________________
१६४
काव्यमाला।
'मुख्या व्यापारविषयाः सुकवीनां रसादयः । तेषां निबन्धने भाव्यं तैः सदैवाप्रमादिभिः ॥ नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान्कवेः । स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥ पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः । तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ॥ वाल्मीकिव्यासमुख्याश्च ये प्रख्याता कवीश्वराः ।
तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः ॥' इति । विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥ २० ॥ खसामग्रीलब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तानां सतामुक्तिरदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तेषामुक्तिः प्रस्तुतरसपरिपोषायैव संप. द्यते । अङ्गभावं प्राप्तानां च तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भशृङ्गारे (तदङ्गानां) व्याध्यादीनां तदङ्गानामेवादोषो नातदङ्गानाम् । तदङ्गत्वे च संभवत्यपि मरणस्योपन्यासो न न्याय्यः । आश्रयविच्छेदे रसस्या
तैरिति सुकविभिः । सोऽपशब्द इति दुर्यश इत्यर्थः । ननु कालिदासः परिपोषं गत. स्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत्, तत्कोऽयं रसविरोधिनां परिहारनिबन्ध इत्याशङ्याह-पूर्व इति । नहि वसिष्ठादिभिः कथंचिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः । अचिन्त्यहेतुत्वं मुनिचरितानामिति भावः । इतिशब्देन परिकरश्लोकसमाप्ति सूचयति । एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं नियंतविषयमाह-विवक्षित इति । बाध्यानामिति । बाध्यखामिप्रायेणाशवामिप्रायेणेति चेत्यर्थः । अच्छला निर्दोषेत्यर्थः । बाध्यवाभिप्रायं व्याचष्टे (वाध्यत्वं...... वाभिप्रायमुभयथा व्याचष्टे) तत्र प्रथमं खाभाविकप्रकारं निरूपयति-तदङ्गानामिति । निरपेक्षभावतया सापेक्षभावविप्रलम्भशृङ्गारविरोधिन्यपि करुणे भवन्त्येव त एव च भवन्तीति । शृङ्गारे तु भवन्त्येव नापि त एवेति । अतदङ्गानामिति । यथालस्यौग्रजुगुप्सानामित्यर्थः। तदङ्गत्वे चेति । सर्व एव शृङ्गारे व्यभिचारिण इत्युक्तवादिति
१. "हि निबन्धो यः' ग. २. 'सामय्या' क-ख. ३. 'निर्दोषा' ग.४. 'ज्यायान्' ग. १. 'यदङ्गाङ्गिनामिति' ग.