SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ३ उद्योतः ] ध्वन्यालोकः । १६३ वृत्ते प्रवृद्धविविधवीरसंक्षये कल्पसंक्षयकल्पे सङ्ग्रामे देवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने । न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन स्वप्रवृत्तिनिबन्धनं युक्तम् । इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् 'आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः ' इत्यादिना । अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यन्नयतात्पर्यमेवैषां युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन । पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः खसामग्री लब्धपरिपोषः पुनः पुनरामृष्यमाणः परिम्लानकुसुमकल्पः कल्पते । तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्याश्चिदुचिताङ्गभङ्गिमन्तरेण स्वयं संभोगाभिलाषकथने । यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालंकारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभहेतुः । एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् । परिकरश्लोकाश्चात्र -- 1 ध्वनति । अत एव वक्ष्यति — दैवव्यामोहितत्वमिति । पूर्वं तु संध्यङ्गाभिप्रायेण प्रत्युदाहेरणमुक्तम् । कथापुरुषस्येति । प्रतिनायकस्येति यावत् । अत एव चेति । यतो रसबन्ध एव मुख्यः कविव्यापारविषयः । इतिवृत्तमात्रवर्णनप्राधान्ये सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः। न ध्वनिप्रतिपादनमात्रेति । व्यङ्गयोऽर्थे भवतु मा वा भूत् कस्तत्राभिनिवेशः । काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः । वृत्त्यनौचित्यमेव चेति बहुधा व्याचष्टे - तदपीत्यनेन । चशब्दं कारिकागतं व्याचष्टे रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य मिन्नक्रमत्वमुक्तम् । रसस्य विरोधायेत्यर्थः । नायकं प्रतीति । नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुप्रेबन्धेन भवितव्यमिति । तं प्रि कापुरुषोचितमधैर्ययोजनं दुष्टमेव । परिकर श्लोका इति । तेषामिति रसादीनाम् । १. 'रामदेव' ग. २. 'चाङ्गाङ्गि' ३ ' पुनः परामृष्य' क.ख. १. 'हरणतोक्ता तथा पुरुषस्येति ग. २. 'प्रवेधेन' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy