वं प्रतीयमानं.........."प्राप्तमलंकारैर्यावदेव दर्शितं...... तावदमुना द्वारेण सूचितोऽयं प्रकार इत्यर्थः । अन्ये त्वेकदेशेन वाच्यविभागवैचिव्यमात्रेणात्यनुद्भिन्नमेव व्याचचक्षिरे । व्यङ्ग्यं च यदलंकारान्तरं च वस्त्वन्तरं च तत्स्पृशत एवात्मनः संस्काराय श्लिष्यन्तीति ते तथा । महाकविभिरिति कालि. दासादिमिः । काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाह-कथं हीति । हिशब्दो हेतौ । अतिशययोगिता कथं नोत्कर्षमावहेत् । काव्ये नास्त्येवासौ प्रकार इत्यर्थः । खविषये यदौचित्यं तेन चेद्धदयस्थितेन तामतिशयोक्तिं कविः करोति । यथा भद्देन्दुराजस्य–'यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् । दूर्वाकाण्डबिडम्बकश्च निबिडो यत्पाण्डिमा १. 'पूआ' क-ख. २. 'व्यङ्गयस्यांशस्यालंकारस्य वा यथायोग' ग. ३. 'व्यङ्ग्यालंकारान्तरसंस्पर्शि' क-ख. १. 'गुणमात्रम्' ग. २. क-ख-पुस्तकयोः 'यच्चारुत्वं' इत्यारभ्य 'दर्शितं......" इत्यन्तः पाठो नास्ति. ३. 'स्पृशन्ति खात्मनः' क-ख. ४ 'योग्यता' ग. ५. 'केनचित्' क-ख. ६. 'दून' क-ख. Page #217 -------------------------------------------------------------------------- ________________ २०८ काव्यमाला। • 'सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते । ___ यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ॥ इति । तत्रातिशयोक्तिर्यमलंकारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य त्वलंकारमात्रतैवेति सर्वालंकारशरीरखीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालंकाररूपेत्ययमेवार्थोऽवगन्तव्यः । तस्याश्चालंकारान्तरसंकीर्णत्वं कदाचिद्वाच्यत्वेन कदाचियङ्गयत्वेन । व्यङ्गयत्वमपि कदाचित्रागण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥' अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः संभाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति । अनौचित्येन तु शोभा लीयत एव । यथा—'अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ इति । नन्वतिशयोक्तिः सर्वालंकारेषु व्यङ्ग्यतयान्तीनैवास्त इति यदुक्तं तत्कथम् । यतो भामहोतिशयोक्तिं सर्वालंकारसामान्यरूपामवादीत् । न च सामान्यं शब्दविशेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्ग्यवमित्याशङ्कयाह-भामहेनेति । भामहेन यदुक्तं तत्राप्ययमेवार्थोऽवगन्तव्य इति दूरेण संबन्धः । किं तदुक्तम्-सैषेति । यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलंकारप्रकारः सर्वः । 'वक्राभिधेयशब्दोक्तिरिष्टा वाचामलंकृतिः' इति वचनात् । शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलंकारस्यालंकारान्तरभावः । लोकोत्तरेण चैवातिशयः । तेनाक्तिशयोक्तिः सर्वालंकारसामान्यम् । तथा ह्यनयातिशयोक्त्यार्थः सकलजनोपभोगपुराणीकृतोऽपि विचित्रतया भाव्यते । तथा प्रमदोद्यानादिर्विभावतां नीयते विशेषेण च भाव्यते रसमयीक्रियत इति । (तावतैवोक्तं कोऽसावित्याह-अभेदोपचारात्सैवालंकाररूपेति ।) उपचारे प्रयोजनमाह-अतिशयोक्तिरित्यादिना अलंकारमात्रतैवेत्यन्तेन। मुख्यार्थबाधोऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना।अयं भावः–यदि तावदतिशयोक्तेः सर्वालंकारेषु सामान्यरूप ता सा तर्हि तादात्म्यपर्यवसायिनीति तद्व्यतिरिक्तो नैवालंकारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् । अलंकारमात्रं च न किंचिदृश्यते । अथ सा काव्यजीवितत्वेन तु विवक्षिता । तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् । औचित्यवती जीवितमिति चेत् औचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किंचिदस्तीति तदेवान्त सि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु सा । एतेन यदाहुः केचित् , औचित्यघटितसुन्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेन कल्पितेनेति स्ववचनमेवध्वनिसद्भावाभ्युपगमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः । तस्मान्मुख्यार्थबाधादुपचारे च निमित्तप्रयोजनसद्भावादभेदोप १. 'सैवालंकार' क-ख. १. 'दृष्टे'क-ख.२. सामान्यशब्दात्'क-ख.३. कोऽसावर्थः'क-ख.४. अन्तयामि'ग. Page #218 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः] ध्वन्यालोकः। २०९ धान्येन कदाचिद्गुणभावेन । तत्राद्ये पक्षे वाच्यालंकारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्गयरूपता । अयं च प्रकारोऽन्येषामप्यलंकाराणामस्ति तेषां न सर्वविषयः । अतिशयोक्तेस्तु सर्वालंकारविषयोऽपि संभवतीत्ययं विशेषः । येषु चालंकारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगितानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्गयस्यैव विषयः । समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादेव । तत्र च गुणीभूतव्यङ्गतायामलंकाराणां केषांचिदलंकारविशेषगभेतायां नियमः । यथा व्याजस्तुतेः प्रेयोलंकारगर्भत्वे । केषांचिदलंकारमात्रगर्भतायां नियमः । यथा संदेहादीनामुपमागर्भत्वे । केषांचिदलंकाराणां परस्परगर्भतापि संभवति । यथा दीपकोपमयोः । तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् । उपमापि केदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हि 'प्रभामहत्या शिखयेव दीपः' इत्यादौ स्फुटैव दीपकच्छाया चार एवायम् । ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति यदुक्तमैलंकाराणां खीकरणं तदेव त्रिधा विभजते-तस्याश्चेति । वाच्यत्वेनेति । सापि वाच्या भवति । यथा'अपरैव हि केयमत्र' इति । अत्र रूपकेऽप्यतिशयशब्दस्पर्श एव । अस्य त्रैविध्यस्य विषयविभागमाह-तत्रेति । तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् । नन्वतिशयोक्तिरेव चेदेवंभूता तत्किमपेक्षया प्रथमं तावदतिक्रमः सूचित इत्याशङ्कयाह-अयं चेति । योऽतिशयोक्तौ निरूपितोऽलंकारान्तरेऽप्यनुप्रवेशात्मकः । नन्वेवमपि प्रथममिति केनातिशयेनोक्तमित्याशङ्कयाह तेषामिति । एवमलंकारेषु तावद्यङ्ग्यस्पर्शीऽस्तीत्युक्खा तत्र किं व्यङ्ग्यत्वेन भातीति विभाग व्युत्पादयति-येषु चेति । रूपकादीनां पूर्वमेवोकं स्वरूपं निदर्शनायास्तु क्रिययैव तदर्थस्य विशिष्टस्योपदर्शनं इष्टा निदशनेति । उदाहरणम्:-'अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥' प्रेयोलंकारेति । चाटुपर्यवसायिखात्तस्याः । सा चोदाहृतैव द्वितीयोड्योतेऽस्माभिः । उपमागर्भल इत्युपमाशब्देन सर्व एव तद्विशेषा रूपकादयः । अथ चौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव । स्फुटैवेति । 'तया स पूतश्च १. 'स्थापनात्' क-ख. २. 'काचित्' ग. ३. 'इत्यादौ विषये' ग. १. 'अलंकारान्तर' क-ख. २. 'स्पृश' ख; 'स्पृहा' ग. ३. 'अतिशयोक्तेः' ग. १९ ध्व. लो. Page #219 -------------------------------------------------------------------------- ________________ २१० काव्यमाला। लक्ष्यते तदेवं व्यङ्गयांशसंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽलंकाराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः । गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् । तल्लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य रूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनैव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् । आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालंकाराः । गुणीभूतव्यङ्गयस्य च प्रकारान्तरेणापि व्यङ्गयार्थानुगमलक्षणेन विषयत्वमस्त्येव । तदयं ध्वनि निभूषितश्च' इत्येकेन दीपस्थानेन दीपनाद्दीपकमत्रानुप्रविष्टम् । प्रदीपसमानतया साधारणधर्माभिधानं ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव । तथाजातीयानामिति । चारुखातिशयवतामित्यर्थः । सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्येऽभ्यर्थनीयम् । उपमा हि 'यथा गौस्तथा गवयः' इति । 'गौर्वाहीकः' इति । श्लेषः द्विर्वचने तन्त्रात्मकः। यथासंख्यं सूचीमालान्तरेति (?)। दीपकं 'गामश्वम्' इति । संदेहः 'स्थाणुर्वा स्यात्' इति । अपहृतिः 'नेदं रजतम्' इति । पर्यायोक्तं 'पीनो दिवा नात्ति' इति । तुल्ययोगिता 'स्थाध्वोरिच्च' इति । अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि । यथा पदसंज्ञायामन्तवेचनम् । 'अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न' इति । आक्षेपश्च उभयत्रविभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्व निषेधनात्प्रतिषेधेन समीकृत इति न्यायात् । अतिशयोक्तिः 'समुद्रः कुण्डिका' 'विन्ध्यो वर्धितवानर्कवागृह्णात्' इति । एवमन्यत् । न चैवमादि काव्योपयोगीति । गुणीभूतव्यङ्ग्यतैवात्रालंकारतायां मर्मभूतालक्षितात्सुष्टु लक्षयति । तथा सुपूर्ण कृत्वा लक्षिताः संगृहीता भवन्ति । अन्यथा ववश्यमव्याप्तिर्भवेत् । तदाह-एकैकस्येति । न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपवं चारुताहीनानामुपपद्यते । चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यवसामान्यलक्षणम् । व्यङ्ग्यस्य च चारुवं रसाभिव्यक्तियोग्यतात्मकम् , रसस्य स्वात्मनैव विश्रान्तिधाम्नसदात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् । अनन्ता हीति । प्रथमोध्योत एव व्याख्यातमेतत् 'वाग्विकल्पानामानंन्त्यात्' इत्यत्रान्तरे । ननु सर्वेष्वलंकारेषु नालंकारान्तरं व्यङ्ग्यं चकास्ति । तत्कथं गुंणीभूतव्यङ्गयेन लक्षितेन सर्वेषां संग्रहः । मैर्वम् । वस्तुमात्रं वा रसो वा व्यङ्गयं यद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतेति । गुणीभू. तव्यङ्ग्यस्य चेति । प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य । यदि वेत्थमवतरणिका-ननु गुणीभूतव्यङ्ग्येनालंकारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्त. १. 'उपलक्ष्यते' क-ख. २. 'रूपकाद्यलंकाराः' ग. ३. 'उक्तानां' ख; 'उक्कानुयुक्तानां ग. १. 'प्रदीयमानतया' ग. २. 'पदम्' क-ख. ३. 'व्यङ्ग्यवं च' क-ख. ४. 'चैव' क-ख. ५. 'सह' ग. Page #220 -------------------------------------------------------------------------- ________________ ३ उच्योतः ] ध्वन्यालोकः । २११ निष्पन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिर्भावेनीयम् । मुख्या महाकवि गिरा मैलं कृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ ३८ ॥ अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते । तद्यथा'विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविलासाः । अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते संततं भावनीयाः ॥ इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानमक्लिष्टमनन्तमर्पयता का छाया नोपपादिता । · मित्याशङ्कयाह – गुणीभूतेति । विषेयत्वमिति यावत् । तेन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्येनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः । व्यक्त्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षणं क्रियतामिति तात्पर्यम् । एवं 'काव्यस्यात्मा ध्वनिः' इति निर्वैह्योपसंहरति — तदय मित्यादिना सौभाग्यमित्यन्तेन । यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुं तदिदमिति । मुख्या भूषेत्यलंकृतिभृताम् । अपिशब्दादलंकारशून्यानामपीत्यर्थः । प्रतीयमानकृता छाया शोभा सा च लज्जासदृशी गोपनासारसौन्दर्य प्राणत्वम् । अलंकारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् । प्रतीयमानच्छाया अन्तर्मदनोद्भेदजहृदय सौन्दर्यरूपा या । लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलङ्कादर्शनात् । तथा हि कस्यापि कवेः – 'कुरङ्गीवाङ्गानि -' इत्यादिश्लोकः । तथा प्रतीयमानस्य प्रियतमाभिलाषानुनाथनप्रभृती ( ? ) छाया कान्तिः । यथा शृङ्गाररसतरङ्गिणी हि लजावरुद्धा निर्भरतया तांस्तान्विलासान्नेत्रगात्रविकार पुरःसरान्प्रसूत इति गोपनासारसौन्दर्यलजाविजृम्भितमेतदिति भावः । विस्रम्भेति । मन्मथाचार्येण त्रिभु वनवन्द्यमानशासनेन अत एव लज्जा साध्वसध्वंसिना दत्ता येयमलङ्कनीयाज्ञा तदनुष्ठानेऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन संभोगकालोपनताः मुग्धाक्ष्या इति अकृतसंभोगपरिभावनोचितदृष्टिप्रैसरचित्रैरसपवित्रिता येऽन्ये विलासा गात्रनेत्रविकारा अत एवाक्षुण्णा १. 'तद्धि' ग. २. 'भावनीयमिति' क-ख. ३. 'अलंकार' ग. ४. 'काव्यार्थ ः ' ५. ' प्रतीयमानत्वं' क-ख. क-ख. १. ‘विषयत्वमिति लक्षणीयत्वप्रकारो व्यङ्ग्येनार्थेनानुगमो नाम' क ख २. 'निर्वार्य' क; 'निर्धार्य' ख. ३. 'परम्परारूपान्' ग. ४. 'विस्रम्भ' क ख ५. 'प्रसरपवित्रिता' ६. 'चित्तरस' ख. ७. 'विहाराः ' ग. ग. Page #221 -------------------------------------------------------------------------- ________________ २१२ काव्यमाला। अर्थान्तरगतिः काका या चैषा परिदृश्यते । सा व्यङ्गयस्य गुणीभावे प्रकारमिममाश्रिता ॥ ३९ ॥ या चैषा काका कचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते । यथा-वस्था भवन्ति मयि जीवति धार्तराष्ट्राः' । यथा वा'आम असइओ ओरम पइव्वए ण तुएँ मलिणिअं सीलम् । किं उण जणस्स जाअ व्व चन्दिलं तं ण कामेमो ॥' नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते केवलेन नान्यत्र व्यग्रेणैकान्तावस्थानपूर्व सर्वेन्द्रियोपसंहारेण भावयितुं शक्या अर्दा उचिताः । यतः केनापि नान्येनोपायेन शक्यनिरूपणाः । गुणीभूतव्यङ्ग्यस्योदाहरणा(प्रकारा)न्तरमप्याह-अर्थान्तरेति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः । तत्र हि साकाङ्क्षनिराकासक्रमेण पठ्यमानोऽसौ शब्दः.............. ......लौल्यमस्याभिधीयते । यदि वा ईषदर्थे कुशब्दस्तस्य कादेशः । तेन हृदयस्य वस्तुप्रतीतेरीषद्भूमिः काकुः । तया तत्रार्थान्तरगतिः स काव्यविशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः । अत्र हेतुर्व्यङ्ग्यस्य तत्र गुणीभाव एव भवति । अर्थान्तरगतिशब्देनात्र काव्यमेवोच्यते । ततःप्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यं प्रतीतिद्वारेण वा काव्यस्य निरूपितम्। अन्ये लाहुः-व्यङ्ग्यस्य गुणीभावेऽयं प्रकार अन्यथा तु तत्रापि ध्वनित्वमेवेति तच्चासत् । काकुप्रयोग एव शब्दस्य स्पष्टत्वेन व्यङ्ग्यस्योन्मीलितस्यापि गुणीभावात् । काकुर्हि शब्दस्यैव कश्चिद्धर्मस्तेन स्पष्टं 'गोप्यैवं गदितः सलेशं' इति, 'हसन्नेत्रार्पिताकूतं' इतिवच्छब्देनैवानुगृहीतम् । अत एव 'भम धम्मिअ' इत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव । व्यक्तोक्तत्वेन तदाभिमानाल्लोकस्य । खस्था इति, भवन्ति इति, मयि जीवति इति धार्तराष्ट्रा इति साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता काकुर्न संभाव्योऽयमर्थोऽत्यर्थमनुचितश्चेत्य, व्यङ्ग्यमर्थ स्पृशन्ती तेनैवोपकृता सती क्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैव धत्ते । (आमेति । 'भवामोऽसत्य उपरम पतिव्रते न त्वया मलिनितं शीलम् । किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ॥' इति च्छाया।) आम असइओ इत्यभ्युपगमकाकुः साकाटोपहासा । उपरमेति निराकाङ्क्षतया सूचनगर्भ । परिग्रहेति ( पतिव्रते इति) दीप्ता सितयोगिनी(१) । त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा । किं पुनर्जनस्य जायेव मन्मथान्धीकृता चन्दिलं नापितमेव पामरप्रकृतिं न कामयामहे इति निराकासगद्गदोपहासगर्भा । एषा हि कयाचिन्नायिकानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति । गुणीभावं दर्शयितुं शब्दस्य स्पष्टतां तावत् १. 'गुणीभावव्यङ्ग्यलक्षणमिमं' क-ख. ___१. 'निराकाङ्क्षादि' क-ख. २. 'आश्रित्य' ग. ३. 'ननु' ग. ४. 'काव्यं ग. ५. 'व्यनयोक्तत्वेन' क.ख. ६. 'असंभाव्य' ग. ७. 'गर्वा' ग. ८. 'निर्गद्गदोपहास' ग. Page #222 -------------------------------------------------------------------------- ________________ ३ उझ्योतः] ध्वन्यालोकः । २१३ शब्दशक्तिरेव हि खाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम् । विषयान्तरे खेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसंभवात् । स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढोऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव । वाचकत्वानुगमेनैव तु यदा तद्विशिष्टा वाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः । व्यङ्गयस्य विशिष्टवाच्याभिधायिनो हि गुणीभूतव्यङ्गयत्वम् । प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ ४०॥ संकीर्णो हि कश्चिद्धनेर्गुणीभूतव्यङ्गयस्य च लक्ष्ये दृश्यते मार्गः । तंत्र यद्यस्य युक्तिसहायता तंत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यम् । यथा'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।' साधयति-शब्दशक्तिरिति । नन्वेवं व्यङ्ग्यवं कथमित्याशझ्याह-स चेति । अधुना गुणीभावं दर्शयति-वाचकत्वेति । वाचकवेऽनुगमो गुणवं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या । तत्रैव काव्यस्य प्रकाशकलं कल्प्यते । तेन च तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव । अत एव 'मन्नामि कौरवशतं समरे न कोपात्' इत्यादौ विपरीतलक्षणामाहुस्ते न सम्यक्परामर्शाः । यन्नात्रोच्चारणकाल एव 'न कोपात्' इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसंधिमार्गक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविघ्नाभावात्को लक्षणाया अवकाशः । 'दर्श यजेत' इत्यत्र तु तथाविधकाक्काद्युपायान्तराभावाद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना । अधुना संकीर्ण विषयं विभजतेप्रमेदस्येति । युक्त्येति । चारुवप्रतीतिरेवात्र युक्तिः । पत्युरित्यनेनालक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभोऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवृत्ति(वर्ति)न्या भाव्यमिति चोपदेशः । शिरोविधृता च या चन्द्रकला . तामपि परिभवेति सपनीलोकापजय उक्तः । निर्वचनमिति । अनेन लज्जावहित्थभूरीासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रति १. 'कृतकाकु' ग. २. 'व्यापारोऽप्यर्थरूढो' क-ख. ३. 'सामर्थ्याल्लभ्यते' ग. ४. 'वाच्यार्थ' क-ख. ५. 'क्वचित्' ग. ६. 'तत्र'ग-पुस्तके नास्ति. ७. 'तदनेन' क-ख. Page #223 -------------------------------------------------------------------------- ________________ २१४ काव्यमाला। यथा च । - 'प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता।। न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥' इत्यत्र 'निर्वचनं जघान' 'न किंचिदूचे' इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्गयोऽर्थस्तात्पर्येण प्रेतीयते तदा तस्य प्राधान्यम् । यथा 'एवंवादिनि देवर्षों' इत्यादौ । इह पुनरुक्तिभझ्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः । प्रकारोऽयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपोलोचनया पुनः ॥४१॥ गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावादितात्पर्यपंर्यालोचनेन पुनर्वनिरेव संपद्यते । यथात्रैवानन्तरोदाहृते श्लोकद्वये । यथा च । 'दुराराधा राधा सुभग यदनेनापि मृजत स्तवैतत्प्राणेशाजघनवसनेनाश्रु पतितम् । पत्तिलक्षणस्यार्थस्योपस्कारतां केवलमाचरति । उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति । प्रयच्छतेति । उच्चैर्यानि कुसुमानि । कान्तया वयं ग्रहीतुमशक्यत्वायाचितानीत्यर्थः । अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाण गृहाणेत्युच्चैस्तारखरेणादरातिशयार्थ प्रयच्छता । अत एव लम्भितेति । न किंचिदिति । एवंविधेषु शृङ्गारादरावसरेषु तामेवायं स्मरतीति मानप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्गयो वचननिषेधस्यैव वाच्यस्य संस्कारः । तद्वक्ष्यति-उक्तिभङ्यास्तीति । तस्येति व्यङ्ग्यस्य । इहेति पत्युरित्यादौ । वाच्यस्यापीति । अपिशब्दो भिन्नक्रमः। प्राधान्यमपि भवति वाच्यस्य रसाद्यपेक्षया तु गुणतापीत्यर्थः । अत एवोपसंहारे ध्वनिशब्दस्य विशेषणमुक्तम् । एतदेव निर्वाहयन्काव्यात्मलं ध्वनेरेव परिदीपयति-प्रकार इति । श्लोकद्वय इति तुल्यच्छायं यदुदाहृतं पत्युरित्यादि तत्रेति । द्वयशब्दादेवंवादिनीत्यस्यानवकाशः । दुराराधेति । अकालकुपितापि पादपतिते मयि न प्रसीदसि अहो दुराराधासि मारोदीरित्युक्तिपूर्व प्रियतमेऽभूणि मार्जयति इयमस्या अभ्युपगमगर्भोक्तिः । १. 'तथा' क-ख. २. 'न किंचित्' ग. ३. 'गुणभाव' ग. ४. 'तस्माद्यत्रोक्तिं विना' क-ख. ५. 'प्रकाशते तत्र' क-ख. ६. 'भ्रमः' क-ख. ७. 'रसभावतात्पर्य' क-ख. ८. 'पर्यालोचने स पुनः' क-ख. ९. 'पुनरेव धनिः' ग. १०. 'यथा तत्रैवोदाहृते' ग. ११. 'सृजतः' क-ख. . १. 'ईदृशस्य' क-ख. Page #224 -------------------------------------------------------------------------- ________________ ३ उझ्योतः] ध्वन्यालोकः। २१५ कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम है क्रियाकल्याणं वो हरिरनुनयेष्वेवमुदितः । । ... एवं स्थिते च 'न्यक्कारो ह्ययमेव' इत्यादिश्लोके निर्दिष्टानां पदानां व्यगयविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् । न तेषां पदानामान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः । विवक्षितवाच्यत्वात्तेषाम् । तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् । तस्माद्वाक्यं तत्र ध्वनिः पदानि तु गुणीभूतव्यङ्गयानि । न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि । यथात्रैव श्लोके रावण इत्यस्य ध्वनिप्रभेदान्तररूपस्य व्यञ्जकत्वम् । यत्र तु वाक्ये रसादितात्पर्य नास्ति गुणीभूतव्यङ्गयैः पदैरुद्भासितेऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः। यथा भगेति । प्रियया यः संभोगभूषणविहीनः क्षणमपि मोक्तुं न पार्यसे । अनेनापीति । 'पश्येदं प्रत्यक्षेणेत्यर्थः । तव च यदेवमादृतं लेजादित्यागेनाप्येवं धार्यते । मृजत इति । भनेन हि प्रत्युत स्रोतःसहस्रवाही. बाष्पो भवति । यच्च त्वं हतचेतनो यन्मां विस्मृत्य तामेव कुपितां मन्यसे । अन्यथा कथमेवं कुर्याः । पतितमिति । गत इदानीं रोदनावकाशोऽपीत्यर्थः । यदि तूच्यते इयताप्यादरेण (किमिति) कोपं न मुञ्चसि तत्किं क्रियते कठोरखभावं स्त्रीचेतः । स्त्रीति प्रेमाद्ययोगादस्तु विशेषमात्रमेतत्तु तस्य चैष. खभावः। आत्मनि चैतत्सुकुमारहृदया योषित इति । न किंचिद्वज्रसाराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारेऽपि सहस्रधा न दलति । उपचारैरिति दाक्षिण्यप्रयुक्तैः । अनुनयेष्विति । बहुवचनेन वारंवारमस्य बहुवल्लभस्येयं स्थितिरिति सौभाग्यातिशय उक्तः । 'एवमेष व्यङ्ग्यार्थसारो वाच्यं भूषयति । तत्तु वाच्यं भूषितं सदाविप्रलम्भाङ्गखमेतीति । यत्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म स देवं विक्रीय तद्यात्रोत्सवमकार्षीत् । एवं हि व्यङ्गयस्य या गुणीभूतता प्रकृता सैव समूलं त्रुव्येत् । रसादिव्यतिरिक्तस्य हि व्यङ्ग्यस्य रसाङ्गभावयोगित्वमेव प्राधान्यं नान्यत्किंचिदित्यलं पूर्ववंश्यैः सह विवादेन । एवं स्थित इति । अनन्तरोकेन प्रकारेण ध्वनिगुणीभूतव्यङ्ग्ययोर्विभागे स्थिते सतीत्यर्थः । कारिकागतमपिशब्दं व्याख्यातुमाह-न चेति । एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते । यत्र त्विति । यद्यपि चात्र विषये निर्वे १. 'न त्वेषां पदार्थानां' क-ख. २. 'न च केवलपदान्यलक्ष्य' ग. ३. 'अपि तु' ग. १. 'प्रियायाः' क-ख. २. 'यल्लज्जादित्यागे गोप्यैवं धार्यते' ग. ३. 'कुर्यात्' ग. ४. 'भागित्वं' क-ख. . Page #225 -------------------------------------------------------------------------- ________________ २१६ काव्यमाला। राजानमपि सेवन्ते विषमप्युपभुञ्जते । रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥' इत्यादौ वाच्यव्यङ्गययोश्च प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः येन ध्वनिगुणीभूतव्यङ्ग्ययोरलंकाराणां चासंकीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालंकारविषय एव व्यामोहः प्रवर्तते । तथा हि । 'लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः खच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि खयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्त, तन्वता ॥' दात्मकशान्तरसप्रतीतिरस्ति तथापि चमत्कारोऽयं वाच्यनिष्ठ एव । व्यङ्ग्यत्वसंभाव्यवविपरीतकारितादि तस्यैवानुयायिनश्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन च स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पष्टमेव गुणीभूतम् । विवेकदर्शना चेयं न निरुपयोगेति दर्शयति-वाच्यव्यङ्ग्ययोश्चेति । अलंकाराणां चेति । यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् । अन्यथा त्विति । यदि प्रयत्नवता न भूयत इत्यर्थः । व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानमित्येवकाराभिप्रायः । द्रविणशब्देन सर्वखप्रायलमनेकवकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि योग्यो यः संपद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् । अनन्तकालनिर्माणकारिणोऽपि तु विधिर्न विवेकलेशोऽप्युदभूदिति परमस्य प्रेक्षावत्त्वम् । अत एवाह-क्लेशो महानिति । स्वच्छन्दस्येति । विशृङ्खलस्येत्यर्थः । एषापीति । यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तम् । कोऽर्थ इति । न खात्मनो न लोकस्य निर्मितस्येत्यर्थः । तस्येति रागिणः । वराकी हतेतिकृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणाभावादिति खात्मन्यत्यन्तमनुचितम् । आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रायत्वं स्यात् । ननु च रागिणोऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वा निर्जातजातिविशेषे शकुन्तलादौ किमियं खसौभाग्याभिमानगर्भा उत स्तुतिगर्भोक्तिर्न भवति । वीतरागस्य वा अनादिकालाभ्यस्तरागवासनावासित- १. 'हन्त' ग. २. 'महान्वीकृतः' क-ख. ३. 'खच्छन्दस्य सखीजनस्य वसतश्चिन्तानलो दीपितः' क-ख. ४. 'स्वगुणानुरूपरमणाभावात्' ग. १. 'संभावित्व' क-ख. २. 'उत्प्रेक्षावत्त्वम्' क ख. ३. 'गर्भा चोक्तिर्न' क-ख.. Page #226 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] ध्वन्यालोकः । २१७ इत्यत्र व्याजस्तुतिरलंकार इति व्याख्यायि केनचित्तन्न चतुरस्रम् । यतोऽस्याभिधेयस्यैतदलंकारखरूपमात्र पर्यवसायित्वेन सुश्लिष्टता । यतो न तावदयं रागिणः कस्यचिद्विकल्पः । तस्य 'एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता' इत्येवंविधोक्त्यनुपपत्तेः । नापि नीरागस्य । तस्यैवंविधवि - 1 कल्पपरिहारैकव्यापारत्वात् । न चायं श्लोकः कचित्प्रबन्ध इति श्रूयते येन तत्प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्मादप्रस्तुतप्रशंसेयम् । यस्मा - दनेन वाच्येन गुणीभूतात्मना निःसामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनित संमत्सर जनज्वरस्य विशेषज्ञमात्मनो न कंचिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । तथा चायं धर्मकीर्ते श्लोक इति प्रसिद्धिः । संभाव्यते च तस्यैव । यस्मात् 'अनध्यवसितावगाहनमनल्पधीशक्तिना प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि । मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव खदेहे जराम् ॥' इत्यनेनापि श्लोकेनैवंविधोऽभिप्रायः प्रकाशित एव । अप्रस्तुतप्रशंसायां तया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः संभाव्या । नहि वीतरागो विपर्यस्तान्भावान्पश्यति । नह्यस्य वीणाक्कणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते । अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः संभवन्नेवार्थो वक्तव्यः । नहि तेजसीत्थमप्रस्तुतप्रशंसा संभवति - अहो धिक् कार्ण्यमिति । सा परं प्रस्तुतपरतयेति नात्रासंभव इत्याशङ्कयाह-न चेति । निःसामान्येति निजमहिमेति विशेषज्ञ I परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् । नन्वत्रापि किं प्रमाणमित्याशङ्क्याह - तथा चेति । ननु किमियतेत्याशङ्क्य तदाशयेन निर्वादतदीयश्लोकार्पितेनास्याशयं संवादयति - संभाव्यत इति । अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य संपादनम् । परमं यदर्थतत्त्वं कौस्तुभादि वा उत्तमं लब्धं यत्र । परीक्षितमपि न प्राप्तं सदृशं तथाभूतपरिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् । एवंविध इति । परिदेवित विषय १. ' इत्ययं श्लोको व्याजस्तुत्यलंकार - तन्न चैतत् चतुरस्रम्' ग. २. समस्तसमत्स - रज्वरस्य' क - ख. १. 'विवेकान्ध्य मिति' ग. २. ' तस्यासंभावनम्' ग. Page #227 -------------------------------------------------------------------------- ________________ २१८ काव्यमाला । च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया । तत्र विवक्षितत्वं यथा परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो - यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । . न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' यथा वा ममैव . 'अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता __भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके लोके कथमिदमहो चक्षुरधुना ___ समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥' अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितखरूपे एव न तु प्रस्तुते । महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्खरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा इत्यर्थः । इति चार्थे । अप्रस्तुतप्रशंसोपमालक्षणमलंकारद्वयम् । अनन्तरं तु वात्मनि विस्मयधामतया ते विश्रान्तिः । परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । उत्प्रेक्षापूर्वकारित्वमात्मन्यावेदितं चेकि ततः स्वार्थपरार्थसंभवादिसलं बहुना। ननु यथास्थितस्यार्थस्य संगतौ भवत्व प्रस्तुतप्रशंसा इह तु संगतिरस्त्येवेत्याशक्षा संगतावपि भवत्येवैषेति दर्शयितुमुपक्रमते-अप्रस्तुतेति । नन्विति । यैरिदं जगद्भूषितमित्यर्थः । यस्य चक्षुषोर्विषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति संबन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि वरं स्पर्शादानादावप्युपयोगी । अवयवैरिति । अतितुच्छप्रायैरित्यर्थः । अप्राप्तः पर उत्कृष्टो भौगोऽर्थलाभात्मकः खरूपप्रथनलक्षणो वा येन । तस्य कथयामीत्यादिप्रैत्युक्तिः । अनेन पदेनेद माह-अंकथनीयमेतत् । श्रूयमाणं हि निर्वेदाय भवति। तथापि तु यदि निर्बन्धस्तत्कथयामि १. 'मधुर इत्यादि' ग-पुस्तके एतावदेवास्ति न तु संपूर्ण पद्यम्. २. 'देशे' क-ख. १. 'अर्थः' क-ख-पुस्तकयो स्ति. २. 'भोगो' ग. ३. 'प्रत्युक्तः' ग. ४. 'कथनीय' ग. Page #228 -------------------------------------------------------------------------- ________________ ध्वन्यालोकः । 'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥ नहि वृक्षविशेषेण सहोक्तिप्रत्युक्ती संभवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनखिनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते । ३ उद्योतः ] २१९ विवक्षितत्वाविवक्षितत्वं यथा _ 'उप्पहजाआऍ असोहिणीऍ फलकुसुमपत्तरहिआए । वे व देतो पामर हो ओहसिज्जिहसि ॥' अत्र हि वाच्यार्थो नात्यन्तं संभवी । तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये । वैराग्यादिति । काक्वा दैवहतकमित्यादिना सूचितं ते' वैराग्यमिति यावत् । साधुवि`दितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादि सनिर्वेदस्मरणोपक्रमं कथंकथमपि निरूपणीयतेयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति । च्छायामात्रकरणादेव फलदानादिशून्यादुडुरकंधर इत्यर्थः । छायापीति । शाखोटको हि स्मशानाग्निज्वालाली ढलतापल्लवादिस्तरुविशेषः । अत्राविवक्षायां हेतुमाह -नहीति । समृद्धो योऽसत्पुरुषः । 'समृद्धसत्पुरुष' इति पाठे समृद्धेन ऋद्धिमात्रेण सत्पुरुषो न तु गुणादिनेति व्याख्येयम् । नात्यन्तमिति । वाच्य एव नियमो नास्तीति न शक्यं वक्तुम् । व्यङ्ग्यस्यापि भावादिति तात्पर्यम् । उत्पथजाताया इति न तथाकुलोद्भू-तायाः । अशोभनाया इति लावण्यरहितायाः । फलकुसुमपत्ररहिताया इत्येवंभूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया संबन्धिवर्गपोषका वा परिरक्ष्यते । बदर्यां वृतिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः । एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुपसंहरवि - तस्मादिति । अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माद्यामोहो लोकस्य दृष्टस्ततो हेतोरित्यर्थः । एवं व्यद्न्यखरूपं निरूप्य सर्वथा १. 'श्रूयताम्' ग. २. 'करणे' क-ख. ३. 'वासिनो' क ख ४ . ' उत्पथजाताया अशोभनायाः फलकुसुमपत्ररहितायाः । बदर्या वृतिं ददत्पामर भो अवहसिष्यसे ॥' इति च्छाया. १. 'वेन' ग. २. 'तयोक्तम्' ग. ३. 'प्रशंसाप्रकारं ' क-ख. ४. 'व्यङ्ग्यं स्वरूपतो निरूप्य सर्वथा तच्छून्यं यत्तन्निरूपितुमाह' क ख . Page #229 -------------------------------------------------------------------------- ________________ २२० काव्यमाला। प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते । काठ्ये उभे ततोऽन्यद्यत्तचित्रमभिधीयते ॥ ४२ ॥ चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् । तत्र किंचिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥ ४३ ॥ - व्यङ्गयस्यार्थस्य प्राधान्ये ध्वनिसंजितकाव्यप्रकारः गुणभावे तु गुणीभूतव्यङ्ग्यता । ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्गयार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् । न तन्मुख्यं काव्यम् । काव्यानुकारो ह्यसौ । तत्र किंचिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं ततः शब्दचित्रादन्यव्यङ्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि । अथ किमिदं चित्रं नाम यत्र न प्रतीयमानार्थसंस्पर्शः । प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः । तत्र यत्र वस्त्वलंकारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न संभवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य चाङ्गत्वं प्रतिपद्यते । विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः न च तदस्ति वस्तु किंचिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा कविविषयतैव तस्य न स्यात् । कविविषयश्च चित्रतया कश्चिन्निरूप्यते । अत्रोच्यते-सत्यम् न ताहकाव्य यत्तच्छ्न्यं तत्र का वार्तेति निरूपयितुमाह-प्रधानेत्यादिना । कारिकाद्वयेन । शब्दचित्रमिति । यमकचक्रबन्धादिचित्रतया प्रसिद्धमेव । तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः । आलेख्यप्रख्यमिति । रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः । अथ किमिदमिति । आक्षेपे वक्ष्यमाण आशयः । अत्रोत्तरम्-यत्रेति । आक्षिप्तस्याभिप्रायं दर्शयति-प्रतीयमान इति । अवस्तुसंस्पर्शितेति । कचटतपादिवनिरर्थकलं दशदाडिमादिवदसंबद्धार्थवं वेत्यर्थः । ननु मा भूत्कविविषय इत्याशझ्याहकविविषयश्चेति । काव्यरूपतया यद्यपि न निर्दिष्टेस्तथापि कविगोचरीकृत एवासौ - १. 'तु' ग. २. 'आलेख्यमिव' ग. ३. 'तावत्काव्यस्य' ग. ४. 'नापाद्यते' क-ख. ५. 'वाङ्गलं' ग. ६. 'अतो विभावलेन' क-ख. ७. 'तदुपादाने च' ग. ८. 'काव्यवाप्रकारः' क-ख. १. 'चेत्यर्थः' क-ख. २. 'व्यपदिष्टः' क-ख.. Page #230 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः] ध्वन्यालोकः । २२१ प्रकारोऽस्ति यत्र रसादीनामविप्रतिपत्तिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालंकारमर्थालंकारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यसामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला भवतीत्यनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते । तदिदमुक्तम् 'रसभावादिविषयविवक्षाविरहे सति । अलंकारनिबन्धो यः स चित्रविषयो मतः ॥ रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा। तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः ॥' ऐतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् । इदानींतनानां तु न्याय्ये काव्यनयव्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः । यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव न शोभते । रसादितात्पर्ये वक्तव्यः । अन्यस्य वो खकेलिवृत्तान्ततुल्यस्येहाभिधानायोगात् कविश्चेद्गोचरीकरोति नूनममुना प्रीतिर्जनयितव्या । सा चावश्यं विभावानुभावव्यभिचारिपर्यवसायिनीति भावः । किं त्विति । 'विवक्षा तत्परत्वेन नाङ्गिदेन कथंचन' इत्यादिर्योऽलंकारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः । रसादिशून्यतेति । नैव यत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचिते मांस्पाकविशेषे । ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथा स्वादोऽकुशलकृतायामपि शिखरिण्यामिवेत्याशझ्याह-वाच्येत्यादि । अनेनापीति । पूर्वे सर्वथा तच्छून्यत्वमधुना तु दौर्बल्यमित्यपिशब्दस्यार्थः । अज्ञकृतायां च शिखरिण्यामहो शिखरिणीति न तज्ज्ञानां चमत्कारः । अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति । उक्तमिति । मयैवेत्यर्थः । अलंकाराणां शब्दार्थोभयरूपाणां निबन्ध इत्यर्थः । ननु ‘तचित्रमभिधीयते' इति किमनेनोपदिष्टेन । अकाव्यरूपं हि तदिति कथितम् । हेयतया तदुद्दिश्यत इति चेत् , घटे कृते कविन भवतीत्येतदपि वक्तव्यमित्याशय कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतनिरूपयतिएवञ्चेत्यादिना । परिपाकवतामिति । शब्दार्थविषयो रसौचित्यलक्षणः परिपाको १. 'सामर्थ्येन कवि' ग. २. 'रसभावप्रतीतिः' क-ख. ३. 'यत्तु' ग. ४. 'यतश्च' क-ख. ५. 'विशृङ्खलं नितरां' ग. ६. 'अनवेक्ष्यैव.' ग. १. 'वासुकिवृत्तान्तस्येह' ग. २. 'भवति तथाखादोऽत्र' ग. २. ध्व० ला. Page #231 -------------------------------------------------------------------------- ________________ २२२ काव्यमाला। चं नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवति । अचे. तना अपि हि भावा यथायथमुचितरसभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् । तथा चेदमुच्यते 'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥ भावानचेतनानपि चेतनवचेतनानचेतनवत् । व्यवहारयति यथेष्टं सुकविः काव्ये खतत्रतया ॥' तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । सर्वमेतच महाकवीनां काव्येषु दृश्यते । अस्माभिरपि खेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव । स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति । रेसाद्यपेक्षया कवेर्गुणीभूतव्यङ्ग्यलक्षणोऽपि प्रकारस्तदङ्गतामवलम्बते प्राक् । यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च षइप्रज्ञादिगाथासु कासुचियङ्गयविशिष्टवाच्या प्राधान्यं त विद्यते येषाम् । 'यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्' इत्यपि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् । अपार इति । अनाद्यन्त इत्यर्थः । यथारुचि परिवृत्तिमाहशृङ्गारीति । शृङ्गारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यम् । अत एव भरतमुनिः ‘कवेरन्तर्गतं भावं' 'काव्यार्थान्भावयति' इत्या'दिषु कविशब्दमेव मूर्धाभिषिक्ततया प्रयुङ्क्ते । निरूपितं चैतद्रसखरूपनिर्णयावसरे । जगदिति । तद्रसनिमजनादित्यर्थः । शृङ्गारपदं रसोपलक्षणम् । स एवेति यदा वर्णनारसिको न भवति तदा परिदृश्यमानोऽप्ययं भाववर्गो यद्यपि सुखदुःखमोहंमाध्यस्थ्यमात्रं किं किं वितरति तथापि कविवर्णनोपकारं विना लोकातिकान्तरसावादभुवं नौधिशेत इत्यर्थः । चारुखातिशयं यन्न पुष्णाति ततो नास्त्येवेति संबन्धः । खेष्विति विषमबाणलीलादिषु । हृदयवतीष्विति । 'अअलिआ' इति प्राकृतकविगोष्ठ्यां प्रसिद्धासु । त्रिवर्गोपायो १. 'सति' क-ख. २. 'कविरेकः' ग. ३. 'द्यपेक्षायां' ग. १. 'मोहमयो व्यङ्ग्यमलौकिकं वितरति । तथापि कविवर्णनयारोहं विना' क-ख. २. 'नातिशेते' ग. Page #232 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः] ध्वन्यालोकः। २२३ दपि गुणीभूतव्यङ्गयस्य ध्वनिनिष्पन्दभूतत्वमेवेत्युक्तं प्राक् । तदेवमिदानीतनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु ध्वनिरेव प्राधान्येन काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः 'यस्मिन्रसो वा भावो वा तात्पर्येण प्रकाश्यते । संवृत्त्याभिहितं वस्तु यत्रालंकार एव वा ॥ .. काव्यावनिर्वनेर्व्यङ्ग्यं प्राधान्यैकनिबन्धनः । सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ।।' सगुणीभूतव्यङ्गयैः सालंकारैः सह प्रभेदैः स्वैः । संकरसंसृष्टिभ्यां पुनरप्युद्दयोतते बहुधा ॥ ४४ ॥ तस्य च ध्वनेः खप्रभेदैर्गुणीभूतव्यङ्गयेन वाच्यालंकारैश्च संकरसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते । तथाहि खप्रमेदसं पेयकुशलाः सहृदयाः षट्प्रज्ञाः प्रातिवेश्मिका उच्यन्ते । तद्गाथा यथा भद्देन्दुराजस्य'लचिअगअणा फलहीलआओ होन्तु त्ति वडिआसीहि । अलिअट्ठअसिसंपाडिवेन च पुआविणीं चइणु ॥' अत्र लङ्घितगगना कार्पासलता भवन्विति हालिकस्याशिषं वर्धयन्त्या प्रातिवेश्मिकः परनिर्वृतिं प्रापित इति चौर्यसंभोगाभिलाषिणीयमित्यनेन व्यङ्ग्येन विशिष्टं वाच्यमेव सुन्दरम् । ‘गोलाकच्छकुडङ्गे हरेणजम्बूसु पञ्चमाणासु । हलिअबहुआ णिअंसइ चम्बूरसरत्तअं सिअअम् ॥' अत्र गोदावरीकच्छलतागहने हरेणजम्बूफलेषु (?) पच्यमानेषु । हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति खरितचौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तवपरभागं निढुवानं गुणीभूतव्यङ्ग्यमित्यलं बहुना । ध्वनिरेव काव्यम्मित्यात्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तय इति विभागः कृत इत्यर्थः । वाग्रहणात्तदाभासादेः पूर्वोक्तस्य ग्रहणम् । संवृत्त्येति । गोप्यमानतया लब्धसौन्दर्यमित्यर्थः । काव्याद्धनिरिति काव्यमार्गे । विषयीति । त्रिविधस्य ध्वनेः काव्यमार्गो विषय इति यावत् । एवं श्लोकद्वयेन संग्रहार्थमभिधाय बहुप्रकारलप्रदर्शिकां कारिकां पठति-सगुणीति । गुणीभूतव्यङ्गयेन सहालंकारैर्ये वर्तन्ते खे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्ट्या वानन्तप्रकारो ध्वनिरिति तात्पर्यम् । बहुप्रकारतों दर्शयति-तथाहीति । खभेदैर्गुणीभूतव्य. १. 'प्रकाशते' क-ख. २. 'विजयी' ग. ३. 'वाच्यालंकारान्तरैश्च' क-ख. ... १. तिवह भंती व । फल्लिअसमासिसं पाडिवेसवं तु आविणिबविआ ॥'क-ख. २. वर्धयन्त्या कटुका निर्वृति' क-ख. ३. 'काव्यमार्ग' इति ग. ४. 'ते' ग. ५. 'प्रमेदता' क-ख. Page #233 -------------------------------------------------------------------------- ________________ २२४ काव्यमाला। कीर्णः, खप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसंकीर्णो गुणीभूतव्यङ्ग्यसंसृष्टो वाच्यालंकारान्तरसंकीर्णो वाच्यालंकारान्तरसंसृष्टः संसृष्टालंकारसंकीर्णः संसृष्टालंकारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते । तत्र खप्रभेदसंकीर्णत्वं कदाचिदनुग्राह्यानुप्राहकभावेन । यथा-'एवंवादिनि देवर्षों-' इत्यादौ । अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्गयध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्गयध्वनिप्रमेदोऽनुगृह्यमाणः प्रतीयते । एवं कदाचित्प्रभेदद्वयसंपातसंदेहेन । यथा 'खणपाहुणिआ देअर एसा जाआएँ किंपि दे भणिदा । रुअइ पडोहरलवहीघरम्मि अणुणिज्जड वराई ॥ अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसंक्रमितवाच्यत्वेन विवक्षितान्यपर. गयेनालंकारैः प्रकाश्यत इत्यत्र ये भेदास्तत्रापि प्रत्येकं संकरेण संसृष्ट्या चेति षद । संकरस्यापि त्रयः प्रकाराः । अनुग्राह्यानुप्राहकभावेन संदेहास्पदलेनैकपदानुप्रवेशेनेति द्वादश मेदाः । पूर्व च ये पञ्चत्रिंशद्भेदा निरुक्तास्ते गुणीभूतव्यङ्ग्यस्यापि मन्तव्याः खप्रभेदास्वावन्तोऽलंकारा इत्येकसप्ततिः । तत्र संकरत्रयेण संसृष्ट्या च गुणने द्वे शते चतुरशीत्यधिके । तावता पञ्चत्रिंशतो मुख्यभेदानां गुणने सप्तसहस्राणि चत्वारिशतानि विंशत्यधिकानि भवन्ति । अलंकाराणामानन्त्यात्त्वसंख्यत्वम् । तत्र व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः कारिकायामन्यपदार्थवेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चखायुदाहरणान्याह-तत्रेति । अनुगृह्यमाण इति । लज्जया हि प्रतीताभिलाषशृङ्गारोऽत्रानुगृह्यते व्यभिचारिभूतलेन । क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर, एषा ते जायया किमपि भणिता रोदिति । पडोहरे शून्ये वलभीगृहे । अनुनीयतां वराकी । सा तावद्देवरानुरक्ता सजायया विदितवृत्तान्तया किमप्युक्तेत्येषोक्तिस्तद्वृत्तान्तं दृष्टवत्या अन्यस्या देवरचौरकामिन्याः । तत्र गृहिण्यायं वृत्तान्तो ज्ञात इत्युभयतः कलहायितुमिच्छन्त्येवमाह । तत्रार्थान्तरे संभोगेनैकान्तोचितेन परितोष्यतामित्येवंरूपे वाच्यस्य संक्रमणम् । यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ध्याकोपतात्पर्यादनुनयनमन्यपरं विवक्षितम् । एषा तवेदानीमुचितमगर्हणीयं प्रेमास्पदमित्यनुनयो विवक्षितः । वयं विदानी गर्हणीया संवृत्ता इत्येव तत्परतयोभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चयेन प्रमाणाभाव इत्युक्तम् । विवक्षितस्य हि खरूपस्थस्यैवान्यपरत्वम् । संक्रान्तिस्तु तस्यैव तद्रूपापत्तिः । यदि वा देवरानुरक्ताया एव तं देवरमन्यया सहावलोकितसंभोगवृत्तान्तं प्रतीयमुक्तिः । देवरेत्यामन्त्रणात् । १. 'वाच्यालंकारान्तरसंसृष्टः संसृष्टालंकारसंकीर्णः संकीर्णालंकारसंसृष्टश्चेति' ग. २. 'क्षणप्राघुणिका देवर एषा जायया किमपि ते भणिता । रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी ॥' इति च्छाया. Page #234 -------------------------------------------------------------------------- ________________ ३ उद्द्योतः ] ध्वन्यालोकः । २२५ ब्राच्यत्वेन च संभाव्यते । न चान्यतरपक्षनिर्णये प्रमाणमस्ति । ऐकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया बाहुल्येन संभवति । यथा— ' स्निग्धश्यामल -' इत्यादौ । स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्यर्थान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः । गुणीभूतव्यङ्गयसंकीर्णत्वं यथा - ' न्यक्कारो हायमेव मे -यदरयः' इत्यादौ । यथा वा 'कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ खः ॥' अत्र लक्ष्यक्रमव्यङ्गस्य वाक्यार्थीभूतस्य व्यङ्गय विशिष्टवाच्याभिधायिभिः पदैः संक्रमिता । अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्गयस्य 'पूर्वव्याख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातम् । बाहुल्येनेति । सर्वत्र काव्ये रसादितोत्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनम् । स्निग्धश्यामलेत्यत्र विप्रलम्भशृङ्गारस्य तद्व्यभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् । एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरति — स्वप्रभेदेति । अत्र हीति । लिप्तशब्दादेरतिर-स्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः । एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्गधं प्रत्युदाहरति — गुणीभूतेति । अत्र हीत्युदाहरणद्वयेऽपि । अलक्ष्यक्रमव्यङ्गयस्येति । रौद्रस्य । व्यङ्ग्यविशिष्टेत्यनेन गुणता व्यङ्ग्यस्योक्ता । पदैरित्युपलक्षणे - तृतीया । तेन तदुपलक्षितो योऽर्थो व्यङ्गयो गुणीभावेन वर्तते तेन संमिश्रता संकीर्णता । सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकस्य व्यञ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या । तथा हि मे यदरय इत्यादिभिः सर्वैरेव पदार्थैः कर्तेत्यादिभिश्च विभावादिरूपतया रौद्र एवानुगृह्यते । कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्ग्यमुत्प्रेक्षितुं शक्यमेवेति न लिखितम् । पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः । तत्र च गुणीभू-तव्यङ्ग्यतापि योजयितुं शक्या । वाच्यस्यैव क्रोधोद्दीपनत्वात् । दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्टव्यः । इत्यर्थशक्त्यनुरणनरूपता । उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः । एकव्यञ्जकानुप्रवेशस्तु तैरेव पदैः । गुणीभूतस्य व्यङ्ग्यस्य प्रधानीभूतस्य च रसस्य विभावादिद्वारतयाभिव्यञ्जनात् । अत एव चेति । यतोऽत्र लक्ष्ये दृश्यते तत इत्यर्थः । १. ‘निश्चये’ क-ख. २. 'कदाचिद्विभिन्नयोरेकश एकव्यञ्जकानु' ग. ३. 'व्यञ्जकत्वं ' क-ख. ४. ' संमिश्रिता' क- ख. १. ‘परलं’ ग. २. ‘शब्दादौ तिरस्कृतवाच्यरसादौ' क-ख. ३. 'एवेति' क- ख. Page #235 -------------------------------------------------------------------------- ________________ २२६ काव्यमाला । वाक्यार्थाश्रयत्वे च ध्वनेः संकीर्णतायामविरोधः स्वप्रभेदान्तरवत् । यथाहि ध्वनिप्रभेदान्तराणि परस्परं संकीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्वानि किं चैकव्यङ्गयाश्रयत्वे तु प्रधानगुणभावो विरुध्यते । नतु व्यङ्ग्य. भेदापेक्षया ततोऽप्यस्य न विरोधः । अयं च संकरसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावेऽपि निर्विरोध एव मन्तव्यः । यंत्र तु पदानि कानिचिदविवक्षितवाच्यान्यनुरणनरूपव्यङ्गयवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्गययोः संसृष्टत्वम् । यथा-'तेषां गोपवधूविलाससुहृदां' इत्यादौ । अत्र हि 'विलाससुहृदां' 'राधारहःसाक्षिणां' इत्येते पदे ध्वनिप्रभेदरूपे 'ते' 'जाने' इत्येते च पदे गुणीभूतव्यङ्गयरूपे । वाच्यालंकारसंकीर्णत्वमलक्ष्यक्रमव्यङ्गयापेक्षया रसवति रसालंकारे च काव्ये सर्वत्रैव सुव्यवस्थितम् । प्रभेदान्तराणामपि कदाचित्संकीर्णत्वं भवत्येव । यथा ममैव ननु व्यङ्ग्यं गुणीभूतं प्रधानं चेति विरुद्धमेतदृश्यमानमप्ययुक्तवान्न श्रद्धेयमित्याशङ्का व्याकमेदात्तावन्न विरोध इति दर्शयति-स्वेति । खप्रभेदान्तराणि संकीर्णतया पूर्वमुदाहृतानीति तान्येव दृष्टान्तयति । तदेव व्याचष्टे-यथाहीति । तथात्रापीत्यध्याहारोऽत्र कर्तव्यः । 'तथा हि' इति वा पाठः । ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारोस्तु एकव्यञ्जकानुप्रवेशे तु वक्तव्यमित्याशय पारमार्थिकं परिहरन्नाह–किंचेति । ततोऽपीति । यतो व्यङ्गयं गुणीभूतमन्यच्च प्रधानमिति को विरोधः । ननु वाच्यालंकारे विषये श्रुतोऽयं संकरादिव्यवहारो न तु व्यङ्ग्यविषय इत्याशङ्कयाह-अयं चेति । मन्तव्य इति । मननेन प्रतीत्या तथा निश्चयति (निश्चय इति)। उभयत्रापि प्रतीते रेव शरणवादिति भावः । एवं गुणीभूतव्यङ्ग्यसंकरभेदानुदाहृत्य संसृष्टिमुदाहरति-यत्र तु पदानीति । कानिचिदित्यनेन संकेरावकाशं निराकरोति । सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिः 'ते' इत्यादिना साधारणगुणगणाभिव्यक्तोऽपि न गुणवमवलम्बते । वाच्यस्यैक स्मरणस्य प्राधान्येन चारुत्वहेतुवात् । 'जाने' इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यंजकेनापि वाच्यमेवोत्प्रेक्षणरूपं प्रधानी क्रियते । एवं गुणीभूतव्यङ्गयेऽपि चत्वारो मेदा उदाहृताः । अधुनालंकारगतांस्तान्दर्शयति-वाच्यालंकारेति । व्यङ्ग्यले खलंकाराणामुक्तभेदाष्टक एवान्तर्भाव इति वाच्यशब्दस्याशयः । काव्य इति । एवंविधमेव हि काव्यं भवति । (प्रभेदान्तराणामपीति । ) सुव्यवस्थितमिति । 'विवक्षा तत्पर १. 'तथा हि' क-ख. २. 'यत्तु' ग. १. 'अत एवेति' ग. २. परिभवः' क-ख. ३. 'व्यङ्ये त्रीसंकर' क-ख. ४. 'यत्त्विति' ग. ५. 'सर्वत्रावकाशं' क-ख. ६. 'वाचकेनापि' क-ख. Page #236 -------------------------------------------------------------------------- ________________ ३ उयोतः] ध्वन्यालोकः । २२७ . 'या व्यापारवती रसान्रसयितुं काचित्कवीनां नवा . .. ___दृष्टिा परिनिष्ठितार्थविषयोन्मेषा चे वैपश्चिती।। ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् ॥' खेन इति द्वितीयोझ्योतमूलोदाहरणेभ्यः संकरत्रयं संसृष्टिश्च लभ्यत एव।''चलापाजां दृष्टिं' इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुप्राहकलं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः । 'उप्पह जाया' इति गाथायां परवभावोक्तिर्वा ध्वनिति प्रकरणायभावे एकतरग्राहकं प्रमाणं नास्ति । यद्यप्यलंकारो रसमवश्यमनुगृह्णाति तथापि 'नातिनिर्वहणैषिता' इति यदभिप्रायेणोक्तं तत्र संकरासंभवात्संसृष्टिरेवालंकारेण रसध्वनेः । यथा'बाहुलतिकापाशेन बद्ध्वा दृढं' इत्यत्र । प्रभेदान्तराणामपीति रसादिध्वनिव्यतिरिक्तानाम् । व्यापारवतीति । निष्पादनप्राणो हि रस इत्युक्तम् । तत्र विभावादियोजनात्मिका वर्णना। ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः तेन सततयुक्तो रसादिरिति रस्यमानतासारान्स्थायिभावान्रसयितुं रस्यमानतापत्तियोग्यान्कर्तुम् । काचिदिति लो.."त्रापति बोधावस्थात्यागेनोन्मीलयन्ती । अत एव ते कवयः वर्णनायोगात् । नवेति क्षणेक्षणे नूतनैचित्र्यैर्जगन्त्यासूत्रयन्ती । दृष्टिरिति प्रतिभारूपा । तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि (३) । रैसे यो विरोधालंकारोऽत एव नवा तदनुगृहीतश्च ध्वनिः । तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसंभवाभावात् । न वान्यपरम् । अपि वर्थान्तरे ऐन्द्रियकविज्ञानाभासोल्लसिते प्रतिभानलक्षणेऽर्थे संक्रान्तम् । संक्रमणे च विरोधोऽनुग्राहक एव । तद्वक्ष्यति'विरोधालंकारेण' इत्यादिना । या चैवंविधा दृष्टिः परिनिष्ठितोऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः । तथान्येन परिनिश्चि(ष्ठि)ते विषये उन्मेषः सम्यगवबोधकारी अपूर्वप्रमाणलाभलक्षणो यस्याः। तथा परिनिश्चिते लोकप्रसिद्धेऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा। विपश्चितामियं वैपश्चिती। (ते अवलम्ब्येति।) कवीनामिति । वैपश्चितीतिवचनेन नाहं कविर्न पण्डित इत्यात्मनोऽनौद्धत्यं ध्वन्यते । अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः । ते द्वे अपीति । न कया दृष्ट्या सम्यङिवर्णनं निर्वहति । विश्वमित्यशेषम् । अनिशमिति पुनःपुनरैनवरतं निर्वर्णयन्तो निःशेषेण वर्णयन्तो वर्णनया तथा निश्चयार्थं वर्णयन्तः । इदमित्थमिति परामर्शानुमानादिना निर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो निर्वर्णयन(नम्)। यच निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषेषु निश्चितोन्मेषया निश्चलया दृष्ट्या सम्यडिवर्णितं भवति । वयमिति । मिथ्यावदृष्ट्याहरणप्रयासव्यसनिन इत्यर्थः । श्रान्ता इति । न केवलं सारं लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः । चशब्दस्तुशब्दस्यार्थे । अब्धिश १. 'ग्रसयितुं' ग. २. 'परिनिश्चितार्थ' क-ख. ३. 'अस्ति' ग. १. 'रूपकस्य' क-ख. २. 'गृह्णाति भूयसा' ग. ३. 'रसेभ्यो विरोधास्त एव' क-ख. ४. 'अविरतं' ग. ५. 'निवेदनं' क. ६. 'यत्तु' ग. ७. 'मिथ्या तदृष्ट्या' क.. Page #237 -------------------------------------------------------------------------- ________________ ૨૨૮ 'काव्यमाला। इत्यत्र विरोधालंकारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य संकीर्णत्वम् । वाच्यालंकारसंसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित्पदानि वाच्यालंकारभाजि कानिचिच्च ध्वनिप्रभेदयुक्तानि । यथा 'दी/कुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिगावातः प्रियतम इव प्रार्थनाचाटुकारः ॥' यनेति योगनिद्रया वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः । श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति । बद्भक्तीति । वमेव परमात्मस्वरूपो विश्वसारस्तस्य भक्तिः शब्दादिपूर्वकमुपासनाक्रम(ज)स्तदावेशस्तेन तुल्यमपि न लब्धमास्तां तावत्तजातीयम् । ऐवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तति मन्वानस्येयमुक्तिः । सकलप्रमाणपरिनिश्चितदृष्टादृष्टविषयविशेषजं यत्सुखं यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतोऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते । तदानन्दविग्रुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः। लौकिकं तु सुखं ततोऽपि निकृष्टप्रायं बहतरदुःखानुषङ्गादिति तात्पर्यम् । तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः । दृष्टिमवलम्ब्य निर्वर्णनमिति विरोधालंकारो वाश्रीयताम् । अन्धपदन्यायेन दृष्टिपदेऽत्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम्। प्रकारद्वयेनापि हृद्यत्वात् । न च पूर्वत्राप्येवं वाच्यम् । नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् । एवं संकर त्रिविधमुदाहृत्य संसृष्टिमुदाहरति-वाच्येति। सकलवाक्ये हि यद्यलंकारोऽपि व्य. झ्यार्थोऽप्रधानं तदानुग्राह्यानुग्राहकसंकरस्तदभावे वसंगतिरित्यलंकारेण वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्यमिति त्रयो भेदाः । एतद्गीकृत्य सावधारणमाह-पदापेक्षयैवेति । यत्रानुग्राह्यानुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमते-यत्र हीति । यस्माद्यत्र कानिचिदलंकारभाजि कानिचिद्धनियुकानि । यथा दीर्घाकुर्वन्नित्यत्रेति । तथाविधपदापेक्षयैव वाच्यालंकारसंसृष्टत्वमित्यावृत्त्या पूर्वग्रन्थेन संबन्धः कर्तव्यः । अत्र हीति । अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थसंगतिः । दी(कुर्वन्निति । सिप्रावातेन हि दूरमप्यसो शब्दो नीयते। तथा सुकुमारपवनस्पर्शजातहषोचिरं कूजन्तीति । तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुरशब्दमिश्रं भवतीति दीर्घत्वम् । पट्विति । तथासौ सुकुमारो वायुर्येन तजः शब्दः सारकूजितमपि नाभिभवति तत्सब्रह्मचारी तदेव दीपयति । न च दीपनं तदीय १. 'असंकीर्णत्वम्' ग. २. 'सारसीना' ग. ३. 'शिप्रा' ग. . १. 'खभावः' क-ख. २. 'अतः' क-ख. ३. 'संधानस्य' क-ख. ४. 'निकृष्टतमप्रायं' ग. ५. 'पर्यायेण द्वाभ्यामपि वा' क-ख-पुस्तकयो स्ति. ६. 'हश्चिरं कूजितं' क-ख. Page #238 -------------------------------------------------------------------------- ________________ ३ उद्योतः ] ध्वन्यालोकः । २२९ अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः । पदान्तरेष्वलंकारान्तराणि । संसृष्टालंकारान्तरसंकीर्णो ध्वनिर्यथा 'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥' मनुपयोगि यतस्तन्मदेन कलमधुरमाकर्णनीयम् । प्रत्यूषेष्विति । प्रभातस्य तेथाविधस्यैवान वसरत्वाद्बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति । स्फुटितान्यवर्तमानमकरन्दभरेण ( तथा स्फुटितानि) विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तन या मैत्री अन्यासङ्गावियोगे परस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः । स्त्रीणामिति । सर्वस्य तथाविधस्य त्रैलोक्यसारभूतस्य य एवं करोति स सुरतकृतां ग्लानिं तान्तिं हरति । अथ च तदीयां ग्लानिं पुनः संभोगाभिलाषोद्दीपनेन हरति । न च प्रसत्यभूततया (?) अपि त्वङ्गानुकूलो हृद्यस्पर्शः हृदयान्तर्भूतश्च । प्रियतमे तद्विषये प्रार्थनार्थ कारयति । प्रियतमोऽपि तत्पवनस्पर्शघ्र प्रार्थनाचाटूनि करोतीति तेन तथा कार्यत इति । परस्परानुरागप्राणशृङ्गारसर्वस्वभूतोऽसौ पवनः । युक्तं चैतत्तस्य यतः सिप्रापरिचितोऽसौ वात इति नागरिको नत्वविदग्धो ग्राम्यप्राय इत्यर्थः । प्रियतमोऽपि रतान्तेऽङ्गानुकूलः संवाहनादिप्रार्थनार्थं चाटुकार एवमेव सुरतग्लानिं हरति । कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घीकरोति । चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामोदमैत्री सौरभपरिचयस्तेन कषाय उपरक्तो भवति । अङ्गेषु चतुःषष्ट्या मालिङ्गने-: ( नादि ) ष्वनुकूलः । एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनोऽपि तथाविधः सोऽवश्यमभिगन्तव्यो देश इति मेघदूते मेघं प्रति कामिन इयमुक्तिः । उदाहरणे लक्षणं योजयति - मैत्रीपदमिति । हिशब्दोऽनन्तरं पठितव्य इत्युक्तमेव । अलंकारान्तराणीति । उत्प्रेक्षा स्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः । एवमियता 'सगुणीभूतव्यङ्ग्यैः सालंकारैः सहप्रभेदैः खैः । संकरसंसृष्टिभ्यां' इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्य 'पुनरपि' इति यत्कारिकाभागे पदद्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैव - संसृष्टेति । पुंनःशब्दस्यायमर्थः— न केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसंकरौ विवक्षितौ यावत्तेषामन्योन्यमपि खप्रभेदानां स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वा संकीर्णानां संसृष्टानां च ध्वनीनां संकीर्णत्वं संसृष्टत्वं च दुर्लक्ष्यमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालंकारस्यालंकारेण संसृष्टस्य संकीर्णस्य वा ध्वनौ संकरसंसर्गौ प्रदर्शनीयौ । तदस्मिन्मेदचतुष्टये प्रथमं मेदमुदाहरति — दन्तक्षतानीति । बोधिसत्त्वस्य स्वकिशोरभक्षण प्रवृत्तां सिंहीं निजशरीरं प्रयच्छतः केनचिच्चाटुकं क्रियते । प्रोद्भूतः सान्द्रः पुलकः परार्थसंपत्ति १. ‘तथाविधावसर’ क-ख. २. 'कथा' क-ख. ३. ' च ध्वनीनां' क ख - पुस्तकयो४. 'वितीर्णवतः' ग. र्नास्ति. Page #239 -------------------------------------------------------------------------- ________________ २३० काव्यमाला । अत्र हि समासोक्तिसंसृष्टेन विरोधालंकारेण संकीर्णस्यालक्ष्यक्रमव्ययस्य ध्वनेः प्रकाशनम् । दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् । संसृष्टालंकारसंसृष्टत्वं च ध्वनेर्यथा 'अहिणअपओअरसिएसु पहिअसामाइएसु दिअहेसु । सोहइ पसारिअगिआण णच्चिअं मोरवन्दाणम् ॥' अत्र छुपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसटत्वम् । जेनानन्दभरेण यत्र । रक्ते रुधिरे मनोऽभिलाषो यस्याः । अनुरक्तं च मनो यस्याः। मुनयश्चोरोधितमदनावेशाश्चेति विरोधः । जातस्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः । समासोक्तिश्च नायिकावृत्तान्तप्रतीतेः । दयावीरस्येति दयाप्रयुक्तलात् । अत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः (१)। वीरश्चात्र रसः। उत्साहस्यैव स्थायित्वादिति भावः । दयावीरशब्देन वा शान्तमुपदिशति । सोऽत्र रसः संसृष्टालंकाराणा(१)मनुगृह्यते । समासोक्तिमहिना ह्ययमर्थः संपद्यते-यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा वं परार्थसंपादनाय खशरीरदान इति करुणातिशयोऽनुभावविभावसंपदोद्दीपितः। द्वितीयं भेदमुदाहरति-संसृष्टेति । अभिनवं हृद्यं पयोदानां मेघानां रसितं येषु दिवसेषु । तथाविधपथिकान्प्रति श्यामायितेषु मोहजनकलादात्रिरूपतामाचरितवत्सु । यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः । शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् । अभिनवपयोधररसितेषु पथिकसमाजेषु सत्सु मयूरवृन्दा(वना)नां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृतं शोभते । पथिकान्प्रति श्यामा इवाचरन्तीति प्रत्ययेन लुप्तोपमा निर्दिष्टा । पथिकसमाजेष्विति कर्मधारयस्य स्पष्टवाद्रूपकम् । ताभ्यां ध्वनेः संकर इति ग्रन्थकारस्याशयः । अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तु शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् । तथाहि-व्याघ्रादेराकृतिगणले पथिकसमाजेष्वित्युपमारूपकाभ्यां संदेहास्पदलेन संकीर्णाभ्यामभिनवप्रयोगे च रसिकेष्विति.. मिति... शब्दशक्त्युद्भवस्तस्य संसर्गमात्रमनुग्राहकवाभावात्। 'पहिअसामाइएसु' इत्यत्र तु पदे संकीर्णाभ्यां शब्दशक्तिमूलस्य ध्वनेः संकीर्णवमेकव्यञ्जकानुप्रवेशादिति संकीर्णालंकारसंसृष्टः । १. 'प्रकाशनेन' क-ख. २. 'भूतत्वम्' क-ख. ३. 'अभिनवपयोधररसितेषु पथिकश्यामायितेषु दिवसेषु । शोभते प्रसारितग्रीवाणां(गीतानां)नृत्तं मयूरवृन्दानाम् ॥' इति च्छाया. १. 'सारानुसारी' क-ख. २. 'अभिनवप्रयोगे च ग्राह्यलाभावात्' क-ख.. Page #240 -------------------------------------------------------------------------- ________________ .. २३१ ३ उक्ष्योतः] ध्वन्यालोकः । एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते । संख्यातुं दिमात्रं तेषामिदमुक्तमसामिः ॥५०॥ अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिमात्रं कथितम् । इत्युक्तलक्षणो यो ध्वनिर्विवेच्या प्रयत्नतः सद्भिः। सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः ॥५१॥ उक्तखरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियंतमेव काव्यविषये परां प्रकर्षपदवीमासादयन्ति । अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् । __ अशक्नुवद्भिाकर्तु रीतयः संप्रवर्तिताः ॥५२॥ एतद्धृनिवर्णनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशनुवद्भिः प्रतिपापयितु वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासीदिति तदत्र स्फुटतया संप्रदर्शितमित्यन्येन रीतिलक्षणेन न किंचित् । शब्दतत्त्वाश्च याः काश्चिदर्थतत्वयुजोऽपराः । वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽसिन्काव्यलक्षणे ॥ ५३॥ अस्मिन्व्यङ्गयव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसंबद्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामसंकीर्णालंकारसंकीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् । एतदुपसंहरति-एपमिति । स्पष्टम् । अथ 'सहृदयमनःप्रीतये' इति यत्सूचितं तदानीं (न) शब्दमात्रमपि तु नियूंढमित्याशयेनाह–इत्युक्तेति । यः प्रयत्नतो विवेचित एवमादिकलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणं कर्तुमशक्नुवद्भिरलंकारकारै रीतयः प्रवर्तिता इत्युत्तरकारिकया संबन्धः । अन्ये तु यःशब्दस्थाने 'अयं' इति पठन्ति । प्रकर्षपदवी निर्माणे बोधे वेति भावः । व्याकर्तुमशक्नुवद्भिरित्यत्र हेतुः-अस्फुटं कृत्वा स्फुरितमिति । (लक्षिता इति) रीतिर्हि गुणेष्वेव पर्यवसायिता । यदाह-विशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणे 'शृङ्गार एव मधुरः' इत्यत्रेति । प्रकाशन्त इति । अनुभवसिद्धतां काव्यजीविखे प्रयान्तीत्यर्थः । रीतिपदवीमिति । तद्वदेव रसपर्यवसायिखात् । १. 'ते खयमुत्प्रेक्षणीयाः' क-ख. २. 'नियमेनैव काव्य' क-ख. ३. 'इति लक्ष्यते तत्र' ग. ४. 'संप्रदर्शितेनान्येन' ग. ५. 'प्रतिपत्तिपदवीं' ग. Page #241 -------------------------------------------------------------------------- ________________ २३२. काव्यमाला। दृष्टार्थानामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं खरूपमस्य ध्वनेः । यत्र शब्दानामर्थानां च केषांचित्प्रेतिपत्तविशेषसंवेयं जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनचित्तदयुक्तमिति नावधेयतामहति । यतः शब्दानां खरूपभेदस्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस्तु प्रसादो व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावमासनं व्यङ्गयपरत्वं व्यङ्गयविशिष्टत्वं चेति विशेषः । तौ च विशेषौ व्याख्यातुमशक्यौ व्याख्यातौ बहुप्रकारम् । तद्व्यतिरिक्तानाख्येयविशेषसंभावना तु विवेकावसादगर्भरभसमूलैव । यस्मादनाख्येयत्वं सर्वशब्दार्थगोचरत्वेन न कस्यचित्संभवति । अन्ततोऽनाख्येयशब्देन तस्याभिधानसंभवात् । सामन्यसंस्पर्शिविकल्पशब्दगोचरत्वेसति प्रकाशमानत्वं तदनाख्येयमुच्यते क्वचित् तदपि काव्यविशेषाणां रत्नविशेषाणामिव न संभवति । तेषां लक्षणकारैयाकृतरूपत्वात् । रत्नविशेषाणां च सामान्यसंभावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषामपि तेषां प्र 'प्रतीति पदवीं' इति वा पाठः । नागरिकया ह्यपरमते अनुप्रासवृत्तिः शृङ्गारादौ विश्राम्यति। परुषेति दीप्तेषु रौद्रादिषु । कोमलेति हास्यादौ । तथा—'वृत्तयः काव्यमातृकाः' इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः । यदाह-'कौशिकी श्लक्ष्णनेपथ्या शृङ्गाररससंभवा' इति । इयता 'तस्याभावं जगदुरपरे' इत्यादावभावविकल्पेषु 'वृत्तयो रीतयश्च गताः श्रवणगोचरं तदतिरिक्तः कोऽयं ध्वनिरिति' तत्र कथंचिदभ्युपगमः कृतः कथंचिदूषणं दत्तमस्फुटस्फुरितमिति वचनमनेन इदानीं 'वाचां स्थितमविषये' इति यदूचे तत्तु प्रथमोड्योते दूषितमपि दूषयति सर्वप्रपञ्चकथने हि असंभाव्यमेवानाख्येयवमित्यभिप्रायेण । अक्लिष्टत्व इति । श्रुतिकष्टाद्यभाव इत्यर्थः । अप्रयुक्तस्य प्रयोगो..... पौनरुक्त्यम् । ताविति शब्दगतोऽर्थगतश्च । विवेकस्यावसादोऽभावो निर्विवेकत्वम् । सामान्यस्पर्शी यो विकल्पस्ततोऽयं शब्दो दृष्टान्तेऽपि नास्तीति दर्शयति-रत्नविशेषाणां चेति । ननु सर्वत्र तन्न संवेद्यत इत्याशङ्याभ्युपगमेनेवोत्तरयति-उभयेषामिति । रत्नानां काव्यानां १. 'लक्षणीयस्वरूपस्यास्य' क-ख. २. 'प्रतिपत्ति' क. 'प्रपिपत्त्य' ख. ३. 'जात्यत्वमेव' क. ४. “एवावभासते' क-ख. ५. 'नामधेयं' ग. ६. 'स्वरूपाश्रयः' ग. ७. 'वाचकलाश्रय' क-ख. ८. 'भासमानं व्यङ्ग्यपरवं व्यङ्ग्यांशविशिष्टत्वं' क-ख. ९. 'निर्भर' ग. १०. 'तु यदा' क-ख. ११. 'कदापि' ग. १२. 'रूपाणाम्' क-ख. १३. 'उभयेषां प्रतीतिविशेष' ग. १. 'स्फुरितवादिति' ग. २. 'यस्य तस्य निर्विवेकलम्' ग. ३. 'यः' क-ख. Page #242 -------------------------------------------------------------------------- ________________ ३ उक्ष्योतः ] ध्वन्यालोकः । .२३३ तिपत्तविशेषसंवेद्यत्वमस्त्येव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । यत्त्वनिर्देश्यत्वं सर्वलक्षणविषये बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादर्शनादशब्दार्थत्वाच्च तस्योक्तमेव ध्वनिलक्षणं साधीयः । तदिदमुक्तम् 'अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः । न लक्षणं लक्षणं तु साधीयोऽस्य यथोदितम् ॥' इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उझ्योतः । च । ननु...र्थ शब्दाः स्पृशन्तीत्यपेत्यनिर्देशवदेकमित्या..................वस्थानामुक्तमिति चेदत्राह-यत्त्विति । एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिखरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः । ग्रन्थान्तर इति विनिश्चयटीकायां धर्मोत्तमायां या विवृतिरमुना ग्रन्थकृता कृता तत्रैव तयाख्यातम् । उक्तमिति संग्रहाथ मयैवेत्यर्थः । अनाख्येयांशकाव्याभासो विद्यते यस्मिन्काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति संबन्धः । अत्र हेतुः-निर्वाच्यार्थतयेति । निर्विभज्य वक्तुमशक्यवादित्यर्थः । अन्यस्तु 'निर्वाच्यार्थतया' इत्यत्र निसो नर्थवं परिकल्प्यानाख्येयांशभासित्वेऽयं हेतुरिति व्याचष्टे तत्तु क्लिष्टम् । हेतुश्च साध्यनिष्ठ इत्युक्तव्याख्यानमेवेति शिवम् । किं लोचनं विनालोको भाति चन्द्रिकयापि हि । तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ॥ काव्यालोक...........................। ..................कृतार्थान्संविधास्यति ॥ आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीम् । त्रिलोचनप्रियां वन्दे मध्यमां परमेश्वरीम् ॥ इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तोन्मीलिते सहृदयालोक(ध्वन्यालोक) लोचने ध्वनिसंकेते तृतीय उड्योतः । १. 'च' क-ख. २. 'सर्वखलक्षणविषयं' क-ख. ३. 'घटनात्' क-ख. ४. 'च' ग. २१ ध्व. लो. Page #243 -------------------------------------------------------------------------- ________________ २३४ काव्यमाला। चतुर्थ उझ्योतः। एवं ध्वनि सप्रपञ्चं विप्रतिपत्तिनिरासार्थ व्युत्पाद्य तयुत्पादने प्रयोजनान्तरमुच्यते ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्या प्रदर्शितः। अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥१॥ य एष ध्वनेर्गुणीभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फलान्तरं कविप्रतिभानन्त्यम् । कथमिति चेत् ।। अतो ह्यन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥२॥ अतो हि ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति । तथाह्यविवक्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं पूर्वार्थानुगमेऽपि यथा 'स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतानामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥' इत्यस्य 'सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः ।। नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ॥' इत्येवमादिषु श्लोकेषु सत्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणापूर्वत्वमेव प्रतिभासते । तथा 'यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी । श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ॥' इत्यस्य 'खतेजःक्रीतमहिमा केनान्येनातिशय्यते । महद्भिरपि मातङ्गैः सिंहः केनाभिभूयते ॥' १. चतुर्थोझ्योतस्य टीका नोपलभ्यते. २. 'अध्वा' ग. ३. 'श्रयेण' क-स. ४. 'पूर्वोकानु' क.ख. ५. 'तथाभिहतहस्ततर्पितपलाशी' ग.. ६. 'अस्स' ग. Page #244 -------------------------------------------------------------------------- ________________ ४ उद्द्योतः ] ध्वन्यालोकः । २३५ इत्येवमादिषु लोकेषु सत्खप्यर्थान्तरसंक्रमितवाच्यध्वनिसमाश्रयेण नवत्वम् । (विवेक्षितान्यपरवाच्यस्यापि उक्तप्रकारसमाश्रयेण नवत्वम् ) तत्रालक्ष्यक्रमप्रकारसमाश्रयेणान्यथात्वम् । यथा 'निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्रं वधू र्बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता । वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥' त्यस्य श्लोकस्य 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥' इत्यादिषु सत्स्वपि नवत्वम् । यथा वा – 'तरङ्गभ्रूभङ्ग -' इत्यादिश्लोकस्य 'नानाभङ्गिभ्रमद्भूः' इत्यादिश्लोकापेक्षयान्यत्वम् । दिशानयानुसर्तव्यो रसादिबहुविस्तरः । मितोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् ॥ ३ ॥ बहुविस्तारो ऽयं रसभावतदाभासतत्प्रशमनलक्षणो मार्गे यथाखं विभावानुभाव मेदकलनया यथोक्तं प्राक् स सर्व एवानया दिशानुसर्तव्यः । यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्रसंख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मितोऽप्यनन्ततामेति । रसभावादीनां हि प्रत्येकं वि भावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् । तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्तदिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते । प्रतिपादितं चैतच्चित्र विचारावसरे । गाथा चात्र कृतैव महाकविना 1 1 १. कोष्ठकान्तः स्थितः पाठः कख पुस्तकयोर्नास्ति. २. 'अस्य' ग. ३. 'याति' क-ख. ४. ‘प्रभेदकतया' ग. ५. 'चैषामेकैक' ग. ६. ' तथा च गाथाकृतात्र महा' क. ख. Page #245 -------------------------------------------------------------------------- ________________ २३६ काव्यमाला । 'अतहट्ठिए वि तहसंठिए व्व हिअअम्मि जा णिवेसेह । अत्यविसेसे सा जअइ विकडकइगोअरा वाणी ॥' . तदित्यं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादितम् । एतदेवोपपादयितुमुच्यते दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् । सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥४॥ तथा विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्गयप्रकारसमाश्रयेण नवत्वम् । यथा-'धरणीधारणायाधुना त्वं शेषः' इत्यादौ 'शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । यदलजितमर्यादाश्चलन्तीं बिभ्रते भुवम् ॥' इत्यादिषु सत्खपि तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण नवत्वम् । यथा-'एवंवादिनि देवर्षों' इत्यादिश्लोकस्य 'कृते वरकथालापे कुमार्यः पुलकोद्गमैः । सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ॥' इत्यादिषु सत्खप्यर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य कविप्रौढोक्तिनिर्मितशरीरत्वेन नवत्वम् । यथा-'सजेइ सुरहिमासो-' इत्यादेः _ 'सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः । रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ॥' इत्यादिषु सत्खप्यपूर्वत्वमेव ।। अर्थशक्त्युद्भवानुरणनरूपव्यङ्गयत्य कविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नशरीरत्वे सति नवत्वम् । यथा 'साअरविइण्णजोव्वणहत्थालम्ब समुण्णमन्तेहिं । अब्भुट्ठाणम्मिव मम्महस्स दिण्णं तुह थणेहिं ।' १. 'अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति । अर्थविशेषान्सा जयति विकटकविगोचरा वाणी ॥' इति च्छाया. २. 'व्यङ्ग्यरूप' ग. ३. 'बिभृयाः क्षितिम्' क-ख. ४. 'श्रयणेन' ग. ५. 'प्रौढोक्तिमात्र' ग. ६. 'सादरवितीर्णयौवनहस्तालम्बं समुन्नमद्भ्याम् । अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥' इति च्छाया. Page #246 -------------------------------------------------------------------------- ________________ ४ उद्योतः ] अस्य हि गाथार्थस्य 'उदिह ... आभोआ जह जह थणआ विणन्ति बालाणम् । तह तह लद्धावासो व्व मम्महो हिअअमाविसइ ॥' एतद्द्वाथार्थेन न पौनरुक्त्यम् । यथा वा – 'वाणिअअ हत्थिदन्ता - ' इत्यादिगाथार्थस्य । 'करिणीवेहव्वअरो मह पुत्तो एककाण्ड विणिवाई | असोहाऍ तह कहो जह कण्डकरण्डअं वहइ ॥' एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव । ध्वन्यालोकः । २३७ यथा च व्यङ्ग्यभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुपपद्यते तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते खयमेव सहृदयैरभ्यूह्यम् । अत्र च पुनः पुनरुक्तमपि सारतयेदमुच्यते— व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे संभवत्यपि । रसादिमय एकस्मिन्कविः स्यादवधानवान् ॥ ५ ॥ अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रे संभवत्यपि कविरपू लाभार्थे रसादिमय एकस्मिन्व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत । रसभावतदाभासरूपे हि व्यंङ्गये तद्व्यञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वं काव्यं संपद्यते । तथा च रामायणमहाभारतादिषु सङ्ग्रामादयः पुनः पुनरभिहिता अपि नवनवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति । कस्मिन्निवेति चेत् यथा रामायणे यथा वां महाभारते । रामायणे हि करुणो रसः स्वयमादिकंविना सूत्रितः 'शोकः श्लोकत्वमागतः' इत्येवंवादिना । निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव खप्रबन्धमुपरचयता । महाभारतेऽपि शास्त्र काव्यरूपच्छायान्वयिनि वृष्णिपाण्डवविरसाव " १. अस्फुटेयं गाथा. २. 'करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती । हतनुया तथा कृतो यथा काण्डकरण्डकं वहति ॥' इति च्छाया. ३. 'इत्येवमादिषु सत्स्व' क-ख. ४. 'अपृथगर्थत्वं' ग. ५. 'एतस्मिन्' क ख ६. 'विचित्रे शब्दानां' क-ख. ७. 'एतस्मिन् क- ख. ८. 'यथामति' ग. ९. 'च' क- ख. १०. 'मुनिना सूचितः ' ग. ११. 'शास्त्ररूप पूर्वका व्यावस्थान्वयिनि' ग. · Page #247 -------------------------------------------------------------------------- ________________ २३८ काव्यमाला। सानवैमनस्यदायिनी समाप्तिमुपनिबध्नता महामुनिना वैसग्यजननतात्पर्य प्राधान्येन खप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतया विवक्षाविषयत्वेन सूचितः । एतच्चांशेन विवृतमेवान्याख्याविधायिभिः । स्वयं चोद्गीर्णं तेनोदीर्णमहामोहमममुजिहीर्षता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन 'यथा यथा विपर्येति लोकतन्त्रमसारवत् । तथा तथा विरागोऽत्र जायते नात्र संशयः ॥' इत्यादि बहुशः कथयता । ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षाविषय इति महाभारततात्पर्य सुव्यक्तमेवावभासते । अङ्गाङ्गिभावश्च यथा रसानां तथा प्रतिपादितमेव । पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषार्थस्य च खप्राधान्येन चारुत्वमप्यविरुद्धम् । ननु महाभारत यावान्वि. वक्षाविषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत्तत्र दृश्यते । प्रत्युत सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भवं च महाभारतस्य तस्मिन्नुद्देशे खशब्दनिवेदितत्वेन प्रतीयते । अत्रोच्यते-सत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न खशब्दाभिधेयत्वेनानुक्रमण्यां दर्शितं दर्शितं तु व्यङ्गयत्वेन । 'भगवान्वासुदेवश्व कीर्त्यतेऽत्र सनातनः' इत्यस्मिन्वाक्ये ह्ययमर्थो व्यङ्गयत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्त्यते तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टषियः तथा चागे पश्यत निःसारतां संसारस्येत्यमुमेवार्थ द्योतयत्स्फुटमेवावभासते । व्यञ्जकशक्त्यानुगृहीतश्च शब्दः । एवंविधमेव चार्थ गर्भीकृतं संदर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते 'सहि सत्यं-' इत्यादयः । अयं च निगूढरमणीयोऽर्थो १. 'रसादीनां क-ख. २. 'पारमार्थिकान्ततस्तत्त्वानपेक्षया शरीरस्यैव' ग. ३. 'अनेन ह्ययं' ग. ४. 'संकीर्त्यते' ग. ५. 'सर्वस्यास्य संसारव्यवहारस्य' क-ख. ६. 'व्यञ्जकवानुगृहीतः' क-ख. Page #248 -------------------------------------------------------------------------- ________________ ४ उक्ष्योतः] ध्वन्यालोकः । २३९ महाभारतावसाने हरिवंशवर्णनेन समाप्तिं विदधता तेनेव कविवेषसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्वपक्षीकृतोऽध्यक्ष्येण प्रकाशते । देवतातीर्थतपःप्रभृतीनां च प्रभावातिशयवर्णनं तस्यैव परब्रह्मणः प्राप्त्युपायत्वेन तत्तद्विभूतित्वेनैव वा देवताविशेषाणामन्येषां पाण्डवादिचरितवर्णनस्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्युपायत्वमेव । परम्परया वासुदेवादिसंज्ञाभिधेयत्वेन चापरिमितशक्त्यास्पदं परं ब्रह्म गीतादिप्रदेशान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथुरप्रादुर्भावानुकृतसकलखरूपशंसिरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव सनातनशब्दविशेषितत्वात् । रामायणादिषु चानया संज्ञया भगवन्मूर्त्यन्तरे व्यवहारदर्शनात् । निर्णीतश्चायमंशः शब्दतत्त्वविद्भिरेव । तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवद्व्यतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयतो मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये काव्यनये च तृष्णाक्षयसुखपरिपोपलक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्तसारभूतत्वाच्चायमर्थो व्यङ्गयत्वेनैव दर्शितो न तु वाच्यत्वेन । सारभूतो ह्यर्थः खशब्दानभिधेयत्वेन प्रकाशितः सुतरामेव शोभामावहति । प्रसिद्धिश्चयमस्त्येव विदग्धविद्वत्परिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्छब्दवाच्यत्वेनैव । तस्मास्थितमेतत्-अङ्गिभूतरसाद्याश्रयेण काव्ये क्रियमाणे नवनवार्थलाभो भवति बेन्धच्छाया च महति संपद्यत इति । अत एव च रसानुगुणार्थविशेषोपनिबन्धमलंकारान्तरविरहेऽपि च्छायातिशययोगि लक्ष्ये दृश्यते । यथा मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ।' इत्यादौ । अत्र ह्यद्भुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छाया १ 'खक्षेण प्रकाश्यते' ग. २. 'रूपमङ्गिरूपं ग. ३. 'विशेषकलात्' ग. ४. 'साररूपो' ग. ५. 'प्रबन्ध' क-ख. Page #249 -------------------------------------------------------------------------- ________________ ३१० काव्यमाला । तिशयं पुष्णाति । तत्र ह्येकचुलके जलधिसंनिधानादपि दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् । क्षुण्णं हि वस्तु लोकप्रसिद्ध्याद्भुतमपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि । तद्यथा 'सिज्जइ रोमञ्चिज्जइ वेवइ रच्छाकुलङ्गपडिलग्गो । सोपासो अज्ज वि सह अतीइ जेणासि वोलीणो ॥' एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति सा त्वां दृष्ट्वा खिद्यति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानात्मना मनागपि नो जायते । तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यर्थानां नवनवत्वं जायते तथा प्रतिपादितम् । गुणीभूतव्यङ्गयस्यापि प्रभेदापेक्षया ये प्रकारास्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव । तत्त्वतिविस्तारकारीति नोदाहृतं सहृदयैः खयमुप्रेक्षणीयम् । ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥६॥ - सत्खपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः । तस्मिंस्त्वसति न किंचिदेव कवेर्वस्त्वस्ति । बन्धच्छायाप्यर्थद्वयानुरूपशब्दसंनिवेशार्थप्रतिभानाभावे कथमुपपद्यते अनपेक्षितार्थविशेषाक्षररचनैव बन्धच्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्यर्थानपेक्षचतुरमधुरवचनरचनायामपि काव्यव्यपदेशः प्रवर्तते । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत् , परोपनिबद्धार्थविरचने यथा तत्काव्यास्य व्यवहारस्तथा तथाविधानां काव्यसंदर्भाणाम् । न चार्थानन्त्यं व्यङ्गयार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते अवस्थादेशकालादिविशेषैरपि जायते । आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः ॥७॥ .. १. अस्फुटेयं गाथा. २. 'त्रिभेदाव्यङ्ग्यापेक्षया' क-ख. ३. 'नैततोदीया सह' क. 'नैतनेदीयः सहृ' ख. ४. 'काव्यतयवहारः' ग. Page #250 -------------------------------------------------------------------------- ________________ ४ उद्योतः ] ध्वन्यालोकः । २४१ , शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभावतः । स्वभावो हायं वाच्यानां चेतनाचेतनानां यदवस्था भेदाद्देश भेदात्काल भेदात्खालक्षण्यलक्षणभेदाच्चानन्तता भवति । तैश्च तथाव्यवस्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि तावदुपनिबध्यमानैर्निरवधिः काव्यार्थः संपद्यते । तथा ह्यवस्थाभेदान्नवत्वं यथा - भगवती पार्वती कुमारसंभवे 'सर्वोपमाद्रव्यसमुच्चयेन इत्यादिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शंभोर्लोचनगोचरमायान्ती 'वसन्तपुष्पाभरणं वहन्ती' (इत्यादि) मन्मथोपकरणभूतेन भङ्गयन्तरेणोपवर्णिता । सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना 'तां प्राङ्मुखीं तत्र निवेश्य तन्वीं' इत्याद्युक्तिभिर्नवेनैव प्रकारेण निरूपितसौष्ठवा । न च ते तस्य कवेरे कत्रैवासकृत्कृता वर्णनप्रकारा अपुनरुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते । दर्शितमेव चैतद्विषमबाणलीलायाम् - 'णं अ ताण घडइ ओही ण अ ते दीसन्ति कह वि पुनरुता । जे विब्भमा पिआणं अत्था वा सुकइवाणीणम् ॥' अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनां तच्चोचितचेतनविषयखरूपयोजनयोपनिबध्यमानमन्यदेव संपद्यते । यथा कुमारसंभव एव पर्वतखरूपस्य हिमवतों वर्णनं पुनः सप्तर्षिप्रियोक्तिषु (ष्व) चेतनतत्खरूपापेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति । प्रसिद्धश्चायं सत्कवीनां मार्गः । इदं च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव । चेतनानामवस्था भेदेऽप्यवान्तरावस्था भेदान्नानात्वम् । यथा कुमारीणां कुसुमशरभिन्नहृदयानामन्यासां च । तत्रापि विनीतानामविनीतानां चाचेतनानां चेतनानां च भावानामारम्भाद्यवस्था भेदभिन्नानामेकैकशः स्वरूपमुपनिबध्यमानमानन्त्यमेवोपयाति । यथा -4 १. 'चेतनानामचेतनानां च' ग. २. 'न च तेषां घटतेऽवधिर्न च ते दृश्यन्ते कदापि पुनरुक्ताः । ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ॥' इति च्छाया. ३. 'सुप्रसिद्धम्' ग. Page #251 -------------------------------------------------------------------------- ________________ काव्यमाला | 'हंसानां सरसीषु यैः कवलितैरासज्यते कूजता - मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः । ते संप्रत्यकठोरवारणवधूदन्वाङ्करस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिममन्थयः ॥' एवमन्यत्रापि दिशानयानुसर्तव्यम् । देशभेदान्नानात्वमचेतनानां तावत् । यथा वायूनां नानादिग्देशचारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव । चेतनानामपि मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेवितानां परस्परं महान्विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथ - मुषनिबध्यमानस्तथैवानन्त्यमायाति । तथा हि मानुषाणामेव तावद्दिग्देशादिभिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः शक्यते गन्तुम् । विशेषतो योषिताम् । उपनिबध्यते च तत्सर्वमेव सुकविभिर्यथाप्रतिभम् । कालभेदाच्च नानात्वं यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतनानाम् । चेतनानां चौत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव । खालक्षण्याभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनमविगीतमेव । तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थस्यापादयति । अत्र केचिदाचक्षीरन् - यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना । तानि हि खयमैनुभूतानां सुखादीनां तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वरूपानुरूपसामान्यमात्राश्रयेणोपनिबध्यन्ते कविभिः । नहि तैरतीतमनागतं वर्तमानं च पैरचित्तादिखलक्षणं योगिभिरिव प्रत्यक्षीक्रियते । तच्चानुभाव्यानुभावकसामान्यं सर्वप्रतिपत्तसाधारणं परिमितत्वास्पुरातनानामेव गोचरीभूतम् । तस्य विषयत्वानुपपत्तेः । अतएव स प्रकारविशेषो यैरद्यतनैरभिनवत्वेन प्रतीयते तेषां भ्रममात्रमेव । भणितिकृतं वैचित्र्यमात्रमत्रास्तीति । तत्रोच्यते - यदि सामान्याश्रयेण काव्यप्रवृत्तिस्तत्प्रदर्शितप्रकारं काव्यवैचित्र्यमव स्थादिविशेषात्किं पुनरुक्तमेवास्तु । न I २४२ १. 'निनदेषु' क ख २. 'उपपादयति' ग. ३. 'भूतात्मनां' ग. ४. 'खपरानुभूतसामान्य' क ख ५. 'परिचितादिस्वलक्षणं' ग. ६. 'प्रतिपत्ति' ग. ७. 'तथास्य विषयस्यानुपपत्तेः' क-ख. ८. 'अभिधानवैचित्र्यं' ग. Page #252 -------------------------------------------------------------------------- ________________ ४ उच्योतः ] ध्वन्यालोकः । चेत्तत्तथा तत्कथं न काव्यानन्त्यम् । यत्तूक्तम् - सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति तदयुक्तम् । यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किंकृतस्तर्हि महाकविनिबध्यमानानां काव्यानामतिशयः । वाल्मीकिव्यतिरिक्तस्यान्यस्य कवि... । एवं वा सामान्यव्यतिरिक्तस्थान्यस्य काव्यार्थस्याभावात् । सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्तिवैचित्र्यान्नैष दोष इति चेत्, किमिदमुक्तिवैचित्र्यम् | उक्तिर्हि वाच्यविशेषप्रतिपादनवचनम् तद्वैचित्र्येण कथं न वाच्यवैचित्र्यम् । वाच्यचाचकयोरविनाभावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद्रूपं तत्तु बाह्य विशेषाभेदेनैव प्रतीयते । तेनोक्तिवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् । तदयमत्र संक्षेपः .co...... 'वाल्मीकिव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् । इष्यते प्रतिभानन्त्यं तत्तदानन्त्यमक्षयम् ॥' २४३ किं च, उक्तिवैचित्र्यं यत्काव्यनवत्वेन निबन्धनमुच्यते तदस्मत्पक्षानुगुणमेव । यतो यावानयं काव्यानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्तिवैचित्र्याद्विगुणतामापद्यते । यश्चायमुपमाश्लेषादिरलंकारमार्गः प्रसिद्धः स भणितिवैचित्र्यादुपनिबध्यमानः खयमेवानवधिर्धते पुनः शतशाखताम् । भैणितिश्च कथाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमापादयति । यथा ममैव 'बहुमह इन्ति भणिन्तर वं ओई कलिजणस्स ते इणदे । ओ जाणद्दणुओगो अरिमो तिमिणं सा इत्थम् ॥' यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्थानाम् । इदं तूच्यते अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । १. 'अक्षतम् ' क- ख. २. 'काव्यबन्धेन' ग. ३. 'भणितिः स्वभाषाभेदेन' ग. ४. इयं गाथा सर्वपुस्तकेष्वस्फुटैव. ५. 'वाच्यार्थानां निबन्धनम्' ग. Page #253 -------------------------------------------------------------------------- ________________ २४४ काव्यमाला। ... यत्प्रदर्शितं प्राक .. . भूनैव दृश्यते लक्ष्ये न तच्छक्यमपोहितम् ॥ ८॥ · तत्तु भाति रसांश्रयात् । तदिदमत्र संक्षेपेणाभिधीयते सत्कवीनामुपदेशाय रसभावादिसंबद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिमेदिनी ॥९॥ का गणना कवीनामन्येषां परिमितशक्तीनाम् । वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः। निबद्धापि क्षयं नैति प्रकृतिर्जगतामिव ॥ १०॥ यथाहि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती पुनरिदानी परिक्षीणा पदार्थनिर्माणशक्तिरिति न शक्यतेऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानी परिहीयते प्रत्युत नवनवाभिर्युत्पत्तिभिः परिवर्धते । इत्थं स्थितेऽपि ___ संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । स्थितं ह्येतत् संवादिन्यो मेधाविनां बुद्धयः । किं तु नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥११॥ कमिति चेत्, संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् । आलेख्याकारवत्तुल्यदेहिवंच शरीरिणाम् ॥ १२ ॥ संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् । किंचिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बः प्रतिबिम्बकल्पम् अन्यदालेख्यप्रख्यम् अन्यत्तुल्येन शरीरिणा सदृशम् । तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ १३ ॥ १. 'अप्यन्य' ग. २. 'देहवच्च' ग. ३. 'देहवच्च' ग. Page #254 -------------------------------------------------------------------------- ________________ ४ उद्योतः ] ध्वन्यालोकः । २४५ तत्र पूर्व प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना । यतस्तदनन्यात्म तात्त्विकशरीरशून्यम् । तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु कमनीयं शरीरसद्भावे संति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना । नहि शरीरी शरीरिणान्येन सदृशोऽप्येक एवेति शक्यते वक्तुम् । एतदेवोपपादयितुमुच्यते तत्त्वस्यान्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥ १४ ॥ तत्त्वस्य सारभूतस्यात्मनः सद्भावेऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् । पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति । न तु पुनरुक्तत्वेनावभासते । तन्व्याः शशिच्छायमिवाननम् । एवं तावत्संवादानां वाक्यवेदितानां काव्यार्थानां विभक्ताः सीमानः । पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी । नूतने स्फुरति काव्य वस्तुनि व्यक्तमेव खलु सा न दुष्यति ।। १५ ।। नहि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं शक्यन्ते । तानि तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि । तस्मात् यदपि तदपि रेंम्यं यत्र लोकस्य किंचित्स्फुरितमिदमितीयं बुद्धिरभ्युजिहीते । अनुगतमपि पूर्वच्छायया वस्तु ताहक्सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ १६ ॥ यदपि तदपि रम्यं काव्यशरीरं यल्लोकस्य किंचित्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिही स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते तदनु १. 'अपि ससंवादं काव्य' क-ख. २. 'समुदायरूपाणां वाक्यार्थानां ग. ३. 'योक्ष्यते' ग. ४. 'काव्यंग. २२ ध्व० लो• Page #255 -------------------------------------------------------------------------- ________________ २४६ काव्यमाला 1 . .. . गतमपि पूर्वच्छायया वस्तु तादृक् सुकविविक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्द्यतां नैव याति । तदित्यं स्थिते प्रतायन्तां वाचो निमितविविधार्थामृतरसा न वादः कर्तव्यः कविमिरनवद्ये स्वविषये । परखादानेच्छाविरतमनसो वस्तु सुकवेः सरखत्येवैषा घटयति यथेष्टं भगवती ॥ १७ ॥ सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा परखादानेच्छाविरतमनसः सुकवेः सरखत्येषा भगवती यथेष्टं घटयति वस्तु । येषां सुकृतिनां कवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्तिस्तेषां परोपरचितार्थपरिग्रहनिःस्पृहाणां खव्यापारो न कचिदुपयुज्यते । सैव भगवती सरखती खयमभिमतमर्थमाविर्भावयति । एतदेव हि महाकवित्वं महाकवीनामित्योम् । नित्याक्लिष्टरसाश्रयोचितगुणालंकारशोभाहतो यस्माद्वस्तु समीहितं सुकृतिभिः सर्व समासाद्यते । काव्याख्येऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः सोऽयं कल्पतरूपमानमहिमा भोग्योऽस्तु भव्यात्मनाम् ॥ सत्काव्यतत्त्वविषयं स्फुरितप्रसुप्त कल्पं मनःसु परिपक्वधियां यदासीत् । तयाकरोत्सहृदयोदयलाभहेतो रानन्दवर्धन इति प्रथिताभिधानः ॥ इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्दयोतः । समाप्तोऽयं ग्रन्थः। १'सादः' ग. २. 'सविषये' ग. ३. 'एवमिह' क-ख. ४. क-ख-पुस्तकयोरोमित्यस्मादनन्तरं 'इत्यानन्दवर्धनाचार्यविरचिते सहृदयालोके काव्यालंकारे ध्वनिप्रतिपादने चतुर्थ उद्द्योतः समाप्तः' इत्यस्ति तदनन्तरं नित्येत्यादिश्लोकद्वयम्. ५. 'सौख्यदायिनि बुधोद्याने' ग. ६. 'सहृदयालोकनानि काव्यालंकारे' ग.. . Page #256 -------------------------------------------------------------------------- ________________ ध्वन्यालोकस्य श्लोकानुक्रमणी। ५. २१९ २३ ... २१७ ... १७९ ... १६५ . १०५ ... १०१ २२४ . अङ्कुरितः पल्लवितः ... अजाएँ पहारो अण्णत्त वच्च अतहहिए वि अतिक्रान्तसुखाः अत्ता एथ्थ णिम अनध्यवसिता अनवरतनयन अनुरागवती अमी ये दृश्यन्ते अम्बा शेतेऽत्र अयमेकपदे तया अवसर रोउं अहिणअपओ आक्रन्दाः स्तनिते आम असइओ. आहूतोऽपि सहायै ईसाकुलसस्स उचिणसु पडिअ उत्कम्पिनी भय उदिह 'कआभोआ उद्दामोत्कलिकां उन्नतः प्रोल्लसद्धारः उपोढरागेण उप्पहजाआए एकन्तो रुअइपिआ एमेअ जणो एवंवादिनि एहि गच्छ पतोत्तिष्ठ कण्ठाच्छित्त्वाक्षमाला ... कपोले पत्राली कमलाअरा ण कर्ता चूतच्छलानां ... ११५ | करिणीवेहव्वरो कस्त्वं भोः कथयामि ... १५६ / कस्स व ण होइ ... | किं हास्येन न मे ... कुविआलो पस ... कृते वरकथालापे ... कोपात्कोमललोल | कामन्त्यः क्षत क्वाकार्य शशलक्ष्मणः ... क्षिप्तो हस्तावलनमः खं येऽत्युज्वल । १५६ खणपाहुणिआ गअणं च मत्त .. २३० चक्राभिघात .. ९२ चञ्चद्धजभ्रमित चन्दनासक्त चन्दमऊएहि चमहिअमाण चलापाङ्गां दृष्टिं चुम्बिजइ सअ चूअङ्कुरावअंसं जाएज वणुइसे झगिति कनक ण अ ताण घडइ | तं ताण सिरिस । तद्हं नतभित्ति ... १२४ | तन्वी मेघजलाई तरङ्गभ्रूभङ्गा | तस्या विनापि . ... | ताला जाअन्ति ... | तालैः शिक्षद्वलय | तेषां गोपवधू ... २२५ | त्रासाकुलः परि .... १०९ :::::::::::::::::::::::::::::::: . ८०००N ..१३ ... १२७ ... ११३ ... १३२ ... २४१ .. १११ ... १५८ ... १५५ .. ११९ .... १४४ Page #257 -------------------------------------------------------------------------- ________________ दत्तानन्दाः प्रजानां इन्तक्षतानि कुर्वन्प दुराराधा राधा दृष्ट्या केशव दे आ पसिअ देव्वा एत्तम्मि फले निद्रा कैतविनः नीवाराः शुकगर्भ नो कल्पापायवायो न्यक्कारो यमेव पत्युः शिरश्चन्द्र परार्थे यः पीडाम परिम्लानं पीन प्रयच्छतोच्चैः प्राप्तुं धनैरर्थि प्राप्तश्रीरेष भम धम्मिअ भूरेणुदिग्धा भ्रमिमर तिमलस मदमुखर कपोत मा निषाद प्रतिष्ठां मा पन्थं रुन्धीओ मुनिर्जयति योगीन्द्रो मुहुरङ्गुलिसंवृता ... ... रविसंक्रान्त राजानमपि ... ... 600 ... ... ... 600 ... ... ... ... ... ... ... यः प्रथमः प्रथमः स तु यद्वचनाहित या निशा सर्व या व्यापारवती ... ये जीवन्ति न मान्ति येन ध्वस्तमंनो यो यः शस्त्रं बिभर्ति रकस्त्वं नवपल्लवै. रम्या इति प्राप्त .... ... ... ... ... ... ::: ... ... २१४ | लावण्यसिन्धु ... ९८ वच्च मह व्विअ २२ | वत्से मा गा विषादं ११२ | वह इति २३५ आणीअअं हत्ति १५६ | वाणीरकुडङ्गो ९२ | विमानपर्यङ्क १५३ विसमइओ २१३ | विस्रम्भोत्थामन्मथा ५३,२१८ | वीराणं रमइ ५२ | व्रीडायोगान्नत २१४ | शिखरिणि क्व नु १२६ शून्यं वासगृहं १०९ | शेषो हिमगिरि १६ | श्यामाख चकित १७८ || श्लाघ्याशेषतनुं ९७,१६६ | संकेतकालमनसं ... १५७ | संज्जेहि सुरहि २८ सत्यं मनोरमा समाः समविसमणिव्विसेसा सर्वैकशरण ... 9.0 ... ... ... ... 900 ... ... ... ... 8.0 ... स वक्तुमखिला सविभ्रमस्मितोद्भेदा सशोणितैः क्रव्य साअरविइण्ण सिज्जइ रोमञ्चिज्जइ सिहिपिच्छकण सुरभिसमये प्रवृत्ते सुवर्णपुष्पां स्निग्धश्यामल ९० | स्मितं किचिन्मुग्धं ११५ | खतेजःक्रीतमहिमा ६३ हंसानां सरसीषु ... २१६ | हिअअट्ठाविअ .. ८१ ... ... ... ... पृ० ९९ लच्छी दुहिदा २२९ | लावण्यकान्ति २२८ | लावण्यदविणव्ययो ... .... ... १५५ २३९ १५६ २३४ १५८ १२५ २२७ १५७ ... 640 ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... : : : 0.0 ... ... 0.00 ... 800 ... ... १२८ ... १२० १७८ १२६ २११ १११ १३२ ... ४९ ... ... 001 ... ... ... 900 ... ... ... ... १०६ ... १८० १५८ ... ... .... पृ० २०७ ११० २१६ २०५ २१ ... १०४ २४३ १०६,२३६ ... २४० १०७, १२८ २३६ ... 800 २३५ २३६ ९३ ९६ १०३ ... ४९ ६१ २३४ - २३४ २४२ ११२ ... १०१ १११ २३४ १७८ Page #258 -------------------------------------------------------------------------- ________________ विक्रेयनूतनसंस्कृतपुस्तकानि ब्रह्मसूत्रशाङ्करभाष्यम्। मामती-कल्पतरु-परिमलव्याख्यासहितम् / ब्रह्मखरूपमात्रप्रकाशनार्थं प्रवृत्तत्वाद्यथार्थाभिधानानि ब्रह्मसूत्राणि खरसतः पर्यालोच्यमानान्यद्वैतमेवावगमयन्ति / तत्परं चेदं शाङ्करभाष्यं प्रसन्नगम्भीर नेतरैाख्यानैस्तथा चकास्ते यथा भामत्या। यस्या हि व्याख्या कल्पतरुरमलानन्दसरखतीकृतिरतितरामानन्दमलं प्रेक्षकाणामादधाति / तद्विवरणं च परिमलाभिधानं कल्पतरोः कल्पतरुभावमादधानं सर्वतन्त्रवतन्त्रादिबिरुदाङ्किताप्पय्यदीक्षितेन प्रणीतं शब्दन्यायमीमांसादिशात्रप्रक्रियाप्रचुरं विदुषामत्यन्तमानन्दमावहतीत्यवचनसिद्धमिदम् / तेषामेषामेकत्र समावेशेन सहृदयहृदयाबादकरीमिमां पञ्चग्रन्थीमद्य प्रकाशयामः / मूल्यं 10 रु., मार्ग. 1 // रु. वेदस्तुतिः। (श्रीमद्भागवतदशमगता) लोके व्यवायेतिश्लोकः, जन्माद्यस्येतिश्लोकश्च / काशीनाथोपाध्यायकृतव्याख्योपबृंहितश्रीधरीव्याख्या / श्रीमद्भागवते वेदस्तुत्यादयो निर्दिष्टा विषया अखिलवेद्या गभीरार्थाश्चेति न तिरोहितं विदुषाम् / मूलविषयगाम्भीर्याच्छ्रीधरीव्याख्यापि दुरूहैवासीदिति परमकारुणिकैर्धर्माब्धिकारैः काशीनाथोपाध्यायैः प्रणीतया श्रीधरीप्रकाशव्याख्यया सह मुद्रितास्ति। मूल्यं 12 आणकाः, मार्ग. 4 आणकाः. पातञ्जलयोगसूत्रम् / भावागणेशवृत्ति-नागोजीभट्टीयवृत्तिसहितम् / योगशास्त्रस्यातिखल्पः प्रकरणग्रन्थोऽयम् / अस्य 1 समाधिपादः, 2 साधनपादः, 3 विभूतिपादः, 4 कैवल्यपादश्चेति चलारि प्रकरणानि खनामभिरेव प्रतिपाद्यविषयमाविष्कुर्वन्ति / निर्दिष्टव्याख्याद्वयमप्यर्थस्पष्टीकरणायातिसुलभ मूल्यं 14 आ., मार्ग. 4 आणकाः. पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालयाधिपतिः. मस्ति /