________________
३ उड्योतः ] वग्यालोकः । ___ इत्यादौ । अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति । श्लोके ह्यमिन्नीग्रॅविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधीयमानत्वम् । त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् । न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यो विध्यनुवादौ तौ तदाक्षिप्तानां रसानां केन वार्यते । यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते तैस्तेषां तन्निमित्तता तावदवश्यमभ्युपगन्तव्या । तथाप्यत्र श्लोके न विरोधः । यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो
कुरु मा कार्षीरिति यथा विधिशब्देनात्रैकप्राधान्यमुच्यते । अत एवातिरात्रे षोडशिनं गृह्णन्ति न गृह्णन्तीति विरुद्धविधिविकल्पपर्यवसायीति वाक्यविदः । अनुवाद इत्यन्याङ्गतायामित्यर्थः । नपत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिता (१)। तत्रापि विरुद्ध न्यायेन विरुद्धानामन्यमुखप्रेक्षितापरतत्रीभूतानां श्रौतेन क्रमेण स्वात्मपरामर्शेऽप्यविश्राम्यतां का कथा परस्पररूपचिन्तायां येन विरोधः स्यात् । केवलमपि विरुद्धवादरुणाधिकरणस्थित्या यो वाक्यो (१) य एषां पाश्चात्यः संबन्धः संभाव्यते स विघटताम् । न तु प्रधानतया यद्वाच्यं तद्विधिः । अप्रधानत्वेन तु वाच्येऽनुवादः । न च रसस्य वाच्यत्वं वयैव सोढमित्याशङ्कमानः परिहरति-न चेति । प्रधानाप्रधानमात्रकृतौ विध्यनुवादौ तौ च व्यङ्ग्यतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यानामर्थ इत्युक्तम् । तेन मुख्यतया यत्र सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् । यदिवानूद्यमानविभावादिसमाक्षिप्तवाद्रसस्यानूद्यमानखात्तदाह-वाक्यार्थस्येति । यदि वा मा भूदनूद्यमानतया विरुद्धयो रसयोः समावेशः सहकारितया तु भविव्यतीति सर्वथाविरुद्धयोर्युक्तोऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयति-यैर्वेति । तनिमित्ततेति । काव्यार्थी विभावादिनिमित्तं येषां रसादीनां ते तथा तेषां भावस्वत्ता । अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारितस्य विधीयमानं यस्य शाम्भवशरवह्निजनितदुरितदाहलक्षणस्य तस्माद्भावविशेषप्रेयोलंकारविशेषयोर्भगवत्प्रभावातिशयलक्षणे प्रतीतिरिति संगतिः । विरुद्धं यद्वारितेजोगतं शीतोष्णं तत्सहकारितस्य तण्डुलादेः कारणं तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिदृश्यते । सर्वत्र हीत्थमेव
१. 'स्थापनात्' क-ख. २. 'गमनीया' क-ख. ३. 'मानोऽ' ग. १. 'एकदा' ग. २. 'उतापि' क-ख. ३. 'कृतानां' ग. ४. 'विहन्यताम्' क-ख. ५. 'युक्तियुक्तः' क-ख. ६. 'कण' क-ख.