________________
१६६
काव्यमाला |
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥' यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने । स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा'भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥' इत्यादौ । समारोपितायामप्यविरोधो यथा - 'पाण्डुक्षामं -' इत्यादौ ।
--
यथा वा—‘कोपात्कोमललोलबाहुलतिकापाशेन' इत्यादौ । इयं चाङ्गभावप्राप्तिरन्या यदधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः । यथोक्तं ' क्षिप्तो हस्तावलन:-' इत्यादौ । कथं तंत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थापनात् । अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते—विधौ विरुद्धसमावेशस्य दुष्टत्वं वानुवादे । यथा'एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ||
--
द्दयोतारम्भ एवोक्तमस्माभिः । द्वितीयेति । विपक्षीभूतवैराग्य विभावाद्यवधारणेऽपि ह्यशक्यविच्छेदत्वेन दार्श्वमेवानुरागस्योक्तं भवतीति भावः । समारोपितायामिति । अङ्गभावप्राप्ताविति शेषः । ' पाण्डुक्षामं वक्रं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रिय रोगं सखि हृदन्तः ॥' अत्र करुणोचितो व्याधिः श्लेषभङ्गया स्थापितः । कोपादिति बध्वेति हन्यत इति च रौद्रानुभावानां रूपकवलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । तच्च पूर्वमेवोक्तम् । 'नातिनिर्वहणैषिता' इत्यत्रान्तरे । अन्येति । चतुर्थोऽयं प्रकार इत्यर्थः । पूर्वं हि विरोधिनः प्रस्तुतरसान्तरेऽङ्गतोक्ता अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरेऽङ्गभाव इति शेषः । क्षिप्त इति । व्याख्यातमेतत् 'प्रधानेऽन्यत्र वाक्यार्थे' इत्यत्र । नन्वन्यपरत्वेऽपि स्वभावो न निवर्तते स्वभावकृत एव विरोध इत्यभिप्रायेगाह - अन्यपरत्वेऽपीति । विरोधिनोरिति । तत्स्वभावयोरिति हेतुत्वाभिप्रायेण विशेषणम् । उच्यते इत्यस्यायं भावः - सामग्री विशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनेन । शीतोष्णयोरपि विरोधाभावात् । विधाविति । तदेव
१. 'चात्र' क - ख.
१. ‘रोपितः’ क-ख. २. 'विरोधः ' क- ख. ३. 'विरोधाविति' ग.