________________
१३८
काव्यमाला। भवे देवीसंभोगवर्णनम् । एवमादौ च विषये यथौचित्यत्यागस्तथा दर्शितमेवाग्रे । शक्तितिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथा हि शक्तिरहितेन कविना एवंविधे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतिभासते । नन्वस्सिन्पक्षे–'यो यः शस्त्रं बिभर्ति-' इत्यादौ किमचारुत्वमेप्रतीयमानमेवारोपयामः । तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च संघटनाया अन्यः कश्चिनियमहेतुर्वक्तव्य इत्युच्यते । 'तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः । तत्र वक्ता कविः कविनिबद्धो वा कश्चित् । कविनिबद्धश्चापि रसभावरहितो रसभावसमन्वितो वा । रसोऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा । कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः। वाच्यं च ध्वन्यात्मरसाङ्गं रसाभासाङ्गं वा, अभि.
विघातस्तदेव रससर्वखं खादायत्तत्वात् । उत्तमदेवतासंभोगपरिमर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः । शक्तितिरस्कृतत्वमिति । संभोगोऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा । तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्श कर्तुं न ददाति । यथा नियाजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्यपरामर्श तथात्रापीति भावः । दर्शितमेवेति कारिकाकारेणेति भूतप्रत्ययः । वक्ष्यते हि-'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम्' इत्यादि । अप्रतीयमानमेवेति । पूर्वापरशास्त्रपरामर्शविवेकशालिमिरित्यर्थः । व्यतिरेकपक्षे हि संघटनाया नियमहेतुरेव नास्ति । ऐक्यपक्षेऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः । तन्नियम इति कारिकावशेषः । कथां नयति खकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी । धीरोदात्तादीति। धर्मयुद्धवीरप्रधानो धीरोदात्तः । वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गारप्रधानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः। पूर्वः कथानायकस्तदनन्तर उपनायकः । विकल्पा इति । वक्तृभेदा इत्यर्थः । वाच्यमिति । ध्वन्यात्मा ध्वनिखभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः । अभिनेयो वागङ्गसत्त्वैराभिमुख्यं साक्षात्कारप्रायं नेयोऽर्थो व्यङ्ग्यरूपो ध्वनिखभावो यस्य तदमिनेयार्थ वाच्यं स एव हि काव्यार्थ इत्युच्यते । तस्यैव चाभिनयनयोगः । यदाह मुनिः'वागङ्गसँत्त्वोपेतात्काव्यार्थाद्भवति' इत्यादि । तत्र तद्रसाभिनयनान्तरीयकतया तु तद्वि.. १. 'अवभासते' ग. २. 'प्रतीयमानं' ग. ३. 'संघटनायां' क-ख. ४. 'चेति' ग. . १. 'आखादयितृत्वात्' क-ख. २. 'संभोगे ह्यसौ' क-ख. ३. 'प्रतिनायक' क-ख. ४. 'सत्त्वोपेतान्काव्यार्थान्भावयन्ति' क-ख. ५. 'तत्र तत्र' क-ख. .