SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ३ उद्योतः ] ध्वन्यालोकः । १६५ त्यन्तविच्छेदप्राप्तेः । करुणस्य तु तथाविधे विषये परिपोषो भविष्यतीति चेत् । न । तस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु कैरुणस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापतिसंभवे कदाचिदुपनिबन्धो नात्यन्तविरोधी । दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाह विच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना परिहर्तव्यम् । तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्तावदोषो यथा 'क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । - - भावः । आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत । तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् । प्रस्तुतस्येति । विप्रलम्भस्येत्यर्थः । काव्यार्थत्वमिति । प्रस्तुतत्वमित्यर्थः । नन्वेवं सर्व एव व्यभिचारिण इति विघटितमि - त्याशङ्कयाह — शृङ्गारे वेति । अदीर्घकाले यत्र मरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्याव्यभिचारित्वम् । कदाचिदिति । यदि तादृशीं भ िघटयितुं सुकवेः कौशलं भवति । यथा— 'तीर्थे तोयव्यतिकरभवे जहुकन्यासरय्वोर्देहन्यासादमरगणनालेख्यमासाद्य सद्यः । पूँर्वाकाराधिकचतुरया संगतः कान्तयासौ लीलागारेष्वरमत पुनर्न - `न्दमाभ्यन्तरेषु ॥' अत्र स्फुटैव रत्यङ्गता मरणस्य । अत एव सुकविना मरणपदमात्रं न कृतम् । अनूद्यमानत्वेनैवोपनिबन्धनात् । पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिपरिमितकालप्रत्यापत्तिलामेऽपि । अथ दूरपरामर्शकसहृदय सामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतोच्यते हन्त । तापसवत्सराजेऽपि यौगन्धरायणादिनीतिमागकर्णनसंस्कृतमतीनां वासवदत्तामरणबुद्धेरेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना । तस्माद्दीर्घकालतात्र पदबन्धलाभ एवेति मन्तव्यम् । एवं नैसर्गिकागता व्याख्याताः । समारोपितात्वे तद्विपरीतेत्यर्थ लब्धत्वात्खकण्ठेन न व्याख्याताः । एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरति — तत्रेत्यादिना । क्वाकार्यमिति । वितर्क औत्सुक्येन मतिः स्मृत्या ( औत्सुक्ये ) धृतिश्चेतनयैव बाध्यते । एतच्च द्वितीयो - १. 'करुणरसस्यैव' ग. १. ‘अपायैरिति विच्छिद्यते' क ख २. 'प्रस्तुतशृङ्गारे । अस्येति' ग. ३. 'अतिदीर्घ' क ख ४. 'ईदृशीं' ग. ५. 'त्यागात्' क ख ६. 'पूर्वाकारादधिगतरुचा' क-ख. ७. 'निबन्धात्' ग. ८. 'निवेशेषु तु सर्वदा' ग. ९. 'कालमत्र' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy