________________
१६२
काव्यमाला |
परिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिवर्णने । विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये । विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने । अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथंचिदन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमुपक्रान्तस्य कवेर्यमकाद्यलंकार निबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने । अयं चापरो रसभ हेतुरवगन्तव्यो यदकाण्ड एव विच्छित्तिः रसस्याकाण्डे च प्रथनम् । तत्रानवसरे विरोमो यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने । अनवसरे च प्रकाशनं यथा प्र
सापेक्षयेत्यादिना । हास्यशृङ्गारयोवींराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ । प्रशमगर्वयोर्विरोधात् । विरोधिनि रसस्य यो भावो व्यभिचारी तस्य परिग्रहः । विरोधिनस्तु यः स्थायी तस्य तया तावत्परिग्रहोsसंभवनीय एव । तदनुत्थानप्रसङ्गात् । व्यभिचारितया तु परिग्रहो भवत्येव । अत एव सामान्येन भावग्रहणम् । वैराग्यकथाभिरिति वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः। यथा—‘प्रसादे वर्तख प्रकटय मुदं संत्यज रुषं' इत्याद्युपक्रम्यार्थान्तरन्यास 'न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इति । मनागपि निर्वेदानुप्रवेशे सति रतेविच्छेदात् । ज्ञातविषयस्तत्त्वो हि जीवितसर्वस्वाभिमानात्कथं भजेत । नहि ज्ञातशुक्तिरजततत्त्वस्तदुपादेयधियं भजते । ऋते संवृत्तिमात्रात् । कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो वृत्तिं मतिप्रभृति संगृह्णाति । नैन्वन्यदनुन्मत्तः कथं वर्णयेत् किमुत विस्तरत इत्याह-कथंचिदन्वितस्येति । व्यापारान्तरेति । यथा वत्सराजचरिते चतुर्थेऽङ्के – रत्नावलीनामधेयमप्यगृह्णतो विजयवर्मवृत्तान्तवर्णने । अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दूरापास्तमिति । वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन
१. 'रसाद्यपेक्षया' ग. २. 'अनुक्रान्ते' ग. ३. 'भङ्गहेतुमावहति' ग. ४. 'अकाण्ड एव प्रकाशनम्' ग. ५. 'विरामो रसस्य' क-ख. ६. 'सह' क-ख. ७. 'चिन्तितोचितं ' क- ख. ८. 'प्रकाशनं रसस्य' क- ख.
१. 'अनुभाव' क-ख. २. ' उपात्तस्य' ग. ३. 'नुवेधे' ग. ४. 'न त्वन्यदनुमन्तव्यः कथं' क-ख. ५. ‘अग्रहणतो' ग. ६. 'वृत्तान्ताकर्णने' ग. ७. 'काचिदिति' ग.