________________
३ उद्योतः ]
ध्वन्यालोकः ।
१३७
मात्र ग्रहदूषितं चेतस्तदत्रापि न ब्रूमः । ओजसः कथमसमासा संघटना नाश्रयः । येतो रौद्रादीन्हि प्रकाशयतः काव्यस्य दीप्तिरोर्जे इति प्राक्प्रतिपादितम् । तच्चौजो यद्यसमासायामपि घटनायां स्यात्तत्को दोषो भवेत् । 1 न चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति । तस्मादनियतसंघटनशब्दाश्रयत्वे मुणानां न काचित्क्षतिः । तेषां तु चक्षुरादीनामिव यथाखं विषयनियमितस्य स्वरूपस्य न कदाचिद्व्यभिचारः । तस्मादन्ये गुणा अन्या च संघटना । न च संघटनामाश्रिता गुणा इत्येकं दर्शनम् । अथवा संघटनारूपा एव गुणाः । यत्तूक्तम् —' संघटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात्' इति । तत्राप्येतदुच्यते —— यत्र लक्ष्ये परिकल्पितविषयव्यभिचारस्तद्विरूपमेवास्तु । कथमचारुत्वं तादृशविषये सहृदयानां प्रतिभातीति चेत्, कविशक्तितिरोहितत्वात् । द्विविधो हि दोषः कवेव्युत्पत्तिकृतोऽशक्तिकृतश्च । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः स झटिति प्रतीयते । परिकर - श्लोकश्चात्र
-
'अव्युत्पत्तिकृतो दोषः शक्त्या संवियते कवेः । यस्त्वशक्तिकृतेस्तस्य स झटित्यवभासते ।'
-
तथा हि- महाकवीनामप्युत्तमदेवताविषयप्रसिद्ध संभोगशृङ्गारनिबन्धनाद्यंनौचित्यं शक्तितिरस्कृतं ग्राम्यत्वेन न प्रतिभासते । थथा कुमारसं
इति । प्रकाशयत इति ‘लक्षणहेत्वोः -' इति शतृप्रत्ययः । रौद्रादिप्रकाशनालक्षणमोज इति भावः । न चेति । चशब्दों हेतौ । यस्मात् 'यो यः शस्त्रं -' इत्यादौ न चारुःवं प्रतिभाति तस्मादित्यर्थः । तेषां द्वित्रगुणानाम् । यथास्वमिति । 'शार एक परमो मनःप्रह्लादनो रसः' इत्यादिना च विषयनियम उक्त एव । यत्त्विति । रखाभिव्यक्कावेतदेव सामर्थ्य शब्दानां यत्तथा संघटमानत्वमिति भावः । शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेख शालित्वम् । व्युत्पत्तिस्तदुपयोगि समस्तवस्तुपौर्वापर्यपरामर्शकौशलम् । तस्येति कवेः । अनौचित्यमिति । आखादयितॄणां हि यंत्र चमत्कारा
१. ‘असमाससंघटनाश्रयः' कख २. 'यतः ' क ख पुस्तकयोर्नास्ति. ३. 'ओजो'गुण' क-ख. ४. 'अप्यविषयत्वं' क ख ५. 'तादृशेऽपि' ग. ६. 'कृतो दोषः' ग. ७. 'अनौचित्यमुत्तमदेवविषयं' क ख ८. 'तिरस्कृतत्वाद्धाम्यत्वेन न' ग.
१. 'व्यक्तये तदेव' ग. २ 'नियत' ग. १३ ध्व० लो०